विष्णुस्मृतिः/एकपञ्चाषत्तमोऽध्यायः

सुरापः सर्वकर्मवर्जितः कणान्वर्षं अश्नीयात् । । ५१.१ । ।

मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् । । ५१.२ । ।

लशुनपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च । । ५१.३ । ।

सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् । । ५१.४ । ।

वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि । । ५१.५ । ।

शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रं उपवसेत् । । ५१.६ । ।

गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत । । ५१.७ । ।

तक्षकान्नं चर्मकर्तुश्च । । ५१.८ । ।

वार्धुषिककदर्यदीक्षितबद्धनिगडाभिशस्तषण्ढानां च । । ५१.९ । ।

पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च । । ५१.१० । ।

अवीरस्त्री सुवर्णकारसपत्नपतितानां च । । ५१.११ । ।

पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणां च । । ५१.१२ । ।

शैलूषतन्तुवायकृतघ्नरजकानां च । । ५१.१३ । ।

कर्मकारनिषादरङ्गावतारिवैणशस्त्रविक्रयिणां च । । ५१.१४ । ।

श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च । । ५१.१५ । ।

रजस्वलासहोपपतिवेश्मानां च । । ५१.१६ । ।

भ्रूणघ्नावेक्षितं उदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवाघ्रातं च । । ५१.१७ । ।

कामतः पदा स्पृष्टं अवक्षुतं । । ५१.१८ । ।

मत्तक्रुद्धातुराणां च । । ५१.१९ । ।

अनर्चितं वृथा मांसं च । । ५१.२० । ।

पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रं उपवसेत् । । ५१.२१ । ।

सर्वजलजमांसाशने च । । ५१.२२ । ।

आपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् । । ५१.२३ । ।

मद्यभाण्डस्थाश्च पञ्चरात्रं । । ५१.२४ । ।

सोमपः सुरापस्याघ्राय गन्धं उदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनं आचरेत् । । ५१.२५ । ।

खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्यात् । । ५१.२६ । ।

प्राश्याज्ञातं सूनास्थं शुष्कमांसं च । । ५१.२७ । ।

क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रं । । ५१.२८ । ।

कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाबकबलाकाकोकिलखञ्जरीटाशने त्रिरात्रं उपवसेत् । । ५१.२९ । ।

एकशफोभयदन्ताशने च । । ५१.३० । ।

तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रं । । ५१.३१ । ।

कीटाशने दिनं एकं ब्रह्मसुवर्चलां पिबेत् । । ५१.३२ । ।

शुनां मांसाशने च । । ५१.३३ । ।

छत्राककवकाशने सांतपनं । । ५१.३४ । ।

यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवं च वर्जयित्वा यत्पर्युषितं तत्प्राश्योपवसेत् । । ५१.३५ । ।

व्रश्चनामेध्यप्रभवान्लोहितांश्च वृक्षनिर्यासान् । । ५१.३६ । ।

शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च । । ५१.३७ । ।

गोअजामहिषीवर्जं सर्वपयांसि च । । ५१.३८ । ।

अनिर्दशाहानि तान्यपि । । ५१.३९ । ।

स्यन्दिनीसन्धिनीविवत्साक्षीरं च । । ५१.४० । ।

अमेध्यभुजश्च । । ५१.४१ । ।

दधिवर्जं केवलानि च शुक्तानि । । ५१.४२ । ।

ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रं उपवसेत् । । ५१.४३ । ।

दिनं एकं चोदके वसेत् । । ५१.४४ । ।

मधुमांसाशने प्राजापत्यं । । ५१.४५ । ।

बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् । । ५१.४६ । ।

श्वोच्छिष्टाशने दिनं एकं उपोषितः पञ्चगव्यं पिबेत् । । ५१.४७ । ।

पञ्चनखविण्मूत्राशने सप्तरात्रं । । ५१.४८ । ।

आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत । । ५१.४९ । ।

ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं । । ५१.५० । ।

वैश्योच्छिष्टाशने पञ्चरात्रं । । ५१.५१ । ।

राजन्योच्छिष्टाशने त्रिरात्रं । । ५१.५२ । ।

ब्राह्मणोच्छिष्टाशने त्वेकाहं । । ५१.५३ । ।

राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रं । । ५१.५४ । ।

वैश्योच्छिष्टाशी त्रिरात्रं । । ५१.५५ । ।

वैश्यः शूद्रोच्छिष्टाशी च । । ५१.५६ । ।

चण्डालान्नं भुक्त्वा त्रिरात्रं उपवसेत् । । ५१.५७ । ।

सिद्धं भुक्त्वा पराकः । । ५१.५८ । ।

असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिं आस्थितः । । ५१.५९ । ।

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।
वृथा पशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् । । ५१.६० । ।

यज्ञार्थं पशवः सृष्टाः स्वयं एव स्वयंभुवा ।
यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः । । ५१.६१ । ।

न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथा मांसानि खादतः । । ५१.६२ । ।

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः । । ५१.६३ । ।

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन । । ५१.६४ । ।

यज्ञार्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः ।
आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् । । ५१.६५ । ।

गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।
नावेदविहितां हिंसां आपद्यपि समाचरेत् । । ५१.६६ । ।

या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसां एव तां विद्याद्वेदाद्धर्मो हि निर्बभौ । । ५१.६७ । ।

योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखं एधते । । ५१.६८ । ।

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखं अत्यन्तं अश्नुते । । ५१.६९ । ।

यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन । । ५१.७० । ।

नाकृत्वा प्राणिनां हिंसां मांसं उत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् । । ५१.७१ । ।

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् । । ५१.७२ । ।

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते । । ५१.७३ । ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः । । ५१.७४ । ।

स्वमांसं परमांसेन यो वर्धयितुं इच्छति ।
अनभ्यर्च्य पितॄन्देवान्न ततोऽन्योऽस्त्यपुण्यकृत् । । ५१.७५ । ।

वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् । । ५१.७६ । ।

फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलं अवाप्नोति यन्मांसपरिवर्जनात् । । ५१.७७ । ।

मां स भक्षयितामुत्र यस्य मांसं इहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः । । ५१.७८ । ।