विष्णुस्मृतिः/एकविंशतितमोऽध्यायः

अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधानेव ब्राह्मणान्यथाशक्ति उदङ्मुखान्गन्धमाल्यवस्त्रालंकारादिभिः पूजितान्भोजयेत् । । २१.१ । ।

एकवन्मन्त्रानूहेदेकोद्दिष्टे । । २१.२ । ।

उच्छिष्टसंनिधावेकं एव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् । । २१.३ । ।

भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकः चतुरङ्गुलपृथ्वीः तावदन्तराः तावदधःखाताः वितस्त्यायताः तिस्रः कर्षूः कुर्यात् । । २१.४ । ।

कर्षूसमीपे चाग्नित्रयं उपसमाधाय परिस्तीर्य तत्रैकैकस्मिनाहुतित्रयं जुहुयात् । । २१.५ । ।

सोमाय पितृमते स्वधा नमः । । २१.६ । ।

अग्नये कव्यवाहनाय स्वथा नमः । । २१.७ । ।

यमायाङ्गिरसे स्वधा नमः । । २१.८ । ।

स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् । । २१.९ । ।

अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वा एतत्त इति जपेत् । । २१.१० । ।

एवं मृताहे प्रतिमासं कुर्यात् । । २१.११ । ।

संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान्देवपूर्वान्भोजयेत् । । २१.१२ । ।

अत्राग्नौकरणं आवाहनं पाद्यं च कुर्यात् । । २१.१३ । ।

संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् । । २१.१४ । ।

उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् । । २१.१५ । ।

ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् । । २१.१६ । ।

ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् । । २१.१७ । ।
कर्षूत्रयसंनिक्र्षेऽप्येवं एव । । २१.१८ । ।

सपिण्डीकरणं मासिकार्थवत्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् । । २१.१९ । ।

मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि । । २१.२० । ।

संवत्सराभ्यन्तरे यद्यधिमासो भवेत्, तदा मासिकार्थे दिनं एकं वर्धयेत् । । २१.२१ । ।

सपिण्डीकरणं स्त्रीणां कार्यं एवं तथा भवेत् ।
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् । । २१.२२ । ।

अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतम् ।
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने । । २१.२३ । ।