विष्णुस्मृतिः/एकषष्ठितमोऽध्यायः

अथ पालाशं दन्तधावनं नाद्यात् । । ६१.१ । ।

नैव श्लेष्मातकारिष्टविभीतकधवधन्वनजं । । ६१.२ । ।

न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजं । । ६१.३ । ।

न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजं । । ६१.४ । ।

न पारिभद्रकाम्लिकामोचकशाल्मलीशणजं । । ६१.५ । ।

न मधुरं । । ६१.६ । ।

नाम्लं । । ६१.७ । ।

नोर्ध्वशुष्कं । । ६१.८ । ।

न सुषिरं । । ६१.९ । ।

न पूतिगन्धि । । ६१.१० । ।

न पिच्छिलं । । ६१.११ । ।

न दक्षिणापराभिमुखः । । ६१.१२ । ।

अद्याच्चोदङ्मुखः प्राङ्मुखो वा । । ६१.१३ । ।

वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानां अन्यतमं । । ६१.१४ । ।

कषायं तिक्तं कटुकं च । । ६१.१५ । ।

कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् । । ६१.१६ । ।

प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः ।
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन । । ६१.१७ । ।