विष्णुस्मृतिः/एकसप्ततितमोऽध्यायः
अथ न कंचनावमन्येत । । ७१.१ । ।
न च हीनाधिकाङ्गान्मूर्खान्धनहीनानवहसेत् । । ७१.२ । ।
न हीनान्सेवेत । । ७१.३ । ।
स्वाध्यायविरोधि कर्म नाचरेत् । । ७१.४ । ।
वयोऽनुरूपं वेषं कुर्यात् । । ७१.५ । ।
श्रुतस्याभिजनस्य धनस्य देशस्य च । । ७१.६ । ।
नोद्धतः । । ७१.७ । ।
नित्यं शास्त्राद्यवेक्षी स्यात् । । ७१.८ । ।
सति विभवे न जीर्णमलवद्वासाः स्यात् । । ७१.९ । ।
न नास्तीत्यभिभाषेत । । ७१.१० । ।
न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् । । ७१.११ । ।
बिभृयाज्जलजं रक्तं अपि । । ७१.१२ । ।
यष्टिं च वैणवीं । । ७१.१३ । ।
कमण्डलुं च सोदकं । । ७१.१४ । ।
कार्पासं उपवीतं । । ७१.१५ । ।
रौक्मे च कुण्डले । । ७१.१६ । ।
नादित्यं उद्यन्तं ईक्षेत । । ७१.१७ । ।
नास्तं यान्तं । । ७१.१८ । ।
न वाससा तिरोहितं । । ७१.१९ । ।
न चादर्शजलमध्यस्थं । । ७१.२० । ।
न मध्याह्ने । । ७१.२१ । ।
न क्रुद्धस्य गुरोर्मुखं । । ७१.२२ । ।
न तैलोदकयोः स्वां छायां । । ७१.२३ । ।
न मलवत्यादर्शे । । ७१.२४ । ।
न पत्नीं भोजनसमये । । ७१.२५ । ।
न स्त्रियं नग्नां । । ७१.२६ । ।
न कंचन मेहमानं । । ७१.२७ । ।
न चालानभ्रष्टं कुञ्जरं । । ७१.२८ । ।
न च विषमस्थो वृषादियुद्धं । । ७१.२९ । ।
नोन्मत्तं । । ७१.३० । ।
न मत्तं । । ७१.३१ । ।
नामेध्यं अग्नौ प्रक्षिपेत् । । ७१.३२ । ।
नासृक् । । ७१.३३ । ।
न विषं । । ७१.३४ । ।
अम्भस्यापि । । ७१.३५ । ।
नाग्निं लङ्घयेत् । । ७१.३६ । ।
न पादौ प्रतापयेत् । । ७१.३७ । ।
न कुशेषु परिमृज्यात् । । ७१.३८ । ।
न कांस्यभाजने धावयेत् । । ७१.३९ । ।
न पादं पादेन । । ७१.४० । ।
न भुवं आलिखेत् । । ७१.४१ । ।
न लोष्टमर्दी स्यात् । । ७१.४२ । ।
न तृणच्छेदी स्यात् । । ७१.४३ । ।
न दन्तैर्नखलोमानि छिन्द्यात् । । ७१.४४ । ।
द्यूतं च वर्जयेत् । । ७१.४५ । ।
बालातपसेवां व । । ७१.४६ । ।
वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् । । ७१.४७ । ।
न शूद्राय मतिं दद्यात् । । ७१.४८ । ।
नोच्छिष्टहविषी । । ७१.४९ । ।
न तिलान् । । ७१.५० । ।
न चास्योपदिशेद्धर्मं । । ७१.५१ । ।
न व्रतं । । ७१.५२ । ।
न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् । । ७१.५३ । ।
न दधिसुमनसी प्रत्याचक्षीत । । ७१.५४ । ।
नात्मनः स्रजं अपकर्षेत् । । ७१.५५ । ।
सुप्तं न प्रबोधयेत् । । ७१.५६ । ।
न रक्तं विरागयेत् । । ७१.५७ । ।
नोदक्यां अभिभाषेत । । ७१.५८ । ।
न म्लेच्छान्त्यजान् । । ७१.५९ । ।
अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिं उद्धरेत् । । ७१.६० । ।
न परक्षेत्रे चरन्तीं गां आचक्षीत । । ७१.६१ । ।
न पिबन्तं वत्सकं । । ७१.६२ । ।
नोद्धतान्प्रहर्षयेत् । । ७१.६३ । ।
न शूद्रराज्ये निवसेत् । । ७१.६४ । ।
नाधार्मिकजनाकीर्णे । । ७१.६५ । ।
न संवसेद्वैद्यहीने । । ७१.६६ । ।
नोपसृष्टे । । ७१.६७ । ।
न चिरं पर्वते । । ७१.६८ । ।
न वृथाचेष्टां कुर्यात् । । ७१.६९ । ।
न नृत्यगीते । । ७१.७० । ।
नास्फोटनं । । ७१.७१ । ।
नाश्लीलं कीर्तयेत् । । ७१.७२ । ।
नानृतं । । ७१.७३ । ।
नाप्रियं । । ७१.७४ । ।
न कंचिन्मर्मणि स्पृशेत् । । ७१.७५ । ।
नात्मानं अवजानीयाद्दीर्घं आयुर्जिजीविषुः । । ७१.७६ । ।
चिरं संध्योपासनं कुर्यात् । । ७१.७७ । ।
न सर्पशस्त्रैः कृईडेत् । । ७१.७८ । ।
अनिमित्ततः खानि न स्पृशेत् । । ७१.७९ । ।
परस्य दण्डं नोद्यच्छेत् । । ७१.८० । ।
शास्यं शासनार्थं ताडयेत् । । ७१.८१ । ।
तं वेणुदलेन रज्ज्वा वा पृष्ठे । । ७१.८२ । ।
देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् । । ७१.८३ । ।
धर्मविरुद्धौ चार्थकामौ । । ७१.८४ । ।
लोकविद्विष्टं च धर्मं अपि । । ७१.८५ । ।
पर्वसु च शान्तिहोमान्कुर्यात् । । ७१.८६ । ।
न तृणं अपि छिन्द्यात् । । ७१.८७ । ।
अलंकृतश्च तिष्ठेत् । । ७१.८८ । ।
एवं आचारसेवी स्यात् । । ७१.८९ । ।
श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् ।
तं आचारं निषेवेत धर्मकामो जितेन्द्रियः । । ७१.९० । ।
आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनं अक्षय्यं आचाराद्धन्त्यलक्षणम् । । ७१.९१ । ।
सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति । । ७१.९३ । ।