विष्णुस्मृतिः/त्रयोदशोऽध्यायः

अथ विषं । । १३.१ । ।

विषान्यदेयानि सार्वाणि । । १३.२ । ।

ऋते हिमाचलोद्भवात्शार्ङ्गात् । । १३.३ । ।

तस्य च यवसप्तकं घृतप्लुतं अभिशस्ताय दद्यात् । । १३.४ । ।

विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं तं इति ज्ञात्वा दिवसान्ते विसर्जयेत् । । १३.५ । ।

विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् ।
त्वं एव विष जानीषे न विदुर्यानि मानुषाः । । १३.६ । ।

व्यवहाराभिशस्तोऽयं मानुषः शुद्धिं इच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि । । १३.७ । ।