विष्णुस्मृतिः/त्रिपञ्चाषत्तमोऽध्यायः

अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् । । ५३.१ । ।

परदारगमने च । । ५३.२ । ।

गोव्रतं गोगमने च । । ५३.३ । ।

पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानं आचरेत् । । ५३.४ । ।

चण्डालीगमने तत्साम्यं आप्नुयात् । । ५३.५ । ।

अज्ञानतश्चान्द्रायणद्वयं कुर्यात् । । ५३.६ । ।

पशुवेश्यागमने च प्राजापत्यं । । ५३.७ । ।

सकृद्दुष्टा च स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् । । ५३.८ । ।

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति । । ५३.९ । ।