अथ धटः । । १०.१ । ।

चतुर्हस्तोच्छ्रितो द्विहस्तायतः । । १०.२ । ।

तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला । । १०.३ । ।

तां च सुवर्णकारकांस्यकाराणां अन्यतमो बिभृयात् । । १०.४ । ।

तत्र चैकस्मिन्शिक्ये पुरुषं दिव्यकारिणं आरोपयेत्, द्वितीये प्रतिमानं शिलादि । । १०.५ । ।

प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषं अवतारयेत् । । १०.६ । ।

धटं च समयेन गृह्णीयात् । । १०.७ । ।

तुलाधारं च । । १०.८ । ।

ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा । । १०.९ । ।

धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १०.१० । ।

व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि । । १०.११ । ।

ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।
तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः । । १०.१२ । ।

शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः । । १०.१३ । ।