विष्णुस्मृतिः/द्वाविंशतितमोऽध्यायः

ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहं आशौचं । । २२.१ । ।

द्वादशाहं राजन्यस्य । । २२.२ । ।

पञ्चदशाहं वैश्यस्य । । २२.३ । ।

मासं शूद्रस्य । । २२.४ । ।

सपिण्डता च पुरुषे सप्तमे विनिवर्तते । । २२.५ । ।

आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते । । २२.६ । ।

नाशौचे कस्यचिदन्नं अश्नीयात् । । २२.७ । ।

ब्राह्मणादीनां अशौचे यः सकृदेवान्नं अत्ति तस्य तावदाशौचं यावत्तेषां । । २२.८ । ।

आशौशापगमे प्रायश्चित्तं कुर्यात् । । २२.९ । ।

सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीं आसाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् । । २२.१० । ।

क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुध्यति । । २२.११ । ।

वैश्याशौचे राजन्यश्च । । २२.१२ । ।

वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च । । २२.१३ । ।

ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीं आसाद्य गायत्रीशतपञ्चकं जपेत् । । २२.१४ । ।

वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् । । २२.१५ । ।

शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् । । २२.१६ । ।

शूद्रश्च द्विजाशौचे स्नानं आचरेत् । । २२.१७ । ।

शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत् । । २२.१८ । ।

पत्नीनां दासानां आनुलोम्येन स्वामिनस्तुल्यं आशौचं । । २२.१९ । ।

मृते स्वामिन्यात्मीयं । । २२.२० । ।

हीनवर्णानां अधिकवर्णेषु सपिण्डेषु तदशौचव्यपगमे शुद्धिः । । २२.२१ । ।

ब्राह्मणस्य क्षत्रिविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः । । २२.२२ । ।

क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्यां । । २२.२३ । ।

वैश्यस्य शूद्रेषु षड्रात्रेण । । २२.२४ । ।

मासतुल्यैरहोरात्रैर्गर्भस्रावे । । २२.२५ । ।

जातमृते मृतजाते वा कुलस्य सद्यः शौचं । । २२.२६ । ।

अदन्तजाते बाले प्रेते सद्य एव । । २२.२७ । ।

नास्याग्निसंस्कारो नोदकक्रिया । । २२.२८ । ।

दन्तजाते त्वकृतचूडे त्वहोरात्रेण । । २२.२९ । ।

कृतचूडे त्वसंस्कृते त्रिरात्रेण । । २२.३० । ।

ततः परं यथोक्तकालेन । । २२.३१ । ।

स्त्रीणां विवाहः संस्कारः । । २२.३२ । ।

संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे । । २२.३३ । ।

तत्प्रसवमरणे चेत्पितृगृहे स्यातां , तदा एकरात्रं त्रिरात्रं च । । २२.३४ । ।

जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्, तदा पूर्वाशौचव्यपगमे शुद्धिः । । २२.३५ । ।

रात्रिशेषे दिनद्वयेन । । २२.३६ । ।

प्रभाते दिनत्रयेण । । २२.३७ । ।

मरणाशौचमध्ये ज्ञातिमरणेऽप्येवं । । २२.३८ । ।

श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् । । २२.३९ । ।

व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण । । २२.४० । ।

ततः परं स्नानेन । । २२.४१ । ।

आचार्ये मातामहे च व्यतीते त्रिरात्रेण । । २२.४२ । ।

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च । । २२.४३ । ।

आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण । । २२.४४ । ।

स्वदेशराजनि च । । २२.४५ । ।

असपिण्डे स्ववेश्मनि मृते च । । २२.४६ । ।

भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचं । । २२.४७ । ।

न राज्ञां रजकर्मणि । । २२.४८ । ।

न व्रतिनां व्रते । । २२.४९ । ।

न सत्रिणां सत्रे । । २२.५० । ।

न कारूणां कारुकर्मणि । । २२.५१ । ।

न राजाज्ञाकारिणां तदिच्छया । । २२.५२ । ।

न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः । । २२.५३ । ।

न देशविभ्रमे । । २२.५४ । ।

आपद्यपि च कष्टायां । । २२.५५ । ।

आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः । । २२.५६ । ।

पतितस्य दासी मृतेऽह्नि पदा अपां घटं अपवर्जयेत् । । २२.५७ । ।

उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति । । २२.५८ । ।

आत्मत्यागिनां संस्कर्ता च । । २२.५९ । ।

तदश्रुपातकारी च । । २२.६० । ।

सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । । २२.६१ । ।

अकृतेऽस्थिसंचये सचैलस्नानेन । । २२.६२ । ।

द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीं आसाद्य तन्निमग्नः त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् । । २२.६३ । ।

द्विजप्रेतस्याष्टशतं । । २२.६४ । ।

शूद्रः प्रेतानुगमनं कृत्वा स्नानं आचरेत् । । २२.६५ । ।

चिताधूमसेवने सर्वे वर्णाः स्नानं आचरेयुः । । २२.६६ । ।

मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च । । २२.६७ । ।

श्मश्रुकर्मणि कृते च । । २२.६८ । ।

शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च । । २२.६९ । ।

भक्ष्यवर्जं पञ्चनखशवं तदस्थिस्नेहं च । । २२.७० । ।

सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् । । २२.७१ । ।

रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति । । २२.७२ । ।

रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयात्यावन्न शुद्धा । । २२.७३ । ।

सवर्णां अधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति । । २२.७४ । ।

क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यां आक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा चाचमेत् । । २२.७५ । ।

चण्डालम्लेच्छसंभाषणे च । । २२.७६ । ।

नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् । । २२.७७ । ।

अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । । २२.७८ । ।

वक्त्रोपहतस्त्वुपोष्य स्नात्वा पञ्चगव्येन । । २२.७९ । ।

दशनच्छदोपहतश्च । । २२.८० । ।

वसा शुक्रं असृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः । । २२.८१ । ।

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः । । २२.८२ । ।

माधूकं ऐक्षवं टाङ्कं कौलं खार्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् । । २२.८३ । ।

अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः । । २२.८४ । ।

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति । । २२.८५ । ।

आचार्यं स्वं उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते । । २२.८६ । ।

आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति । । २२.८७ । ।

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् । । २२.८८ । ।

सर्वेषां एव शौचानां अन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः । । २२.८९ । ।

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः । । २२.९० । ।

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः । । २२.९१ । ।

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति । । २२.९२ । ।

एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् । । २२.९३ । ।