विष्णुस्मृतिः/नवतितमोऽध्यायः

मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थं एकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् । । ९०.१ । ।

अनेन कर्मणा रूपसौभाग्यवानभिजायते । । ९०.२ । ।

पौषी चेत्पुष्ययुक्ता स्यात्, तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान्स्वस्ति वाचयेत् । । ९०.३ । ।

वासोयुगं कर्त्रे दद्यात् । । ९०.४ । ।

अनेन कर्मणा पुष्यते । । ९०.५ । ।

माघी मघायुता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति । । ९०.६ । ।

फाल्गुनी फल्गुनीयुता चेत्, तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति । । ९०.७ । ।

नार्यपि भर्तारं । । ९०.८ । ।

चैत्री चित्रायुता चेत्, तस्यां चित्रवस्त्रप्रदानेन सौभाग्यं आप्नोति । । ९०.९ । ।

वैशाखी विशाखायुता चेत्, तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति । । ९०.१० । ।

ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्, तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति । । ९०.११ । ।

आषाढ्यां आषाढायुक्तायां अन्नपानदानेन तदेवाक्षय्यं आप्नोति । । ९०.१२ । ।

श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गं आप्नोति । । ९०.१३ । ।

प्रौष्ठपद्यां प्रोष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति । । ९०.१४ । ।

आश्वयुज्यां अश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति । । ९०.१५ । ।

कार्त्तिकी कृत्तिकायुता चेत्स्यात्, तस्यां सितं उक्षाणं अन्यवर्णं वा शशाङ्कोद्ये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति । । ९०.१६ । ।

वैशाखशुक्लतृतीयायां उपोषितोऽक्षतैः श्रीवासुदेवं अभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति । । ९०.१७ । ।

यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतां आप्नोति । । ९०.१८ । ।

पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोककं दत्त्वा तिलैर्वासुदेवं अभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति । । ९०.१९ । ।

माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य श्रीवासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् । । ९०.२० । ।

दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलां अष्टाधिकां दत्त्वा । । ९०.२१ । ।

वामपार्श्वे तिलतैलयुतां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा । । ९०.२२ । ।

एतत्कृत्वा यस्मिन्राष्ट्रेऽभिजायते यस्मिन्देशे यस्मिन्कुले तत्रोज्ज्वलो भवति । । ९०.२३ । ।

आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति । । ९०.२४ । ।

तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान्भोजयित्वा राज्यभाग्भवति । । ९०.२५ । ।

प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं पायसं रेवतीप्रीत्यै परमान्नं ब्राह्मणान्भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति । । ९०.२६ । ।

माघे मास्यग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति । । ९०.२७ । ।

सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति । । ९०.२८ । ।

यदीच्छेद्विपुलान्भोगांश्चन्द्रसूर्यग्रहोपगान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ । । ९०.२९ । ।