विष्णुस्मृतिः/पञ्चत्रिंशत्तमोऽध्यायः

ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनं इति महापातकानि । । ३५.१ । ।

तत्संयोगश्च । । ३५.२ । ।

संवत्सरेण पतति पतितेन सहाचरन् । । ३५.३ । ।

एकयानभोजनाशनशयनैः । । ३५.४ । ।

यौनस्रौवमुख्यैः संबन्धैस्तु सद्य एव । । ३५.५ । ।

अश्वमेधेन शुद्ध्येयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च । । ३५.६ । ।