विष्णुस्मृतिः/पञ्चनवतितमोऽध्यायः

वानप्रस्थस्तपसा शरीरं शोषयेत् । । ९५.१ । ।

ग्रीष्मे पञ्चतपाः स्यात् । । ९५.२ । ।

आकाशशायी प्रावृषि । । ९५.३ । ।

आर्द्रवासा हेमन्ते । । ९५.४ । ।

नक्ताशी स्यात् । । ९५.५ । ।

एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् । । ९५.६ । ।

पुष्पाशी । । ९५.७ । ।

फलाशी । । ९५.८ । ।

शाकाशी । । ९५.९ । ।

पर्णाशी वा । । ९५.१० । ।

यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् । । ९५.११ । ।

चान्द्रायणैर्वा वर्तेत । । ९५.१२ । ।

अश्मकुट्टः । । ९५.१३ । ।

दन्तोलूखलिको वा । । ९५.१४ । ।

तपोमूलं इदं सर्वं देवमानुषिकं जगत् ।
तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् । । ९५.१५ । ।

यद्दुष्चरं यद्दुरापं यद्दूरं यच्च दुष्करम् ।
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् । । ९५.१६ । ।