विष्णुस्मृतिः/पञ्चाशीतितमोऽध्यायः
अथ पुष्करेष्वक्षयं श्राद्धं । । ८५.१ । ।
जप्यहोमतपांसि च । । ८५.२ । ।
पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति । । ८५.३ । ।
एवं एव गयाशीर्षे । । ८५.४ । ।
वटे । । ८५.५ । ।
अमरकण्टकपर्वते । । ८५.६ । ।
वराहपर्वते । । ८५.७ । ।
यत्र क्वचन नर्मदातीरे । । ८५.८ । ।
यमुनातीरे । । ८५.९ । ।
गङ्गायां विशेषतः । । ८५.१० । ।
कुशावर्ते । । ८५.११ । ।
बिन्दुके । । ८५.१२ । ।
नीलपर्वते । । ८५.१३ । ।
कनखले । । ८५.१४ । ।
कुब्जाम्रे । । ८५.१५ । ।
भृगुतुङ्गे । । ८५.१६ । ।
केदारे । । ८५.१७ । ।
महालये । । ८५.१८ । ।
नडन्तिकायां । । ८५.१९ । ।
सुगन्धायां । । ८५.२० । ।
शाकंभर्यां । । ८५.२१ । ।
फल्गुतीर्थे । । ८५.२२ । ।
महागङ्गायां । । ८५.२३ । ।
त्रिहलिकाग्रामे । । ८५.२४ । ।
कुमारधारायां । । ८५.२५ । ।
प्रभासे । । ८५.२६ । ।
यत्र क्वचन सरस्वत्यां विशेषतः । । ८५.२७ । ।
गङ्गाद्वारे । । ८५.२८ । ।
प्रयागे च । । ८५.२९ । ।
गङ्गासागरसंगमे । । ८५.३० । ।
सततं नैमिषारण्ये । । ८५.३१ । ।
वाराणस्यां विशेषतः । । ८५.३२ । ।
अगस्त्याश्रमे । । ८५.३३ । ।
कण्वाश्रमे । । ८५.३४ । ।
कौशिक्यां । । ८५.३५ । ।
सरयूतीरे । । ८५.३६ । ।
शोणस्य ज्योतिषायाश्च संगमे । । ८५.३७ । ।
श्रीपर्वते । । ८५.३८ । ।
कालोदके । । ८५.३९ । ।
उत्तरमानसे । । ८५.४० । ।
बडबायां । । ८५.४१ । ।
मतङ्गवाप्यां । । ८५.४२ । ।
सप्तार्षे । । ८५.४३ । ।
विष्णुपदे । । ८५.४४ । ।
स्वर्गमार्गपदे । । ८५.४५ । ।
गोदावर्यां । । ८५.४६ । ।
गोमत्यां । । ८५.४७ । ।
वेत्रवत्यां । । ८५.४८ । ।
विपाशायां । । ८५.४९ । ।
वितस्तायां । । ८५.५० । ।
शतद्रूतीरे । । ८५.५१ । ।
चन्द्रभागायां । । ८५.५२ । ।
इरावत्यां । । ८५.५३ । ।
सिन्धोस्तीरे । । ८५.५४ । ।
दक्षिणे पञ्चनदे । । ८५.५५ । ।
औसजे । । ८५.५६ । ।
एवमादिष्वथान्येषु तीर्थेषु । । ८५.५७ । ।
सरिद्वरासु । । ८५.५८ । ।
सर्वेष्वपि स्वभावेषु । । ८५.५९ । ।
पुलिनेषु । । ८५.६० । ।
प्रस्रवणेषु । । ८५.६१ । ।
पर्वतेषु । । ८५.६२ । ।
निकुञ्जेषु । । ८५.६३ । ।
वनेषु । । ८५.६४ । ।
उपवनेषु । । ८५.६५ । ।
गोमयेनोपलिप्तेषु गृहेषु । । ८५.६६ । ।
मनोज्ञेषु । । ८५.६७ । ।
अत्र च पितृगीता गाथा भवन्ति । । ८५.६८ । ।
कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः । । ८५.६९ । ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः । । ८५.७० । ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषं उत्सृजेत् । । ८५.७१ । ।