विष्णुस्मृतिः/षट्सप्ततितमोऽध्यायः

अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति । । ७६.१ । ।

एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः ।
श्राद्धं एतेष्वकुर्वाणो नरकं प्रतिपद्यते । । ७६.२ । ।