विष्णुस्मृतिः/सपषष्ठितमोऽध्यायः

अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रं उद्धृत्य जुहुयात् । । ६७.१ । ।

वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय । । ६७.२ । ।

अथाग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च । । ६७.३ । ।

ततोऽन्नशेषेण बलिं उपहरेत् । । ६७.४ । ।

भक्षोपभक्षाभ्यां । । ६७.५ । ।

अभितः पूर्वेणाग्निं । । ६७.६ । ।

अम्बा नामासीति, दुला नामासीति, नितन्ती नामासीति, चुपुणीका नामासीति सर्वासां । । ६७.७ । ।

नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति स्वश्रिष्वभिप्रदक्षिणं । । ६७.८ । ।

स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च । । ६७.९ । ।

धर्माधर्मयोर्द्वारे मृत्यवे च । । ६७.१० । ।

उदधाने वरुणाय । । ६७.११ । ।

विष्णव इत्युलूखले । । ६७.१२ । ।

मरुद्भ्य इति दृषदि । । ६७.१३ । ।

उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च । । ६७.१४ । ।

इन्द्रायेन्द्रपुरुषेभ्यश्चेति पूर्वार्धे । । ६७.१५ । ।

यमाय यमपुरुषेभ्य इति दक्षिनार्धे । । ६७.१६ । ।

वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे । । ६७.१७ । ।

सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे । । ६७.१८ । ।

ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये । । ६७.१९ । ।

ऊर्ध्वं आकाशाय । । ६७.२० । ।

स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा । । ६७.२१ । ।

नक्तंचरेभ्य इति नक्तं । । ६७.२२ । ।

ततो *दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नामगोत्राभ्यां च पिण्डनिर्वापणं कुर्यात्[दक्षिणग्रेषु] । । ६७.२३ । ।

पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् । । ६७.२४ । ।

उदककलशं उपनिधाय स्वस्त्ययनं वाचयेत् । । ६७.२५ । ।

श्वकाकश्वपचानां भुवि निर्वपेत् । । ६७.२६ । ।

भिक्षां च दद्यात् । । ६७.२७ । ।

अतिथिपूजने च परं यत्नं आतिष्ठेत । । ६७.२८ । ।

सायं अतिथिं प्राप्तं प्रयत्नेनार्चयेत् । । ६७.२९ । ।

अनाशितं अतिथिं गृहे न वासयेत् । । ६७.३० । ।

यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः । । ६७.३१ । ।

तत्पूजया स्वर्गं आप्नोति । । ६७.३२ । ।

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
तस्मात्सुकृतं आदाय दुष्कृतं तु प्रयच्छति । । ६७.३३ । ।

एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते । । ६७.३४ । ।

नैकग्रामीणं अतिथिं विप्रं सांगतिकं तथा ।
उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा । । ६७.३५ । ।

यदि त्वतिथिधर्मेण क्षत्रियो गृहं आगतः ।
भुक्तवत्सु च विप्रेसु कामं तं अपि भोजयेत् । । ६७.३६ । ।

वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् । । ६७.३७ । ।

इतरानपि सख्यादीन्संप्रीत्या गृहं आगतान् ।
प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया । । ६७.३८ । ।

स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा ।
अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् । । ६७.३९ । ।

अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
भुञ्जानो न स जानाति श्वगृध्रैर्जग्धिं आत्मनः । । ६७.४० । ।

भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती । । ६७.४१ । ।

देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ६७.४२ । ।

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतां अन्नं विधीयते । । ६७.४३ । ।

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
न चाप्नोति गृही लोकान्यथा त्वतिथिपूजनात् । । ६७.४४ । ।

सायं प्रातस्त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् । । ६७.४५ । ।

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् ।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् । । ६७.४६ । ।