विष्णुस्मृतिः/सप्तदशोऽध्यायः

पिता चेत्पुत्रान्विभजेत्तस्य स्वेच्छा स्वयं उपार्जितेऽर्थे । । १७.१ । ।

पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वं । । १७.२ । ।

पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः । । १७.३ । ।

अपुत्रधनं पत्न्यभिगामि । । १७.४ । ।

तदभावे दुहितृगामि । । १७.५ । ।

तदभावे पितृगामि । । १७.६ । ।

तदभावे मातृगामि । । १७.७ । ।

तदभावे भ्रातृगामि । । १७.८ । ।

तदभावे भ्रातृपुत्रगामि । । १७.९ । ।

तदभावे बन्धुगामि । । १७.१० । ।

तदभावे सकुल्यगामि । । १७.११ । ।

तदभावे सहाध्यायिगामि । । १७.१२ । ।

तदभावे ब्राह्मणधनवर्जं राजगामि । । १७.१३ । ।

ब्राह्मणार्थो ब्राह्मणानां । । १७.१४ । ।

वानप्रस्थधनं आचार्यो गृह्णीयात् । । १७.१५ । ।

शिष्यो वा । । १७.१६ । ।

संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांशं जातस्य च मृतस्य च । । १७.१७ । ।

पितृमातृसुतभ्रातृदत्तम्, अध्यग्न्युपागतम्, आधिवेदनिकं, बन्धुदत्तं, शुल्कम्, अन्वाधेयकं इति स्त्रीधनं । । १७.१८ । ।

ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायां अतीतायां तद्भर्तुः । । १७.१९ । ।

शेषेषु च पिता हरेत् । । १७.२० । ।

सर्वेष्वेव प्रसूतायां यद्धनं तत्दुहितृगामि । । १७.२१ । ।

पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।
न तं भजेरन्दायादा भजमानाः पतन्ति ते । । १७.२२ । ।

अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना ।
यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः । । १७.२३ । ।