अथ लेख्यं त्रिविधं । । ७.१ । ।

राजसाक्षिकं ससाक्षिकं असाक्षिकं च । । ७.२ । ।

राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकं । । ७.३ । ।

यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकं । । ७.४ । ।

स्वहस्तलिखितं असाक्षिकं । । ७.५ । ।

तत्बलात्कारितं अप्रमाणं । । ७.६ । ।

उपधिकृतानि सर्वाण्येव । । ७.७ । ।

दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकं अपि । । ७.८ । ।

तादृग्विधेन लेखकेन लिखितं च । । ७.९ । ।

स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च । । ७.१० । ।

देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणं अलुप्तप्रक्रमाक्षरं प्रमाणं । । ७.११ । ।

वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः ।
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः । । ७.१२ । ।

यत्र+ऋणी धनिको वापि साक्षी वा लेखकोऽपि वा ।
म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् । । ७.१३ । ।