वीणाशिखतन्त्रम्
वीणाशिखतन्त्रम् [[लेखकः :|]] |
वीणाशिखतन्त्रम्
ओं नमो महाभैरवाय
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नानाद्रुमलताकीर्णे सिद्धचारणसेविते ॥ १ ॥
तत्र देवः सुरश्रेष्ठः क्रीडते उमया सह ।
स्तूयमानो महासिद्धैर्महाकालादिभिर्गणैः ॥ २ ॥
ऋषिभिश्च महाभागैर्भृग्वाद्यैः सुरसत्तमैः ।
तेषां मध्ये समुत्थाय देवी वचनमब्रवीत् ॥ ३ ॥
श्रुतं सम्मोहनं तन्त्रं तथा नयोत्तरं महत् ।
शिरश्छेदं च देवेश त्वत्प्रसादात्सुदुर्लभम् ॥ ४ ॥
व्रतसाध्यानि चैतानि यागसाध्यानि वै पुनः ।
अन्यसारा यतो लोके प्रायो द्रविणवर्जिताः ॥ ५ ॥
एभ्योऽपि चोत्तरं यस्मात्केवलं ज्ञानसिद्धिदम् ।
सर्वकामप्रदं देव यथावद्बीजपञ्चकं ॥ ६ ॥
उत्तरं हृदयं ह्येषां भक्ताय दातुमर्हसि ॥ ७ ॥
श्री ईश्वर उवाच
यन्न कस्यचिदाख्यातं शुक्रादीनां च योगिनाम् ।
सुभक्तस्य विनीतस्य गोपितं वै गुहस्य च ॥ ८ ॥
चतुःषष्टिः समाख्याताः शिष्यास्तन्त्रेषु ये मया ।
तेषामपि न चाख्यातं ब्रह्मविष्णुपुरःसरैः ॥ ९ ॥
तदहं सम्प्रवक्ष्यामि चिन्तारत्नमिवापरम् ।
तन्त्रं वीणाशिखं नाम निर्व्याजेनाशुसिद्धिदम् ॥ १० ॥
देवीतुम्बुरुसंयुक्तं वीणाधारसुसंस्थितम् ।
शिखायोगेन इष्यन्ते तेन वीणाशिखा स्मृता ॥ ११ ॥
यागमादौ प्रवक्ष्यामि तन्त्रसारं सुदुर्लभम् ।
तेनैव वरदा देव्यो नित्यं देवि भवन्ति हि ॥ १२ ॥
गृहयागमिदं देवि यो जानातीह साधकः ।
व्रतहोमादृते चास्मिन् सुसिद्धिं लभते परम् ॥ १३ ॥
शिष्याणामादितः कुर्याद्यागं कृत्वा परिग्रहम् ।
नान्यथा दर्शयेत्तन्त्रं न चासौ सिद्धिमाप्नुयात् ॥ १४ ॥
चतुर्थ्यामथ पञ्चम्यां नवम्यामेकादशीषु च ।
ग्रहणे वापि कर्तव्या सर्वदा चार्कसोमयोः ॥ १५ ॥
चतुर्थ्यां यजनं श्रेष्ठं सौभाग्यकरणं महत् ।
श्रीकामो यजनं कुर्यात्पञ्चम्यां सुसमाहितः ॥ १६ ॥
संग्रामे विजयार्थी वा परराष्ट्रविमर्दनम् ।
नवम्यां पार्थिवं यागं कुर्वीत भगिनीप्रियम् ॥ १७ ॥
एकादश्यां यजेद्यस्तु शिवलोके महीयते ।
सुगुप्ते निर्जने देशे सरिद्वापीतटेऽपि वा ॥ १८ ॥
कृत्वादौ भूमिसंशुद्धिं सावित्र्या देशिकोत्तमः ।
कृत्वा पूजां प्रकुर्वीत शिष्याणामधिवासनम् ॥ १९ ॥
चरुकं साधने पश्चात्सावित्र्या दापयेद्बुधः ।
शिष्याणां दन्तकाष्ठं च सक्षीरंद्वादशाङ्गुलम् ॥ २० ॥
आचम्य शिष्यमाहूय पञ्चतत्त्वपरिष्कृतम् ।
सावित्र्या प्रोक्षयेद्भूयस्तत्त्वजप्तं यथोदितम् ॥ २१ ॥
प्रमार्जयेत्कुशाग्रेण तस्याङ्गानि समालभेत् ।
आलभ्यैव तु सावित्र्या क्षालयेत्सकलं क्रमात् ॥ २२ ॥
यागभूमौ स्वशिष्यांस्तु स्वपेच्च कुशसंस्तरे ।
रक्षां सदा शतैर्बीजैः कृत्वा ध्यात्वा च ताः क्रमात् ॥ २३ ॥
ततः प्रभाते विमले मुखं प्रक्षाल्य साधकः ।
इष्टानिष्टां गुरौ चेष्टां प्रणिपत्य निवेदयेत् ॥ २४ ॥
इष्टानिष्टान् विदित्वा तु देशिकः साधकस्य तु ।
आदौ देशे समे भूमौ विविक्ते शल्यवर्जिते ॥ २५ ॥
मण्डलं संलिखेत्प्राज्ञो यथावद्विधिपूर्वकम् ।
चतुर्हस्तं चतुर्द्वारमथवा चैकहस्तकम् ॥ २६ ॥
मण्डलं संलिखेद्दिव्यं शालिचूर्णेन सूज्ज्वलम् ।
तत्र मध्ये लिखेत्पद्मं चतुःपत्त्रं सकर्णिकम् ॥ २७ ॥
श्वेतासृ क्पीतकृ ष्णानि कमलस्य दलानि तु ।
प्रागारभ्य यथान्यायं सौम्येशान्तानि लेखयेत् ॥ २८ ॥
कर्णिकां च तथा मध्ये शबलां देशिकोत्तमः ।
चतुर्मूर्तिं चतुर्वर्णं स्वेन बिजेन तुम्बुरुम् ॥ २९ ॥
चतुर्वर्णमीश्वरं ध्यायेन्निविष्टं कर्णिकोदरे ।
ततः सितां स्वबीजेन जयां प्राग्दले विन्यसेत् ॥ ३० ॥
बन्धूककुसुमप्रख्यां विजयां दक्षिणे दले ।
स्वच्छचामीकरप्रख्यामजितां पश्चिमे दले ॥ ३१ ॥
भिन्नाञ्जनचयप्रख्यामुत्तरे चापराजिताम् ।
विन्यस्य पूजां कुर्वीत स्वैः स्वैर्बीजैर्यथाक्रमम् ॥ ३२ ॥
पुष्पधूपैश्च बलिभिर्यथाकालान्तरैः शुभैः ।
सद्वितानपताकाढ्यं स्रग्मालालंकृतं पुरम् ॥ ३३ ॥
प्रदीप्तदीपकैर्दिक्षु समन्तादवभासितम् ।
नानाभक्ष्यान्नपानैश्च स्वादुभिर्व्यञ्जनैस्तथा ॥ ३४ ॥
फलैर्नानाविधैश्चैव परितः पर्यवस्थितैः ।
कलशैर्वारिपूर्णैश्च दशदिक्षु व्यवस्थितैः ॥ ३५ ॥
चूतपल्लवसंवीतैः स्रग्मालालंकृतैः शुभैः ।
एवं यष्ट्वा यथान्यायं शिष्यानाप्रोक्ष्य वारिणा ॥ ३६ ॥
सावित्र्या मुखमासाद्य वाससा सकलीकृतान् ।
स्वैः स्वैर्बीजैर्न्यसेत्पुष्पान् शिष्याणां करयोर्द्वयोः ॥ ३७ ॥
जयात्प्रवेशयेन्मायां मण्डलं देशिकोत्तमः ।
प्रवेश्य तत्र शिष्यं तु द्वित्रिचतुःपञ्च एव वा ॥ ३८ ॥
ततोऽग्निकार्यं कुर्वीत मण्डलात्पश्चिमे बहिः ।
उल्लिख्योद्धृत्य सावित्र्या कुशान् संस्तीर्य सर्वतः ॥ ३९ ॥
अस्त्रबीजेन चाभ्युक्ष्य गन्धतोयेन देशिकः ।
वह्निमादाय तेनैव सावित्र्या पूजयेत्ततः ॥ ४० ॥
ततस्तत्त्वत्रयं न्यस्य वह्नेरेव यथाक्रमम् ।
निरुद्धमायातस्मात्तमङ्कुशेन निरोधयेत् ॥ ४१ ॥
माययाच्छादयेत्पश्चादस्त्रेणैव प्रबोधयेत् ।
होमद्रव्यस्य सर्वस्य कुर्यात्तेनैव शोधनम् ॥ ४२ ॥
ततश्च सर्पिषो होमं विधिवत्कारयेद्बुधः ।
स्वबीजैरेव तद्धुत्वा दीक्षां शिष्यस्य कारयेत् ॥ ४३ ॥
संयोज्य विधिवद्बीजैर्महाभूतेषु पञ्चसु ।
सकले तत्त्वं संयोज्य परिष्ठाप्य परेऽध्वनि ॥ ४४ ॥
नियोक्तव्यं ततस्तत्र यत्रासवांस्वरपरम्? ।
एषा दीक्षा य थान्यायं भुक्तिमुक्तिफलप्रदा ॥ ४५ ॥
तैरेव पञ्चभिस्तत्त्वं सकले सकलात्मिका ।
निष्कले निष्कला प्रोक्ता साधिकाराध्वनः पुरा ॥ ४६ ॥
दीक्षयित्वा ततः शिष्यान् साधिकारपरे स्थितान् ।
अभिषिच्य स्वबीजैस्तु बीजान् तेभ्यः प्रदापयेत् ॥ ४७ ॥
निवेद्य समयान् तस्य हृन्मुद्राङ्गुलिदर्शनात् ।
अनुज्ञां साधकेन्द्रस्य तस्य दद्यान्महात्मना ॥ ४८ ॥
ततः स्वविद्यानैवेद्यं भक्षयेत्साधकोत्तमः ।
देव्यः प्रीता भवन्त्येव अवशिष्टं जले क्षिपेत् ॥ ४९ ॥
आचार्यं पूजयेद्भक्त्या सर्वस्वेनापरे विधा? ।
प्रणामैः शक्तिदानैश्च येन वा तुष्यते गुरुः ॥ ५० ॥
स्रग्वी सितोष्णीषी चैव सर्वालंकारभूषितः ।
उच्चासनस्थः प्राग्वक्त्रः कल्पयेत्कोषमण्डले ॥ ५१ ॥
गोशकृद्भस्मलिप्तस्तु शुचौ जनविवर्जिते ।
सुसमे भूमिदेशे तु प्रस्तारं प्रस्तरेच्छुचिः ॥ ५२ ॥
चतुरस्रमतः कृत्वा प्रस्ताररेखमुज्ज्वलम् ।
कुर्यादेकोनपञ्चाशत्कोष्ठकान् तु समान् शुभान् ॥ ५३ ॥
शतार्धार्धासनासीनं पञ्चवर्गान्तबिन्दुकम् ।
शिखासम्भिन्नमूर्धान्तं कषाख्यं मध्यकोष्ठके ॥ ५४ ॥
विदिग्दिक्षंस्थकोष्ठेषु तत्पार्श्वे बहिरष्टसु ।
यशवर्गान्न्यसेद्देवि ऐशान्यादिषु तत्क्रमात् ॥ ५५ ॥
आग्नेयादिषु कोष्ठेषु नपुंसकचतुष्टयम् ।
ऐशान्यादिक्रमाद्देवि बीजद्वादशकं न्यसेत् ॥ ५६ ॥
तृतीयपट्क्तिकोष्ठेषु चतुर्थे पञ्चविंशकम् ।
ऐशान्यादिषु कोष्ठेषु बीजानि क्रमशो न्यसेत् ॥ ५७ ॥
प्रस्तारमेवं प्रस्तार्य स्वरवर्णं च शोभने ।
बीजषोडशकं चैव प्रोद्धरेत्तु यथाक्रमम् ॥ ५८ ॥
कादिपट्क्तिं पुराकृत्य क्रमाद्व्यस्तसमस्तकम् ।
कोष्ठैकादशबीजेन संयुक्तं पञ्चविंशकम् ॥ ५९ ॥
आत्मतत्त्वमिति ख्यातं विद्याख्यं चतुस्त्रिंशकम् ।
शिवतत्त्वं तु देवेशि त्रिंशकोष्ठेषु संयुतम् ॥ ६० ॥
तत्त्वत्रितयमेतद्धि न्यासं च समुदाहृतम् ।
बिन्दुयुक्तान्यशेसाणि न्यस्तव्यानि यथाक्रमम् ॥ ६१ ॥
अत्रसिद्धिः स्थिता देवि विज्ञेया साधकोत्तमैः ।
पञ्चविंशतिकोष्ठस्थं प्रथमं बीजमुच्यते ॥ ६२ ॥
द्विसप्तकोष्ठकं बीजं द्वितीयं समुदाहृतम् ।
तृतीयमष्टकोष्ठस्थं बिन्दुयोनिः चतुर्थकम् ॥ ६३ ॥
चतुर्विंशतिकोष्ठस्थं पञ्चमं बीजमुच्यते ।
बीजानि देवदेवीनां निर्णीतानि यथाक्रमम् ॥ ६४ ॥
कालबद्धानिलैर्बीजैः कलायथेष्ठया युतम् ।
[एम्. षन्देर्सोन्: कालवह्न्यनिलैर्बीजैः कलया षष्ठया युतम्]
अर्धेन्दु बिन्दुशिखया संनिभानि क्रमेण तु ॥ ६५ ॥
[एम्. षन्देर्सोन्: अर्धेन्दुबिन्दुशिखया संभिन्नानि यथाक्रमम्]
बीजपञ्चकमुद्धृत्य कथितं देवि ते क्रमात् ।
कूटस्थास्तु स्मृता बीजाः पञ्च चैव वरानने ॥ ६६ ॥
बीजपञ्चकमभ्यस्य सर्वकामफलप्रदम् ।
यजनं सम्प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ ६७ ॥
करसंस्कारमादौ तु कृत्वानेन क्रमेण तु ।
वक्ष्यमाणेन चानेन दिग्बन्धशोध्यमेव हि ॥ ६८ ॥
संहारास्त्रेण दिग्बन्धः प्राणायामपुरःसरः ।
प्राणायामैस्त्रिभिर्देवि आत्मानं तु विशोधयेत् ॥ ६९ ॥
निष्क्रम्य रेचयेद्वायुं नवं चाकृष्य पूरयेत् ।
निरोधे कुम्भकः प्रोक्तः प्राणायामं प्रकीर्तितम् ॥ ७० ॥
ध्यात्वा कालाग्निबीजं तु युगान्तानलसप्रभम् ।
न्यसेत्पादतले मन्त्री ज्वालामालाकुलं महत् ॥ ७१ ॥
निर्दहेच्चात्मदेहं तु वारिणाप्लावयेत्ततः ।
दग्ध्वा तु प्राकृतंदेहं भस्मकूटमिव स्थितम् ॥ ७२ ॥
ततश्चामृतधाराभिर्विद्यादेहं विचिन्तयेत् ।
स्रवन्तं मूर्ध्नि परमं प्रणवं च अधोमुखम् ॥ ७३ ॥
वारुणामृतसंयुक्तं शुद्धस्फटिकनिर्मलम् ।
कषाख्यं यत्स्मृतं बीजं रेफद्वयसमायुतम् ॥ ७४ ॥
अध ओंकारसंयुक्तमूर्ध्वं बिन्दुकभूषितम् ।
अनेनैव तु बीजेन शिखया भिन्नमस्तकम् ॥ ७५ ॥
धारणायोगमार्गेण निर्दहेत्साधकोत्तमः ।
देहं संशोधयेन्मन्त्री घोरपापं तु कल्मषम् ॥ ७६ ॥
न्यासमालभनं कुर्याद्भवेन्मन्त्रात्मविग्रहः ।
दिग्बन्धभूमिं संशोध्य चक्रशुद्ध्यर्थमेव च ॥ ७७ ॥
संहारास्त्रेण कुर्वीत विघ्नोच्चाटनमेव च ।
हस्तौ संशोधयेत्पश्चाद्विधिरेष प्रकीर्तितः ॥ ७८ ॥
कृत्वा तु विधिवन्मन्त्री ततः कर्म समारभेत् ।
आमणिबन्धनात्पूर्वं भरमाखाश्? च विन्यसेत् ॥ ७९ ॥
अट्गुष्ठादिकनिष्ठान्तं न्यसेद्वै बीजपञ्चकम् ।
अट्गुष्ठाद्ये तु ये पर्वा करयोरुभयोरपि ॥ ८० ॥
आत्मतत्त्वं न्यसेन्मूर्ध्नि विद्यातत्त्वं द्वितीयके ।
शिवं दद्यात्तृतीयेषु सर्वसिद्धिषु भामिनि ॥ ८१ ॥
अधस्तादात्मतत्त्वं तु विद्यातत्त्वं तु मध्यतः ।
शिवतत्त्वं न्यसेन्मूर्ध्नि हस्ते देहे पुनः क्रमात् ॥ ८२ ॥
एवं तत्त्वत्रयं न्यस्य तथा कूटाक्षराणि तु ।
भूयश्चोत्तरबीजानि विन्यसेत्तु वरानने ॥ ८३ ॥
अस्त्रं चैव तु विन्यस्य विस्फुलिट्गसमप्रभम् ।
माययाच्छादयित्वा तु अट्कुशेन निरोधयेत् ॥ ८४ ॥
योनिमुद्रां ततो बद्ध्वा कुर्यात्[तु] सकलां तनुम् ।
एतदालभनं चैव तव देवि प्रकीर्तितम् ॥ ८५ ॥
अट्गुष्ठौ ग्रथितौ कृत्वा करयोरुभयोरपि ।
तर्जनीं वामहस्ते तु प्रसार्याकुञ्चयेद्बुधः ॥ ८६ ॥
एषा निरोधनी प्रोक्ता मुद्रेयमट्कुशस्य तु ।
वश्याकर्षणकार्येषु प्रयोज्या साधकोत्तमैः ॥ ८७ ॥
तर्जनी मध्यमा चैव अनामा दक्षिणस्य तु ।
वामे त्रीणि समाक्रम्य अट्गुष्ठौ च सुसंस्थितौ ॥ ८८ ॥
अधस्तात्सर्वतः प्रोक्ता दक्षिणा तु कनिष्ठिका ।
तर्जन्यट्गुष्ठयोर्मध्ये योनिमुद्रा प्रकीर्तिता ॥ ८९ ॥
आद्यं मूर्ध्नि ततो बीजं द्वितीयं मुखमण्डले ।
कट्यूर्ध्वे च ततश्चान्यं चतुर्थं जानुतः कटिम् ॥ ९० ॥
आपादजानुनी चान्यं प्रसृतैश्च करैः क्रमात् ।
एवं बीजेन देहस्तु मुच्यते नात्र संशयः ॥ ९१ ॥
वज्रोपलमहावर्षं चोरदंष्ट्रीभयावहम् ।
मुच्यते च सदा रोगैर्मृत्युरूपैर्दुरासदैः ॥ ९२ ॥
अहिगरविषशस्त्र- ज्वरकुष्ठक्षयादिभिः ।
मुच्यते नात्र संदेहो योऽपि स्यात्पातकी नरः ॥ ९३ ॥
उपलिप्य शुभे देशे प्रच्छन्ने जनवर्जिते ।
पूर्ववद्धस्तमात्रं तु लिखित्वा मण्डलं शुभम् ॥ ९४ ॥
चतुःपत्त्रं तु तत्राब्जं सर्ववर्णितकर्णिकाम् ।
सितरक्तपीतकृष्णां पूर्वादिदलसंस्थिताम् ॥ ९५ ॥
जयाद्यं विन्यसेन्मन्त्री तुम्बुरुं कर्णिकोपरि ।
पद्मासनोपविष्टं तु वरदानोद्यतकरम् ॥ ९६ ॥
चतुर्वक्त्रमष्टभुजं चतुष्कायं त्रिलोचनम् ।
नागयज्ञोपवीतंतु शूलपाणिं गदाधरम् ॥ ९७ ॥
मुकुटेन विचित्रेण शशाङ्कधृतशेखरम् ।
शक्तीनां तु प्रियं देवं पाशाङ्कुशकरप्रभम् ॥ ९८ ॥
दिव्याम्बरातपत्रेण दिव्यस्रग्बन्धलेपनम् ।
देवदेवं सदा ध्यायेत्सूर्यकोटिसमप्रभम् ॥ ९९ ॥
क्षीरोदफलसंकाशां व्याघ्रयज्ञोपवीतिनीम् ।
प्रेतारूढां चतुर्वक्त्रां गदाखेटकधारिणीम् ॥ १०० ॥
दिव्याम्बरातपत्रेण हारकेयूरभूषिताम् ।
देवदेवीं जयां ध्यायेद्दीप्यमानां स्वतेजसा ॥ १०१ ॥
देवस्याभिमुखो मन्त्री सस्मितोत्फुल्ललोचनाम् ।
दाडिमीकुसुमप्रख्यां सुरगोपकसप्रभाम् ॥ १०२ ॥
चापोद्यतकरां घोरां मत्स्यमांससुराप्रियाम् ।
उलूके संस्थितां देवीं हारकेयूरभूषिताम् ॥ १०३ ॥
रक्ताम्बरातपत्रेण विजयां सिद्धिदां स्मरेत् ।
धातुचामीकरप्रख्यां पीतमाल्याम्बरप्रियाम् ॥ १०४ ॥
घण्टाखट्वाङ्गधरीं देवीमश्वारूढां महाबलाम् ।
सूर्यायुतप्रतीकाशीं सर्वाभरणभूषिताम् ॥ १०५ ॥
जयन्तीं ध्यायति क्षिप्रं सिद्धिमाप्नोति पुष्कलाम् ।
भिन्नाञ्जनसमप्रख्यां शर्वरीतिमिरप्रभाम् ॥ १०६ ॥
कृष्णकौशेयसंवीतां मुक्तिकामणिभूषिताम् ।
दिव्यं विमानमारूढां गदाखेटकधारिणीम् ॥ १०७ ॥
महारावादिनिर्घोषैश्चिन्तयेदपराजिताम् ।
गायत्रीं वा जपन्तीं च स्फाटिकमणिभूषिताम् ॥ १०८ ॥
ऋग्यजुस्सामाथर्वाख्यं गायन्तीं वा तथैव च ।
सावित्रीं दिव्यरूपां तूपनिषद्गायने रताम् ॥ १०९ ॥
देवीनामग्रसंस्थं कृतभृकुटिमुखं चिन्तयेदङ्कुशाख्यं
सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम् ।
संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं
....... ....... ....... ॥ ११० ॥
एवं ध्यात्वा विशालाक्षि ततः पूजा प्रवर्तते ।
भक्ष्यभोज्यविधानैश्च गन्धपुष्पादिभिः क्रमात् ॥ १११ ॥
पूजयेत्कूटमध्यस्थं तत्र मध्ये विधानतः ।
भूरेवायं पादपद्मैर्हृदि वामकरेऽथवा ॥ ११२ ॥
मनसा पूजयेन्नित्यं सिद्धिकामः समाहितः ।
महाशङ्खमयं कुर्यादथवा कच्छपस्य तु ॥ ११३ ॥
सौवर्णं रजतं ताम्रं कुलं भवति सिद्धिदम् ।
गन्धमण्डलके वापि अथवा भस्ममण्डले ॥ ११४ ॥
सिद्धार्थमण्डले वापि अथवा हृदि मण्डले ।
कुसुम्भमण्डले वापि पुष्पमण्डलकेऽपि वा ॥ ११५ ॥
नागकेशरजोभिर्वा लिखित्वा मण्डलं शुभम् ।
मुक्तिदा सिद्धिदा ह्येवं भवन्तीत्यविचारणात् ॥ ११६ ॥
सम्पूज्य च यथान्यायं गन्धपुष्पादि योजयेत् ।
दर्शयेद्योनिमुद्रां तु काले कर्माणि कारयेत् ॥ ११७ ॥
समुत्पन्नेषु कार्येषु प्राणद्रविणहारिषु ।
पूजिताः साधकं देव्यः परिरक्षन्ति पुत्रवत् ॥ ११८ ॥
श्रीदेव्युवाच
अत्रापि यागमेवोक्तं विशेषः कोऽपरः प्रभो ।
यथा तु अभ्यासमात्रेण सिद्धिर्भवति कामदा ॥ ११९ ॥
केवलं स्मरणादेव तथा त्वं वक्तुमर्हसि ।
प्रणयस्व प्रसादश्च यदि चास्ति महेश्वर ॥ १२० ॥
श्री ईश्वर उवाच
शृणुष्वैकमना भद्रे प्राकृतं तपसः फलम् ।
प्रणयादतुलं वापि रहस्यं परमं पदम् ॥ १२१ ॥
उत्तरोत्तरयोगेन तन्त्रं ते कथितं मया ।
अत्रान्तरमिदं ज्ञानं श्रुत्वा भवति निर्वृतिः ॥ १२२ ॥
प्रस्तार्य पूर्ववद्वर्णं प्रोद्धरेद्बीजपञ्चकम् ।
पूर्ववत्क्रमयोगेन सर्वकामप्रसिद्धये ॥ १२३ ॥
आदौ द्वात्रिंशकं बीजं युक्तमेकोनविंशति ।
चतुस्त्रिंशं ततोऽधस्ताद्देवदेवं प्रकल्पयेत् ॥ १२४ ॥
जया सप्तदशं बीजं युक्तमेकादशेन तु ।
तदेव विजयाख्याता किं तु युक्तं न केन चित् ॥ १२५ ॥
पञ्चविंशच्छिखाभाजि युक्तमेकादशेन तु ।
अजितायाः समुद्दिष्टं चतुर्थ्याः शृणु साम्प्रतम् ॥ १२६ ॥
वर्णैकादशसंयुक्तं शम्भुस्थं पञ्चविंशकम् ।
गुह्यमेतत्समुद्दिष्टं प्रष्टव्यं नान्यतः परम् ॥ १२७ ॥
सर्वकामप्रदं देवि एतद्वै बीजपञ्चकम् ।
उत्तरं हृदयं ह्येतत्सर्वतन्त्रेषु चोत्तरम् ॥ १२८ ॥
यानि कानि च कर्माणि सर्वाण्येतैस्तु कारयेत् ।
पञ्चविंशतिकोषस्थं युक्तं वै षोडशेन तु ॥ १२९ ॥
अस्त्रमेतत्समुद्दिष्टमस्मिंस्तन्त्रे च सुव्रते ।
पुनरेतद्बीजयुक्तं विंशकेन समन्वितम् ॥ १३० ॥
माया ह्येषा समुद्दिष्टा शिवस्यानन्तरूपिणी ।
आदिकोष्ठकबीजं तु अधस्ताष्टादशसंयुतम् ॥ १३१ ॥
अष्टत्रिंशतिकोषस्थं तस्योपरि नियोजयेत् ।
अङ्कुशोद्धरणं ह्येतद्देवीनां संनिरोधने ॥ १३२ ॥
बिन्दुपुञ्जसमेता हि न्यस्तव्या तु यथाक्रमम् ।
पञ्चविंशतिकोषस्थं तदेव परमाक्षरम् ॥ १३३ ॥
नवत्रिंशसमायुक्तं बीजं गायत्रिसंज्ञकम् ।
एतद्बीजवरं दिव्यं योज्यमालभनादिके ॥ १३४ ॥
चतुस्त्रिंशतिकोषस्थं पञ्चविंशतियोजितम् ।
सर्वकर्मसमुद्दिष्टं बीजं सावित्रिसंज्ञितम् ॥ १३५ ॥
अर्धेन्दुशिखया देवि लाञ्छितानि तु पूर्ववत् ।
प्रयोगं चास्य वक्ष्यामि सिद्धिर्येनाशु जायते ॥ १३६ ॥
प्रयोगं कारणं देवि ग्रन्थशास्त्रमकारणम् ।
सर्वत्र सुलभं शास्त्रं प्रयोगं तु सुदुर्लभम् ॥ १३७ ॥
प्रयोगरहिता मन्त्रा नैव सिद्धिप्रदाः स्मृताः ।
हृत्पद्मे योगविन्यासं ध्यात्वा वै बीजपञ्चकम् ।
गतिं देवं तु विज्ञाय ततः कर्म समारभेत् ॥ १३८ ॥
श्रीदेव्युवाच
कीदृशः स भवेद्देवो गतिस्तस्य तु कीदृशी ।
देहस्थं तु कथं विद्याद्वक्तुमर्हसि शङ्कर ॥ १३९ ॥
श्री ईश्वर उवाच
मेढ्रनाभ्यन्तरे देवि कन्दमूलाकृतिर्भवेत् ।
द्वासप्ततिसहस्राणि नाडीराधारसंस्थिताः ॥ १४० ॥
नाभिदेशे स्थितो ग्रन्थिस्तत्र पद्मं व्यवस्थितम् ।
कर्णिका पद्ममध्यस्य तत्र साध्यं व्यवस्थितम् ॥ १४१ ॥
कर्णिकासुषिरान्ते तु या कला चोर्ध्वगामिनी ।
तस्या मध्ये स्थितो देवः स तु दीपशिखोपमः ॥ १४२ ॥
शुद्धस्फटिकसंकाशं विस्फुलिङ्गार्कसंनिभम् ।
वारिमारुतसंकीर्णं वालाग्रशतभागकम् ॥ १४३ ॥
वायुवाहनमारूढं शब्दातीतमनामयम् ।
सम्प्रत्ययं तु गम्योऽसौ वहते देहमध्यतः ॥ १४४ ॥
इडामध्यगतो वापि पिङ्गलान्तर्गतोऽपि वा ।
सुषुम्नान्तर्गतश्चैव विषुवं समुदाहृतम् ॥ १४५ ॥
इडा तु वामजा प्रोक्ता दक्षिणे पिङ्गला स्मृता ।
अनयोर्मध्ये सुषुम्ना तु सृष्टिसंहारकारिका ॥ १४६ ॥
इडा शान्तिकपुष्ट्यर्थे मृत्यूच्चाटन पिङ्गला ।
सुषुम्ना मोक्षदा चैव जीवमार्गानुसारिणी ॥ १४७ ॥
पिङ्गलान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् ।
मारणोच्चाटनादीनि ततः कर्माणि कारयेत् ॥ १४८ ॥
अमृतान्तर्गतं ज्ञात्वा ध्यायेत्तुहिनसंनिभम् ।
शान्तिपुष्टिवशाकर्षं तदा कर्माणि कारयेत् ॥ १४९ ॥
व्रतयोगादिसंसिद्धिं मूलमन्त्रेषु कारयेत् ।
तदत्र जपमात्रेण मन्त्री साधयते क्षणात् ॥ १५० ॥
अप्रसूता मृता योषित्प्राप्तयौवनमेव च ।
तस्याः पांशुलिकां गृह्य वामभागे विचक्षणः ॥ १५१ ॥
लिखेन्नामाक्षरं तत्र देवीनां कूटसंस्थितम् ।
वामाङ्गोज्ज्वलरक्तेन साधकः संयतव्रतः ॥ १५२ ॥
स्त्रियं चैव लिखेत्तत्र गवां रोचनया पुनः ।
अनुलोमैर्विहन्यस्तु वामपादेन चाक्रमेत् ॥ १५३ ॥
तत्क्षणादानयेच्छीघ्रं या स्त्री द्वादशयोजनात् ।
पुरुषस्य तथा प्रोक्तं दक्षिणाङ्गे तु कारयेत् ॥ १५४ ॥
अथाभिचारकं कुर्यात्समिधानां तथास्थिभिः ।
राजिकाविषरक्ताक्तं श्मशाने होममारभेत् ॥ १५५ ॥
नग्नो मुक्तशिखो भूत्वा कपालत्रयसंस्थितः ।
समिधाष्टशतं होमं रात्रौ कुर्याद्विचक्षणः ॥ १५६ ॥
होमान्ते तु ततः शक्रं कृष्णवर्णं विचिन्तयेत् ।
त्रिशूलेन विनिर्भिन्नं दण्डेन ताडितं शिरः ॥ १५७ ॥
साधको घोररूपेण क्रुद्धः संरक्तलोचनः ।
सप्ताहान्नाशयेदिन्द्रं किं पुनर्मानुषादिकम् ॥ १५८ ॥
त्यक्तेन तु कुसुम्भेन शतेनाष्टोत्तरेण तु ।
त्रिसन्ध्यं धारयेद्रात्रौ अग्निकार्यं तु कारयेत् ॥ १५९ ॥
साध्यं तु साधकश्चैव रक्तवर्णं विचिन्तयेत् ।
होमान्ते तु ध्यायेत्साध्यं विह्वलं च सम्मूर्छितम् ॥ १६० ॥
अङ्कुशेन हतो मूर्ध्नि मायापाशेन वेष्टितम् ।
राजानं राजपत्नीं वा सप्ताहाद्वशमानयेत् ॥ १६१ ॥
गृहीत्वा तु महामांसं दधिमध्वाज्यसंयुतम् ।
आहुत्यष्टसहस्रेण सद्योत्कर्षणमुत्तमम् ॥ १६२ ॥
आत्मनः साध्यबीजं च पञ्चदेव्या चतुष्टयम् ।
नाडीमध्यगतं ध्यात्वा एकीकृत्य विचक्षणः ॥ १६३ ॥
नाडीमार्गानुसारेण प्रवेश्य साध्यविग्रहम् ।
अनेनैव प्रयोगेण त्रैलोक्यं वशमानयेत् ॥ १६४ ॥
अत उच्चाटनं कुर्याच्छत्रूणां बलदर्पिताम् ।
शुष्काणि निम्बपत्त्राणि ध्वजाग्राणि तथैव च ॥ १६५ ॥
नृवालं चितिभस्मं च काकपक्षाग्रपिच्छकम् ।
कटुतैलविषं रक्तं तेनालोड्य तु होमयेत् ॥ १६६ ॥
चण्डालाग्निं समाहृत्य चितिकाष्ठं समिन्धयेत् ।
उच्चाटयेत्त्रिरात्रेण त्यक्तबन्धुसुहृज्जनान् ॥ १६७ ॥
वामहस्ततले चन्द्रं ध्यात्वा सम्पूर्णमण्डलम् ।
बीजपञ्चकसंयुक्तं यस्य तं दर्शयेत्करम् ॥ १६८ ॥
दर्शनाद्वशमायान्ति येऽपि हन्तुं समुद्यताः ।
यं यं स्पृशति हस्तेन दासत्वमुपगच्छति ॥ १६९ ॥
दक्षिणेऽप्येव वै हस्ते विन्यसेद्रविमण्डलम् ।
यं स्पृशेद्दर्शयेद्यं तु विद्विष्टाः सुहृदान्यपि ॥ १७० ॥
निम्बस्थवायसं गृह्य श्वपाकेनावतारितम् ।
बीजैरेतैर्विपर्यस्तैस्तैलाभ्यक्तं चिताहुतम् ॥ १७१ ॥
तद्भस्म विषरक्ताक्तं कृष्णान्ते रक्तवाससः ।
परिजप्य सहस्रं तु विलोमैर्बीजपञ्चकैः ॥ १७२ ॥
यं स्पृशेद्भस्मना तेन काकवद्भ्रमते महीम् ।
विद्विष्टः सर्वलोकानां यदि शक्रसमो भवेत् ॥ १७३ ॥
यथात्मनि तथा साध्ये बीजषोडशकं न्यसेत् ।
जवापुष्पसमप्रख्यौ द्वावेतौ परिचिन्तयेत् ॥ १७४ ॥
जातीहिङ्गुलकपक्षौ लाक्षारससमप्रभौ ।
पद्मसम्पुटमध्यस्थौ उभौ तौ साध्यसाधकौ ॥ १७५ ॥
अङ्कुशं साध्यगुह्ये तु दण्डं चात्मनि गुह्यतः ।
कुसुम्भरक्तसंकाशौ मायातन्त्वभिवेष्टितौ ॥ १७६ ॥
पञ्चरात्रं त्रिरात्रं वा निःशब्दो ध्यानपारगः ।
वशमानयते क्षिप्रं नृपतिं मानगर्वितम् ॥ १७७ ॥
द्विजयोषिन्मृता या तु तस्या गृह्यं तु कर्पटम् ।
कृष्णचतुर्दश्यां गृहीत्वा चित्यङ्गारैस्तदुद्भवैः ॥ १७८ ॥
बीजैर्विदर्भितं नाम यस्य यस्य च वेश्मनि ।
निखन्यते स वै क्षिप्रं प्रयाति यमसादनम् ॥ १७९ ॥
ततो विद्याव्रतश्लाघी कीर्त्यादिभिरलंकृतः ।
साध्यतेऽनेन प्रयोगेण म्रियते चाविकल्पतः ॥ १८० ॥
गवां रोचनया चैव यस्य नाम विदर्भितम् ।
बीजैरेतैः समायुक्तैरालिख्य प्रक्षिपेद्बुधः ॥ १८१ ॥
पात्रं मध्वाज्यसम्पूर्णं शतमावर्तयेद्द्रुतम् ।
मुमुक्षोरपि तस्यास्त्रं शान्तिपुष्टिश्च जायते ॥ १८२ ॥
शतजप्तो जलेनापि ततो वा मुच्यते सदा ।
व्याधिघातसमिद्भिस्तु व्याधिनात्यन्तपीडितः ॥ १८३ ॥
अष्टोत्तरशतेनैव आहुतीनां न संशयः ।
क्षीराक्तेन तु देवेशि रोगी रोगाद्विमुच्यते ॥ १८४ ॥
जुहोति यस्तु सततं द्रव्यं तस्य गृहे तु यत् ।
कुर्वन्तोऽपि व्ययं नित्यमक्षयत्वं च गच्छति ॥ १८५ ॥
नित्यं कालजपेनापि सर्वेषां जायते प्रियः ।
तेजस्वी बलसम्पन्नो नाप्यसौ पीड्यते भयैः ॥ १८६ ॥
श्रीकामः श्रीफलं जुह्यात्पद्मं चाज्यमधुप्लुतम् ।
लक्षैकेन महावित्तो मन्त्री लक्षद्वयेन तु ॥ १८७ ॥
लक्षत्रयेण पृथ्वीशो निर्जितारिर्भवेद्ध्रुवम् ।
सर्वकामस्तिलं जुह्यात्प्राप्नुयात्तु न संशयः ॥ १८८ ॥
लक्षेणैकेन देवेशि साधकः स जितेन्द्रियः ।
त्यक्तेन नरमांसेन छागस्य पिशितेन वा ॥ १८९ ॥
लक्षमात्रहुतेनाशु यदिष्टं तदवाप्नुयात् ।
कृष्णागोपयसा सार्धं नृमांसं तण्डुलान्वितम् ॥ १९० ॥
पायसं शववक्त्रे तु जुहुयात्तावतन्द्रितः ।
यावदुत्तिष्थते प्रेतः किं करोमीति सोऽब्रवीत् ॥ १९१ ॥
मार्गितव्यं यदिष्तं तु लभनीयं यशस्विनि ।
गुडिकाञ्जनपादुकं खन्यं वा राज्यमेव च ॥ १९२ ॥
(एम्.: गुडिकाञ्चनपादूं ? च Eद्)
विधानं शक्रनाशं च पादलेपरसायनम् ।
एतेषां प्रार्थितं चैकं दत्त्वागच्छति नान्यथा ॥ १९३ ॥
उद्धता या मृता योषित्तस्या गृह्याङ्गुलीयकम् ।
अभिमन्त्र्य इमैर्बीजैरनुलोमैः शतेन तु ॥ १९४ ॥
अष्ताधिकेन मन्त्रज्ञः साध्यनाम विदर्भयेत् ।
यस्या ददाति तद्वदास्ते स्त्रियायाः साधकोत्तमः ॥ १९५ ॥
आकर्ष्यति तां क्षिप्रं यदि स्यादुर्वशीसमा ।
योजनानां शतस्यापि दूरेणापि समर्पितम् ॥ १९६ ॥
पुरुषस्य भवेद्देवि उद्धतस्य यशस्विनि ।
काकमांसं गृहीत्वा तु निम्बतैलसमायुतम् ॥ १९७ ॥
श्मशानाग्निं समाधाय शिग्रुकाष्ठेन साधयेत् ।
जुहुयात्सप्तरात्रं तु यस्य नाम्ना तु साधकः ॥ १९८ ॥
विद्विष्तो दृश्यते लोके एष विद्वेषणं परम् ।
अतोऽन्यत्सम्प्रवक्ष्यामि रहस्यमिदमद्भुतम् ॥ १९९ ॥
यद्विदित्वा महेशानि सिद्धिमाप्नोति पुष्कलाम् ।
स्वकाले सम्प्रयोगेण सिद्धिस्तन्त्रेषु कीर्तिता ॥ २०० ॥
ततः स्वकालं कुर्वीत स्वानि कर्माणि साधकः ।
साध्यहृत्पद्मसंस्थं तु ध्यात्वादौ बीजपञ्चकम् ॥ २०१ ॥
कुर्वीत मनसा पूजामितायाप्रवतो ? पदा ।
माययाच्छादयेत्पश्चात्साध्यमन्तोबहिर्युतम् ॥ २०२ ॥
मायाकमलनालेन साध्यमावेष्तमानयेत् ।
ततः स्वात्मीकमानीय मायातत्त्वश्लथीकृतम् ॥ २०३ ॥
पुनस्तत्स्थापयित्वा तु सम्मुखः साधकोत्तमः ।
न्यस्तव्यं तु यदादौ तु ? साध्ये वै बीजपञ्चकम् ॥ २०४ ॥
मायावेष्तितं तन्मन्त्री जपेदष्टशतं ततः ।
साध्यनामाक्षरोपेतं तत्प्रबुद्धासने स्थितम् ॥ २०५ ॥
एवं देवि ततः शीघ्रं ध्वस्तजानुशिरोरुहः ।
आकृष्तो विधिनानेन साध्यः किंकरितो महान् ॥ २०६ ॥
अतः परं प्रवक्ष्यामि बद्धे रुद्धेऽपि मोक्षणम् ।
यथा संहरते शक्रं तत्प्रयोगमिदं शृणु ॥ २०७ ॥
साध्यहृत्कमलान्तःस्थं ध्यात्वैवं बीजपञ्चकम् ।
कुर्वीत पूर्ववत्पूजां सुषुम्नायागनिर्गदा ? ॥ २०८ ॥
संहारास्त्रं ततो मन्त्री तुम्बुरुं मूर्ध्नि विन्यसेत् ।
देवीनां च ततस्तेन साध्यमावृत्य योगवित् ॥ २०९ ॥
तत्र यो मूर्ध्नि तेनैव ज्वलितानलवर्चसा ।
दृष्त्वा तं मनसा भूयो मूर्च्छितं भुवि विह्वलम् ॥ २१० ॥
हृदि बद्ध्वाङ्कुशेनैव आनयेदात्मनोऽन्तिकम् ।
ततस्त्वधोमुखं स्थाप्य पीडितं छर्दयेदसृक् ॥ २११ ॥
पश्चात्तु हृदये तस्य न्यस्तव्यं बीजपञ्चकम् ।
प्रोद्धृत्य साध्यनामैवं संहारास्त्रविदर्भितम् ॥ २१२ ॥
एवं विगतरक्षं तु स्याप्युद्गतं तु ? ततः ।
जपेदष्टसहस्रं तु ज्वालामालाभिरावृतम् ॥ २१३ ॥
ततस्तु कर्मणानेन तेनैव तु विधानतः ।
साध्यः प्रयाति निधनं मृत्युरान्तिम ? कम्पयेत् ॥ २१४ ॥
इत्येतत्कथितं देवि समासाद्यं तु पूर्वशः ।
यथा संहरते शक्रं बद्धे रुद्धेऽथ मोक्षणात् ॥ २१५ ॥
क्रोधेन महता दीप्तः प्रयोगमिदमारभेत् ।
सुषुम्नायां यदा देवः स्वयंचारेण वर्तते ॥ २१६ ॥
सुषुम्नान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् ।
विद्वेषोच्चाटनादीनि ततः कर्माणि कारयेत् ॥ २१७ ॥
बीजपञ्चकदेवस्य वर्गान्तरयुतस्य च ।
वर्णान्तयागमेकान्ते सदा गोपितं तन्मया ॥ २१८ ॥
तदा तु सर्वकार्याणां सिद्धये शृणु सुव्रते ।
कुसुम्भरजसालोड्यं शालीनां पिष्टकेन च ॥ २१९ ॥
भस्मना चन्दनेनापि नागकेशरजेन वा ।
सुगन्धैश्च विचित्रैश्च लिखेच्च सुसमाहितः ॥ २२० ॥
वर्गातीतस्य गर्भे तु न्यसेत्पद्मं चतुर्दलम् ।
तत्र सभ्रातृका देव्यः पूजयेद्बीजपञ्चके ॥ २२१ ॥
एवं पूजितमात्रास्तु सर्वदासर्वकामदाः ।
भवन्ति नियतं[नित्यं] धर्मकामार्थमोक्षदाः ॥ २२२ ॥
यागमेवं च कृत्वान्ते ततो लक्षत्रयं जपेत् ।
ततः सिद्धिमवाप्नोति ब्रह्मघ्नोऽपि हि नान्यथा ॥ २२३ ॥
मनसा चिन्तितं कामं तदा प्रभृतिमाप्नुयात् ।
अतः परं प्रवक्ष्यामि जपस्य विधिमुत्तमम् ॥ २२४ ॥
एकासनस्थितो मन्त्री यागं कृत्वा विधानवित् ।
एकचित्तः प्रसन्नात्मा वामहस्ताक्षसूत्रधृक् ॥ २२५ ॥
जपकर्म सदाकुर्याद्विशेषमपरं शृणु ।
वश्यकामो जपं कुर्यादनुलोमैर्विदर्भितम् ॥ २२६ ॥
बीजैरेतैर्यथान्यायं साध्यनामाक्षरान्वितैः ।
कालं तत्र विजानीयात्कालसिद्धिः प्रवर्तते ॥ २२७ ॥
मारणे प्रतिलोमैस्तु साध्यनाम तु पूर्वतः ।
विद्वेषेऽपि विलोमैस्तु फट्कारान्तं प्रयोजयेत् ॥ २२८ ॥
मारणे प्रतिलोमैस्तु हूंफत्कारान्त द्यन् ? तकैः ।
ओं स्वाहा नमोऽन्तैस्तु वश्याकर्षणकर्मसु ॥ २२९ ॥
होमयेदेवमेवं तु सर्वं कुर्याद्विचक्षणः ।
नमस्कारो जपस्यान्ते स्वाहा होमे प्रकीर्तितम् ॥ २३० ॥
स्वशोणिताक्तं लशुनं मारणे प्रतिहोमयेत् ।
उच्चातने काकपक्षं वश्ये जातिं तु होमयेत् ॥ २३१ ॥
विद्वेषे श्लेष शिग्रुं च होमयेदविचारणात् ।
आकर्षणे बकुलपुष्पं होमयेच्च विचक्षणः ॥ २३२ ॥
सर्वे यागसमुद्दिष्ताः कालज्ञस्य यशस्विनि ।
येन कालं च वै ज्ञातं तेन ज्ञातः सदाशिवः ॥ २३३ ॥
सदाशिवे परिज्ञाते सिद्धिं शाम्यन्ति साधकाः ।
कालतत्त्वं च विज्ञेयं तत्त्वात्सिद्धिः प्रवर्तते ॥ २३४ ॥
तत्त्वहीना न सिध्यन्ति प्रयत्नेनापि साधकाः ।
तस्मात्सर्वप्रयत्नेन कालतत्त्वं विदुर्बुधाः ॥ २३५ ॥
क्रियाकालं च वै शून्यं न सिध्यन्तीह साधकाः ।
तस्मात्क्रियां च कालं च असंज्ञेयं प्रयत्नतः ॥ २३६ ॥
श्रीदेव्युवाच
स कालश्च कथं ज्ञेयो योऽसावुक्तस्त्वया प्रभो ।
कालहीनानृतं मन्ये सर्वमेव च शङ्कर ॥ २३७ ॥
श्री ईश्वर उवाच
शृणु देवि परं गुह्यं कालतत्त्वात्मविग्रहम् ।
यज्ज्ञात्वा तु सुखेनैव सिद्धिर्भवति मन्त्रिणाम् ॥ २३८ ॥
अयुतं द्वे च विज्ञेयाः षोडशैव शतानि च ।
चतुर्विंशतिसंक्रान्त्या द्वादशाङ्गुलगतागते ॥ २३९ ॥
शरीरे तु यथा देवि स्थितं सकलनिष्कलम् ।
तथा हंसं प्रवक्ष्यामि साधकानां हिताय वै ॥ २४० ॥
पादौ पायुरुपस्थं च हस्तौ वागिन्द्रियस्तथा ।
श्रोत्रत्वक्चक्षुषा जिह्वा नासिका च तथापरा ॥ २४१ ॥
पृथ्व्यापस्तथा तेजो वायुराकाशमेव च ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ २४२ ॥
मनो बुद्धिरहंकारो अव्यक्तं पुरुषस्तथा ।
पञ्चविंशतितत्त्वानि शरीरे तु विदुर्बुधाः ॥ २४३ ॥
एभिराधारभूतैस्तु आधेयो ध्यायते सदा ।
आधारं पुरमित्युक्तं पुरुषश्चाधेय उच्यते ॥ २४४ ॥
हृत्पद्मे कर्णिकावस्थ ऊर्ध्वगामी सदात्मकः ।
निष्कलस्य तु देवस्य पुनराधारसंस्थितिः ॥ २४५ ॥
तत्पुरुषमाधाराधेयं निष्कलं परमं शिवम् ।
षत्कौशिकशरीरं तु तत्त्वानां पञ्चविंशतिः ॥ २४६ ॥
दशवायुसमायुक्तं नाडीभिर्व्यापितं पुरम् ।
शरीरं त्रिगुणं चैव सर्वदैवतसंयुतम् ॥ २४७ ॥
अनेनाधिष्थितं देवि चक्रवत्परिवर्तते ।
यथा तारगणं सर्वं ग्रहनक्षत्रमण्डलम् ॥ २४८ ॥
ध्रुवाधिष्थितं तत्सर्वमचलं परिवर्तते ।
तद्वच्छरीरं देवस्य सर्वबीजगणं हि यत् ॥ २४९ ॥
शिवेनाधिष्थितं ज्ञात्वा तन्त्रे सिद्धिमवाप्नुयात् ।
त्रिकुब्जिकुतिलाकारा षष्ठस्वरसमन्विता ॥ २५० ॥
शक्तिर्बिन्दुविनिर्भिन्ना देहस्था सकलात्मका ।
अस्यास्तेजःशिखा सूक्ष्मा मृणालतन्तुसंनिभा ॥ २५१ ॥
ज्योतिरूपा च सा ज्ञेया तस्यान्ते तु पुनः शिवः ।
अकारादिक्षकारान्तमाब्रह्मभुवनं जगत् ॥ २५२ ॥
अस्मिंश्चोद्पद्यते सर्वं तत्रैव प्रलयं भवेत् ।
एष देवः परः सूक्ष्म आधाराधेयसंस्थितः ॥ २५३ ॥
अयने विषुवे चैव आग्नेयामृतकारणम् ।
यदा वारुणमार्गस्थ इडामध्यगतो भवेत् ॥ २५४ ॥
हिमकुन्देन्दुसंकाशो विज्ञेयः शुचिकर्मणि ।
द्वादशादित्यसंकाशः पिङ्गलान्तर्गतो यदा ॥ २५५ ॥
अरुणानलसंकाशं रौद्रकर्मणि योजयेत् ।
सुषुम्नायां यदा देव उपशान्तो वहत्यसौ ॥ २५६ ॥
मोक्षमार्गमिदं देवि ज्योतीरूपं परापरम् ।
एष देवो गतिश्चैव कालतत्त्वात्मविग्रहः ॥ २५७ ॥
साधकस्य हितार्थाय परमार्थमुदाहृतम् ।
एतत्सर्वं समाख्यातं कालतत्त्वात्मविग्रहम् ॥ २५८ ॥
त्रिसंस्थे तु समासेन सर्वतन्त्रेषु सिद्धिदम् ।
नाडीसंस्थं यथा कर्म कुरुते मन्त्रिणः सदा ॥ २५९ ॥
तदहं सम्प्रवक्ष्यामि शृणु त्वं च वरानने ।
इडा च पिङ्गला चैव नाड्यौ द्वे समुदाहृते ॥ २६० ॥
यतो नित्यं चरेद्देवः क्रमशश्च निवर्तते ।
तान्यात्मवतकर्माणि प्रयुक्तं कुरुते प्रभुः ॥ २६१ ॥
स एव कुरुते कर्म बीजनाडीप्रयोगतः ।
अयं कालः समाख्यातस्तृत्वेदय ? समन्वितः ॥ २६२ ॥
देहस्थं कथितं देवि ऋतुयुक्तस्तु साधकः ।
ज्ञात्वा कालं च तत्त्वं तु ततः कर्म समारभेत् ॥ २६३ ॥
शान्तिकं पौष्तिकं चापि विद्वेषोच्चाटनं तथा ।
वश्याकर्षणकं कुर्याद्यदि कालं विजानते ॥ २६४ ॥
सौम्यानि सौम्यकाले तु रौद्रे रौद्राणि कारयेत् ।
अन्यकालकृतं कर्म वृथा भवति साधके ॥ २६५ ॥
तस्मात्सर्वप्रयत्नेन काले कर्माणि कारयेत् ।
स्वरक्तं गोचनं चैव तथा सिन्दूरमेव च ॥ २६६ ॥
कुसुम्भरजःसम्मिश्रं दधिमध्वाज्यसंयुतम् ।
खदिरै रक्तसमिधैरथवा रक्तचन्दनैः ॥ २६७ ॥
अत्र दिग्ध्वा हुनेन्मन्त्री सप्ताहाद्वशमानयेत् ।
प्रतिमां लवणमयीं कृत्वा शताभिमन्त्रितां बुधः ॥ २६८ ॥
पादौ प्रभृति होतव्यं यावदष्टशतं भवेत् ।
त्रिसन्ध्यामेकचित्तस्तु अमोघवश्यतां नयेत् ॥ २६९ ॥
सैक्थीं तु प्रतिमां कृत्वा त्र्यूषणेन तु लेपयेत् ।
प्रतिमासु सुसम्पूर्णं कण्टकैर्मदनोद्भवैः ॥ २७० ॥
विदर्भ्य पादौ गुह्यं च ललातं च विचक्षणः ।
कुचयुग्मे च देवीनामग्रतो निखनेत तु ॥ २७१ ॥
अधोमुखां विलिप्ताङ्गां राजिकालवणेन तु ।
वामनासिकरक्तेन नाममन्त्रैर्विदर्भिताम् ॥ २७२ ॥
लिखित्वा हृदये कुर्याद्वह्निं प्रज्वाल्य चोपरि ।
राजिकालवणं चैव होतव्याष्तशतं बुधः ॥ २७३ ॥
त्रिसन्ध्यामेव सप्ताहात्त्रैलोक्यं वशमानयेत् ।
कुलालकरनिर्मुक्त- मृदा प्रतिमयीकृता ॥ २७४ ॥
तेनैव कण्तकैर्विद्ध्वा स्वस्थानस्थैस्तु मन्त्रिणः ।
भगे वा अथवा लिङ्गे सन्मन्त्राण्यष्टशतानि तु ॥ २७५ ॥
सूत्रयेद्गुह्यदेशे तु गृणन्मन्त्रं तु सर्वदा ।
सप्ताहादानयेद्वश्यं स्त्रियं वा पुरुषमपि वा ॥ २७६ ॥
मानुषास्थिमयं कीलं कृत्वा तु चतुरङ्गुलम् ।
क्षीरवृक्षं भगे लिख्य लिङ्गं वा कीलयेत्ततः ॥ २७७ ॥
षण्डिलस्तु भवेत्साध्य आर्द्रयोगो न संशयः ।
उद्धृतेन भवेन्मोक्षं नात्र कार्या विचारणा ॥ २७८ ॥
मधूका श्वेतपद्मं च रोचना नागकेशरम् ।
तगरं चैव सूक्ष्मेलमञ्जनं समभागिकम् ॥ २७९ ॥
कन्यया पिषितं कृत्वा यागं कृत्वा यथोदितम् ।
सहस्राष्ताधिकं जप्त्वा जपेन यजने ततः ॥ २८० ॥
सर्वलोकेषु दृश्यन्ते कामदेवसमोऽपि तत् ।
विचरेत महीं कृत्स्नां नात्र कार्या विचारणा ॥ २८१ ॥
मञ्जिष्था कुन्दुरुश्चैव हरिद्रे द्वे तु पीषयेत् ।
पिष्त्वा पूर्वविधानेन ततो गुह्यं प्रलेपयेत् ॥ २८२ ॥
प्रवृत्ते मैथुने काले पतिर्दासं करिष्यति ।
मेषलोचनमूलं तु कम्बल्या क्षीरसाधितम् ॥ २८३ ॥
श्मशाने साधयेन्मन्त्री रात्रौ काष्ठैस्तदुद्भवैः ।
कपालैर्गुण्डयेदङ्गं रक्तवासोपरिच्छदम् ॥ २८४ ॥
उद्वर्तनोऽभयो ह्येष वज्रवत्स्याङ्कुशोपमः ।
भक्षयेद्देशयेत्कंचित्कामाङ्कुशविनिर्गतः ॥ २८५ ॥
पुरुषो वशमायाति स्त्री वा मदनगर्विता ।
वाल्मीकमृत्तिकां गृह्य बलीवर्दं तु कारयेत् ॥ २८६ ॥
कन्याकर्तितसूत्रेण तस्य नासां प्रवेधयेत् ।
अथवा पद्मसूत्रेण रक्तचन्दनलेपितम् ॥ २८७ ॥
रक्तपुष्पैः समभ्यर्च्य सर्वार्णवं समानयेत् ।
साध्यस्य विलिखेन्नाम स्वरक्तेन वृषोदरे ॥ २८८ ॥
श्रीवृक्षकोतरे स्थाप्य साध्यमेवं वशीकुरु ।
अनेनैव मृदा मेषं कारयेन्मन्त्रवित्सदा ॥ २८९ ॥
मेषसूत्रेण वै नासां वेधयेत्पूर्ववच्छुचिः ।
देवीनामग्रतः स्थाप्य तस्य नासां प्रचालयेत् ॥ २९० ॥
यं यं विज्ञापयेत्कामं तं तं प्राप्नोति साधकः ।
एते योगवरा देवि मया तव उदाहृताः ॥ २९१ ॥
वर्णानामुदरे यागं सर्वकामप्रसिद्धिदम् ।
एवमेव मगर्भस्थं मारणे सम्प्रयोजयेत् ॥ २९२ ॥
गवां रोचनया लिख्य एवमेव प्रयोजयेत् ।
सोदरेमूकतां कुर्याद्वागीशमपि मूकयेत् ॥ २९३ ॥
नित्यमाकर्षयेत्प्रोक्तमाकारोदरे पूजिता ।
महापुरुषवरस्त्रीणां जपमाना तु कीर्तनात् ॥ २९४ ॥
ज्ञानाङ्कुशगता पूजा क्षिप्रं प्रायेषु वस्तुषु ।
उन्मनेष्वथ घोरेषु साकारेण तु साधयेत् ॥ २९५ ॥
एकारोदरयागेन भवत्यर्थप्रदायिका ।
वकारमध्यगा चैव वशीकरणकर्मणि ॥ २९६ ॥
धर्मार्थमोक्षदा चैव पुष्टितेजोविवर्धनी ।
भवति नियता देवि हंसमध्येषु पूजितम् ॥ २९७ ॥
भञ्जने यदि सैन्यानां भकारजथरे स्थितम् ।
भवति नियता क्षिप्रं क्षेमनाभिगरीयसी ॥ २९८ ॥
मारणे तु प्रयोक्तव्यं फत्कारान्ते व्यवस्थिता ।
विद्वेषं तु प्रयच्छन्ति जकारजथरेस्थिता ॥ २९९ ॥
शत्रुकुलोच्छादं कुर्याथूं फत्कारान्ते व्यवस्थिता ।
स्वल्पप्रायेषु कार्येषु यकारजथरोदरे ॥ ३०० ॥
देहन्यासं पुनर्वक्ष्ये अभेद्यं परमेश्वरि ।
विन्यस्य करणान् साक्षान्महाभूतेषु पञ्चसु ॥ ३०१ ॥
देहे तत्त्वत्रयं न्यस्य प्राणायामपुरःसरः ।
शरीरे विन्यसेद्देवि पूर्वमुक्तक्रमेण तु ॥ ३०२ ॥
माययाच्छादयित्वा तु अङ्कुशेन निरोधयेत् ।
योनिं बद्ध्वा ततः पश्चात्साधकः सुसमाहितः ॥ ३०३ ॥
स्वदेहे नमसा मन्त्री कल्पोक्तेन तु कर्मणा ।
कुर्यात्सर्वाणि कार्याणि ततः सिद्धिर्न संशयः ॥ ३०४ ॥
नयोत्तरादितन्त्रेषु कल्पोक्तं कर्म कारयेत् ।
अथवादशलक्षाणि जपेद्यस्तु विधानतः ॥ ३०५ ॥
ततः सभ्रातृका देव्यः साधकस्याग्रतः स्थिताः ।
वरमिष्तं प्रयच्छन्ति त्रयातीतं पदं हि यत् ॥ ३०६ ॥
बीजपञ्चकमेतद्धि न देयं यस्य कस्यचित् ।
वर्गान्तनिर्गुणाक्रान्तं सम्यग्वै बीजपञ्चकम् ॥ ३०७ ॥
एवमेव पुरा कृत्वा ज्ञात्वैवं हि विधानतः ।
बीजानि बीजयेत्प्राज्ञः ततः कर्म समारभेत् ॥ ३०८ ॥
एवं विधानविद्यस्तु हीनो वा सर्वलक्षणैः ।
अपि पातकसंयुक्तः स सिद्धिफलभाग्भवेत् ॥ ३०९ ॥
वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं स्मृतम् ।
हृदयं देवदेवीनामेकाक्षरमतः परम् ॥ ३१० ॥
यत्र सभ्रातृका देव्यः कूटदेहा व्यवस्थिताः ।
नातः परतरो मन्त्रस्त्रिषु लोकेषु विद्यते ॥ ३११ ॥
गोपितव्यं प्रयत्नेन तन्त्रसारं सुदुर्लभम् ।
ममापि गोपितं देवि सर्वज्ञेनापि सर्वदा ॥ ३१२ ॥
निश्चयं मम बद्ध्वान्त ? यच्च देवेन भाषितम् ।
त्वयापि चैवमेवं हि रक्षणीयं प्रयत्नतः ॥ ३१३ ॥
चिन्तारत्नमिदं गुह्यं व्रतसाधनवर्जितम् ।
अनुस्मरणामात्रेण सम्यग्ज्ञाय क्रमेण तु ॥ ३१४ ॥
वर्णयागक्रमेणैव पूर्वोक्तेन यथाक्रमम् ।
सिध्यते नात्र संदेहः सर्वकामस्तु मन्त्रिणाम् ॥ ३१५ ॥
शान्तिकं पौष्तिकं चैव विद्वेषोच्चाटनं तथा ।
वश्याकर्षस्तथा नाशं सर्वं सिध्यति साधके ॥ ३१६ ॥
शुक्रेण सर्वतोभद्रे महासम्मोहने तथा ।
निर्मथ्य कथितो देवि दध्नो घृतमिवोद्धृतम् ॥ ३१७ ॥
परीक्ष्य गुरुणा शिष्यं गुरुदेवाग्निपूजकम् ।
तस्य देयमिदं तन्त्रं न च नास्तिकनिन्दके ॥ ३१८ ॥
न दीक्षिता न सिध्यन्ति स्थिताः कल्पशतैरपि ।
स्वयंगृहीतमन्त्राश्च नास्तिका वेदनिन्दकाः ॥ ३१९ ॥
समयेभ्यः परिभ्रष्तास्तथा तन्त्रविदूषकाः ।
गुरूणां विहेठनपरास्तन्त्रसारविलोपकाः ॥ ३२० ॥
योगिनीभिः सदा भ्रष्टाः कथ्यन्ते धर्मलोपकाः ।
इति तथ्यं महादेवि सुरासुरनमस्कृतम् ॥ ३२१ ॥
सारमेतद्धि तन्त्रस्य तस्य तत्स्थं महानये ।
आज्ञा भगवतश्चैव शिवस्य परमात्मनः ॥ ३२२ ॥
श्रीदेव्युवाच
श्रुतं मया महादेव वीणासद्भावमुत्तमम् ।
तन्त्रं वीणाशिखं नाम दुर्लभं त्रिदशेष्वपि ॥ ३२३ ॥
वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं च यत् ।
एकाक्षरं परं गुह्यं भुक्तिमुक्तिप्रदायकम् ॥ ३२४ ॥
गोपितं तु त्वया देव सारभूतं महेश्वर ।
तपसा दुर्धराल्लब्धं यच्च ज्ञानं शिवोद्भवम् ॥ ३२५ ॥
प्रसादं कुरु देवेश यत्र सिद्धिर्ध्रुवं स्थिता ।
प्राप्ते कलियुगे घोरे संकते बहुपातके ॥ ३२६ ॥
सर्वस्रोतःप्रपन्नानामाशु सिद्धिर्यथा नृणाम् ।
प्रसादं कुरु देवेश कः परम्पारते मम ॥ ३२७ ॥
अल्पप्रज्ञाः कुमतयो बहुव्याकुलचेतसा ।
तन्त्रं नैवाधिगच्छन्ति न चैव बहुधा श्रुतम् ॥ ३२८ ॥
इति देव त्वया पूर्वं कथितं गुरुणात्मना ।
अस्माकमपि संक्षेपात्कथयस्व महेश्वर ॥ ३२९ ॥
श्री ईश्वर उवाच
अहो स्वभावप्रकृते किम्प्रश्नासि पुनःऽपुनः ।
यन्मया कथितं पूर्वं तद्गृहाण सुभाषितम् ॥ ३३० ॥
श्रीदेव्युवाच
न भूयः परिपृच्छामि प्रश्नमेका गरीयसी ।
वारमेकं कुरु व्यक्तं प्रसादं सूक्ष्मगोचरम् ॥ ३३१ ॥
श्री ईश्वर उवाच
शृणु देवि प्रयत्नेन सूक्ष्मात्सूक्ष्मतरं महत् ।
प्रयोगं सर्वतन्त्राणामुत्तरं सर्वसिद्धये ॥ ३३२ ॥
येन संस्मृतमात्रेण सिद्धिर्हस्ततले स्थिता ।
नायासो न व्रतश्चैव न तपश्च महेश्वरि ॥ ३३३ ॥
नाग्निकर्म न चैवार्चा स्मरणात्सिद्धिदः स्मृतः ।
शृणुष्वैकाक्षरं देवि सद्भावपरसंहितम् ॥ ३३४ ॥
शरीरं तत्त्वराजानं जातवेदसि संस्थितम् ।
शिखायां संस्थितो देवो बिन्दुदेवी जया स्मृता ॥ ३३५ ॥
यश्चात्रोर्ध्वं भवेद्देवि सौकरः परिकीर्तितः ।
तन्तुदेवं विजानीयान्मकारं बिन्दुदेवताम् ॥ ३३६ ॥
एवं तु पञ्चधा देवि तत्त्वराजं तु कीर्तितम् ।
चतुर्विंशतिकोष्थे तु यो मन्त्रनायकः स्मृतः ॥ ३३७ ॥
तत्त्वराज इति ख्यात ऊनविंशत्यधः स्मृतः ।
विंशकेन स्वरेणैव बिन्दुमूर्ध्ना तु पीडितम् ॥ ३३८ ॥
एष एकाक्षरः प्रोक्तस्त्वत्प्रियार्थं वरानने ।
सुषिरं तत्त्वराजानं जातवेदसि संस्थितम् ॥ ३३९ ॥
विष्णोरुपरि दीप्तेन जपेल्लक्षत्रयं बुधः ।
आकर्षयेद्द्रुमाण्येष मृगपक्षिसरीसृपान् ॥ ३४० ॥
मानुषाणां तु का चिन्ता आकर्षणविधिं प्रति ।
एकादशमः संयुक्तस्तत्त्वराजेन शोभने ॥ ३४१ ॥
शिरसा बिन्दुभिन्नेन हृदि चैष निगद्यते ।
सप्तविंश शिरः प्रोक्तं त्रिंशमस्तु शिखा भवेत् ॥ ३४२ ॥
ऊनचत्वारिंशतिर्देवि तत्त्वोऽयं कवचः स्मृतः ।
षोडशस्वरसंयुक्तमेतदस्त्रं प्रकीर्तितम् ॥ ३४३ ॥
नेत्रं तु कथितं देवि विंशत्यक्षरयोजितम् ।
एष एकाक्षरो देवि षडङ्गः समुदाहृतः ॥ ३४४ ॥
हंसो मायायुक्तो देवि नाराचास्त्रविदर्भितः ।
सविसर्गनयपदं बीजान्तस्थं(?) ऊ ई सिद्धिकरी नृणाम्(?) ॥ ३४५ ॥
ह र त्र वृद्धिं करोति .... .... ।
मायाङ्कुशनिरोधास्ते सर्वमन्त्रगणादयः ॥ ३४६ ॥
क्रमशो योजयेन्मन्त्रि यदीच्छेद्दीर्घमात्मनि ।
सर्वमेतत्परित्यज्य कुर्यान्मन्त्रपरिग्रहम् ॥ ३४७ ॥
आत्मातीन्द्रियाधाराणां कृत्वा कर्तव्यं मुहुर्मुहुः ।
पदार्थविधिसंयुक्तं यन्मया गदितं पुरा ॥ ३४८ ॥
तदनेन प्रयोगेण कर्तव्यं सिद्धिमिच्छता ।
ध्यायेत्सिन्दूरसदृशं वश्याकर्षणकर्मणि ॥ ३४९ ॥
मारणे कृष्णवर्णं तु विद्वेषे वामरूपकम् ।
उच्चाते धूम्रवर्णं तु श्वेतं चैव पुष्ट्यर्थिना ॥ ३५० ॥
मयूरग्रीवसदृशं स्तम्भने चिन्तयेत्सदा ।
सर्ववर्णधरं चैव सर्वकामिकमेव च ॥ ३५१ ॥
सर्वेन्द्रियाणां कुर्वीत उपहारे महाधिपे ।
हृत्पद्मकर्णिकोर्ध्वं तु सुषिरं तत्र चिन्तयेत् ॥ ३५२ ॥
स्फुलिङ्गं कर्णिकारूपं निर्धूमतेजरूपिणम् ।
धूमज्वालाविनिर्मुक्तं सूर्यकोटिसमप्रभम् ॥ ३५३ ॥
तस्योर्ध्वे तु शिखा सूक्ष्मा निर्मला स्फातिकोपमा ।
नित्यं सा सेव्यते युक्तैर्योगिभिर्निष्कला परा ॥ ३५४ ॥
ऊर्णातन्तुसमाकारा ऊर्ध्वस्रोता निरुपमा ।
तत्र मध्ये गतं पश्येद्देव्या गुह्योत्तरम्भवा ॥ ३५५ ॥
वालाग्रशतभागाख्या- वीणाधारासुसंस्थिता ।
ध्यायेत नित्यं योगीन्द्रः सूक्ष्मगुह्यसमुद्भवाम् ॥ ३५६ ॥
कृत्वा पूर्वं तु विन्यासं सकलाबाह्यसंस्थितम् ।
एवं वर्णविभागं तु ज्ञात्वा सिद्धिमवाप्नुयात् ॥ ३५७ ॥
वश्याकर्षणकर्माणि वाचया स करिष्यति ।
वीणाशिखायाः सर्वस्वं चिन्तारत्नमिवापरम् ॥ ३५८ ॥
एतद्बीजवरं प्राप्य यथेप्ससि तथा कुरु ।
आज्ञा भगवतश्चैषा सर्वदाव्यभिचारिणी ॥ ३५९ ॥
ध्यातव्या सा प्रयत्नेन यदीच्छेत्सिद्धिमात्मनः ।
यजनं याजनं चैव संयोगं च लयं तथा ॥ ३६० ॥
समयाक्षरबीजं च अक्षराक्षरयोजितम् ।
रक्षणीयं त्वया भद्रे प्रयत्नेन सुनिश्चलम् ॥ ३६१ ॥
एतद्गुह्यं समाख्यातं तव स्नेहाद्विचक्षणि ।
एतज्ज्ञात्वा तु मन्त्रज्ञः शिवसायुज्यतां व्रजेत् ॥ ३६२ ॥
(एम्: ॰सायोज्यताम्Eद्)
एवं विलयतां याति विधिनानेन योषिताम् ।
अमलीकृतदेहस्तु विधिनानेन साधकः ॥ ३६३ ॥
अमलीकृतं तन्मन्त्रं हृच्चक्रे विनियोजयेत् ।
सोममण्डलमध्यस्थं ध्यायेत्कुन्देन्दुसप्रभम् ॥ ३६४ ॥
अमृतेन तु सिञ्चन्ति लान्तीसगतिलितेन ? तु ।
एवमाप्यायितो मन्त्रः सर्वसिद्धिप्रदो भवेत् ॥ ३६५ ॥
एवमाप्यायनं कृत्वा बिन्दुमध्येविचक्षणः ।
अष्टोत्तरसहस्रं तु मन्त्राणां मन्त्रविज्जपेत् ॥ ३६६ ॥
परमीकरणं ह्येतन्मन्त्रस्याप्यायनं स्मृतम् ।
शिवीभूतस्तु मन्त्रो वै साधयेदखिलं जगत् ॥ ३६७ ॥
सूर्यचक्रनिरुद्धं तु शिरसि समवस्थितम् ।
जपेथूंकारसहितं बोधनं परिकीर्तितम् ॥ ३६८ ॥
आदित्यचक्रमध्यस्थं वह्निना संनिरोधितम् ।
निर्दहते मन्त्रं देवि यदा कर्म न कुर्वति ॥ ३६९ ॥
शिखामध्यगतं ध्यात्वा सहस्रं परिवर्तयेत् ।
मन्त्रमेवं समुद्दिष्तं गुह्यशक्तिप्रदीपनम् ॥ ३७० ॥
दहनं चाग्निना कार्यं हूंकारेण प्रबोधयेत् ।
दीपनं तु शिखामध्ये मन्त्राणां मन्त्रवादिनाम् ॥ ३७१ ॥
अमलीकुरुतेसूर्यश्चन्द्रेणाप्यायनं स्मृतम् ।
शिवीकुर्वीत बिन्दुस्थं मन्त्री मन्त्रं तु योगवित् ॥ ३७२ ॥
एवं मन्त्रविशुद्धस्तु चन्द्रसूर्यसमन्वितम् ।
दीपनं शक्तिना नित्यं जपेन्मन्त्री समाहितः ॥ ३७३ ॥
अमृतोद्भवकाले तु मन्त्री यत्नेन निश्चयात् ।
वशमानयते क्षिप्रं विश्वं मनत ? संशयः ॥ ३७४ ॥
यावती माया मन्त्राणां सर्वेषां कथिता मया ।
विधिरत्र क्रमे चायं पश्चाद्वक्ष्ये जपे विधिम् ॥ ३७५ ॥
यजनकाले सम्प्राप्ते एकचित्तः समाहितः ।
हृत्पद्मे कर्णिकासीन- देवतार्पितमानसः ॥ ३७६ ॥
शिखाबिन्दुं विनिर्धार्य तन्मन्त्रं हृदि संस्थितम् ।
पुतवर्णविधानं स्यादकृतोच्चारनिस्वनम् ॥ ३७७ ॥
स्वस्थचित्तो ह्यसम्मूढ अलाकूर्ध्वस्थितात्मनः ।
अविच्छिन्नं द्रुतं चैव अविलम्बितमेव च ॥ ३७८ ॥
तावन्मन्त्री जपेन्मन्त्रं यावच्चित्तं न खिद्यते ।
अलभ्य मम मन्त्रं स्याद्द्रुतं कालस्य सिध्यति ॥ ३७९ ॥
जपं कृत्वा तु मेधावी नान्यमेतत्समर्पयेत् ।
मन्त्री कुर्वीत यत्नेन यथार्थत्वं निबोधत ॥ ३८० ॥
प्रथमे वायवी प्रोक्ता द्वितीया त्वनला स्मृता ।
तृतीया चैव माहेन्द्री वारुणी तु तथापरे ॥ ३८१ ॥
ओंकारपूर्वतो मन्त्रं नमस्कारान्तयोजितम् ।
बीजपिण्डं तु मध्यस्थं मुद्रायुक्तं सदा यजेत् ॥ ३८२ ॥
क्षिप्रमर्थस्तथा कर्म भुक्तिभोगं सुदुर्लभम् ।
साधयेन्मनसा सर्वं बीजमुद्राप्रयोगतः ॥ ३८३ ॥
हूंकारमदितो न्यस्तं नमस्कारान्तव्यवस्थितम् ।
उच्चातयेत्सर्वदुष्तान् दैत्यभूतग्रहांस्तथा ॥ ३८४ ॥
ओंकारयोजितस्यादौ स्वाहाकारावसानतः ।
अग्निकार्यप्रयोगोऽयं क्षिप्रमर्थं प्रसाधयेत् ॥ ३८५ ॥
ओंकारसम्पुतं पिण्डं रकारेण तु दीपकम् ।
साधयेन्मनसा ध्यात्वा कामार्थश्च यथेप्सितम् ॥ ३८६ ॥
सुप्तं बोधयते मन्त्री शीघ्रं सिद्धिमवाप्नुयात् ।
ओंकारश्च रकारश्च फट्कारश्चैव मध्यतः ॥ ३८७ ॥
मध्ये वर्गान्तपिण्डस्तु कर्म कुर्याद्यथेप्सितम् ।
हूंकारमादौ अन्ते च हकारश्चादिमध्यतः ॥ ३८८ ॥
जपन् तु बोधयेन्मन्त्री अपि सुप्तमचेतनम् ।
हूंकारश्च रकारश्च फट्कारमादिमध्यतः ॥ ३८९ ॥
क्रुद्धस्तु जापयेन्मन्त्री यदाकर्म न कुर्वति ।
ओंकारसम्पुतं कृत्वा नमस्कारान्तयोजितम् ॥ ३९० ॥
जपेत्पिण्डाक्षरं मन्त्री सर्वसिद्धिकरं परम् ।
शान्तिकपौष्तिकं कर्म शुभेषु अशुभेषु च ॥ ३९१ ॥
क्षिप्रमावाहने सिद्धिर्होमबीजप्रयोगतः ।
होमयेत्फलबीजानि धान्यबीजतृणानि च ॥ ३९२ ॥
पयसा वापि शुद्धेन होमकर्म ह्युदाहृतम् ।
मधुना घृतसंयुक्तं तिलं जुह्याद्विचक्षणि ॥ ३९३ ॥
साधयेत्सर्वकर्माणि वषत्कृतं जपिष्यति ।
सर्वेषां गुह्यमन्त्राणां बीजमुद्रां प्रयोजयेत् ॥ ३९४ ॥
अप्रकाश्यमिदं गुह्यं शिववक्त्राद्विनिःसृतम् ।
यस्त्विदं ध्यायते नित्यं पूजयेन्मनसा जपेत् ॥ ३९५ ॥
स भुङ्क्ते विपुलान् भोगानीशानान्तपदं लभेत् ॥ ३९६ ॥
वीणाशिखा सार्धशतत्रयं यामलतन्त्रं समाप्तमिति
(Vएर्से ३७५ इन्Eद्. हसोन्ल्य्२ पादस्)
आप्पेन्दिचेस्:
आ:
हूंकारादौ स्वाहान्ते आकर्षणे
ओंकारादौ वौषतन्ते शान्तिके
ओंकारादौ सु वषडन्ते पौष्तिके
ओंकारादौ वषडन्तेऽमृतीकरणे
फत्फत्मारणे
ओं क्ष्रं संहारास्त्र
B:
क्ष पुरुष्प्रकृति बुद्धि।हङ्कार मनः
ज शब्दस्पर्शरसरूपगन्ध तन्मात्रं
भ पृथिवी आप तेज वायु आकाश पञ्चमहाभूत
।ं श्रोत्रत्वच्चक्षुर्जिह्वाघ्राण बुद्धीन्द्रिय
ह्वाक्पाणिपादपायूपस्थ कर्मेन्द्रिय
C:
जय ब्राह्मनि भूमि
विजय क्षत्राणि । आप
अजित । वैसनि । तेज
अपराजित सूद्रनि । वायु
तुम्बुरु अकाश शून्य निर्गुण
ड्:
क्षकारः पुरुषः साक्षात्मकारः प्रकृतिः स्मृता
महान् हकारमित्याहुरहंकारस्तु य स्मृतः
ओंकारस्तु मनः प्रोक्तं कथितं देवि ते क्रमात्
Cओलोफोन् :
वीणाशिखं वामतन्त्रं सम्पूर्णम् शुभमस्तु