वीरमित्रोदयः - आह्निकप्रकाशः
ॐ वीरमित्रोदयस्याह्निकप्रकासः
अथाचमनकर्तृधर्माः।
सम्पाद्यताम्भविष्यपुराणे,
विना यज्ञेपवीतेन तथा मुक्तशिखो द्विजः।
अप्रक्षालितपादस्तु आचान्तोऽप्यशुचिर्भवेत् ।।
बहिर्जानुरुपस्पृश्य एकहस्तार्पितैर्जलैः।
सोपानत्कस्तथा तिष्ठन्नैव शुद्धिमवाप्नुयात् ।।
देवलः,
सोपानत्को जलस्थोऽपि मुक्तकेशोऽपि वा पुनः।
उष्णीषी वापि नाचामेत् वस्त्रेणावेष्ट्य वा शिरः ।।
न शौचं वर्षधाराभिराचरेद्वेदतत्त्ववित्।
अत्रोष्णीषं किरीटम्।
उष्णीषं शिरोवेष्टकिरीटयोः।
इत्यमरकोशात्। श्मश्रुदेशेऽपि वेष्टनवानुष्णीषीति हेमाद्रिस्मृतिचन्द्रिकाकारौ। उष्णीषवेष्टनस्याधिकनिन्दार्थं पृथगाभिधानमित्यपरे।
गोभिलः,
जानुब्यामूर्ध्वमाचम्य जले तिष्ठन्न दुष्यति।
विष्णुः,
जान्वोरूर्ध्वं जले तिष्ठन्नाचान्त शुचितामियात्।
अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुध्यति ।।
जान्वोरधस्ताज्जले तिष्ठत आचमननिषेधाज्जानुमात्रे जले तिष्ठत आचमनमनुमतं भवतीति प्रतीयते।
अत एव जातुकर्ण्यः,
जानुमात्रे जले तिष्ठन्नासीनः प्राङ्मुखः स्थले।
सर्वतः शुचिराचान्तस्तयोस्तु युगपत्स्थितः ।।
तयोर्जलस्थलयोर्युगपत्स्थितो विद्यमानः सन्नाचान्तः सर्वत उभयत्रापि शुचिर्भवतीत्यर्थः।
पैठीनसिः, अन्तरुदकमाचान्तोऽन्तेव शुद्धो भवति बहिरुदकमाचान्तो बहिरेव शुद्धो भवति तस्मादन्तरेकं पादं बहिरेकपादं कृत्वाऽऽचामेत्सर्वत्र शुद्धो भवति।
हारीतोपि,
जलस्थो वा स्थलस्थो वा द्वयोर्वा समवस्थितः।
जलस्थो जलकृत्येषु स्थलस्थः स्थलकर्मसु ।।
उभयोस्तूभयस्थस्तु कर्मस्वधिकृतो भवेत्।
हेमाद्र्यादिषु दक्षः,
स्नात्वाऽऽचामेद्यदा विप्रः पादौ कृत्वा जले स्थले।
उभयोरप्यसौ शुद्धस्ततः कार्यक्षमो भवेत् ।।
हारीतः,
आर्द्रवासा जले कुर्यात्तर्पणाचमनं जपम्।
शुष्कवासाः स्थले कुर्यात्तर्पणाचमनं जपम् ।।
आर्द्रवासाः स्थलस्थस्तु यद्याचामेन्नराधमः।
वस्त्रनिश्चोतनं तस्य प्रेतास्तत्र पिबन्ति हि ।।
व्यासः,
शिरः प्रावृत्य कण्ठं मुक्तकच्छशिखोऽपि वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।।
अशुचिर्भवेत् शुचिर्न भवेदित्यर्थः।
ब्रह्माण्डपुराणे,
कण्ठं शिरो वा प्रावृत्य रथ्याऽऽपणगतोऽपि वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।।
आपणः क्रयविक्रयभूमिः।
प्रचेताः, नानन्तर्वासाः न निर्वासा नाश्रु कुर्वन्नचामेध्यं कुर्वन् नासनपाद आचामेत्।
अनन्तर्वासाः अधोवस्त्रशून्यः। अमेध्यं श्लेष्मादि।
गोभिलः, नोपस्पृशेद्व्रजन्, न तिष्ठन्, न हसन्, न विलोकयन्, नाप्रणतो, नाङ्गुलीभिः, नातीर्थेन, न सशब्दं, तथा न बाह्यांसो, नान्तरीयैकदेशस्य कल्पयित्वोत्तरीयतां, नोष्णाभिः, न सफेनाभिः, तथा नच सोपानत्कः क्वचित्, न कासक्तिको, न गलेबद्धः, चरणौ न प्रसार्य चेति।
अस्यार्थः। न विलोकयन् नेतस्ततश्च वीक्षणं कुर्वन्। नाप्रणतः प्रणतस्योच्छिष्टोदकमङ्गेषु यतः पतति अतो न प्रणत इत्युक्तम्। अनेनोच्छिष्टोदकसंबन्धविरोधिनी ईषत्प्रह्वताऽनुमता। तेन न तिष्ठन्नाचामेत् प्रह्वो वेति नापस्तम्बवचनविरोधः। नाङ्गुलीभिः अङ्गुलीभिः अङ्गलीभिरुदकमूर्ध्वमुत्क्षिप्य नेत्यर्थः। नातीर्थेन विहिततीर्थान्येन पित्र्यादिना नेत्यर्थः। न सशब्दं न मुखशब्दं कुर्वत्रित्यर्थः। आचामेदित्युनुवृत्तौ न मुखशब्दं कुर्वन्नितिशङ्खलिखितैकवाक्यत्वात्। बाह्यांसः जानुभ्यां बाह्यौ बहिर्भूतौ अंसौ यस्य स बाह्यांसः। नान्तरीयैकेति। अन्तरीयम् अधरीयवासस्तदेकदेशस्तदञ्चलं तस्योत्तरीयतां कल्पयित्वा नेत्यर्थः। नच सोपानत्कः क्वचित् उपानहौ प्रसिद्धे ताभ्यां सह वर्त्तत इति सोपानत्कः तथा नेत्यर्थः। क्वचिदपि कस्यां चिदप्यवस्थायाम्। अस्यापवादकं गोभिलीयभट्टभाष्यधृतं पुराणवचनम्,
राज्ञां गुरूणां देवानां न दुष्येदन्तिके चरन्।
आजानुपत्त्रचरमस्तथाऽऽचमनकर्मणि ।। इति।
पत्त्रं पादत्राणम्। तथाच जानुपर्यन्ताच्छादकपादत्राणवानित्य्रथः। कासक्तिकः के शिरसि आसक्तिका आवेष्टिका कृता येन स कासक्तिकः। अथवा के शरीरे आसक्तिर्वाससा आसङ्गः। कृतो येन स कासक्तिकः बद्धपरिकर इति यावत्। अन्ये तु प्रयुक्तकञ्चुकं कासक्तिकं मन्यन्ते। एतदयुक्तम्। न स्यात्कर्मणि कञ्चुकीति वचनात्कर्मण्येव सकञ्चुकस्य आचमनप्रतिषेधो नान्यत्रेति भट्टभाष्यात्। न गलेबद्धः न गलावलम्बितवासाः। चरणौ न प्रसार्य च चरणौ प्रसार्य वितत्य चशब्दादासनस्थौ च पादौ कृत्वा नेत्यर्थः।
तथाचोक्तं,
नासनारूढचरण आचामेन्न जपेत् क्वचित्। इति।
बौधायनोऽपि, न हसन्न जल्पन्नतिष्टन्नावलोकयन्न प्रह्वो न प्रणतो न मुक्तशिखो न प्रावृतकण्ठो न वेष्ठितशिरा नायज्ञोपवीति न प्रसारितपादो नाबद्धकच्छो न बहिर्जानु न त्वरमाणः शब्दमकुर्वंस्त्रिरपो हृदयङ्गमाः पिबेत् इति।
प्रणतो नमस्कुर्वन्। नाबद्धकच्छ इति।
वामे पृष्ठे तता नाभौ कच्छात्रयमुदाहृतम्।
इत्युक्तकच्छात्रयबन्धनरहितः।
विष्णुः,
न गच्छन्न शयनश्च न स्थितः प्रह्व एववा।
न स्पृशन्न हसन् जल्पन्न श्वचाण्डालदर्शनम् ।।
न स्पृशन्, परानिति शेषः। न परान्स्पृशन्निति देवलसंवादात्।
मरीचिः,
न बहिजार्नु त्वरया नासस्थो नचोत्थितः।
न पादुकास्थो नाचित्तः शुचिः प्रयतमानसः ।।
उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः।
भुक्त्वाऽऽसनस्थौऽप्याचामेन्नान्यकाले कदाचन ।।
वसिष्ठः, व्रजंस्तिष्ठन् शयानः प्रणतो वा नाचामेत्।
भृगुः,
विना यज्ञोपवीतेन तथा ऽधौतेन वाससा।
मुक्त्वा शिखां वाऽऽचान्तस्य कृतस्यैव पुनः क्रिया ।।
सोष्णीषो बद्धपर्यङ्कः प्रौढपादश्च यानगः।
दुर्द्देशे प्रपदस्थश्च नाचामञ्छुद्धिमाप्नुयात्।
कृतस्य, आचमनस्येति शेषः। बद्धपर्यङ्कः वस्त्रादिना वेष्टितजघनभाग इति हेमाद्रिः। प्रौढपादलक्षणमाह---
शाट्यायनः,
आसनारूढपादश्च जानुनोर्वाऽथ जङ्घयोः।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ।। इति।
जानुनोर्जङ्घयोर्वा आरूढपाद इत्युनुषज्यते। योगपट्टाकृतिना वस्त्रेणावेष्टितपृष्ठजानुद्वयमवस्थानमवसक्थिकेति हेमाद्रिः। अत्र तुशब्दद्वयवाशघ्दाथशब्दैः प्रौढपादस्य चतुर्विधत्वं प्रतीयते। अत्र चानेकोद्वाह्ये दारुशिले भूमिसमे इष्टकाश्च सङ्कीर्णाभूता इति बौधायनस्वरसात्तथाविधे आरूढपादोऽप्याचमनं कुर्यादिति वदन्ति।
हेमाद्रौ कौशिकःक,
अपवित्रकरः कश्चिद् ब्राह्मणोऽप उपस्पृशेत्।
अपूतं तस्य तत्सर्वं भवत्याचमनं तथा ।
इदं च कर्मार्थाचमनपरम्।
पवित्रकर आचामेच्छुचिः कर्मार्थमादरात्।
कुशमात्रकरो वापि दर्भमात्रकरोऽथवा ।।
इतिस्मृत्यर्थसारधृतवचनस्वरसात्।
एवं च----
सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम्।
नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ।।
इति मार्कण्डेयवाक्यमपि कर्मार्थाचमनपरम्। नोच्छिष्टम् आचमनावशिष्टरूपोच्छिष्टोदकसंबन्धेनापि नोच्छिष्टं भवतीत्यर्थः। भुक्तोच्छिष्टं भोजनावशिष्टरूपोच्छिष्टान्नसंबन्धेनोच्छिष्टम्। एवं सार्थवादं गोभिलवाक्यमप्येतत्परमेव।
यथा गोभिलः,
उभयत्र स्थितैर्दर्भैः, समाचामति यो द्विजः।
सोमपानफलं तस्य भुक्त्वा यज्ञफलं लभेत् ।।
यत्तु,
वामहस्ते कुशान्कृत्वा समाचामति यो द्विजः।
उपस्पूष्टं भवेत्तेन रुधिरेण मलेन वा ।।
इति हारीतवचनं, तद् वामहस्तमात्रधृतकुशपरम्। पवित्रे विशेषमाह मदनरत्नप्रदीपमदनपारिजातयोः,-----
हारीतः,
सव्यापसव्यौ कुर्वीत सपवित्रौ करौ द्विजः।
ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनं चरेत् ।।
पूर्वार्द्धे पवित्रपदं कुशमात्रपरम्।
सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः।
इति छन्दोगपरिशिष्टस्वरसात्। समन्त्रकाचमनप्रतिपादकानि चाक्यानि दाक्षिणात्यनिबन्धे कुत्रचिद् दृश्यन्ते।
यथा स्मृत्यर्थसारे,
तदोङ्कारेणाचमनं यद्वा व्याहृतिभिर्भवेत्।
सावित्र्या वापि कर्त्तव्यं यद्वा कार्यममन्त्रकम् ।।
प्रयोगपारिजाते भरद्वाजः,
देव्याः पादैस्त्रिभिः पीत्वा अब्लिङ्गैर्नवधा स्पृशेत्।
पुनर्व्याहृतिगायत्र्या शिरो मन्त्रैर्द्विधा स्पृशेत् ।।
देवा गायत्री। अब्लिङ्गैरापोहिष्ठामयोभुव इत्यादिनवभिर्मन्त्रैः।
तत्र व्याघ्रपादः,
केशवादित्रभिः पीत्वा चतुर्थेन मृजेत्करम्।
पञ्चमेन च षष्ठेन द्विरोष्ठाबुन्मृजेत्क्रमात् ।।
तौ सप्तमेन च मृजेदेकवारं तु मन्त्रवित्।
अष्टमेन तु मन्त्रेण अभिमन्त्र्य जलं शुचि ।।
वामं सम्प्रोक्षयेत्पार्णि मनुना नवमेन च।
दक्षिणं दशमेनाङ्घ्रिं वाममेकादशेन वै ।।
मूर्द्धानं द्वादशेनाथ स्पृशेदूर्ध्वोष्ठपृष्ठकम्।
सङ्कर्षणाय नम इत्यनेनाङ्गुलिमूर्द्धभिः ।।
अङ्गुष्ठतर्जन्यग्राम्यां संश्लिष्टाभ्यां जलैः सह।
नासारन्ध्रे वासुदेवप्रद्युम्नाभ्यां स्पृशेत् शुभे ।।
अङ्गुष्ठानामिकाभ्यां तु संशिलष्टाभ्यां जलैः सह।
अनिरुद्धाय नम इति संस्पृशेदक्षि दक्षिणम् ।।
पुरुषोत्तममन्त्रेण ताभ्यां वामां स्पृशेद् दृशम्।
तथाऽङ्गुष्ठकनिष्ठाभ्यां श्लिष्टाग्राभ्यां जलैः सह ।।
अधोक्षजनृसिंहाभ्यां श्रोत्रे द्वे संस्पृशेत्क्रमात्।
नाभिमच्युतमन्त्रेण ताभ्यामेव स्पृशेद् बुधः ।।
श्रीजनार्दनमन्त्रेण तलेन हृदयं स्पृशेत्।
उपेन्द्रायेति मूर्द्धानं स्पृशेत् सकलपाणिना ।।
सर्वाङ्गुल्यग्रभागैश्च समाश्लिष्टैर्जलैः सह।
भूजौ तु हरिकृष्णाभ्यां संस्पृशेद्दक्षिणोत्तरौ ।।
आचामेदेवमेवं यो भगवन्नामभिः क्रमात्।
सद्यः पूतः स विहितेषूत्तरेष्वधिकारवान् ।। इति।
नामानि तु, केशव 1 नारायण 2 माधव 3 गोविन्द 4 विष्णु 5 मधुसूदन 6 त्रिविक्रम 7 वामन 8 श्रीधर 9 हृषिकेश 10 पद्मनाभ 11 दामोदर 12 सङ्कर्षण 13 वासुदेव 14 प्रद्युम्न 15 अनिरुद्ध 16 पुरुषोत्तम 17 अधोक्षज 18 नृसिंह 19 अच्युत 20 जनार्दन 21 उपेन्द्र 22 हरि 23 कृष्णा 24 इति। एतेषां चतुर्विशतिनाम्नामाद्यैस्त्रिभिः क्रमेण त्रीणि पानानि चतुर्थेन पञ्चमेन च करौ मार्जयेत् इति क्रमेण कुर्यात्।
तत्रैवाश्वलायनः,
ततः प्राङ्मुख आचम्य प्रागुदङ्मुख एव वा।
प्रक्षालयेत्करौ मृद्भिरदुष्टैरद्भिराचमेत् ।।
फेनबुद्बुदपङ्काक्तरागगन्धादिवर्जितैः।
जलैः शुद्धैः पिबेद्वेदैश्चतुर्धाऽम्बु शनैर्द्विजः ।।
हृद्गामिभिर्जलैर्विप्रः क्षत्रियः कण्ठगामिभिः।
तौ पिबेत्तालुगाभिश्च विट्शूद्रौ चाङ्गना पुनः ।।
प्रमृजेत् द्विरथर्वेण पुराणैश्चेतिहासकैः।
मुखमङ्गुष्ठमूलेन पृथक्काय उपस्पृशेत् ।।
पाणिनाऽधोऽग्रिमन्त्रेण अवमृज्याथ संस्पृशेत्।
विप्रस्तु नेतराणां तु तन्मुखालम्भनं स्मृतम् ।।
सूर्याय दक्षिणे नेत्रे वामे सोमाय वायवे।
नसोर्दिग्भ्यः श्रवणयोर्बाह्वोरिन्द्राय संस्पृशेत् ।।
पृथिव्यौ पादयोर्जान्वोरन्तरिक्षाय गुह्यके।
दिवे नाभ्यां ब्रह्मणे च विष्णवे हृदये तथा ।।
शिवायेति शिरस्यन्ते हस्तं प्रक्षालयेत्ततः।
अङ्गुष्ठतर्जन्यग्राभ्यां नेत्रयोराचमन् स्पृशेत् ।।
अङ्गुष्ठमध्यमाभ्यां च नासाश्रवणयोस्ततः।
अङ्गुष्ठानामिकाभ्यां सकनिष्ठाभ्यां च बाहुके ।।
साङ्गुष्ठेरशिलैरेव स्थानेष्वन्येषु संस्पृशेत्।
प्रक्षिपेद ब्रह्मतीर्थेन जलमाचमनं चरन् ।।
पीत्वाऽन्येन भवेत्पाप्मा तीर्थेनेति मतिर्मम।
आचमनविध्यनन्तरं देवलः,
रेतोमूत्रकृन्मोक्षे भोजनेऽध्वपरिश्रमे।
शौचमेवंविधं प्रोक्तमीषच्चान्यत्र वर्त्तते ।।
भोजने कृते करिष्यमाणे च। अत्र अध्वपरिश्रमे वर्षासु ग्रामसङ्करादिदूषिताध्वसञ्चरणे इति वदन्ति।
तत्र च यमोक्तशौचानन्तरमाचान्तव्यम्।
यथा यमः,
सकर्द्दमे तु वर्षासु प्रविश्य ग्रामसङ्करम्।
जङ्घाभ्यां मृत्तिकास्तिस्रः पद्भ्यां तु द्विगुणाः स्मृताः ।। इति।
एवंविधं प्रायुक्तम्। ईषच्च ईषदपि। अन्यत्र रेतस्त्यागादिभ्योऽन्यत्र। एवञ्च रेतस्त्यागादौ कृत्स्न एवाचमनविधिः, अन्यत्र किञ्चिन्निमित्तवशात्किञ्चिदङ्गत्यागेऽप्याचमनं सिध्यति। निषिद्धं तु वर्जनीयमेव। कल्पतरुस्तु यैराचमनाङ्गैर्विना आचान्तोऽथ शुचिर्भवेदित्युक्तं तदितराङ्गत्यागेनापि रेतोमूत्रेत्याद्युक्तनिमित्तादन्यत्राचमने किञ्चिदङ्गत्यागेनापि कृतं सम्पद्यते इत्युक्तमीषच्चान्यत्र वर्त्ततइत्याह।
----- *** -----
== अथ आचमनम्।==
तच्च पाणिपादप्रक्षालनानन्तरमेव कार्यम्।
अनेनैव विधानेन आचान्तः शुचितामियात्।
प्रक्षाल्य पादौ पाणी च त्रिः पिबेदम्बु वीक्षितम् ।।
इत्यादिना तता दक्षेणाभिदानात्। अनेन वक्ष्यमाणेन। अत्र हि वक्ष्यमाणविधानमध्ये पाणिपादप्रक्षालनस्य उक्तत्वात् पाणिपादप्रक्षालनमाचमनार्थकमिति प्रतीयते।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत्।
इति व्यासवाक्यादण्ययमर्थः सिध्यति। परन्तु शुद्धिद्वारा एतस्याचमनोपकारकत्वात् सत्यां शुद्धौ नैतस्य प्रत्याचमनमावृत्तिः। अत्र आचान्तान् कृतपच्छौचानिति श्राद्धप्रकरणस्थमाश्वलायनसूत्रम्। प्रक्षाल्य पादौ पाणी चेति आचमनाङ्गत्वेन विहितं यत् पच्छौचं तच्छुद्धपादस्य नित्यमिति ज्ञापनार्थम्। कृतपच्छौचवचनं शुद्धपात्त्वेऽप्यत्र नियमेन पच्छौचं कार्यमित्यर्थ इति व्याकुर्वतो वृत्तिकृतो नारायणस्यापि संमतिः। अत्र शौचान्तर्गताचमनोपकारस्य शौचान्तर्गतपादादिप्रक्षालनेनैवल सिद्धत्वान्न तदर्खं पृथक्पादादिप्रक्षालनानुष्टानम्। पित्र्यकर्मार्थकाचमनाङ्गपादप्रक्षालने देवलेन दक्षिणाभिमुखत्वादिनियमनात्तदर्थकाचमने पृथक्पादप्रक्षालनमनुष्ठेयमेव शौचार्थपादप्रक्षालनस्य उदङ्मुखादिनैव कृतत्वात्। तत्र दैवपित्र्याङ्गाचमनार्थपादप्रक्षालने दिङ्नियममाहाचमनप्रकरणे
देवलः,
प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः।
उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ।।
शनैः त्वरारहितः। एवं च प्रत्यक् पादावनेजनमित्यापस्तम्बवाक्यं विशेषविधानाभावे द्रष्टव्यम्। आचमनसामान्यार्थकपादप्रक्षानेतिकर्त्तव्यतामाह
स एव,
शिखां बध्वा वसित्वा द्वे निर्णिक्ते वाससी शुभे।
तूष्णींभूत्वा समाधाय नोद्गच्छन्न विलोकयन् ।।
न गच्छन्न शयानश्च न ह्वलन्न परान् स्पृशन्।
न हसन्नैव सञ्जल्पन्नात्मानं चैव वीक्षयन् ।।
केशान्नीवीमधः कायमस्पृशन् धरणीमपि।
यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् ।।
इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक्।
हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः ।।
शिखां बध्वेति सशिखपुरुषाभिप्रायम्। तेन यस्य सशिखं वपनं विहितं तस्य शिकाबन्धनाभावेऽपि न क्षतिः। एवं यस्य एकवस्त्रत्वमवस्त्रत्वं वा विहितं तस्य द्विवस्त्रत्वाभावेऽपि न क्षतिः। निर्णिक्ते शुद्धे शुभे अनिषिद्धे तूष्णीम्भूत्वा मौनीभूत्वा समाधाय स्थिरीकृत्य, मन इति शेषः। उद्घच्छन्नुत्तिष्ठन् क्वचिन्न क्रुध्यन्निति पाठः। विलोकयन्, दिश इति शेषः। दिशश्चानवलोकयन्निति शङ्खोक्तेरिति कल्पतरुः। ह्वलन् कम्पमानः। आत्मानं आत्महृदयं वीक्षयन्निति चुरादिबहुलनिदर्शनात्स्वार्थे णिच्। अधः कायं नाभेरधः प्रदेशम्। अस्पृशन्, करेणेति शेषः। भूयः प्रक्षालयेत्करमित्यग्रे दर्शनात्। अविहितस्पर्शनिषेधोऽयम्। आजान्विति अध्वभ्रमणादिना तत्पर्यन्तमशौचे। आजङ्घाभ्यां पादाविति हारीतोक्तेरिति श्रीदत्तादयः। मणिबन्धः ब्राह्मतीर्थमूलमित्यपरार्कः। करबाहुसन्धिरिति कल्पतरुः। आसित संयत इत्यत्र संयमनमात्रं विधियते आसीनत्वस्य प्राक्सिद्धत्वात्। अत्रोपक्रमोपसंहारयोः पादप्रक्षालनश्रवणेन पादप्रक्षालनप्रकरणान्नोद्गच्छन्नित्यादिना विहिता धर्मा वाक्यप्रकरणाभ्यां पादप्रक्षालनाङ्गानि न वाऽऽचमनाङ्गानि एतदग्रे एव अथाम्बुप्रथमात्तीर्थादित्यादिना सेतिकर्त्तव्यताकाचमनादित्यवगम्यते। हेमाद्रिश्रीदत्तादिबहुषु निबन्धेषु तु न गच्छन्नित्यादिदेवलवाक्यमाचमनेतिकर्त्तव्यताप्रतिपादकप्रकरणे लिखितं तदाशयः सुधीभिश्चिन्तनीयः। यत्तु
हेमाद्रिधृते, अथ प्रथमः कल्पः प्राङ्मुख उदङ्खो वोपविश्यान्तरूर्वोर्हस्तौ कृत्वा शुद्धा अपः संगृह्याऽऽमणिबन्धनात् पाणी प्रक्षाल्याभिमुखं ब्रह्मद्वारं मनुष्याणां प्राचीनंदेवानां पितॄणां दक्षिणं स्मृतम् इति पैठीनसिवाक्ये मनुष्यदेवपितृसम्बन्धित्वेन दिग्विशेषभिधानं, तत् प्रथमं प्राङ्मुखः स्थित्वेत्यादिदेवलवचनैकवाक्यतया पाणिपादप्रक्षालनविषयकं न तु तस्य हेमाद्र्युक्ताचमनीयदिग्विषयकत्वम्। प्राङ्मुख उदङ्मुखो वेत्यनेन पैठीनसिनैव तत्र पृथग् दिग्विशेषाभिधानात्। अनेकश्रुतिकल्पनापत्तेश्च। वचनार्थस्तु प्रथमः कल्प इत्यनुकल्पापेक्षया। अपः संगृह्याचामेदिति प्रकरणाल्लभ्यते। आचमनपूर्वाङ्गमाह पाणी प्रक्षाल्येत्यादि। पाणी इति पादयोरप्युपलक्षणम्। ब्रह्मद्वारं ध्रुवमण्डलम्।
मण्डलस्यास्य पुच्छे तु शिशुमाराकृतिर्ध्रुवः।
मध्ये नारायणश्चेति ब्रह्मद्वारमिदं जगुः ।।
इति गारुडात्। ध्रुवमण्डलं चात्राधिष्ठानलक्षणया उत्तरा दिगिति। पादप्रक्षालनान्तरं पादाभ्युक्षणमुक्तं---
विष्णुपुराणे,
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः।
त्रिः पिबेत्सलिलं चैव तथा द्विः परिमार्जयेत् ।।
मार्कण्डेयपुराणेऽपि,
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः।
अन्तर्जानुः सदाऽऽचामेत्त्रिश्चितुर्वा पिबेदपः ।।
अत्र अभ्युक्षयेदित्यस्य पादावित्यनेनान्वयः। विष्णुपुराणैकवाक्यत्वात्। चतुर्वेति अपां वक्ष्यमाणवचनप्राप्तहृद्गामित्वाद्यभावे भावशुद्ध्यपेक्षयेति ``त्रिश्चतुर्वेति गौतमवाक्यव्याख्यानावसरे कल्पतरुः। कामनाविशेषेण पाणिपादप्रक्षालनानन्तरं कर्मविशेषमाह
कल्पतरौ हारीतः,
आमणिबन्धनात्पाणी प्रक्षाल्य आजङ्गाभ्यां पादौ, ज्ञातिश्रैष्ठ्यकामोऽन्नाद्यकामो वा दक्षिणे चरणाङ्गुष्ठे पाणिमवस्राव्य प्राणानालभ्य नाभिमुपस्पृशेदिति।
हेमाद्रौ तु आचमनानन्तरं इन्द्रियस्पर्शात्पूर्वमिदमुक्तम्। आचमनोदकान्याह----
मनुः,
अनुष्णाभिरफेनाभिराद्भिस्तीर्थेन धर्मवित्।
शैचेप्सुः सर्वदाऽऽचामेदासीनः प्रागुदङ्मुखः ।।
अनुष्णाभिरित्यत्राग्निसंयोगजमौष्ण्यं प्रतिषिध्यते।
तथा च विष्णुः, अनग्न्युष्णाभिरफेनाभिरशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानुः प्राङ्मुख उदङ्मुखो वा तन्मनाः सुमनाश्चाचामेदिति।
अत्र एककरपदमाचमनकर्तृभिन्नैककरपरम्। आचमनकर्त्तुर्वामपाण्यावर्जितेन जलेनाचमनस्य बौधायनादिना विधानादित्यग्रे बक्ष्यते।
शङ्खोऽपि,
अद्भिः समुद्धृताभिस्च हीनाभिः फेनबुद्बुदैः।
वह्निना चाप्यतप्ताभिरक्षाभिरुपस्पृशेत् ।।
इदं च रोगिव्यतिरिक्तपरम्।
तथाचापस्तम्बः, न तप्ताभिश्चाकारणात्।
अकारणात् व्याध्यादिव्यतिरेकेण तप्ताभिर्नाचामेदित्यर्थः।
यमोपि,
रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिणाम्।
उदकेनातुराणां च तथोष्णेनोष्णपायिनाम् ।।
उष्णपायिनामातुराणामित्यन्वयः। उष्णपायिनो दीक्षिता इत्यपरार्कः। तीर्थेनेति। ब्रह्मेण विप्रस्तीर्थेनेत्यनेन पूर्वोक्तस्य तीर्थस्य पुनर्वचनं तीर्थव्यतिरेकेणाचमने शौचाभावं प्रदर्शयितुमिति कुल्लूकभट्टः।
आपस्तम्बः, भूमिगतास्वप्स्वाचम्य प्रयतो भवति यं वा प्रयत आचामयेदिति।
प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कर्त्तव्यमिति उज्जवलायां हरदत्तः। उद्धृतपरिपूताभिरिति शङ्खलिखितस्मरणात्। ब्राह्मेण विप्रस्तीर्थेनेति मन्वादिवाक्येन तीर्थविधानाच्चात्राप्युद्धरणमावश्यकम्। यदा तु पात्रस्थेनोदकेनाचामति तदा वक्ष्यमाणं प्रयतपरावर्जितत्वादिकमपेक्षितम्। यं वा प्रयत इति। प्रयतः परो यं वक्ष्यमाणपात्राद्यावर्जितजलेनाचामयति सोऽपि प्रयतो भवति। अत्र विशेषमाहुः आचामेदित्यनुवृत्तौ---
शङ्खलिखितौ गौतमश्च, न शूद्राशुच्येकपाण्यावर्जिताभिरिति।
शूद्रेण, अशुचिना अस्पृश्यस्पर्शादिदूषितेन द्विजेनापि, एकेन च पाणिना यदावर्जितं प्रक्षिप्तं तेनोदकेन नाचामेदित्यर्थः। आचामेदित्यनुवृत्तौ----
कूर्मपुराणेपि,
शूद्राशुचिकरोन्मुक्तैर्न क्षाराद्भिस्तथैवच। इति।
तथा,
नैकहस्तार्पितजलैरिति।
संवर्त्तोपि,
शूद्राशुच्येकहस्तैश्च दत्ताद्भिर्न कदाचन।
आचामेदिति शेषः। अत्र कल्पतरुः, न शूद्राशुच्येकपाण्यार्जिताभिरिति सामान्येनैकपाण्यावर्जितेनाचमननिषेधात् यं वा प्रयत आचामयेदित्यापस्तम्बवचनेनावर्जने प्रयतपरनियमनाच्च स्वयमावर्जितेनाचमनं न शुचित्वे हेतुरित्युक्तं भवतीत्याह। अथैवं ``मूत्रपुरीषे कुर्वन्दक्षिणहस्ते गृह्णाति सव्ये आचमनम् इति कमण्डल्वधिकारस्थबौधायनवचनविरोधः। तस्य हि आचमनं कुर्वन् सव्यहस्ते कमण्डलुं गृह्णातीत्यर्थः। तत्कमण्डलुग्रहणं च आचमनोपयोगिजलावर्जनरूपदृष्टप्रयोजनार्थम्। अन्यथाऽदृष्टार्थत्वापत्तेरितिचेन्न। आपस्तम्बवचनस्वरसात् शुद्ध्यर्थाचमनोदके एव प्रयतपरावर्जितत्वनियम एकपाण्यावर्जितत्वनिषेधश्च, तदतिरिक्ताचमनोदके तु स्वीयैकपाण्यावर्जितत्वं बौधायनानुमतमिति तदभिप्रायात्। गौडमैथिलादिनिबन्धेषु च शङ्खलिखितादिवाक्ये अथुचिपदम् आचमनकर्त्तृव्यतिरिक्तपरं, शूद्रसाहचर्यात्। बौधायनेन सामान्यतः स्वीयवामणाप्यावर्जितोदकेनाचमनाभ्यनुज्ञानाच्च। अत एवात्रत्यैकपाणिपदम् एकपाण्यावर्जितेन नाचामेदित्यापस्तम्बसूत्रस्थैकपाणिपदं चाचमनकर्तृव्यतिरिक्तैकपाणिपरम्। तेनाशुचेरपि स्वस्य वामपाण्यावर्जनमप्यविरुद्धम्। तथाचोद्धृतोदकाचमनपक्षे स्वयमशुचिना शुचिना वा वामपाण्यावर्जनं प्रयतपरोभयपाण्यावर्जनम् आचमनकर्तृव्यतिरिक्तशूद्रानावर्जनं चानुमतमिति शङ्खलिखितगौतमापस्तम्बबौधायनवाक्यपर्यालोचनयाऽवगम्यत इति।
स्मृत्यर्थसारे तु,
वामेन पात्रमुद्धृत्य न पिबेद्दक्षिणेन तु।
इत्युक्त्वा---
वामेनोद्धृत्या चाचामेदन्यदातुरसम्भवे।
इत्युक्तम्। आचामेदित्यनुवृत्तौ---
शङ्खलिखितौ, उद्धृतपरिपूताभिरद्भिवेक्षिताभिरक्षाराभिरनधिश्रिताभिरफेनाभिरबुद्बुदाभिरिति।
परिपूताभिः निरस्तापद्रव्याभिः। वीक्षिताभिरिति दिवैव।
रात्रावनिक्षिताभिरपि।
रात्रावनीक्षितेनापि शुद्धिरुक्ता मनीषिभिः।
इति भट्टभाष्यादिधृतयमवचनात्। अक्षाराभिरिति। यत्र सुमुद्रादौ स्नानं विहितं तत्र स्नानाङ्गाचमनं क्षाराभिरपि कर्त्तव्यम्। साङ्गस्नानस्य विहितत्वात्। अनधिश्रिताभिरवह्नितप्ताभिः।
प्रचेताः,
अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रचक्षुषा।
हृद्रताभिरशब्दाभिस्त्रिश्चतुर्वा द्विराचमेत् ।।
वस्त्रपूतत्वं कीटादिसम्भावनायाम्। अशब्दाभिरोष्ठाद्यभिघातजन्यशब्दशून्याभिः। यत्र तु देशे क्षारादिदोषयुक्ता एवापस्तत्राह--
देवलः,
येषु देशेषु ये देवा येषु देशेषु ये द्विजाः।
येषु देशेषु यत्तोयं याश्च यत्रैव मृत्तिकाः ।।
येषु स्थलेषु यच्छौचं धर्माचारश्च यादृशः।
तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः ।।
यमः,
तावन्नोपस्पृशोद्विद्वान्यावद्वामेन न स्पृशेत्।
वामे हि द्वादशादित्या वरुणश्च जलेश्वरः ।।
अत्र न स्पृशेज्जलमिति शेष इति अपरार्कः एतच्चेदकं यावद्वामेन न स्पृशति तावन्नाचामेदित्याह यम इत्युक्त्वेमं श्लोकमवतारितवतोर्हेमाद्रिस्मृतिचन्द्रिकाकारयोरप्ययमर्थः सम्मतः। पठन्ति च,
दक्षिणे संस्थितं तोयं तर्ज्जन्या सव्यपाणिना।
तत्तोयं स्पृशते यस्तु सोमपानफलं लभेत् ।।
मदनरत्नादौ तु वामकरस्पृष्टेन दक्षिणकरेणाचामेदित्याह यम इत्युक्त्वा तावन्नोपस्पृशेदिति वचनमवतारितम्। एषामयमभिप्रायः।
अपः करनखस्पृष्टा य आचामति वै द्विजः।
सुरां पिबति सुव्यक्तं यमस्य वचनं यथा ।।
इति यमवचने करपदं वामकरपरम्। दक्षिणकरस्पर्शस्यावर्जनीयत्वात्। अत एव बहुषु निबन्धेषु आचमनीयजलेषु वामकरास्पृष्टत्वं विशेषणमुक्तम्। पठ्यमानवचनं तु सन्दिग्धमूलमिति यमवचने स्पृशेदित्यस्य दक्षिणं पाणिमिति शेषपूरणमुचितम्। आचारश्चैवमेव शिष्टानाम्।
अथ आचमने निषिद्धानि जलानि।
तत्र हारीतः, नाविलोकिताभिरद्भिर्नोष्णाभिः कलुषाभिः। आचामेदिति शेषः।
तथा,
विवर्णं गन्धवत्तोयं फोनिलं च विवर्जयेत्।
आपस्तम्बः, न वर्षधारास्वाचामेत्तथा प्रदरोदके इति।
अभौममम्बो विसृजन्ति मेघाः पूतं पवित्रं परमं सुगन्धि।
इति हरिवंशवाक्याद्वर्षधाराजलस्य पवित्रत्वेऽप्याचमने वचनान्निषेधः। प्रदरः स्वयंविदीर्णभूभागः।
प्रदरापवादमाह वसिष्ठः, आचामेदित्यनुवृत्तौ प्रदारादपि या गोस्तपर्णसमर्थाः स्युः न वर्णरसदुष्टाभिर्याश्च स्युरशुभागमाः।
अशुभागमाः निन्दितदेशकालागताः। कालस्य निन्दितत्वं च रात्र्यादिरूपत्वेन।
तथाह पराशरः,
अपो रात्रौ न गृह्णीयात्प्रविष्टा वरुणालयम्।
आवश्यकेऽथ मन्त्रेण धाम्नो इति स्वयम् ।। इति।
आवश्यके आवश्यककार्ये सति।
पुनरापस्तम्बः, नाग्न्युदकशेषेण वृथा कर्माणि कुर्वीताचामेद्वा पाणिसंक्षुब्धोदकेनैकपायण्यावर्ज्जितेन नाचामेत्।
अग्न्युदकशेषेण अग्निपर्युक्षणाद्यर्थोपात्तोदकशेषेण वृथा यतोऽतः कर्माणि न कुर्वीतेत्यर्थः इति कल्पतरु। यद्वा अग्निपरिसमूहने परिषेचने च यदुपयुक्तमुदकं तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत नाचामेच्च। अवृथाकर्मत्वादाचमनस्य पृथग् निषेधः। पाणिक्षुब्धेन पाणिनाऽलोडितेन।
बौधायनः, पादप्रक्षालनोच्छेषेण नाचामेत् यद्याचामेद् भूमौ स्रावयित्वाऽऽचामेत्।
उच्छेषेण शेषेण।
व्यासः,
अपः पाणिनखाग्रेण आचामेद्यस्तु वै द्विजः।
सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत् ।।
प्रयोगपारिजाते पराशरः,
शूद्राहृतैस्तु नाचामेदेकपाण्याहृतैस्तथा।
नचैवाव्रतहस्तेन नापरिज्ञातहस्ततः ।।
पूर्वर्द्धे जलैरिति शेषः। उत्तरार्द्धे आहृकतैरिति शेषः। एकपाण्याहृतैरित्यत्रैकपाणिः सव्यपाणिः। वामपाणिनैव जलपात्रधारणनिषेधात्।
यथा प्रायश्चित्तविवेकादौ---
पुलस्त्यः,
शङ्खशुक्तितरङ्गाश्च यच्चान्यत्पानभाजनम्।
दक्षिणेनैव गृह्णीयान्न वामेन कदाचन ।।
तरङ्गः काचपात्रम्। न वामेन केवलेनेत्यर्थः। आचारोद्द्योतादौ---
आपस्तम्बः,
सन्ध्यर्थे भोजनार्थे वा पित्र्यार्थे वा तथैव च।
शूद्राहृतेन नाचामेज्जपाग्निहवनेषु च ।।
उद्धृतोदकेनाचमनपक्षे पात्राण्याह स्मृतिचन्द्रिकादौ---
स्मृत्यन्तरम्,
अलाबूताम्रपात्रस्थं करकस्थं च यत्पयः।
गृहीत्वा स्वयमाचामेन्नरो नाप्रयतो भवेत् ।।
तत्रैव स्मृत्यन्तरं,
करकालाबुपात्रेण ताम्रचर्मपुटेन च।
स्वहस्ताचमनं कार्यं स्नेहलेपांश्च वर्जयेत् ।।
तत्रैव स्मृत्यन्तरं,
करकालाबुपात्रेण ताम्रचर्मपुटेन च।
स्वहस्ताचमनं कार्यं स्नेहलेपांश्च वर्जयेत् ।।
करकपात्रे यत्तोयं यत्तोयं ताम्रभाजेने।
सौवर्णे राजते चैव नैवाशुद्धं तु कर्हिचित् ।।
आह्निकतत्त्वादौ उशना।
कांस्यायसेन पात्रेण त्रपुसीसकपित्तलैः।
आचान्तः शतकृत्वोऽपि न कदाचिच्छुचिर्भवेत् ।।
स्मृत्यर्थसारे,
सौवर्णरौप्यपात्रैश्च वेणुबिल्वाश्मचर्मभिः।
अलाबुदारुपात्रैश्च नालिकेरैः कपित्थकैः ।।
तृणकाष्ठैर्जलाधारैरन्यान्तरितमृन्मयैः।
वामेनोद्धृत्य चाचामेदन्यदातुरसम्भवे ।।
चर्मपुटकेऽपवादं संवर्त्तनाम्ना पठन्ति,
सन्ध्याकार्ये पितृश्राद्धे वैश्वदेवे शिवार्चने।
यती च ब्रह्मचारी च नाचामेच्चर्मवारिणा ।।
शङ्खः,
पीतावशेषितं पीत्वा पानीयं ब्राह्मणः क्वचित्।
त्रिरात्रं च व्रतं कुर्यात् वामहस्तेन वा पुनः ।।
वामहस्तेन जलं जलपात्रं वोद्धृत्येत्यर्थः।
तथाच शातातपः,
उद्धृत्य वामहस्तेन यत्तोयं पिबति द्विजः।
सुरापानेन तत्तुल्यं मनुराह प्रजापतिः ।।
अत्र पानस्य निषेधात्तद्विशेषस्यापि निषेधः। एवञ्च वामहस्तेनाचमनोदकावर्जनुपक्षे वामहस्तेन जलपात्रं नोद्धर्त्तव्यम्।
तथाच प्रयोगपारिजाते सङ्ग्रहः,
करकालाबुपात्रेण ताम्रचर्मपुटेन च।
गृहीत्वा स्वयमाचामेद्भूमिलग्नेन नान्यथा ।। इति।
चर्मपात्रौदकेनाचमनं तु आपत्काले चर्मपुटोदकं भूमिगतं कृत्वा तत उद्धृत्य कर्त्तव्यम्। अनापदि तत्पाननिषेधात्।
यथा प्रायश्चित्तविवेके लघुहारीतः,
प्रापाजलं नीरघटस्य चैव द्रोणीजलं कोशविनिर्गतं च।
वीत्वाऽवगाहेन जलं सवासा उपोषितः शुद्धिमवाप्यते च ।।
प्रापा पानीयशालिकेति कोषः। नीरघटस्य सर्वसाधारण्येन कूपादितो जलोद्धरणार्थं स्थापितपात्रस्य, जलमित्यनुषङ्गः। द्रोणी काष्ठाम्बुवाहिनी। कोशः चर्मपुटकः। आपदि तु---
यमः,
प्रपामरण्ये घटके च कूपे द्रोण्यां जलं कोशगतास्तथाऽऽपः।
ऋतेऽपि शूद्रात्तदपेयमाहुरापद्गतो भूमिगताः पिबेच्च ।।
अरण्ये प्रणाम् अरण्यप्रपाजलम्। कूपेघटेके कूपसमीपवर्त्तिघटे कूपजलाहरणार्थं स्थापिते इति यावत्। जलमित्यग्रेतनमत्राप्यन्वेति। ऋतेऽपि शूद्रात् तदुदके शूद्रसम्बन्धं विनाऽपीत्यर्थः। एवं परकीयपात्रेणापि आचमनं न कार्यम्। तस्य स्वं प्रत्यशुचित्वात्। तदाह,
आसनं वसनं शय्या जाया ऽपत्यं कमण्डलुः।
शुचीन्यात्मन एतानि परेषामशुचीनि तु ।।
आचमनजलपरिमाणमाह याज्ञवलल्क्यः,
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः।
हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ।।
शुद्ध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः।
प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरमप्राप्ताभिः। द्विजातयो ब्राह्मणक्षत्रियवैश्याः। शुद्रश्चेति चकारादनुपनीतोऽपीति मिताक्षरा। सकृत् एकवारम्। अन्ततः आस्यान्तरावयवे। अनेन चाभक्षणं विवक्षितम्।
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्।
शारीरं शौचमिच्छन् हि स्त्रीशुद्रं तु सकृत्सकृत् ।।
इति स्मृतिमहार्णवलिखितमनुवचनादिति कल्पतरुः। वस्तुतस्तु हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः।
वैश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः ।।
इति मनुवाक्ये लिखितवचनादिति। याज्ञवल्क्यवाक्ये च स्पृष्टाभिरित्यनेन पानव्यावृत्तिः प्रतीयते। अत एव शुद्ध इत्यनुवृत्तौ---
ब्रह्मपुराणम्,
स्त्री शूद्रो वाऽथ नित्याम्भःक्षालनाच्च करोष्ठयोः।
इति हलायुधनिबन्धघृतशङ्खलिखितवाक्यादपययमर्थः प्रतीयते। यथा हृदयगाभिरद्भिर्ब्राह्मणः शुचिः,क कण्ठगाभिः क्षत्रियः, तालुगाभिर्वैश्यः, स्त्री शूद्रश्चौष्ठप्रान्तगाभिरिति। श्रीदत्तादयोऽपि उत्तरोत्तरमपकर्षादन्ततो मुखान्ते ओष्ठप्रदेशे इति यावदितिव्याख्यातवन्तः। एवञ्च महार्णवधृतमनुवाक्ये आचामेदित्यस्य विहिततत्तत्स्थाने संयोजयेदित्यर्थः। हृद्गाभिरित्यादिमनुवचने प्राशिताभिरित्यस्य तालुपर्यन्तमन्तरास्यं प्रवेशिताभिरित्यर्थः। शुद्र इति स्त्रिया अप्युपलक्षणम्। अत्र द्रव्यत्वादुदकस्यापरिहार्य्योऽवध्यतिक्रमः। अवध्यप्राप्तौ त्वशुद्धिरिति मेधातिथिः। मिताक्षराकारस्तु अन्ततः प्रागुक्तानामन्तेन तालुना स्पृष्टाभिः सकृदित्यनेन वैश्याद्विशेष इति व्याख्यातवान्। स्मृतिचन्द्रिकायामेतदर्थोपष्टम्भककत्वेन स्मृतिवाक्यमपि लिखितम्।
यथा--
अप्सु प्राप्तासु हृदयं ब्राह्मणः शुद्धिमाप्नुयात्।
राजन्यः कण्ठतालु च वैश्यशूद्रस्त्रियोऽपि च ।। इति ।
अत्र राजन्यः कण्ठं प्राप्तासु वैश्यादयस्तालुप्राप्तास्विति अन्वयः। हेमाद्रौ तु अन्तत इति तृतीयार्थे तसिः। समीपवचनश्चान्तशब्दः। स च सम्बन्ध्यन्तरमपेक्षते। ततश्च यत्र स्थाने वैश्यस्याचमनं विहितं तत्समीपवर्त्तिना स्थानेन स्पृष्टाभिरद्भिः शुद्रः पूयते वैश्यस्य च स्थानं तालु तत्समीपवर्त्तिस्थानं दन्ता एवेति व्याख्यातम्। अन्ततो जिह्वाग्रेणेति मेधातिथिः। हृदयङ्गमानां परिमाणमाह---
उशना, माषमज्जनमात्रा हृदयङ्गमा भवन्ति तदेकैकपादहान्या कण्ठतालुदन्तगाः ताभिस्त्रैवर्णिकाः स्त्रीशूद्रौ चाचामेरन्निति।
उदकस्य ग्रहणप्रकारं परिमाणं चाह माधवीयादौ---
भरद्वाजः,
आयतं पर्वतः कृत्वा गोकर्णाकृतिवत्करम्।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।।
मुक्ताङ्गुष्ठनिष्ठेन शेषेणाचमनं चरेत्।
माषमज्जनमात्रास्तु सङ्गृह्य त्रिः पिबेदपः ।। इति।
मुक्ते अङ्गुष्ठकनिष्ठे यस्मै तेन शेषेण जलशेषेणेत्यर्थः। तथाचाङ्गुष्ठकनिष्टे मुक्त्वा किञ्चिदुदकं त्यक्त्वा अवशिष्टेनोदकेनाचमनं कर्त्तव्यमिति प्रतीयते। क्वचित्तु मुक्ताङ्गुष्ठकनिष्ठे त्विति पाठः, तत्राप्ययमेवार्थः। अत्र पाणिर्दक्षिणो ज्ञेयः।
दक्षिणं तु करं कृत्वा गोकर्णाकृतिवत्पुनः।
त्रिः पिबेदीक्षितं तोयमास्यं द्विः परिमार्जयेत् ।।
इति नृसिंहपुराणवचनात्। पुनर्ग्रहणात् पूर्वं गोकर्णाकृतीना हस्तेनोदकं गृहीत्वा ततोऽङ्गुष्ठकनिष्ठे बहिः कृत्वा पुनरपि गोकर्णाकृतिहस्तं कुर्यादिति गम्यते इति एतत्समानार्थकभविष्यपुराणवाक्यव्याख्यायां हेमाद्रिः।
आचमनतीर्थम्।
----------
तत्र मनुः,
ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ।।
ब्राह्मादितीर्थं वक्ष्यते। अत्र विप्रग्रहणं क्षत्रियवैश्ययोरप्युपलक्षणार्थम्।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्।
इति याज्ञवल्क्यैकवाक्यत्वात् इति हेमाद्रिः। तच्चिन्त्यम्। याज्ञवल्क्यवाक्यस्थीद्विजपदस्य सामान्यशब्दस्य मनुवाक्यैकवाक्यतयाविप्रपरत्वौचित्यात्। न तु मनुवाक्यस्थाविप्रपदस्य द्विजपरत्वं, लक्षणापत्तेः। मेधातिथिस्तु विप्रग्रहणमविवक्षितं, यतः कण्ठगाभिस्तु भूमिम इत्यादिना क्षत्रियादीनां विशेषं वक्ष्यति। नच असत्यांसामान्यतः प्राप्तौ विशेषविधानमुपपद्यते इत्यादि। एतदपि विचारणीयमअ। नहीदम् आचमनविधायकं वाक्यम्। आचमनविधायकस्य हृद्गाभिः पूयते विप्र इत्येतस्मात्पूर्वतनस्य---
अनुष्पाभिरफेनाभिरद्भिस्तीर्थेन धर्मावित् ।।
शौचेप्सुः सर्वदाऽऽचामेदेकान्ते प्रागुदङ्मुखः ।।
इत्यस्य मनुवाक्यान्तरस्य सत्त्वात्। किन्तु विप्रस्य तीर्थविशेषनियामकम्। आचारादर्शादिनिबन्धेषु तु विप्र इति आचमनकर्त्तृमात्रोपलक्षणम्। आचमनोद्देशेन तीर्थविधानादित्युक्तम्। अत्रापि विप्रपदार्थाविवक्षायां युक्तिश्चिन्त्या। प्रत्युत सप्तदशवैश्यस्येत्यत्र वैश्ये निमित्ते सप्तदशत्ववत् ब्राह्मणे निमित्ते ब्राह्मादित्रयाणां विकल्पेन विधानमेव युक्तम्। अत एव अद्भिस्तीर्थेन धर्मविदित्यत्र तीर्थेनोति विप्रातिरिक्तानामपि तीर्थप्रापकत्वेन सार्थकम्। नित्यकालं सर्वदा। तेन शुद्ध्यर्थे कर्माङ्गे नैमित्तिके च सर्वत्राचमने ब्राह्मादितीर्थत्रायान्यतमस्य ऐच्छिकविकल्पेन करणत्वेनान्वयः। तुल्यवद्विकल्पश्रवणात्। मेधातिथिसवरसोऽप्येवम्। बहुषु निबन्धेषु तु सम्भवे ब्राह्मतीर्थेनैवाचमनं, नित्यकालमिति श्रवणात्। व्रणादिना ब्राह्मतीर्थावरोदे कायत्रैदशकं दैवम्। अविधानादेव पित्र्यस्याप्राप्तौ व्रणादिना ब्राह्मादितीर्थावरोधे प्रतिनिधित्वेन प्राप्तेषु तीर्थान्तरेषु पित्र्यस्य निषेधार्थं ``न पित्र्येणे त्युक्तम्। तेने ब्राह्मादितीर्थावरोधे आग्नेयादितीर्थेनाप्याचमनमनुज्ञातं भवति।
ब्राह्मादिलक्षणमाह स एव,
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते।
कायमङ्गलिमूलेऽग्ने दैवं पित्र्यं तयोरधः ।।
अङ्गुष्ठमूलम् अधोभागः। तस्य तलप्रदेशे ब्राह्मं तीर्थम्।
हस्ताभ्यन्तरं तलमाह, महारेखान्तमभिमुखम् आत्मनो ब्राह्मं, हस्तमध्ये अङ्गलीमूले दण्डरेखाया ऊर्द्ध्वं कायम्, अग्रे अङ्गुलीनां दैवम्।
उपसर्जनीभूतो मूले अङ्गुलिशब्दः सापेक्षत्वादग्रशब्दस्य सम्बध्यते। पित्र्यं तयोरधः। अत्रापि गुणभूतस्याङ्गुलिशब्दस्य अङ्गुष्ठस्य च सम्बन्धः। प्रदेशिनी चात्राङ्गुलिर्विवक्षिता। तयोरधः अन्तरं पित्र्यम्। स्मृत्यन्तरशिष्टप्रसिद्धिसामर्थ्यादेवं व्याख्यायते। यथाश्रुतान्वयासम्भवात्।
तथाच शङ्खः, अङ्गष्ठस्याधरतः प्रागग्रयाश्च लेखाया ब्राह्मं तीर्थं, प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यं, कनिष्ठातलयोरन्तरा कायं, पूर्वेण पर्वर्णा अग्रमङ्गुलीनां दैवमिति।
इति मेधातिथिः। स्त्रीशूद्रयोस्तीर्थमाह आह्निकतत्त्वादौ---
स्मृतिः,
स्त्रियास्त्रैदशकं तीर्थं शूद्रजातेस्तथैवच।
सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः ।।
सर्वतीर्थावरोधे तु विहितपात्रेणाचमनं कर्त्तव्यम्। स्वयमसामर्थ्ये अन्येन कारणीयम्। गुणलोपे प्रधानलोपानौचित्यात्।
नियमानाह याज्ञवल्क्यः,
अन्तर्जानु शुचौ देशउपविष्ट उदङ्मुखः।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ।।
अन्तर्जानु जानुनोर्मध्ये बाहू कृत्वा। आचमनप्रकरणे----
बाहू जान्वन्तरा कृत्वा।
इति व्यासवाक्यात्।क तदसम्भवे दक्षिणबाहुमात्रं जानुनो र्मध्ये कृत्वा। शुचौ देशे आसीनो दत्रिणबाहं जान्वन्तरा कृत्वेति आचमनप्रकरणस्थागौतमबौधायनवाक्यात्। उपविष्टः आसीनः जानूर्व्वजले तु तिष्ठन्नपि।
जान्वोरूर्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात्।
इति विष्णुवाक्यात्। प्राक् प्राङ्मुखः। इदम् ऐशान्यभिमुखस्योपलक्षणम्।
यथा कल्पतरौ ब्रह्मचारिकाण्डे हारीतः, प्राङ्मुखः प्रागुदङ्मुखो वोपविश्य अन्तरूर्वोररत्नी कृत्वा त्रिरपो हार्हं पिबेत्।
हार्द्दं हृदयगामि यथा स्यात्।
हेमाद्रौ श्लोकहारीतो रत्नाकरे मरीचिश्च,
ऐशान्यभिमुखो भूत्वोपस्पृशेत्तु यथाविधि। इति।
एतेन उदङ्मुखः प्राङ्मूखो वेति दिगन्तरनिवृत्तिरिति मिताक्षराव्याख्यानमपास्तम्। द्विजो न शूद्रादिरिति मिताक्षरा। नित्यं सर्वकालम्।
मनुः,
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित्।
शौर्चप्सुः सर्वदाऽऽचामेदेकान्ते प्रागुदङ्मुखः ।।
एकान्ते जनैरनाकीर्णो। तत्र हि मनः स्थिरं भवति। अत एव
विष्णुः, तन्मनाः सुमनाश्चाचामेत् इति।
तन्मनाः आचमनमना इति कल्पतरुः। प्रागुदङ्मुखः ऐशान्यभिमुखः। प्रागुदक्शब्दस्यैशानीपरत्वं प्राग्लिखितहारीतवाक्ये तथा दर्शनात्। क्षुतौ च प्रागुदीचीशब्दस्यैशानीपरत्वं दृश्यते।
यथा, पलाशशाखामधिकृत्य प्राचीमाहरति उदीचीमाहरति प्रागुदीचीमाहरतीति।
लाट्यायनसूत्रेऽपि, प्रागुदक्प्रवणं देवयजनमिति
प्रागुदक्शब्दस्यैशानीपरत्वम्। एतेन प्रागुदक्शब्दस्य ऐशान्यां प्रयोगादर्शनान्नैवं व्याख्येयमिति मेधातिथिप्रोक्तमनादेयम्। मेधातिथिस्तु प्रागुदङ् मुखं यस्येति त्रिपदबहुव्रीहिमाह। तथाच प्राङ्मुख उदङ्मुखो वेति फलितम्।
शङ्खः,
अन्तर्जानु शुचौ देशउपविश्येन्द्रदिङ्मुखः।
उदङ्मुखो वा प्रयतो दिशश्चानवलोकयन् ।।
गौतमः, शुचौ देशआसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्यामणिबन्धनात्पाणी प्रक्षाल्य वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत् पादौ चाभ्युक्षेत् खानि चोपस्पृशोत् शीर्षण्यानि मूर्द्धनि च दद्यात् इति।
हृदयस्पृशः हृदयान्तर्गमनयोग्याः। इदं च ब्राह्मणाभिप्रायेण। त्रिश्चतुर्वेति भावशुद्ध्यपेक्षया विकल्पः। एवञ्च चतुर्वोति फलभूमार्थमिति व्याख्यानमनादेयम्। कल्पनाप्रसङ्गात्। यत्र मन्त्रवदाचमनं विहितं तत्र तेन सह चतुरन्यत्र त्रिचरिति विकल्प इति गौतमभाष्ये हरदत्तः। खानि इन्द्रियाणि शीर्षण्यानि उपस्पृशेत्, अद्भिरिति शेषः। खानि चैव स्पृशेदद्भिरिति मनुवचनैकवाक्यत्वात्। मूर्द्धनि च चकारात् नाभौ मूर्द्धनि च दद्यात्स्पृशेदित्यर्थ इति गौतमभाष्ये हरदत्तः। वस्तुतस्तु सर्वाभिस्तु शिरः पश्चादिति दक्षवचनैकवाक्यतया दद्यादित्यस्याङ्गुलीरित्यध्याहारो युक्तः। हेमाद्रौ तु दद्यादित्यस्याप इति शेष इति व्याख्यातम्।
तन्मूलं च---
ततः कृत्वाऽङ्गुलिस्पर्शं दृग्घ्राणश्रोत्रनाभिषु।
मूर्द्धानं चरणौ चाद्भिः सम्प्रोक्ष्याथ शुचिर्भवेत् ।।
इति देवलवचनम्। पादौ चेति चकारात्पूर्वं सव्यपाणेरुत्तरं मूर्ध्नोऽभ्युक्षणं समुचितम्। दक्षिणेन पाणिना सव्यं प्रोक्ष्येत्यादिवक्ष्य माणापस्तम्बवचनस्वरसात्। इदं चौष्ठमार्जनानन्तरं बोध्यम्,
तदुक्तम् अपरार्कधृतनृसिंहपुराणे,
दक्षिणं तु करं कृत्वा गोकर्णाकृतिवत्पुनः।
त्रिः पिबेदीक्षितं तोयमास्यं द्विः परिमार्जयेत् ।।
पादौ शिरस्तथाऽभ्युक्ष्य तिसृभिर्मुखमालभेत्।
यथोक्तविधिना खानि ततः स्पृष्ठ्वा च शुद्ध्यति ।। इति।
आपस्तम्बः, आसीनः त्रिराचामेत् हृदयङ्गमाभिरद्भिः त्रिरोष्ठौ परिमृजेत् कद्विरित्येके सकृकदुपस्पृशेत् द्विरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे चाथाप उपस्पृशेद्भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेदद्भिः परिमृजेत्सकृदुपस्पृशेत् इति।
सकृदुपस्पृशेत् द्विरित्येके ओष्ठाविति सम्बन्धः। सव्यं, पाणिमिति शेषः। यत्सव्यं पाणिं पादौ प्रोक्षतीति तैत्तिरीयकश्रुतेः। पादौ शिरश्च प्रोक्ष्यति सम्बन्ध इति कल्पतरुः। अत्र पाठक्रमादोष्ठोपस्पर्शनानन्तरं सव्यपाणिपादशिरसामभ्युक्षणं यद्यपि प्रतीयते तथापि प्राग्लिखितनृसिंहपुराणोक्तश्रौतक्रमेण पाठक्रमो बाध्यते। तेनास्योपस्पर्शनात्पूर्वं मार्जनं सिध्यति। यत्त्वाचारचिन्तामणौ आस्योपस्पर्शात्पूर्वं वामणण्याद्यभ्युक्षणं छन्दोगानां गोभिलसंवादात्, अन्येषां तु आस्योपस्पर्शानन्तरं तदित्युक्तम्। तदनादेयम्। प्रोक्षणे आस्योपस्पर्शानन्तर्य्यबोधकप्रमाणाभावात्। न वा गोभिलसंवादोऽपि। तेनास्योपस्पर्शस्यैवानभिधानात्।
यथाह गोभिलः, प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेत् द्विः परिमृजीत पादावभ्युक्ष्य शिरोऽभ्युक्षेत् इन्द्रियाण्यद्भिः संस्पृशेत् अक्षिणी नासिके कर्णाविति यद्यन्मीमांस्यं स्यात्तदद्भिः संस्पृशेत् इति।
परिमृजीतेति। स्वस्य मुखमिति शेषः।
त्रिः प्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत्।
आस्यनासाक्षिकर्णाश्च नाभिवक्षः शिरोंऽसकान् ।।
इति छन्दोगपरिशिष्टवचनात्। अत्र ``एतानि वक्षयमाणानि उप समीपे स्पृशेत्, न तु रन्ध्रस्थाने।समलत्वात्। आस्यादीनां समासेनैकपदेनोपादानं तेषां सोपसर्गस्पृशतिसम्बन्धार्थम्। नाभ्यादीनां पृथव्समासेनोपादानं स्पृशतिमात्रसम्बन्धार्थम् इति परिशिष्टटीकाकृन्नाराणः। पादावभ्युक्ष्य शिरोऽभ्युक्षेदित्यत्र विसमासकरणं पादाभ्युक्षणोदकशेषेण शिरसोऽभ्युक्षणनिषेधार्थम् इति भट्टभाष्यम्। अक्षिणी नासिके कर्णाविति सूत्रं न क्रमतात्पर्यकं, तत्परिशिष्टकृता आस्यनासाक्षीत्यादिना अक्षिनासिकयोरन्यथाक्रमाभिधानात् इति। अत एवाक्षिस्पर्शानन्तरं नासास्पर्श इत्यपि पक्षान्तरमिति छन्दोगाह्निकाद्युक्तं हेयम्।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्।
अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः ।।
इति दक्षवचनीयश्रौतक्रमविरोधेन गोभिलीयपाठक्रमस्यानादेयत्वाच्च। इतिकरणं परिशिष्टोक्तानां बाह्वादीनामुपलक्षणार्थम्। मीमांस्यं दूषिकादिमलयुक्तत्वेन सम्भाव्यमानं तत्तदङ्गम्। अद्भिः सम्प्रक्षाल्यैव स्पृशेदित्यर्थः।
व्यासोऽपि प्रकारान्तरमाह,
त्रिः प्राशयेदपः पूर्वं द्विरुन्मृज्यात्ततो मुखम्।
पादावभ्युक्ष्य मूर्द्धानमभ्युक्षेत्तदनन्तरम् ।।
अक्षिणी नासिके कर्णावोष्ठौ च तदनन्तरम्।
ततः स्पृशेन्नाभिदेशं पुनरापश्च संस्पृशेत् ।।
बाहू जान्वन्तरा कृत्वा तीर्थन च शुचिर्भवेत्।
प्रकारान्तरं भविष्यपुराणेऽपि,
समौ च चरणौ कृत्वा तथा बद्धशिखो नृप।
अत्यन्तसुखितां चापि त्यक्त्वा राजन्सुदूरतः।
तथा,
घानाङ्गुलिं करं कृत्वा एकाग्रः सुमना द्विजः।
अङ्गुष्ठेन प्रदेशिन्या चालभेदक्षिणी नृप ।।
अङ्गुष्ठानामिकाभ्यां च नासिकामालभेत्ततः।
मध्यमाभिर्मुखं नित्यं संस्पृशेत्कुरुन्दन ।।
कनिष्ठाङ्गुष्ठकाभ्यां च कर्णावालभते ततः।
अङ्गुलीभिस्तथा बाहू अङ्गुष्ठेन तु मण्डलम्।
नाभेः कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव तु।
वृद्धशङ्खः प्रकारान्तरमाह,
ततोऽङ्गुलिचतुष्केण स्पृसेन्मूर्द्धानमादितः।
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं पृथक् ।।
मध्यमानामिकाभ्यां तु स्पृशेन्नासापुटे क्रमात्।
अङ्गुष्ठेन कनीयस्या कर्णौ संयोगतः स्पृशेत् ।।
तर्जन्यङ्गुष्ठयोगेन नाभिं हृदि तले न्यसेत्।
शङ्खस्तु अन्यथाह,
अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम्।
कायं कनीनिकामूले तीर्थमुक्तं द्विजस्य तु ।।
अङ्गुष्ठमूले च तथा प्राजापत्यं प्रकीर्तितम्।
अङ्गुल्यग्रे स्मृतं दिव्यं पित्र्यं तर्जनिमूलके।।
प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः।
द्विः प्रमृज्य मुखं पश्चात् शान्यद्भिः समुपस्पृशेत् ।।
तथा,
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम्।
मध्यमाङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं ततः ।।
अङ्गुष्ठस्यानामिकया योगेन श्रवणे स्पृशेत्।
कनिष्ठाङ्गुष्ठयोगेन स्पृशेत्स्कन्धद्वयं ततः ।।
सर्वासामेव योगेन नाभिं च हृदयं तथा।
संस्पृशेत्तु तथा शीर्षमयमाचमने विधिः ।।
दक्षः प्रकारान्तरमाह,
अनेनैव विधानेन आचान्तः शुचितामियात्।
प्रक्षाल्य पादौ पाणी च त्रिः पिबेदम्बु वीक्षितम् ।।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम्।
संहृत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ।।
अङ्गेष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्।
अङ्गष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः ।।
नाभिं कनिष्ठाङ्गुष्ठेन हृदयं तु तलेन वै।
सर्वाभिस्तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत्।
अनेन वक्ष्यमाणेन। पूर्वमाचमनविधानाकथनात्। मुखं संवृत्येत्यन्वयः। मुखमत्रौष्ठद्वयम्। तद् अलोमकप्रदेशे संवृत्य अर्थात्सलोमभागे द्विः प्रमृज्यादित्यर्थः। अत एव त्रिः प्राश्यापो द्विरुन्मृज्येत्यादि छन्दोगपरिशिष्टवचनं तट्टीकाकृन्नारायणेनेत्थं व्याख्यातम्। तथा, एवमपो भक्षयित्वा मुखं वारद्वयमुत् ऊर्ध्वं सलोमस्थाने मार्जयेत् न त्वलोमके। पुनराचमनापत्त्याऽनवस्थाप्रसङ्गात्।
तथाच वसिष्ठः, आचान्तः पुनराचामेत् वासश्च परिधायौष्ठौ संस्पृश्य यत्रालोमकाविति।
आपस्तम्बोऽपि, स्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत्।
दन्तमूलात्प्रभृति औष्ठौ। तत्रालोमकः। प्रदेशः श्यावः। तस्यान्तः सलोमकः। तत्पर्यन्तावोष्ठावुपस्पृश्याचामेत् इति हरदत्तः। श्यावान्तपर्यन्तौ विलोमकाविति कल्पतरुरपि।
शातातपोऽपि,
आचामेच्चर्वणे नित्यं मुक्त्वा ताम्बूलचर्वणम्।
औष्ठौ विलोमकौ स्पृष्ठ्वा वासो विपरिधाय च ।।
एतेन--
आचामेद् ब्राह्मतीर्थेन ब्रह्मसूत्री ह्युदङ्मुखः।
तदन्दरान्तरा पाणिमाप्लाव्याप्लाव्य चाम्भसा ।।
इति शिवधर्मोत्तरवाक्यमुपन्यस्य इदञ्चौष्ठसंसर्गजाशुद्धिनिवर्त्तकमाप्लवनमुक्तम् अत आचमने ओष्ठसंसर्गोऽभ्यनुज्ञात इति यत्कैश्चिद्व्याख्यातं, तद् अनादेयम्। एतद्वाक्यस्य प्रसिद्धनिबन्धेषु कुत्राप्यदर्शनेन निर्मूलत्वाच्च। समूल्त्वेऽपि एतद्वाक्यप्रतिपादिताप्लावनस्याचमनावशिष्टरूपपीतशेषोदकक्षालत्वेनाप्युपपत्तिरिति। एतच्च परिमार्जनं क्षालितपाणिना कर्त्तव्यम्।
तथाच पैठीनसिः, अङ्गुष्ठमूलेन द्विः परिमृजेत् निर्लेपपाणिः कृतशौच इति।
निर्लेपपाणिः क्षालनादपनीताचमनोदकलेपपाणिरिति हेमाद्रिः। संहृत्य एकीकृत्य। तिसृभिः तर्जनीमध्यमानामिकाभिः।
मध्यमाभिर्मुखं नित्यं संस्पृशेत्कुरुनन्दन।
इत्युदाहृतभाविष्यपुराणैकवाक्यत्वात्। पूर्वं प्रथमतः। एवमिति। मुखं संवृत्येत्यर्थः। प्रदेशिनी तर्जनी। पूर्वमास्यं पश्चाद्घ्राणमनन्तरं चक्षुषी पुनः श्रोत्रे पुनर्नाभिं संस्पृशेदित्यन्वय इति कल्पतरुः। घ्राणं नासापुटद्वयम्।
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम्।
इति शङ्खैकवाक्यत्वात्। केचित्तु पुनः पुनरिति स्वरसाच्चक्षुषी श्रोत्रे प्रत्येकं द्विः स्पृशन्ति। तत्र कल्पतरुकृतव्याख्यानुसारेण गोलकद्वयाभिप्रायेण च पुनः पुनरित्यस्योपपत्तौ अदृष्टार्थकस्पर्शावृत्तिकल्पनानौचित्यात्। गोलकद्वयस्पर्शश्च गोभिलादिसम्मतः।
यथाह गोभिलः, अक्षिणी नासिके कर्णाविति।
पैठीनसिश्च, अङ्गुष्ठानामिकाभ्यां नेत्रे कनीनिकाङ्गुष्ठाभ्यां श्रोत्रे इति।
परे तु अक्षिणी नासिके श्रोत्रे च सकूदुपस्पृशेत् द्विरित्येके इति कामधेनुलिखितापस्तम्बवाक्यात्प्रत्येकं द्विरुपस्पर्शनमप्येकेषां पक्ष इति तदेकवाक्यतापन्नं पुनः पुनरितिदक्षवाक्यमिति वदन्ति। तलेन पाणितलेन।
सजलेन हृदयं चैव स्पृशेत्पाणितलेन तु।
इति शङ्खवाक्यात्। शान्यद्भिर्मूर्द्धानं हृदयं च स्पृशेदिति विष्णुवाक्याच्च। सर्वाभिः प्रकरणादङ्गुलीभिः। अग्रेण अङ्गुल्यग्रेण। बाहुस्पर्शश्च अंसप्रदेशे। नाभिवक्षः शिरोंसकानिति छन्दोगपरिशिष्टवचनात्। अंसौ स्पृष्ट्वा कराग्रेणेति वैयाघ्रपादवचनाच्च। अत्रौष्ठमार्जनानन्तरम् आस्योपस्पर्शानन्तरं च हस्तप्रक्षालनं बहूषु निबन्धेष्वाचमनप्रयोगे लिखितम्।
पठन्ति च,
मुखं स्पृष्ट्वा तथा नाभिं पश्चात्प्रक्षालयेत्करम्। इति।
सर्वेषामेवेन्द्रियाणां सजलाभ्यां तत्तदङ्गुलिभ्यां स्पर्शः इन्द्रियाण्यद्भिः संस्पृशेत् इति गोभिलसूत्रात्। खानि चोपस्पृसेदद्भिरिति मनुस्मरणाच्च। कनिष्ठाङ्गुष्ठाभ्यां सजलाभ्यां नाभिं स्पृष्ट्वा तौ प्रक्षालयेदिति छन्दोगाह्निकम्। इन्द्रियादिस्पर्शानन्तरं शिरसः पादयोस्चाभ्युक्षणमाह----
देवलः,
अथाम्बु प्रथमात्तीर्थात् दक्षिणात् त्रिः पिबेत् समम्।
अशब्दमनवस्रावमबहिर्जान्वबुद्बुदम् ।।
प्रथमाद् ब्राह्मात्। मन्वादिभिराचमनार्हतीर्थेषु प्रथमतो ब्राह्मस्यैवाभिधानात्। दक्षिणात्, करात् इति शेषः। समं समकालम्। अव्यवधानेनेत्यर्थः। अशब्दं पानकाले यथा शब्दो न भवति। अनवस्रावं पानकाले यथा न स्रवति तथा।
द्विस्तथाऽङ्गुष्ठमूलेन परिमृज्यात्पुनर्मुखम्।
नाग्राङ्गुल्या न पृष्ठैर्वा परिमृज्यात्कथञ्चन ।।
ततः कृत्वाऽङ्गुलिस्पर्शं दृग्घ्राणश्रोत्रनाभिषु।
मूर्द्धानं चरणौ चाद्भिः सम्प्रोक्ष्याथ शुचिर्भवेत् ।।
नाग्राङ्गुल्येति। विहिताङ्गुष्ठमूलावरोधे प्रतिनिधित्वेन प्राप्तस्य पर्युदासः। तेन विहिताङ्गुष्ठमूलावरोधे प्रतिनिधित्वेनाङ्गुलिमध्यादिना मार्जनं मध्येऽनुज्ञातं भवति इति प्रतीयते। प्रकारान्तरेणेन्द्रियस्पर्शनमुक्त्वा पादप्रोक्षणानन्तरं प्रोक्षणावशिष्टानामपां सव्यपाणौ निनयनमाह---
पैठीनसिः, अङ्गुष्ठेन प्रदेशिन्या नासिके संस्पृशेत् अङ्गुष्ठानामिकाभ्यां च नेत्रे कनीनिकाङ्गुष्ठाभ्यां श्रोत्रे मध्यमिकया मुकमङ्गुष्ठेन नाभिं सर्वाभिः शिरः, प्रदेशिनी वायुः अनामिका सूर्यः कनीनिका मघवा मध्यमिका प्रजापतिः अग्निःक अङ्गुष्ठस्तस्मात्तेनैव सह सर्वाणि स्थितानि स्पृशति वायुः सूर्य इन्द्रः प्रजापतिरग्निरित्येता देवता एनं पुनीयुरिति।
तथा,
नासिकां चक्षुषी श्रोत्रे मुखं नाभिं ततः शिरः।
स्पृष्ट्वा प्राणान् यथासंख्यं पादौ प्रोक्ष्य ततः शुचिः ।।
सव्ये च पाणौ शेषा अपो निनयेत् इति।
प्राणानिन्द्रियाणि। यथासंख्यं यस्येन्द्रियस्य यावती संख्या तामनतिक्रम्येत्यर्थः।
बौधायनोऽपि, शान्यद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यपाणिमन्ततः।
अन्ततः शेषे। अत्र प्रोक्षयेदिति शेष इति हेमाद्रिः।
वसिष्ठोऽपि, खान्यद्भिः संस्पृशेन्मूर्द्धन्यपो निनयेत्सव्येपाणौ चेति।
हारीतोऽपि प्रकारान्तरमाह, प्राङ्मुखः प्रागुदङ्मुखो चोपविश्यान्तरूर्वोररन्त्नी कृत्वा त्रिरपो हार्द्दं पिबेद् द्विः प्रमृज्योष्ठौ सकृन्मूर्द्धानं चक्षुःश्रोत्रे नाभिं हृदयं पादौ चाभ्युक्ष्योपस्पृश्य प्रयतो भवति।
तैत्तिरीयश्रुतिश्च, हस्ताववनिज्य त्रिराचामेद् द्विः परिमृज्य सकृदुपस्पृस्य सव्यं पाणिं पादौ प्रोक्षति शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य यत् त्रिराचामति तेन ऋचः प्रीणाति यद् द्विः परिमृजति तेन यजूंषि यत्सकृदुपस्पृशति तेन सामानियत्सव्यं पाणिं पादौ प्रोक्षति यच्छिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते तेनाथर्वाङ्गिरसो ब्राह्मणानीतिहासान्पुराणानि कल्पान् गाता नाराशंसीः प्रीणातीति।
एतेषां च विरुद्धानां प्रकाराणां स्वशाखायामनुक्तौ विकल्पेनानुष्ठानमित्यविरोधः।
शङ्खः,
त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः।
ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम ।।
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात्।
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।।
स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ।
कर्णयुग्मे तथा स्पृष्टे प्रीयेते अनिलानलौ ।।
स्कन्धयोः स्पर्शनादेव प्रीयन्ते सर्वपर्वताः।
नाभेः संस्पर्शनान्नागाः प्रीयन्ते चास्य नित्यशः ।।
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः।
मूर्ध्नः संस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत् ।।
इन्द्रियस्पर्शानन्तरं भविष्यत्पुराणे,
यद् भूमावुदकं वीर समुत्सृजति मानवः।
वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत ।।
शूद्राधिकारे गौतमः, आचमनार्थे पाणिपादप्रक्षालनमेवेत्येके।
आचमनार्थे आचमनरूपे प्रयोजने इति कल्पतरुः। एवं च सकृत्स्पृष्टाभिरन्तत इत्यादिना विहितसेतिकर्तव्यताकाचमनस्थाने पाणिपादप्रक्षालनमेवैकेषां मतम्। मन्वादिमते तु सर्वोऽप्याचमनकल्पोऽस्ति।
यथा बौधायनः, त्रिरपो हृदयङ्गमाः पिबेत्त्रिः परिमृजेद् द्विरित्येके सकृदुभयं शूद्रस्य स्त्रियाश्चेति।
उभयं पानं मार्जनं च। स्त्रीशूद्रयोस्तदुभयं सकृदिति विधातुं पूर्वार्द्धेनानूद्यते इति। अन्यच्चास्योपस्पर्शादिकं वर्णान्तरवदेव शूद्रस्य। आचमनप्रापकवचनेन तेषामपि प्राप्तत्वात्। ``स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्तत इतिवचनव्याख्यायां सकृदिति वैश्याद्व्यावृत्तिरिति वदतो मिताक्षराकारस्यापि सम्पतोऽयमर्थः। आचमनार्थे आचमनेतिकर्त्तव्यतायां पाणिपादप्रक्षालनमेवेत्येवकारान्मुखादिस्पर्शनिवृत्तिः। एकेतिवचनाद्गौतममतेमुखादिस्पर्शोऽस्तीति रत्नाकरः। श्रीदत्तादिनिबन्धेषु तु आचमनार्हजलाभावे इति गौतमवाक्ये योजितम्। तेषां मते पाणिपादप्रक्षालनमेव शूद्राणां साङ्गाचमनानुकल्पइत्येकेषां मुनीनां मतमिति सिध्यति। आर्याश्रितानां तदन्नसंस्कर्तॄणां शूद्राणां तदार्यवदेवाचमनकल्पः।
यता आपस्तम्बः, आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्त्तारः स्युरित्युपक्रम्य आर्याधिष्ठिता वा शूद्राः संस्कर्त्तारः स्युस्तेषां स एवाचमनकल्प इति।
आर्यास्त्रैवर्णिकाः। तदधिष्ठिताः शूद्रा इत्युत्तरत्र दर्शनात्। वैश्वदेवे गृहमेधिनो भोजनार्थे पाके शूद्राः संस्कर्त्तारः, प्रकृतत्वादन्नस्येति गम्यते। तेषाम् अन्नसंस्कर्त्तृशूद्राणां स एव तत्तदार्यीय एव यथा ब्राह्मणाश्रितस्य ब्राह्मणान्नसंस्कर्त्तुः शूद्रस्य ब्राह्मणवदित्यादि। एतेन यद्रत्नाकरेणोक्तम्, ``आचमनार्थे पाणिपादप्रक्षालनमेवेति गौतमसूत्रमसच्शूद्रपरम्। मन्वाद्युक्तो मुखादिस्पर्श आर्याधिष्ठितशूद्रविषयः।
तथाच बौधायनः, शूद्राणामार्याधिष्ठितानामर्द्धमासि मासि वा वपनमार्यवदाचमनकल्प, इति,
तच्चिन्त्यम्। आपस्तम्बवाक्यैकवाक्यतया बौधायनेन आर्याधिष्ठितानां तदन्नसंस्कर्तॄणां तदार्यवदाचमनकल्पविधानात्। मन्वादिना तु आर्यकल्पातिरिक्तस्यैव आचमनकल्पस्य शूद्रं प्रति विधानात्। सच्छूद्राणां वैश्यवदाचमनकल्पः।
यदाह मनुः,
मासिकं वपनं कार्यं शूद्राणां न्यायवर्त्तिनाम्।
वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं तु भोजनम् ।।
न्यायवर्त्तिनां द्विजशुश्रुषा पञ्चमहायज्ञाद्यनुष्ठायिनां शौचकल्पः सूतकादावाचमनं चेति मेधातिथिः।
अनुपनीतस्याचमने विशेषमाह गौतमः, यथा प्रागुपनयना त्कामचारकामवादकामभक्षा इत्युपक्रम्य नास्याचमनकल्पो विद्यते।
आचमनकल्प आचमनेतिकर्त्तव्यता। इतिकर्त्तव्यतानिषेधमुखेन मुख्यमाचमनमनुज्ञातं भवतीति। द्विराचमने तु पाणिपादप्रक्षालनवर्जं सर्वमङ्गजातमावर्त्तते। आचान्तः पुनराचामेदित्यनेन साङ्गस्यैवाचमनस्यावृत्तिप्राप्तेः। पाणिपादप्रक्षालनफलस्य शौचस्य दृश्टफलस्य सकूदनुष्ठानेनैव सिद्धत्वात् तन्मात्रं नावर्त्तते। यत्तु छन्दोगाह्निके द्विजातीनामपि पुनराचमने हृद्गामित्वादिस्थाने ओष्ठस्पर्शमात्रं शास्त्रार्थः। अन्ततः प्रत्युपस्पृश्य शुचिर्भवतीति गोभिलगृह्यादिति। तच्चिन्त्यम्। न हीदं गोभिलवाक्यं द्विराचमनेतिकर्त्तव्यताप्रतिपादकं, किं तु इन्द्रियोपस्पर्शनानन्तरम्---
अंसौ स्पृष्ट्वा कराग्रेण तोयं स्पृष्टा समाहित।
संस्मृत्य पद्मनाभं च विप्रः सम्यग्विशुद्ध्यति ।।
इति भृगुवाक्यैकवाक्यतया उदकस्पर्शनपरम्। तथाच तत्सूत्रव्याख्यायां भट्टभाष्यम्, अन्तत उपस्पर्शनान्ते एवमेव पाणिनोदकस्पर्शनं कृत्वा शुचिर्भवति अक्षादिस्पर्शसहितमाचमनं कृत्वोदकस्पर्शनं कृत्वा शुचिर्भवेत्।
----- *** -----
अथ आचमननिमित्तानि।
सम्पाद्यताम्तत्र मन्वङ्गिरोबृहस्पतयः,
सुप्त्वा क्षुत्वा च भुक्त्वा न निष्ठीव्योत्तकाऽनृतानि च।
पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ।।
वायुपुराणे,
निष्ठीविते तताऽभ्यङ्गे तथा पादावसेचने।
उच्छिष्टस्य च सम्भाषादशुच्युपहतस्य च ।।
सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैवच।
सन्देहेषु आचमनतन्निमित्तविषयकेष्विति कल्पतरुः। शिखां मुक्त्तेति। शिखामोचननिमित्तं त्वाचमनं पुनः शिखां बध्यैव कार्यम्। शिखाबन्धनस्य सर्वकर्माङ्गत्वात्।
तथा,
विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत्।
उच्छिष्टस्यापि संस्पर्शे दर्शने चान्त्यजन्मनाम् ।।
विना यज्ञोपवीतेनेति यज्ञोपवीतत्यागो निमित्तम्। एतदपि यज्ञोपवीतधारणानन्तरं कार्यं, यज्ञोपवीतस्यापि सर्वकर्माङ्गत्वात्।
ब्रह्मपुराणे,
क्षुते श्लेष्मपरित्यागे धीते वा भक्षिते सति।
अववर्णस्य सम्भाषे सुप्ते वा दन्तधावने ।।
आचम्य प्रयतो भूत्वा ततः शुद्धो भवेन्नरः।
धीते पीते। धेट् पानेन इत्यस्य निष्ठायां रूपम्। अववर्णः चाण्डालादिः। संलापः परस्परसम्भाषणम्। सल्लाँपो भाषणं मिथ इत्यमरकोशात्।
संवर्त्तः,
चर्मारं रजकं वैणं धीवरं नटमेवच।
एतान्स्पृष्ट्वा नरो मोहादाचामेत्प्रयतोऽपि सन् ।।
रजको वस्त्ररञ्जनकर्त्ता।
कूर्मपुराणे,
चाण्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।।
आचामेदश्रुपाते वा लोहितस्य तथैवच।
तथा,
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेववा।
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च ।।
उपस्पृशेज्जलं वाऽऽर्द्रतृणं वा भूमिमेववा।
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।।
आपस्तम्बः,
मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छेषलेपान् रेतसश्च ये लेपास्तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवति।
अन्नलेपोऽन्नमयोद्वर्त्तनादिलेपः। उच्छेष उच्छिष्टम्।
पैठीनसिः, उच्छिष्टरेतोविण्मूत्रं संस्पृश्योन्मृज्याचम्य प्रयतो भवति त्रिः प्रक्षाल्य च तं देशम् ।
अत्राचमनप्रक्षालनयोरार्थक्रमेण पाठक्रमबाधः।
हेमाद्रौ आचमनप्रकरणे हरतीतः,
रथ्यामाक्रम्य सुषुप्सुः कृतमूत्रपुरीषो भक्षित्वा।
सुषुप्सुः निद्रां करिष्यन्।
बृहस्पतिः,
अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे।
मार्जारमूषकस्पर्शे प्रहासेऽनृतभाषणे ।।
निमित्तेष्वेषु धर्मार्थं कर्म कुर्वन्नुपस्पृशेत्।
उपस्पर्शनमाचमनम्।
आपस्तम्बः, स्वप्ने क्षवथौ सिङ्घणिकाऽश्र्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्म्णस्य स्त्रियाश्चालम्भे महापथं गत्वा ऽमेध्यं चोपस्पृश्याप्रयतं च मानुषं नीवीं च परिधायाप उपस्पृशेदार्द्रं वा शकृदोषधीर्भूमिं वा इति।
स्वप्नो निद्रा। क्षवथुः छिक्का। सिङ्घाणिका नासिकातो निर्गतः श्लेष्मा। अश्रु नेत्रनिर्गतं जलम्। अनयोरालम्भे स्पर्शे। लोहितस्य रुधिरस्य। केशानां शिरोगतानां भूगतानां चेति हरदत्तः। प्रच्युतानामिति स्मृत्यर्थसारे। अत्राग्निगोब्राह्मणानां स्पर्शे यदाचमनं विहितं तद् विहितस्पर्शेतरतत्सपर्शमात्रनिमित्तकं न तु तत्स्पर्शजन्याप्रायत्यनिमित्तकमिति कल्पतरुः। वस्तुतस्तु गोपृष्ठस्पर्शस्याचमनानुकल्पत्वेनाभिधानान्माऽस्तु आचमनानुकल्पत्वेनानुष्ठितस्य गोपृष्ठस्पर्शस्याचमननिमित्तत्वम्। अनवस्थावैयर्थ्यान्यतरप्रसङ्गात्। अन्येषां तु विहितानामपि तत्स्पर्शानां विहितस्नानादीनामिवाचमननिमित्तत्वे बाधकं न पश्यामः। विहितगवादिस्पर्श एवाचमननिमित्तमिति तु मदनरत्ने। तदपि चिन्त्यम्। सङ्कोचे प्रमाणाभावात्। आचमनानुकल्पत्वेन विहितगोस्पर्शस्याचमननिमित्तत्वे विधानवैयर्थ्यप्रसङ्गाच्च। अथाश्वप्रतिग्रहेष्ट्यधिकरणान्यायेन विहितस्यैव निमित्तत्वमिति चेत्। तर्हि आचमननिमित्तत्वेनोक्तानां स्नानादीनां विहितानामेवाचमननिमित्तत्वं स्यात्। अग्निगोब्राह्मणस्पर्शाः कर्मकालीना एवाचमननिमित्तानीतितु स्मृत्यर्थसारे। अत्र येषामाचमननिमित्तत्वेनोक्तानां नाप्रायत्यनिमित्तत्वं तेषां निमित्तानां कर्मकाले उपनिपाते सति तन्निमित्तकाचमनाकरणेऽपि कृतं कर्माविगुणमेव। महापथो राजमार्गः। अमेध्यं वक्ष्यमाणम्। नीवी अधोवस्त्रपरिधानग्रन्थिः। परिधाय कृत्वेत्यर्थः। नीवीं विस्रंस्य परिधायोपस्पृशेत् आर्द्रगोमयं तृणं भूमिं वा संस्पृशेत् इति बौधायनस्वरसोऽप्येवम्। विस्रंस्य मुक्त्वा। नीवी अधोवासग्रन्थिः। तद्योगादधोवासो लक्ष्यते इति हेमाद्र्युज्ज्वलाकारौ। अप उपस्पृशेत् आचामेत्। अनुकल्पमाह आर्द्रमित्यादि। आर्द्रमिति सर्वान्वयि इति हेमाद्रौ।
शकृद् गोमयम् आर्द्रगोमयमिति बौधायनवाक्यात्।
अमेध्यान्याह मनुः,
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ।।
खानि छिद्राणि। स्त्रीपुंसोपस्थबेदादुत्तरारर्द्धे यानीति बहुवचनम्। देहच्युता मला अमेध्या इत्यर्थः।
मलानाह स एव,
वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविण्नखाः।
श्लेष्माश्रुदूषिकास्वेदा द्वादशैते नृणां मलाः ।।
वसा कायस्नेहः। असृक् रक्तम्। मज्जा शिरोमध्यस्थितपिण्डित्नेहः। दूषिका नेत्रमलः। कर्णविट् कर्णमलः। अत्र नृपदं रूढ्या मनुष्यमात्रपरम्। न तु नृ गतावितिधात्वनुसारात्प्राणिमात्रपरम्। रूढेर्बलवत्वात् नृपदवैयर्थ्याच्च। अत एव---
रामायणे,
ददर्श च वने तस्मिन्महतः सञ्चयान् कृतान्।
मृगाणां महिषाणां च करीषान् वह्निकारणात् ।।
इति मुनीनां महिषादिपुरीषसङ्ग्रहः श्रूयते इति। एतेषां च मलानां स्पर्शे सति पूर्वषट्के मृज्जलाभ्यामुत्तरषट्के केवलेन जलेन प्रक्षालनोत्तरमाचमनम्। यथा उक्तद्वादशमलानधिकृत्य---
बौधायनः,
आददीत मृदोऽपश्च षट्सु पूर्वेषु शुद्धये।
उत्तरेषु च षट्स्वद्भिः केवलाभिर्विशुध्यति ।।
यद्यपि,
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत्।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ।।
इति मनुवाक्येन द्वादशस्वपि मृज्जलाभ्यां शुद्धिरित्यापाततः प्रतीयते, तथापि उदाहृतबौधायनवाक्यैकवाक्यतया कुत्रचिन्मृज्जलयोरुभयोः कुत्रचित्केवलजलस्यैवान्वये मनोस्तात्पर्यमुन्नेयम्।
केचित्तु उत्तरषट्के मृद्वारिणोः केवलवारिणा सह विकल्पः स च व्यवस्थित उपघाताद्यपेक्षयेति वदन्ति। विण्मूत्रोत्सर्गशुद्ध्यर्थमिति। विण्मूत्रे उत्सृज्येते येन स विण्मूत्रोत्सर्गः पाय्वदिः। उत्सर्गनिमित्तिका पाय्वादीनां शुद्धिः पूर्वार्धेन लेपनिमितिका शुद्धिरुत्तरार्द्धेन प्रतिपाद्यते।
देवलः,
उच्छिष्टं मानवं स्पृष्ट्वा भोज्यं वापि तथाविधम्।
तथैव हस्तौ पादौ च प्रक्षाल्याचम्य शुध्यति ।।
तताविधम् उच्छिष्टम्।
तथा,
यदम्भः शौचनिर्मुक्तं क्षितिं प्राप्य विनश्यति।
प्रक्षाल्याशुचिलिप्तं च तत्स्पृष्ट्वा ऽऽचम्य शुध्यति ।।
शौचजलार्द्रितभूभागं संस्पृश्याशुचिलिप्तमङ्गं प्रक्षाल्याचम्य शुद्ध्यतीत्यर्थः।
हारीतः, स्त्रीशूद्रोच्छिष्टाभिभाषणे मूत्रपु**********सर्गदर्शने देवतामभिगन्तुकाम आचामेत्। तथा जलमित्यनु******** नोत्तरेदनुपस्पृश्य। उत्तरेत् सन्तरेत्।
यमः,
उत्तीर्योदकमाचम्य अवतीर्य उपस्पृशेत्।
एवं स्याच्छ्रेयसा युक्तो वरुणश्चैव पूजितः ।।
आचम्यावतीर्योत्तीर्य चोपस्पृशेदित्यन्वयः। अवतीर्य प्रविश्य। उत्तीर्य निर्गत्य। तॄ प्लवनतरणयोरितिधात्वनुसारात् तॄधातोरेकस्यैव च हारीतवाक्ये प्लवनार्थकत्वं यमवाक्ये ऽवतरणार्थकत्वमिति कल्पतरुसम्मतोऽर्थः।
आपस्तम्बः, रिक्तपाणिर्वयसउद्यम्याप उपस्पृशेच्छक्तिविषये न मुहूर्त्तमप्यप्रयतः स्यान्नग्नो वा नाप्सु सतः प्रयमणं विद्यते उत्तीर्य त्वाचामेत्।
रिक्तपाणिः लोष्टादिशून्यहस्तः वयसे पक्षिणे उद्यम्य उत्क्षिप्य, प्रक्रमात्पाणिमिति शेषः। अप उपस्पृशेत् आचामेत्। शक्तिविषये शक्तौ सत्याम्। नग्नो वेत्यत्र शक्तिविषयइति संबध्यते। अप्सु सतः अप्सु वर्त्तमानस्य। प्रयमणं प्रायत्यकारणमाचमनादि। करणे ल्युद् इत्युज्ज्वलाकारः। तच्चिन्त्यम्।
जानोरूर्ध्वजले तिष्ठन्नाचान्तः शुचितामियात्।
इति विष्णुवाक्येन जलस्थस्याप्याचमनविधानात्। यतो जानुन्यूनजलस्थितस्य प्रयमणं भावल्युटा प्रायत्यं तन्न भवति अतुत्तीर्याचामेदिति हेमाद्र्यादिसंमतोर्थः। कल्पतरुरप्येवमेव। यच्चहेमाद्रौ पयसइति पठित्वा रिक्तपाणिः जलपात्रशून्यपाणिः पयसे जलार्थम् उद्यम्य उद्यमं कृत्वेति व्याख्यातं, तत् कल्पतरुतद्भाष्यादिनानादेशीयानां**********धव्याख्याविरोधादुपेक्षितम्।
विष्णु******* सुप्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासो*********रिधाय रध्यामाक्रम्य कृतमूत्रपुरीषः पञ्चनखास्थ्यस्नेहं स्पृष्ट्वाऽऽचामेत्।
चाण्डालम्लेच्छसम्भाषणे च शङ्खः,
कृत्वा मूत्रं पुरीषं च स्नात्वा भोक्तुमनास्तथा।
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्बोऽवगाह्य च ।।
रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च।
मार्कण्डेयपुराणे,
देवार्चनादिकार्याणि तथा गुर्वभिवादनम्।
कुर्वीत सम्यगाचम्य तद्वदेव भुजिक्रियाम्।।
प्रजापतिः,
उपक्रमे विशिष्टस्य कर्मणः प्रयतोऽपि सन्।
कृत्वा च पितृकर्माणि सकृदाचम्य शुद्ध्यति ।।
विशिष्टस्य विहितस्येत्यपरार्कः।
पद्मपुराणे,
चाण्डालादीन् जपे होमे दृष्ट्वा ऽऽचामेद्ध्विजोत्तमः।
श्वादीन् दृष्ट्वा तथैवापि कर्णं वा दक्षणं स्पृशेत् ।।
मनुः,
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत्।
आचामेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ।।
विरिक्तः प्रकृताधिकविरेकवान्।
भुक्त्वाऽन्नं वान्तो विरिक्त आचामेदेव। न स्नानादि कुर्यात्।
देवलः,
मानुषास्थि वसां विष्ठामार्त्तवं मूत्ररेतसी।
मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ।।
स्नात्वाऽपमृज्य लेपादीनाचम्य शुचितामियात्।
तान्येव स्वानि संस्पृश्य पूतः स्यात्परिमार्जनात् ।।
परिमार्जनात्क्षालनात्। तथा,
ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते।
तत्र स्नानमधस्तात्तु प्रक्षाल्याचम्य शुद्ध्यति ।।
शातातपः,
रजकश्चर्मकृच्चैव व्याधजालोपजीविनौ।
चेलनिर्णेजलश्चैव नटः शैलूषकस्तथा ।।
मुखेभगस्तथा श्वा च वनिता सर्ववर्णगा।
चक्री ध्वजी वध्यघाती ग्रामकुक्कुटशूकरौ ।।
एभिर्यदङ्गं संस्पृष्टं शिरोवर्जं द्विजातिषु।
तोयेन क्षालनं कृत्वा आचान्तः शुचितामियात् ।।
रजको वस्त्ररञ्जनकर्त्ता, चक्री तैलिकः, ध्वजी शौण्डिकः।
देवलः,
उपस्पृश्याशुचिस्पष्टं तृतीयं वापि मानवः।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ।।
तृतीयम् अशुचिस्पृष्टस्पृष्टम्।
----- *** -----
अथ आचमनानुकल्पाः।
तत्र पराशरः,
क्षुते निष्ठीविते चैव दन्ताश्लिष्टे तथाऽनृते।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ।।
प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा।
विप्रस्य दक्षइणे कर्णे सन्तीति मनुरब्रवीत् ।।
आदित्यो वरुणः सोमो वह्निर्वायुस्तथैवच।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ।।
अत्र विप्रकर्णस्यैवार्थवदात्कर्णे स्पर्शो विप्रस्यैवाचमनानुकल्पः इति वदन्ति। युक्तं चैतत्। अर्थवादानुरोधेनापि सामान्यप्रवृत्त्स्य विधेर्विशेषपरत्वदर्शनात्। यथा अक्ताः शर्करा उपदधातीत्यत्राक्तपदं तेजो वै घृतीमत्यर्थवादानुरोधाद् घृताक्तपरम्। इदं च मुख्याचमनासम्भवे।
तदुक्तं मार्कण्डेयपुराणे,
क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु।
कुर्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ।।
क्षुत्वा निष्ठीव्य वासश्च परिधायाचमेद् बुधः।
कुर्वीतालम्भनं वापि दक्षिणश्रवणस्य वै ।।
यताविभवतो ह्येतत्पूर्वाभावे ततः परम्।
न विद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते ।।
आचमनमुक्त्वा बौधायनः,
आर्द्रं तृणं गोमयं भूमिं वा संस्पृशेदिति।
आपस्तम्बोऽपि, आर्द्रं वा शकृदोषधीर्भूमिं वेति।
शकृत् गोमयम्।
------- *** -------
अथ आचमनापवादः।
तत्र मनुः,
नोच्छिष्टं कुर्वते मुख्या विप्लुषोऽङ्गं न यन्ति याः।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ।।
मुख्याः मुखे भवाः विप्लुषो बिन्दवः। यन्ति गच्छन्ति। श्मश्रूणि मुखलोमानि। आस्यं गतानि मुखं गतानि। दन्तान्तः दन्तमध्ये। अधिष्ठितं प्रविष्टम् अन्नादि। अत्रोभयत्रापि उच्छिष्टं कुर्वतइत्यस्यान्वयः। एवञ्च मुखच्युता जलबिन्दवो मूम्यादिपतिताः स्पृष्टा नाशुचित्वहेतवः, अङ्गलग्नास्तु अशुचित्वहेतवः। ता अपि लोमद्वयक्लेदसमर्था एव आचमननिमित्तानि।
यथा पैठीनसिः, भूमिगता बिन्दवः परामृष्टाः पूता विप्लुषः शुद्धा द्विरोमक्लिन्नेष्वाचामेत्।
बिन्दवोऽत्राचमनबिन्दवः, तथाऽऽचमनबिन्दव इति याज्ञवल्क्यवचनैकवाक्यत्वात्। परामृष्टाः स्पृष्टाः, पूताः नाप्रायत्यमापादयन्ति। विप्लुषश्च मन्वेकवाक्यतया मुख्या भूमिगताः शुद्धा नाप्रायत्यहेतवः। ताश्च अङ्गपतिता अपि रोमद्वयार्द्रीभावमापादयितुं समर्था एवाचमननिमित्तम्। द्विरोमक्लिन्नेष्विति। रोमद्वयपर्यन्तं तैः क्लिन्नेष्वङ्गेषु सत्स्वित्यर्थः।
आस्यगतश्मश्रुषु विशेषमाहापस्तम्बः, न श्मश्रुभिरुच्छिष्टो भवति अन्तरास्ये सद्भिर्यावन्न हस्तेन स्पृशति।
हस्तेनेत्यङ्गान्तरस्याप्युपलक्षणमिति स्मृतिचन्द्रिकाहेमाद्री।
वसिष्ठः, न श्मश्रुगतो लेपः। अशुचिरिति शेषः।
दन्तश्लिष्टे विशेषमाह गौतमः, दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् प्राक् च्युतेरित्येके। च्युतेष्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः।
अन्यत्र जिह्वाभिमर्शनात्। दन्तलग्नानि यावज्जिह्वयां दन्तेभ्यो भेदेन नोपलभ्यन्ते तावद्दन्तवन्नाशुचीनीत्यर्थः। तान्यप्युपलभ्यमानरसानि चेदशुचीन्येव।
यथाऽऽह शङ्खः, दन्तवद्दन्तलग्रेषु रसवर्जमन्यत्र जिह्वाभिमर्शनादिति।
रस्यतइति रसः आस्वाद्यमान इति। भेदेनोपलभ्यमानान्यपि यदि जिह्वाभिमर्शनादिना न च्यवन्ते, तथापि शुचीन्येवेत्येके मन्यन्ते। तदुद्धरणार्थं भूयान् यत्नोऽपि न कार्यः।
यथाऽऽह देवलः,
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्।
दन्तलग्नमसंहार्यं लेपं मन्येत दन्तवत् ।।
न तत्र बहुशः कुर्याद्यत्नमुद्धरणे पुनः।
भवेदशौचमत्यर्थं तृणवेधाद् व्रणे कृते ।।
निर्हृत्येति। जिह्वाश्लिष्टमास्वाद्यमानरसं च निर्हृत्येत्यर्थः। दन्तलग्नं जिह्वास्पृष्टदन्तलग्नम्। तदस्पृष्टस्य तु संहार्यस्यापि नाचमननिमित्तता। अन्यथा गौतमवाक्येऽन्यत्र जिह्वाभिमर्शनादितिं व्यर्थमेव स्यात्। च्युतष्विति। तेषु च्युतेषु आस्राववल्लालावत्तानिनिगिरन्नेव गिलन्नेव शुध्यतीत्यर्थः। निगिरन् त्यजन्निति रत्नाकरः। तस्यायमाशयः। दन्तसक्तं त्यक्त्वा ततः शुचिरिति याज्ञवल्क्यैकवाक्यतया निगिरन्नित्यस्य त्यजन्नित्यर्थः समुचितोऽन्यथा विकल्पापत्तिरिति। तच् चिन्त्यम्। निगिरणशब्दस्यगिलनएव प्रसिद्धेः। अत एव कल्पतरुणा निगिरन्नेव तच्छुचिरिति वसिष्ठवाक्ये निगिरन् गिलन्निति व्याख्यातम्। निगरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्पत इति मिताक्षराकारेणाप्यभिहितम्। निगिरणं त्यागो वेति विकल्पइति दीपकलिकायां शूलपाणिरपि। निगिरन् अन्तः प्रवेशयन्निति हेमाद्रिस्मृतिचन्द्रिकाकाराभ्यामपि व्याख्यातम्। एवमेव चास्राववदिति दृष्टान्तोऽपि साधु सङ्गच्छते। नहि आस्रावस्य त्यागे शुचिः किं तु गिलनएवेति।
वसिष्ठः,
दन्तवद्दन्तलग्नेषु यच्चाप्यन्तर्मुखे भवेत्।
आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छुचिः ।।
यच्चापीति। दन्तलग्नादन्यदप्यन्नकरणादि यत्प्रमादावशिष्टमाचमनोत्तरमुपलभ्यते तदपि निगिरन्नेव गिलन्नेव शुचिः स्यादित्यर्थः। आचमनापवादोऽयम्। निगरणवैकल्पिकं त्यागमाह-----
याज्ञवल्क्यः,
मुखजा विप्लुषो मेध्यास्तथाऽऽचमनाबन्दवः।
श्मश्रु चास्पगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ।।
दन्तसक्तं प्रागुक्तम्। ततः त्यागात्। तेनाचमनव्यावृत्तिः।
अत एव हेमाद्रौ बौधायनः,
स्रस्तेषु तेषु नाचामेत्तेषां संस्रावणाच्छुचिः। इति।
संस्रावणं मुखाद्बहिर्निरसनम्। एतेन दन्तसक्तं त्यक्त्वाऽऽचम्यशुचिरिति केषाञ्चिद्व्याख्यानमनादेयम्। गौतमवसिष्ठवक्ययोर्निगिरन्नेवेत्येवकारस्तु---
चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम्।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ।।
इतिविष्णूक्ताचमननिषेधार्थ इति मिताक्षरा।
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्।
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ।।
इत्यमरकोषाच्चर्वणगिलनयोः पर्यायतया निगरणे प्रसक्तमाचमनमेवकारेण व्यवच्छिद्यतइति तदभिप्रायः।
हेमाद्रौ तु ``आस्रावो मुखप्रभवमुदकं, तद् यथा च्युतमप्यशुचि न भवति तद्वदित्यर्थः। निगिरन्नेवेत्येवकाराच्चर्वणक्रियायाम् आचामेच्चर्वणे नित्यमिति विष्णुनोक्तमाचमनं कर्त्तव्यमेवे त्युक्तम्। तदभिब्रायस्तु चर्वणनिगरणयोर्भेदस्य लोकव्यवहारसिद्धतया चर्वणव्यावृत्त्यर्थमेवकारः। अन्यथा एवकारवैयर्थ्यं प्रसज्येतेति। एवञ्च चर्वणं विना तद्गिलनं तत्त्यागश्च नाचमननिमित्तमिति सिद्धम्। भूमिगतानामाचमनबिन्दूनां पूतत्वं भूमिगता बिन्दवः परामृष्टाः पूता इति पैठीनसिनोक्तम्।
अन्यत्र विशेषमाह मनुः,
स्पृशन्ति बिन्दवः पादौ यआचामयतः परान्।
भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ।।
परानाचामयत इति सम्बन्धः। भूमिगैः शूमिगताचमनबिन्दुभिः। अत्र आचामयत इत्यभिधानादन्येषामाचमनबिन्दुसंस्पर्शे भवत्येवाप्रायत्यमिति। अत्र पादावित्यङ्गान्तरस्याप्युपलक्षणार्थम्।
तथाच यमः,
प्रयान्त्याचामतो याश्च शरीरे विप्लुषो नृणाम्।
उच्छिष्टदोषो नास्त्यत्र भूमितुल्यास्तु ताः स्मृताः ।। इति।
विप्लुषः आचमनबिन्दवः। नृणां शरीरे इत्यन्वयः इति वदन्ति। वस्तुतस्तु शरीरपदं पादपरमेव, अत एव पादग्रहणाच्च जङ्घाद्यङ्गान्तरस्पर्शो दुष्ट एवेति मेधातिथिः। पादौ न जङ्घादिरिति कुल्लूकभट्टोऽपि हेमाद्रस्तु ``भूमिगैः अनुपहतभूमिसंस्थोदकैरित्यर्थः। एते च भूम्यभिघातोत्थिता एव स्पृष्टाः शुद्धाः नान्तरालस्पृष्टाः।
यदाह पैठीनसिः, भूमिगता बिन्दवः परामृष्टाः पूता इति त्याह। मेधातिथिरप्येवम्।
अत्र्यङ्गिरसौ,
मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च।
नोच्छिष्टस्तु भवेद्विप्रो यथाऽत्रेर्वचनं तथा ।।
``अप्स्विति प्राणाहुतिसाहचर्यप्राप्तापोशानविषयम्, आचमनोदकपानविषयं वा। अन्यत्रोदकपाने पीत्वाऽपोऽध्येष्यमाणश्चेत्याचमनविधेरिति कल्पतरुः। हेमाद्रिरपि अप्स्विति प्राणाहुतिसन्निधानादमृतापिधानमसीत्यादिनोदकपाने कर्त्तव्ये भुक्तवानपि मन्त्रोच्चारणं प्रति नोच्छिष्ट इत्यर्थ।
शातातपः,
दन्तलग्ने फले मूले भक्षये स्नेहे तथैवच।
ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवति द्विजः ।।
दन्तलग्नं व्याख्यातम्। फले कटुतिक्तकषाये जातीफलादौ सतामाचारादिति कल्पतरुः। फलमूले चाग्निपक्वभिन्ने समाचारादिति रत्नाकरः। भक्षये फलमूलातिरिक्ते कटुकषाये।
तथाच लघुहारीतः,
कषायकटुताम्बूले भुक्तस्नेहानुलेपने।
मधुपर्के च सोमे च नोच्छिष्टो मनुरब्रवीत् ।।
भक्ष्ये स्नेहे इति स्मृतिचन्द्रिकायां पाठः।
भुक्तस्नेहे अत्यन्तानिर्हार्ये।
भुक्त्वाऽऽचामेद्यथोक्तेन विधानेन समाहितः।
शोधयेन्मुखहस्तौ च मृदद्भिर्घर्षणैरपि ।।
इति देवलस्मरणादिति व्याख्यातं च।
माधवीये हेमाद्रौ च षट्त्रिंशन्मतम्,
ताम्बूले चैव सोमे च भुक्तस्नेहावशिष्टके।
दन्तलन्नस्य संस्पर्शे नोच्छिष्टस्तु भवेन्नरः ।।
त्वग्भिः पत्रैर्मूलफलैस्तृणकाष्ठमयैस्तथा।
सुगन्धिभिस्तथा द्रव्यैर्नोच्छिष्टो भवति द्विजः ।। इति।
एतच्च सौरभाद्यर्थोपभुक्तावशिष्टविषयम्। ताम्बूलसाहचर्यादिति माधवः।
विद्याकरवाजपेयिधृतवचनम्,
सर्जूरी तालकन्दश्च मृणालं पद्मकेशरम्।
नारिकेलं कसेरुं च नोच्छिष्टं मनुरब्रवीत् ।।
ताम्बूलं च कषायं च सर्वं च जलसम्भवम्।
मधुपर्कं च सोमं च लवणाक्तं तथा क्वचित् ।। इति।
अत्र सर्वत्र मधुपर्कादावुच्छिष्टतानिषेधादुच्छिष्टतानिवर्तकभक्षणोत्तराचमनस्यार्थतो निषेधसिद्धावपि भोक्ष्यमाणः प्रयतोऽपि द्विराचामेदित्यादिना विहितं प्रथममाचमनं स्यादेव।
इदं पुनरत्र प्रतिभाति।
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः।
पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन्।
इति मनुना प्रयतस्यापि नैमित्तिकाचमनविधानादुच्छिष्टत्वनिषेधेनाशुचित्वाभावे सिद्धे अशुचित्वनिवर्त्तकाचमनाभावे सिद्धेऽपि पानभोजनादिनिमित्तकमाचमनमावश्यकमेव। अत एव मधुपर्कप्राशनानन्तरं ``सर्वं वा प्राश्नीयात् प्राग्वा सञ्चरे निनयेदाचम्य प्राणान्संमृशती त्यादिना गृह्यसूत्रेऽपि आचमनमभिहितम्। अनुच्छिष्टताभिधानं च तत्स्पर्शने सम्भाषणे च परेषामाचमनाभावस्य, तस्यापि शूद्रादिस्पर्शाद्दोषाधिक्याभावस्य, तदुत्तरमाचमनं विनैव कर्माधिकारस्य च बोधनाय। नैमित्तिकाचमनाकरणे पुरुषः परं प्रत्यवैति, कर्म तु साङ्गमेव। मधुपर्कप्राशने तु आचमनोत्तरमेव कर्म कर्त्तव्यम्। गृह्ये तथैव क्रमदर्शनात्। स्वापादौ मधुपर्काद्यन्यभोजने चाशुचित्वमेव।
ततः शरीरस्रोतोभ्यो मलनिस्यन्दविस्रवात्।
अन्नादीनां प्रवेशाच्च स्यादशुद्धिर्विशेषतः ।।
पतिताशुच्यमेध्यानां स्पर्शनाच्चाशुचिर्भवेत्।
सुप्तद्वस्त्रविपर्यासात्क्षतादध्वपरिश्रमात् ।।
इति देवलवाक्यात्। अत एव शेषप्राशनादौ विधिबलादप्रायत्याभावेऽपि नैमित्तिकमाचमनमाचरन्ति। अत एव भट्टैरपि ताम्बूलभक्षणोत्तरमनाचमनमनाचारमध्ये गणितम्।
आचामेच्चर्वणे नित्यं मुक्त्वा ताम्बूलचर्वणम्।
इति विष्णुवाक्येन तु ताम्बूलचर्वणनिमित्तकमाचमनं निषिध्यते। न तु भक्षणनिमितित्तकम्। कश्चित्तु ताम्बूलेतरभोजनेष्वाचमनमावश्यकं ताम्बूले तन्नावश्यकमिति तदर्ख इत्याह। यदि च पूर्वलिखितकोसाच्चर्वणभक्षणयोः पर्यायता तदा विनिगमकाभावत्ताम्बूलभक्षणस्य पूर्वं परतश्च नाचमनमिति वस्तुस्थितिरिति। मधुपर्के च सोमे चेत्यादिवचनव्याक्यायामप्सूच्छिष्टतानिषेधात्पीत्वाऽप इति नैमित्तिकमाचमनं प्रयतोऽपीति श्रवणाच्चेति श्रीदत्तलिखनान्मधुपर्कादिप्राशनानन्तरं नैमित्तिकमाचमनम् तत्संमतमपि। अविधिपूर्वकाचमनोदकपाने तु उच्छिष्टता वाचनिकी।
यथाह गोभिलः, हृदयस्पृशस्त्वेवाप उपस्पृशेदुच्छिष्टो हैवातोऽन्यथा भवतीति।
अतः अस्माद्विधेः अन्यथाऽऽचान्त उच्छिष्ट एव भवतीति तद्भाष्यम्। एवञ्च मधुपर्क इत्यादिवाक्ये अप्स्वित्यस्य जलसामान्यपरत्वेनैवोपपत्तौ कल्पतरुकारादिभिर्यदपोशानादिविशेषपरतया व्याक्यातं तद् विचारमीयमिति। यत्तु हेमाद्र्यादौ भुक्तवतोऽपि अमृतापिधानमसीति मन्त्रपाठप्राप्त्यर्थमनुच्छिष्टत्वविधानमित्युक्तं, तदपि न साधीयः। मन्त्रपाठविधिबलादेवोच्छिष्टस्यापि मन्त्रपाठप्राप्तेरनुच्छिष्टत्वविधाने वैयर्थ्यात् इति। आचमनोदकपानं तु नाचमननिमित्तम्। आचमनविधिवैयर्थ्यानवस्थयोरन्यतरप्रसङ्गात्।
-------- *** --------
अथ दन्तधावनम्।
सम्पाद्यताम्
तत्र याज्ञवल्क्यः,
शरीरचिन्तां निर्वर्त्त्य कृतशौचविधिर्द्विजः।
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्विकाम् ।।
दक्षः,
उषः काले तु सम्प्राप्ते कृत्वा शौचं यथार्थवत्।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ।।
अषः कालश्च लोहितदिगुपलक्षितकालात्प्रागीषद्दिक्प्रकाशवान् कालः। यथार्थवत् यथाविहितशौचापादकमृज्जलादिसंख्यावदित्यर्थः। अत्र सन्ध्यायां स्नाने च दन्तधावनस्य नाङ्गत्वम्।
मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः।
तस्मात्सर्वप्रयत्नेन भक्षयेद्दन्तधावनम् ।।
इति वृद्धशातातपवचनेन स्वतन्त्रयैव शुद्धिहेतुतयाऽभिधानात्। अत एव दन्तान्प्रक्षाल्य स्नायादिति छन्दोगपरिशिष्टेऽपि कालार्थः संयोगः। दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेतेतिवत्। अप्रयतः अशुचिः। दन्तधावनं दन्तमलापकर्षकं काष्ठम्। भक्षयेदिति दन्तसम्बन्धाद् गौणमभिधानं पूर्वोत्तराचमनरूपभक्षणधर्मप्राप्त्यर्थम्।
छन्दोगपरिशिष्टम्,
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः।
परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम्।।
आयुर्बलं यशो वर्चः प्रजापशुवसूनि च।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ।।
शुचिर्भुत्वा आचम्येत्यर्थः। मन्त्रेण अनुपदवक्ष्यमाणेन आयुर्बलमित्यादिना। भक्षयेद्दन्तेषु घर्षयेत्। तदुक्तं तत्रैव,
नारदाद्युक्तवार्क्षएयमष्टाङ्गुलमपाटितम्।
सत्वचं दन्तकाष्ठं स्यात्तदग्रेण प्रधावयेत् ।।
पारस्करेण तु मन्त्रान्तरमुक्तम्।
यथा, औदुम्बरेण दन्तान्धावेत ``अन्नाद्याय व्यूहध्वं सोमो राजा ऽयमागमत् स मे मुखं प्रमार्क्ष्यते यशसा च भगेन चेति।
यद्यपि इदं समन्त्रकं दन्तधावनं समावर्तने पारस्करेणोक्तं तथापि दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रओपानहश्चापूर्वाणि चेन्मन्त्र इति तत्प्रकरणस्थवाक्यान्तरे नित्यमिति श्रवणात्प्रात्यहिकेऽपि दन्तधावने स एव मन्त्र इति प्रतीयते। दन्तधावनादीनिनित्यमपि क्रियमाणानि पूर्वोक्तमन्त्रयुक्तानि भवन्तीति हरिहरभाष्यम्। एवं कात्यायनीयानाम् अन्नाद्ययेत्यादिमन्त्रः।
गोभिलीयानाम् आयुर्बलमित्यादिमन्त्रः। अन्येषां तु स्वीयसूत्रे उक्तश्चेत्प्रोक्तत्वाविशेषादैच्छिकः। ब्राह्मणसर्वस्वे हलायुधसम्मतोऽप्ययमर्थः।
अन्ये तु ``आयुर्बलमित्यादिना वनस्पतिरूपकरणप्रकाशनादन्नाद्यायेत्यादिना च प्रमार्जनरूपक्रियाप्रकाशनादुभययोरेककार्यकारित्वाभावात्प्रथमेन काष्ठमभिमन्त्र्य द्वितीयेन मुखसोधनं सर्वैरेव कार्यमितिक समुच्चयेनान्वयः।
कल्पतरौ तु ब्रह्मचारिकाण्डशेषे पारस्करवचनं लिखितमिति नैयतिककालकाण्डे दन्तधावनप्रकरणे न तल्लिखितम्।
काशीखण्डेऽपि, अन्नाद्याय व्यूहध्वमित्यादि आयुर्बलमित्यादि च क्रमेण मन्6द्वयं पठित्वा----
मन्त्रावेतौ समुच्चार्य यः कुर्याद्दन्तधावनम्।
वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति ।।
इत्युक्तम् इत्याहुः। तच्चिन्त्यम्।
बहल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्त्तितम्।
तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ।।
इति छन्दोगपरिशिष्टवचनेऽनाकाङ्क्षितस्य पारशाखिकस्य ग्रहीतुमनुचितत्वात्। काशीखण्डवाक्यं तु छन्दोगपारस्करीयादीतरपरत्वेनाप्युपपन्नं, काम्यपरं वा तत् इति।
प्रणवं दीर्घमुच्चार्य भक्षयेद्दन्तधावनम्।
इति संन्यासिपद्धातिलिखितवाक्यात्तेषां प्रणव एव मन्त्र इति वदन्ति।
शूद्राणान्तु ``अनुमतोऽस्य नमस्कारो मन्त्र इति शूद्रप्रकरणस्थगौतमवाक्येन सर्वमन्त्रस्थाने नमः शब्दविधानादत्राणि नम इत्येव मन्त्रः।
केचित्तु,
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते।
इति वराहपुराणीयपरिभाषयाऽर्थप्रकाशनार्थं ब्राह्मणेन मन्त्रः पठनीयः तदसम्भवेऽपि किञ्चिदङ्गहान्या नित्यं कार्यमेवेति वदन्ति।
नारदाद्युक्तवार्क्षेयमिति। नारदशिक्षादिग्रन्थाभिहितवृक्षसम्भवम्।
तथाच नारदी शिक्षा,
आम्रपौलासबिल्वानामपामार्गशिरीषयोः।
वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ।।
खदिरश्च कदम्बश्च करवीरकरञ्जयोः।
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशखिनः ।। इति।
पौलासः आम्रातकवृक्षः।
हारीतः, काले पलाशकोविदारश्लेष्मातकबिल्वकशाकवृक्षनिर्गुण्डीशिखण्डिवेणुवर्जं, प्लक्षमाषकबदरीकरञ्जशमीशिंशपा इत्येके, दधित्थहरीतक्यश्वकर्णशालामलकानीत्यपरे, बिल्वखदिराम्रपौलासशिरीषापामार्गाणामन्यतममनार्द्रं नातिशुष्कं नातिस्थूलमापोथिताग्रमनोष्ठग्रन्थ्युदङ्मुखो वाग्यत आसीनो दन्तधावनं भक्षयेत् इति।
काले उषः काले। कोविदारः श्वेपुष्पः काञ्चनारसदृशः।
श्लेष्मातको बहुवारः। बिल्वकः चील इति पश्चिमदेशे प्रसिद्धः। शाकवृक्षः सागवान इति लोके प्रसिद्धः। निर्गुण्डी सिन्दुवारः। शिखण्डी मयूरशिखा। शिखण्डिसंज्ञकः कण्टकिगुल्म इत्यपरे। वेणुवर्जमिति। वेणुर्वशः। तन्निषेधश्च त्वगितरपरः। तिन्तिणी वेणुपृष्ठं चेत्यादिना वक्ष्यमाणनरसिंहपुराणेन प्रशस्तत्वाभिधानात्। दधित्थः कपित्थः। शालः शङ्कुवृक्षः। एके अपरे इत्युभयत्रापि वर्जयित्वेति शेष इति कल्पतरुप्रभृतयः। अनार्द्रमीषदार्द्रम्। ईषदर्थे नत्र्। नातिशुष्कमित्यग्रेऽभिधानात्। प्रक्षालनस्य विहितत्वेन आर्द्रताया आवश्यकत्वाच्च। एतेन सद्यश्छिन्नमपि निषिद्धम्। नातिस्थूलमिति। कनीन्यग्रसमस्थौल्यमिति विष्णुनाऽभिधानात्तदधिकस्थौल्यरहितम्। आपोथिताग्रमिति। आ ईषत् चूर्णिताग्रम्। अपोथिताग्रमिति पाठेऽपि ईषदर्थकनत्राऽयमेवार्थः। अनोष्ठग्रन्थि ओष्ठस्पर्शिग्रन्थिहीनम्।
विष्णुः, न पालाशं दन्तधावनं स्याद्, न श्लेष्मातकारिष्टविभीतकधवधन्वनजं, न कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजं, न बर्बुरनिर्गुण्डीशिग्रुचिल्लकतिन्दुकजं, न पारिभद्राम्लिकामोचकशाल्मलीशणजं, न मधुरं, नाम्लं, नोर्ध्वशुष्कं, न ससुषिरं, न पूतिगन्धि, न पिच्छिलं, न दक्षिणापराशामुखोऽद्यादुदङ्मुखः प्राङ्मुखो वा वटासनार्ककरञ्जखदिरकरववीरसर्जारिमेदापामार्गमालतीककुभविल्वानामन्यतमं कषायं तिक्तं कटुकं वा।
कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम्।
प्रातर्भुक्त्वा च यतवाक् भक्षयेद्दन्तधावनम् ।।
अरिष्टः रीठी इति मध्यदेशे प्रसिद्धः। धन्वनः धामिन इति प्रसिद्धः। पीलुः गुडफलः, पीलुरित्येव पश्चिमदेशे प्रसिद्धः। इङ्गुदः इङ्गुवाकः कण्टकिवृक्षविशेषः। शिग्रुः शेभाञ्जन इति प्रसिद्धः। तिन्दुकः तेन्दुआ इति प्रसिद्धः। पारिभद्रः फरहट्ट इति प्रसिद्धः। आम्लिका तिन्तिडी। मोचका कदली। ऊर्ध्वशुष्कं वृक्षएव शुष्कम्। ससुषिरं छिद्रयुक्तम्। अपरा प्रतीची। असनः आसन इति मध्यदेशे प्रसिद्धः। सर्जः शालः। अरिमेदः विट्खदिरः। मालती जाती। ककुभोऽर्जुनः। कषायं तिक्तकं कटुकं वा। अविहितमप्रतिषिद्धं चान्यदपि कषायतिक्तवटुकान्यतमद्ग्राह्यम्। कनीनी कनिष्ठाङ्गुलिः। सकूर्चं चूर्णिताग्रम्। प्रातः काले। भुक्त्वा च भोजनोत्तरं च। एतेन प्रातः काले भोजनोत्तरं दन्तलग्ननिर्हरणार्थ---
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्।
इति देवलस्वरससिद्धमपि दन्तधावनं कार्यम्। भोजनोत्तरं दन्तधावने च न वक्ष्यमाणकालादिनिषेधनियमाः। दन्तलग्ननिर्हरणस्यावश्यकत्वात् इति वदन्ति। भुक्त्वेति यतिपरमिति हलायुधः।
स्मृतिचन्द्रिकायां तु मार्कण्डेयः,
उदङ्मुखः प्राङ्मुखो वा कषायं तिक्तकं कटु।
दन्तधावनं भक्षयेदिति शेषः। उदङ्मुखः प्रागुदङ्मुख इत्यर्थः। उदङ्मुखत्वे दोषश्रवणात्।
तदाह कात्यायनः,
पूर्वामुखो धृतिं विन्द्याच्छरीरारोग्यमेव च।
दक्षिणेन तथा चौर्यं पश्चिमेन पराजयम् ।।
उत्तरेण गवां नाशं स्त्रीणां परिजनस्य च।
पूर्वोत्तरे तु दिग्भागे सर्वान्कामानवाप्नुयात् ।। इति।
महाभारते,
प्रक्षाल्य हस्तौ पादौ च मुखं च सुसमाहितः।
दक्षिणं बाहुमुद्धृत्य कृत्वा जान्वन्तरा ततः ।।
तिक्तं कषायं कटुकं सुगन्धि कण्टकान्वितम्।
क्षीरिणो वृक्षगुल्माद्वा भक्ष्येहन्तधावनम् ।।
त्याज्यं सपत्रमज्ञातमूर्ध्वशुष्कं च पाटितम्।
त्वग्विहीनं ग्रन्थिमुखं तथा पालाशशांशपम् ।।
ऋजुं वितस्तिमात्रं च कीटाग्निभिरदूषितम्।
प्राङ्मुखश्चोपविष्टस्तु भक्षयेद्वाग्यतो नरः ।।
प्रक्षाल्य च शुचौ देशे दन्तधावनमुत्सृजेत्।
पतितेऽभिमुखे सम्यक् भोज्यमाप्नोत्यभीप्सतम् ।।
दक्षिणं बाहुमुद्धृत्येत्यनेनोपवीतधारणेतिकर्त्तव्यतैकदेशोत्कीर्त्तनेनोपवीती भूत्वेत्यर्थः सूचितः। गुल्माः अस्कन्धा मल्लिकादयः। शांशपं शिंशपावृक्षोद्भवम्। अत्र शुचित्वापादके दन्तधावने दन्तकाष्ठविशेषविधिना अर्थान्निरस्तेऽपि काष्ठान्तरे, यद् विशेषेण काष्ठान्तरविधानं, तत् मौद्गचरुविधिना बाधितेषु माषादिषु अयज्ञिया वै माषा इतिपुनर्निषेधवन्मुख्यालाभे प्रतिनिधित्वेनापि तदुपादननिरासार्थम्। यत्तु विहितप्रतिषिद्धं तस्य निषेधसम्बन्धेन केवलविहितापेक्षया किञ्चिन्न्युनत्वात्केवलविहितालाभे उपादानम्। एतस्याप्यसम्भवे अविहिताप्रतिषिद्धमुपादेयम्। केवलनिषिद्धं तु सर्वथा नोपादेयम्। किं तु दन्तकाष्ठालाभविहितैरपां द्वादशगण्डूषैरेव मुखशुद्धिरुत्पादनीयेति। तथा,
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः।
भक्षयेच्छास्त्रदृष्टनि पर्वस्वपिच वर्जयेत् ।।
पर्वाण्याह विष्णुपुराणे,
चतुर्द्दश्यष्टमी चैव अमावास्या च पूर्णिमा।
पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेवच ।।
नरसिंहपुराणे,
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः।
तस्माच्छुष्कमथार्द्रं वा भक्ष्येद्दन्तधावनम् ।।
खदिरश्च कदम्बश्च करञ्जश्च वटस्तथा।
तिन्तिडी वेणुपृष्ठं च आम्रनिम्बौ तथैवच ।।
अपामार्गश्च बिल्वश्च अर्कश्चौदुम्बरस्तथा।
एते प्रशस्ताः कथिता दन्तदावनकर्मणि ।।
दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम्।
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ।।
अष्टाङ्गुलेन मानेन तत्प्रमाणमिहोच्यते।
प्रादेशमात्रमथवा तेन दन्तान् विशोधयेत् ।।
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव सत्त्माः।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ।।
अलाभे दन्तकाष्ठानां प्रतिषिद्धे तथा दिने ।
अपां द्वादशगण्डूषैर्मुखशुद्धिर्विधीयते ।।
शुष्कं नातिशुष्कं स्वस्थानशुष्कभिन्नञ्च। आर्द्रम् ईषदार्द्रामिति प्रागुक्तम्। वेणुपृष्ठं वंशस्य त्वग्भागः। अलाभे दन्तकाष्ठानामित्यादि। इदं च दन्ताभावस्याप्युपलक्षणम्। शोध्याभावेन दन्तकाष्ठानामनुपादनेऽपि मुखशोधनस्यावश्यकत्वेन तत्साधनाकाङ्क्षायामेकत्र दृष्टन्ययेनैतदुपादानस्यैवौचित्यात्।
यमः,
आसनं शयनं यानं पादुके दन्तधावनम्।
वर्जयेद् भूतिकामस्तु पालाशं नित्यमात्मवान् ।।
यानं शकटादि।
स्मृतिचन्द्रिकायां गर्गः,
सर्जे धैर्यं वटे दीप्तिः करञ्जे विजयो रणे।
यक्षे चैवार्थसम्पत्तिर्बदर्यां मधुरः स्वरः ।।
खदिरे चैव सौगन्ध्यं बिल्वे तु विपुलं धनम्।
उदुम्बरे वाक्यसिद्धिर्बन्धूके च दृढा श्रुतिः ।।
सैन्ध्रे च कीर्तिसौभाग्यं पालाशे सिद्धिरुत्तमा।
कदम्बे च तथा लक्ष्मीश्चाम्रे चारोग्यमेव च ।।
अपामार्गे धृतिर्मेधा प्रजाशक्तिर्वपुःशुचिः।
आयुः शीलं यशो लक्ष्मीः सौभाग्यं चोपजायते ।।
अर्केण हन्ति रोगांस्तु बीजपूरेण तु व्यथाम्।
ककुभेन तताऽऽयुष्मान् भवेत्पलितवर्जितः ।।
दाडिमे सिन्दुवारे कुब्जके कुटके तथा।
जाती च करमेदश्च दुःस्वप्नं चैव नाशयेत् ।।
उशना,
न काष्ठं पाटयेन्नाङ्गुलिभिर्दन्तान्प्रक्षालयेत्।
काष्ठं दन्तकाष्ठम्।
तदुक्तं कूर्मपुरणे,
नोत्पाटयेद्दन्तकाष्ठं नाङ्गुल्या धावयेत्क्वचित्।
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे समाहितः ।।
धावयेत्, दन्दानिति शेषः। अत्राङ्गुलिपदमनामिकाङ्गुष्ठभिन्नाङ्गुलिपरम्। यथा स्मृतिचन्द्रिकायां माधवीये च----
याज्ञवल्क्यः,
इष्टकालोष्टपाषाणैरितराङ्गुलिभिस्तथा।
मुक्त्वा चानामिकाङ्गुष्ठौ वर्जयेद्दन्तधावनम् ।। इति।
अनामिकाङ्गुष्ठौ मुक्त्वा इतराङ्गुलिभिरिति योजना।
पैठीनसिः, तृणपर्णोदकेनाङ्गुल्या वा दन्तान्धावयेत् प्रदेशिनीवर्ज्जमिति।
अत्र तर्जनीपदं निषिद्धाङ्गुल्यन्तरोपलक्षणम्। इदं च तृणादिविधानं निषिद्धतिथिविषयम्।
यदाहतुर्व्यासशातातपौ,
प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम्।
पर्णैरन्यत्र काष्ठैस्तु जिह्वोल्लेखः सदैव तु।।
इदं च दन्तधावनाप्राप्तिकालस्याप्युपलक्षणम्। तत्रापि दन्तशौचसाधनस्याकाङ्क्षितत्वात्। अत एव अलाभे दन्तकाष्ठानामित्यादिनृसिंहपुराणवाक्ये चतुर्थचरणे पत्रैर्वा मुखशोधनमिति क्वचित्पाठोऽपि।
विष्णुः,
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः।
अमावास्यां च नाश्नीयाद्दन्तकाष्ठं कथञ्चन ।।
मार्कण्डेयपुराणे,
प्रक्षाल्य भक्ष्येत्पूर्वं प्रक्षाल्यैवतु तत्त्यजेत्।
कूर्मपुराणे,
मध्याङ्गुलिसमस्थौल्यं द्वादसाङ्गुलसम्मितम्।
सत्वचं दन्तकाष्ठं स्यात्तदग्रेण तु धावयेत् ।।
धावयेत् शोधयेत्। दन्तानिति शेषः। अत्र मध्याङ्गुलिसमस्थौल्यस्य विष्णूक्तेन कनीन्यग्रसमस्थौल्येन विकल्पः। आयामे तु अष्टाङ्गुलमपाटितमिति छन्दोगपरिशिष्टेऽभिहितम्। भारतकूर्मपुराणादौ च ऋजुं वितस्तिमात्रं चेत्यनेन द्वादशाङ्गुलसम्मितमित्यनेन च द्वादशाङ्गुलमुक्तम्। नरसिंहपुराणे च प्रादेशमात्रमथवेत्यनेन प्रादेशमात्रमप्यभिहितम्। तदेतेषां पक्षाणां स्वगृह्यानुक्तौ व्यवस्थामाह----
स्मृतिचन्द्रिकायां गर्गः,
दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवाङ्गुलम्।
अष्टाङ्गुलन्तु वैश्यानां शूद्राणां सप्तसम्मितम् ।।
चतुरङ्गुलमानं तु नारीणां नात्र संशयः।
अन्तरप्रभवानां च षडङगुलमुदाहृतम्।
इत्यर्द्धश्लोकः स्मृतिमञ्जूषायामधिकः।
स्मृतिचन्द्रिकायां विष्णुः,
कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम्।
कनिष्ठिकाग्रवत् स्थूलं पर्वार्द्धकृतकूर्चकम् ।।
दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा।
सुसूक्ष्मं हीनदन्तस्य समदन्तस्य मध्यमम् ।।
स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम्।
द्वादशाङ्गुलकं विप्रे काष्ठमाहुर्मनीषिणः ।।
क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गगुलम्।
पर्वार्द्धम् अङ्गुष्ठपर्वार्द्धम्। जिह्वोल्लेखनिकाऽपि दन्तकाष्ठजातीयकाष्ठभवा। उपस्थितत्वात् तथाशब्दस्वरसाच्च। दन्तधावनार्थतृणे विशेषमाह--
नारदीयपुराणस्थशपथवाक्यम्,
कुशकाशमिषीकोत्थं तृणं काष्ठं त्वचं विना।
दन्तकाष्ठं नरः कृत्वा तस्य यद्विहितं त्वघम् ।।
अघस्य भागिनी तस्य यदि मिथ्या वदेद्वच।
पठन्ति च,
गुवाकं तालहिन्तालौ तथा ताडी च केतकी।
खर्जूरनारिकेलौ च सप्तैते तृणराजकाः ।।
तृणराजशिरापत्रैर्न कुर्याद्दन्तधावनम्।
वृद्धशातातपः,
गन्धालह्कारवस्त्राणि पुष्पमाल्यानुलेपनम्।
उपवासेन दुष्यन्ति दन्तधावनमञ्जनम् ।।
उपवासेन हेतुनेति दानसागरप्रायश्चित्तविवेकौ। कालविवेके उपवासे चेति पठित्वा चकारान्नक्तादिष्वपीति व्याख्यातम्।
व्यक्तमाह विष्णुः,
श्राद्धे जन्मदिने चैव विवाहेऽजीर्णसम्भवे।
व्रते चैवोपवासे च वर्जयेद्दन्तधावनम् ।।
हरिवंशे,
अञ्जनं रोचनं वापि गन्धान्सुमनसस्तथा।
व्रतके चोपवासे च नित्यमेव विवर्जयेत् ।।
दन्तकाष्ठं शिरः स्नानमुद्वर्त्तनमथापि वा।
विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते ।।
शिरः स्नानं शिरोनैक्यार्थस्नानम्। उद्वर्त्तनशिरोनैक्यार्थस्नानेमृदा निषिद्धे इत्यर्थः। विधीयते इत्यस्य मृदिति शेषः। गन्धादीनां चोत्कटतया भोगार्थं धारणं निषिद्धम्। रागजनकानां सामान्यतो निषेधे तेषामेव गन्धालङ्कारवस्त्रत्वादिना विशेषेण निषेधौचित्यात्। सामान्यनिषेधकं वचनम्--
मिताक्षरायां,
पादभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलमनुलेपनम् ।
सर्वव्रतेषु वर्ज्यानि यच्चान्यद्बलरागकृत् ।।
एवं च सति गन्धालङ्कारेत्यादिशातातपवाक्ये गन्धादिपदस्यरागजनकातिरिक्तगन्धादिपरत्वे दन्तधावनपदस्य पत्रतृणादिपरत्वे अञअजनपदस्य औषधाञ्जननित्याञ्जनपरत्वे सति न दुष्यन्तीत्यर्थोऽपि सङ्गच्छते। हरिवंशवाक्यं तु रागजनकादिविषयमिति न विरोधः। तेन स्वाभाविकवस्त्रादिधारणकर्माङ्गालङ्कारधारणादृष्टार्थकदेवनिर्माल्यगन्धादिधारणानि न निषिद्धानि। अत्र न प्रतिपदादिनिषेधो, येन वैधं हित्वा रागप्राप्तमात्रपरः स्यात्। किन्तु वैधदन्तधावनप्रकरणात्पर्युदासः तेन पर्वादौ स्वेच्छया दन्तकाष्ठभक्षणे दोषाभाव इति केचित् । वस्तुतस्तु---
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम्।
इति नृसिंहपुराणीयवाक्ये दोषश्रवणान्निषेध एवायम्। भक्षणविधिस्तु पर्वाद्यतिरिक्तविशेषपरः। अत एव नृसिंहपुराणे एव अलाभे दन्तकाष्ठानामित्यादिना दन्तकाष्ठस्थाने द्वादश गडूषा विहिताः। यत्र तु न दोषश्रवणं तत्रास्त्वेकवाक्यानुरोधात्पर्युदास इति ध्येयम्। व्रतादौ तु प्रकरणाद्दन्तकाष्ठभक्षणाभावोऽङ्गं दीक्षितस्य दानहोमाद्यभाववत्। अत्र गण्डूषानां दन्तधावनकार्यकारित्वेऽप्यसमवेतार्थत्वादविधानाच्च न तत्र मन्त्रान्वयः। व्रीहिकार्यकारिषु यवेषु व्रीहीणां मेधेत्यादिमन्त्राभाववत्। सोमप्रतिनिधित्वेन प्राप्तेषु पूतीकेषु सोममन्त्रा भवन्त्येव। तेषु सोमावयवसद्भाववात्। प्रतिपदादौ तु दन्तकाष्ठनिषेधात्प्रतिनिधिनयायेनापि तत्सदृशस्य चाप्राप्तौ मन्त्रलोप एव। एतेन यत्केनचिदुक्तं प्रतिपदादौ गण्डूषेऽपि वनस्पतइत्यत्र गण्डूषपदोहेन मन्त्रः पठनीय इति, तत् निरस्तमू। तत्र वनस्पत्यप्राप्त्या तद्विनियुक्तमन्त्रस्याप्यप्राप्तेः। प्रकृतावूहाभावाच्च। अन्यथा यवप्रयोगेऽपि व्रीहिप्रकाशकमन्त्रस्य व्रीहीपदस्थाने यवपदोहेन प्राप्तिप्रसङ्गः। अलाभे दन्तकाष्ठानां प्रतिषिद्धतिथौ दन्तकाष्ठाभावविहितेषु गण्डूषेष्वपि न दन्तकाष्ठभक्षणेतिकर्त्तव्यताप्रविष्टमन्त्रान्वयः। गण्डूषस्य लौकिकप्रमाणेनैव निर्ज्ञातेतिकर्त्तव्यताकत्वेनेतिकर्तव्यताकाङ्क्षाविरहात्। अन्यथा प्राजापत्यव्रताशक्तिविहितगोदाने आचमनाशक्तिविहितकर्णस्पर्शादौ च मुख्येतिकर्त्तव्यताप्रसङ्गः। अत एव निर्ज्ञातेतिकर्त्तव्यताकायां दीक्षणीयास्थानापन्नायां त्रेधातव्यायामिष्टौ न दीक्षणीयाधर्मातेदेशः।
यत्तु,
यो मोहातस्नानवेलायां भक्षयेद्दन्तधावनम्।
निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ।।
इति व्यासेनोक्तं, तत् मध्याह्नस्नानविषयम्।
मध्याह्ने स्नानकाले तु यः कुर्याद्दन्तधावनम्।
निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ।।
इतिप्रचेतोवाक्यैकवाक्यत्वात्। उषः कालेष्वित्यादिना दक्षेण शौचानन्तरं दन्तधावनपूर्वकस्नानविधानेनार्थतः दन्तधावनोत्तरं प्रातः स्नानविधानात्। हारीतेनापि दन्तधावनोत्तरं स्नानविदानाच्च। यथा,
दन्त धावनं भक्षयेदविरक्तं सोदकम् एकान्तमुत्सृज्य स्नातो वाग्यतः शुचिरहतशुक्लवासा अग्निहोत्रादिदेवतार्थान् कुर्यात्।
अविरक्तं सरसम्। सोदकं प्रक्षालितम्। अग्निहोत्रादिदेवतार्थान् अग्निहोत्रादीनि देवतार्थांश्च देवपूजादीन्। इति दन्तधावनम्
------ *** -----
अथ द्रव्यहस्तस्योच्छिष्टादेराचमनकालः।
सम्पाद्यताम्तत्र गौतमः, द्रव्यहस्त उच्छिष्टो निधायाचामेदिति।
मूत्रपुरीषकर्मभोजनादि चोच्छिष्टनिमित्तम्। अत्र द्रव्यपदम् अन्नपानादिभक्ष्यद्रव्यपरम्।
यथा वसिष्ठः,
प्रचरन्नभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत्।
भूमौ निक्षिकप्य तत् द्रव्यमाचम्य प्रचरेत्पुनः ।। इति।
प्रचरन् गच्छन् अब्यवहार्येषु हस्तादौ सत्स्वित्यर्थः। भूमौ निक्षिप्य तत् द्वव्यमित्यग्रे दर्शनात्। उच्छिष्टशब्दोऽत्राचमनार्हाशुचिवचनः। स्नानार्हाशुचिवचनत्वे त्वाचमनमात्रविधिविरोधात्।
बृहस्पतिरपि,
प्रचरन्नन्नपानेषु यदोच्छिष्टमुपस्पृशेत्।
भूमौ निधाय तत् द्रव्यमाचान्तः प्रचरेत्पुनः ।। इति।
अत्र विशेषमाहतुः शङ्खलिखितौ, द्रव्यहस्त उच्छिष्टो निधायाचम्याभ्युक्षेत् द्रव्यम्।
एतदप्यभ्यवहार्यद्रव्यविषयम्। एवञ्च द्रव्यहस्तस्याचमनाच्छुद्धिः द्रव्यस्य तु निधानाभ्युक्षणाभ्यामिति फलितम्। यदा तु द्रव्यस्यैव साक्षादुच्छिष्टस्पर्शस्तदा तत् परित्याज्यमेव।
``यदाह वसिष्ठः, उच्छिष्टमगुरोरभोज्यं स्वमुच्छिष्टमुच्छिष्टोपहतं चेति स्मृतिचन्द्रिका।
यत्तु---
उच्छिष्टेन तु संस्पृष्टे द्रव्यहस्तः कथञ्चन।
अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ।।
इति मनुवचनं, तद अभ्यवहार्यान्नव्यञ्जनव्यतिरिक्तद्रव्यहस्तविषयमिति विश्वरूपभर्तृयज्ञाविति कल्पतरुः।
मार्कण्डेयः,
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तो निधाय वा।
आचम्य द्रव्यमभ्युक्ष्य पुनरादातुमर्हति ।।
अत्र वाशब्द उक्तरीत्या अभ्यवहार्यानभ्यवहार्यद्रव्यभेदेव्यवस्थितविकल्पपरः।
बौधायनः, ``तैजसं चेदादायोच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत। स चेदन्येनोच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत। अथ चेदद्भिरुच्छिष्टी स्यात्तदुदस्याचम्यादास्यन्नद्भिः प्रोक्षेत। एतदेव विपरीतममत्रे, वानस्पत्ये च विकल्पः। तैजसं सुवर्णपात्रादि। उदस्य निधाय। प्रोक्षेतेत्यत्र तदित्यनुषङ्गः। स पात्रग्रहीता। अन्येन उच्छिष्टेन स्पृष्टः सन्नुच्छिष्टी स्यात्। अथ चेदिति। अद्भिः उच्छिष्टोदकैः। एतदेवेति। आदानापेक्षं चात्र विपरीतत्वम्, तेन तदुदस्य परित्यज्याचामेन्न पुनस्तद्ग्रृह्णीयादित्यर्थ इति कल्पतरुः। विपरीतमनुदस्येति यावदिति तु स्मृतिचन्द्रिका। अमत्रं पात्रम्। प्रकृते तु तैजसस्य पृथगुपादानात्तैजसातिरिक्तं तद्बोध्यम्। वानस्पत्ये वार्क्षे पात्रे। विकल्पो वैपरीत्यस्य।
कर्मपुराणे,
तैजसं वै समादाय यद्युच्छिष्टो भवेत् द्विजः।
भूमौ निक्षिप्य तत् द्रव्यमाचम्याभ्युक्षयेत्तु तत् ।।
यद्यत् द्रव्यं समादाय भवेदुच्छेषणान्वितः।
अनिधायैव तत् द्रव्यमाचान्तः शुचितामियात् ।।
वस्त्रादिषु विकल्पः स्यात्तत्स्पृष्टौ चैवमेवहि। इति।
विकल्पः निधानमनिधानं वा। तत्स्पृष्टौ तैजसादिहस्तस्योच्छिष्टस्पृष्टाविति बौधायनैकवाक्यतया व्याक्येयम्। यद्यत् द्रव्यमि त्यत्र यद्यमत्रमिति स्मृतिचन्द्रिकायां पाठः। एतत्पाठानुसारेणैव स्मूतिचन्द्रिकाकारेण एतदेव विपरीतममत्रइति बौधायनवचनं व्याख्यातम्।
बृहस्पतिः,
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि।
कृत्वा मूत्रपुरीषं च द्रव्यहस्तो न दुष्यति ।।
शौचं तु कुर्यात्प्रथमं पादौ प्रक्षालयेत्ततः।
उपस्पृश्य तदभ्युक्ष्य गृहीतं शुचितामियात् ।।
द्रव्यहस्त इत्यत्र हस्तपदम् अङ्गान्तरस्याप्युपलक्षणार्थम्। द्रव्यपदं चात्रासङ्कुचितमन्नादेरपि संग्राहकमिति रत्नाकरादयः। अत्र गृहीतं शुचितामियादित्यनेन शौचात्पूर्वं भूमौ द्रव्यनिधानमाक्षिप्यते।
तथाचापस्तम्बः,
कृत्वा मूत्रं पुरीषं च द्रव्यहस्तः कथञ्चन।
भूमावन्नं प्रतिष्ठाप्य कृत्वा शौचं यथाविधि ।।
तत्संयोगात्तु पक्वान्न्मुपस्पृश्य ततः शुचिः। इति।
तत्संयोगादिति। अशुचिपुरुषसंयोगाद्यथा तदशुचि तथा शुचिपुरुषसंयोगाच्छुच्यपीत्यर्थः। अत्र पक्वान्नमित्यनन्तरं शुचीत्यनुषङ्गः। तत्संयोगात्तु पक्वान्नमित्यत्रोत्सङ्गोपात्तपक्वान्न इति स्मृतिचन्द्रिकायां पाठः। तत्र च पक्वान्नं प्रथमं भूमौ निधाय शौचं कृत्वा तदन्नमङ्के निधायाचम्य शुध्यतीत्यर्थः।
वायुपुराणे,
पादौ प्रक्षाल्य निक्षिप्य आचम्याभ्युक्षणं ततः।
पुष्पदीनां तृणादीनां प्रोक्षणं हविषां तथा ।।
निक्षिप्य भूमौ द्रव्यं निधायेत्यर्थः।
मार्कण्डेयस्तु शौचमप्यनिधायैव कार्यमित्याह,
पक्वान्नेन गृहीतेन मूत्रोच्चारं करोति यः।
अनिधायैव तत् द्रव्यमङ्के कृत्वा समाश्रितम् ।।
शौचं कृत्वा यथान्यायमुपस्पृश्य यथाविधि।
अन्नमभ्युक्षयेच्चैवम् उद्धृत्यार्कस्य दर्शयेत् ।।
त्यक्त्वाऽग्रमात्रं वा तस्माच्छेषं शुद्धिमवाप्नुयात्। इति।
------- *** ------
अथ द्विराचमननिमित्तानि।
आपस्तम्बः, भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत् द्विःरपिमृजेत् सकृदुपस्पृशेत्।
द्विः परिमृजेदित्यादिविशेषो भोक्ष्यमाणस्यैव। द्विरित्यनेन स्वयमुक्तस्य वैकल्पिकस्य त्रिरित्यस्य निवृत्तिः। सकृदित्यनेन स्वोक्तस्य वैकल्पिकस्य द्विरित्यस्य निवृत्तिः।
व्यासः,
प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत्।
भुञ्जानो भोक्ष्यमाणः।
याज्ञवल्क्यः,
स्नात्वा पीत्वा क्षुते भुक्त्वा रथ्योपसर्पणे।
आचान्तः पुनराचामेद्वासो विपरिधाय च ।।
पैठीनसिः, कलिककासश्वासागमे च रथ्याचत्वरश्मशानक्रान्तेष्वाचान्तः पुनराचामेत्।
कलिलं कठिनः श्लेष्मा। श्वासोऽत्र विकृतो व्यायामादिकृतः, प्राकृतस्य सदातनत्वात्। चत्वरं भूतादिबलिस्थानमिति कल्पतरुः।
यमः,
सकर्द्दमे तु वर्षासु प्रविश्य ग्रामसङ्करम्।
जङ्घाभ्यां मृत्तिकास्तिस्रः पद्भ्यां तु द्विगुणा स्मृताः ।।
एतत्क्षालनं रथ्याक्रमणनिमित्तकाचमनात्प्राक्। ग्रामसङ्करं ग्रामावकरस्थानम्।
``संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा।
क्षिप्ते इति त्रिकाण्डीस्मरणात्।
शङ्कलिखितौ, मूत्रपुरीषष्ठीवनादिषु शुक्तवाक्याभिधानेषु च पुनरुपस्पृशेत्।
शुक्तं परुषमिति कल्पतरुः।
वसिष्ठः, सुप्त्वा भुक्त्वा क्षुत्वा रुदित्वा पीत्वा च आचान्तः
पुनराचामेद्वासो विपरिधाय चौष्ठौ च संस्पृश्य यत्रालोमकौ।
बौधायनः,
भोजने हवने दाने उपहारे प्रतिग्रहे।
हविर्भक्षणकाले च तत् द्विराचमनं स्मृतम् ।।
माधवीये षट्त्रिंशन्मतम्,
होमे बोजनकाले च सन्ध्ययोरुभयोरपि।
आचान्तः पुनराचामेज्जपहोमार्चनेषु च ।।
सर्वेषां च निमित्तानां ज्ञातानामेव नैमित्तिकाचमनादिप्रयोजकत्वं यथासम्भवमशुद्धिप्रयोजकत्वं च।
द्रप्साविद्धां तनुं लक्ष्य दृष्ट्वा वाप्यशुचिर्भवेत्।
इति देवलवचने एकत्र दृष्टत्वात्। व्यवहारोऽप्येवम्। द्रप्साघनीभूतश्लेष्मा। लक्ष्य प्रकारान्तरेण ज्ञात्वा। लक्ष्येति ल्यबार्षः।
------ *** -----
अथ काम्यप्रातः स्नानम्।
सम्पाद्यताम्विष्णुः,
य इच्छेद्विपुलान् भोगान् चन्द्रसूर्यग्रहोपमान्।
प्रातः स्नायी भवेन्नित्यं मासौ द्वौ माघफाल्युनौ ।।
यमः,
प्रातः स्नायी च सततं मासौ द्वौ माघफाल्गुनौ।
देवान् पितॄन् समभ्यर्च्य सर्वपापैः प्रमुच्यते ।।
देवपितृसमभ्यर्च्चनं तर्पणादिना। अत्रोभयत्रापि द्वौ मासाविति अत्यन्तसंयोगे द्वितीया। तेन मध्ये प्रातः स्नानाविच्छेदो न कर्त्तव्यः।
विष्णुः, मासः कार्त्तिकोऽग्निदैवत्योऽग्निश्च सर्वदेवानां मुखं तस्मात्कार्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव इविष्याशी वत्सरकृतात्पापात्पूतो भवति।
कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः।
हविष्यभुक् जपन् शान्तः सर्वपापैः प्रमुच्यते ।।
बहिर्नद्यादौ। नित्यस्नायी प्रातः स्नायी।
अस्नातस्तु पुमान्नार्हो जप्याग्निहवनादिषु।
प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्त्तितम् ।।
इति शङ्खस्मरणात्। क्वचित्प्रातः स्नायीत्येव पाठः। जपन् आवश्यककृत्यान्तरवर्जिते कालइति कल्पतरु। हविष्यं हविष्येषु यवा मुख्या इत्यादिना विष्णूक्तम्। प्रातः स्नानमरुणकरग्रस्तामित्यादिना विष्णुनैवोक्तनित्यस्नानात्कार्त्तिकं सकलं मासमित्यादिना विष्णुक्तं प्रातः स्नानं प्रकरणभेदाज्जितेन्द्रियत्वहविष्यभुक्त्वाद्यनेकगुणविधानाच्च कर्मान्तरमेव। तथा, मासः कार्त्तिक इत्यादिना विष्णूक्तं बहिः स्नानं, कार्त्तिकं सकलं मासमित्यादिना विष्णूक्तात्प्रातः स्नानाद्भिन्नमेव। अन्यथा प्राप्ते कर्मण्यनेकविधाने वाक्यबेदप्रसङ्गः। एवं च बहिःस्नाने द्विजातिरेवाधिकारी। तत्र गायत्रीजपस्याङ्गत्वाभिधानात्। तच्चानिषिद्धकाले यदा कदाचित्कर्त्तव्यं कालविशेषानभिधानात्। द्वितीयं तु प्रातर्नद्यादौ गेहे वा कर्त्तव्यम्। तत्र देशविशेषानभिधानात्। अत्र स्त्रीशूद्रादीनामप्यधिकारः। गायत्रीजपादेः सङ्कोचकस्याभावात्। कल्पतरुस्वरसोऽप्येवमिति। अत्र स्नानविधायकेषु प्रातःशब्द उदयपूर्वकालवचनः। प्रातः स्नाय्यरुणकरग्रस्तां प्राचीमवलोक्य स्नायादिति विष्णुवचनेन सर्वत्र प्रातःस्नाने तस्यैव कालस्य प्रापितत्वात्। यत्तु
प्रातःकालो मुहूर्त्तास्त्रीनिमि मत्स्यपुराणोक्तं, तद व्रतविषयमिति कल्पतरुः। हलायुधादिनिबन्धेषु तु एतच्च काम्यप्रातःस्नानं नित्यप्रातःस्नानं नित्योपासनादिकं च स्वस्वकालविहितं कृत्वा स्वकल्पोक्तविधिविस्तरेणैव मध्याह्नस्नानवत्कार्यमित्युक्तम्। तेषामयमाशयः। अरुणकरग्रस्तामित्यादिना विष्णूक्तः कालो नित्यस्नानमात्रविषयः। अन्यत्र तूदिते रवावित्यादिनोक्तः प्रातःकालो मुहुर्त्तास्त्रीनित्यादिरूपः। न च तस्य प्रकरणाच्छ्राद्धमात्रविषयत्वम्। मत्स्यपुराणएव प्रातरादीन् कालान् विभज्य----
सायाह्नस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत्।
इत्युक्त्वा,
राक्षसी नाम सा वेला गार्हिता सर्वकर्मसु।
इत्यनेन तत्र सर्वकर्मनिषेधेनान्यत्र सर्वकर्माभ्यनुज्ञानात्। किञ्च। होमसन्ध्यावन्दनादिलोपापत्त्या तदा सर्वाङ्गसम्पन्नं काम्यं स्नानं कर्त्तुमपि न शक्यते। मध्याह्नस्नानवत्तत्करणं तु मध्याह्नस्नानएव निखिलस्नानधर्मकथनेन तस्य स्नानमात्रप्रकृतित्वादिति। येषां तु काम्यानामपि रथसप्तमीस्नानादीनां-----
सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी।
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।।
इति भविष्यपुराणादिवाक्यैररुणोदयकालोऽभिहितः, तेषामपि सन्ध्याहोमादिकालललोपरूपयुक्तितौल्यात्सङ्क्षिप्तप्रयोगेणैवानुष्ठानमिति। प्रातःस्नानानन्तरं च तदङ्गतर्प्यणं तदव्यवधानेनैव कार्यम्।
तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्।
इत्युपक्रम्य---
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा।
आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ।।
सम्मार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः।
इत्यादिना---
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत्।
इत्यन्तेन कूर्मपूराणे तथाऽभिधानात्। स्पष्टमेतत्पाराशरमाधवीये चतुर्विंशतिमते। यथा,
स्नानादनन्तरं तावत्तर्पयेत्पितृदेवताः।
उत्तीर्य पीडयेद्वस्त्रं सन्ध्याकर्म ततः परम् ।। इति।
एवं च यत् क्वचित्सन्ध्योत्तरतर्पणाभिधानं तत् अहःकर्त्तव्यस्वतन्त्रतर्पणाभिप्रायकम्। अत एव वाचस्पतिमिश्रेणापि सायं वैधस्नानप्राप्तौ सन्ध्यासंभवेऽपि सन्ध्यातः पूर्वं स्नानाव्यवहितमेव तर्पणं कार्यमित्युक्तम्। मैथिलास्तु यथाऽहनि तथा प्रातरिति वचनेन माध्याह्निकक्रमातिदेशात्सन्ध्योत्तरमेव प्रातःस्नानाङ्तर्पणम्। शिष्टाचारोऽप्येवमेव। कूर्मपुराणादिवचनं चोपरागादिनिमित्तकस्नानस्य सायमनुष्ठाने क्रमबोधकमिति वदन्ति।
तर्पणस्य स्नानाङ्गता तु---
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते।
तर्पणं तु भवेत्तस्य अङ्गत्वेन प्रकीर्त्तितम् ।।
इति ब्रह्मपुराणे सिद्धा। तच्च सति सम्भवे स्वशाखोक्तविधिनैव कार्यम्। कालसङ्कोचादौ तु सङ्क्षेपेण कार्यम्। सङ्क्षेपश्च नृसिंहपुराणादावुक्तः।
यथा नृसिंहपुराणे,
पितॄनृषिगणान्देवानद्भिः संतर्प्पयेत्ततः।
देवान्देवगणांश्चाणि मुनीन्मुनिगणानपि ।।
पितॄन्पितृगणांश्चापि नित्यं सन्तर्पयेत्ततः इति।
एतत्प्रयोगस्तु देवांस्तर्पयामि देवगणांस्तर्पयामीत्यादि। अतिसङ्क्षेपमाह---
शङ्खः,
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन्।
जलाञ्जलित्रयं दद्यादेतत्सङ्क्षेपतर्पणम् ।। इति।
इदं सङ्क्षेपतर्पणं देवविधिनैव कार्यमिति वदन्ति।
केचित्तु ॐभूर्देवांस्तर्पयामि भुवर्द्देवांस्तर्पर्यामि स्वर्देवांस्तर्पयामि भूर्भुवः स्वर्देवांस्तर्पयामीति देवानाम्, एवं भूर्ऋषींस्तर्पयामीत्यादि ऋषीणाम्, एवं भूः पितॄंस्तर्पयामीत्यादिना पितॄणां सङ्क्षेपतर्पणमाचरन्ति।
अन्ये तु,
आब्रह्मस्तम्बपर्यन्तं जगदेतच्चराचरम्।
मया दत्तेन तोयेन तृप्यत्वेतच्चतुर्विधम् ।।
इति मन्त्रेणाञ्जलित्रयदानेन सङ्क्षेपतर्पणमाचरन्ति।
ततो वक्ष्यमाणरीत्या वस्त्रपरिधानतिलकादिकरणम्।
------ *** ------
अथ प्रातःसन्ध्यादि।
सम्पाद्यताम्नृसिंहपुराणे,
पूर्वां सन्ध्यां सनक्षत्रामुपक्रम्य यथाविधि।
गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् ।।
इदं च साग्निकेतरपरम्। उदितहोमिनोऽपि सूर्योदयात्पूर्वमग्निप्रादुष्करणस्याभिधानात्।
यथा गोभिलः, पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिं जुहुयादिति।
अनुदिदहोमीतरपरमिति तु श्रीदत्तः। उत्थानशौचदन्तधावनस्नानाचमनाद्युक्त्वा----
दक्षः,
सन्ध्याकाले तु सम्प्राप्ते मध्याह्ने च ततः पुनः।
उपास्ते यस्तु नो सन्ध्यां ब्राह्मणो हि विशेषतः ।।
स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मशु ।।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत्।
सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।।
स्वयं होमफलं यत्तु तदन्येन न जायते।
ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।।
एभिरेव हुतं यत्स्यात्तद्धुतं स्वयमेवहि।
देवकार्यस्य सर्वस्य पूर्वाह्णस्तु विधीयते ।।
देवकार्यन्तु पूर्वाह्णे मनुष्याणां तु मध्यमे।
पितॄणामपराह्णे च कार्याण्येतानि यत्नतः ।।
पूर्वाह्णिकं तु यत्कर्म यदि तत्सायमाचरेत्।
न तत्फलमवाप्नोति वन्ध्यास्त्रीमैथुनं यथा ।।
दिवसस्याद्यभागे तु सर्वमेतत्समापयेत्।
इति।
सन्ध्याकाले तु सम्प्राप्ते इत्यत्र सन्ध्यास्नानमृगन्तेनेति ब्राह्मणसर्वस्वे पाठः। स तु व्याख्यातः। सन्ध्यास्नानं निशान्ते त्विति रत्नाकरादौ पाठः। अनर्ह इति। चिरकालं सन्ध्यात्यागी द्विजातिकर्मानधिकारीत्यर्थः।
नानुतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम्।
स शूद्रवद् बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ।।
इति मनुदर्शनात्। केचित्तु अकृतसन्ध्योपासनः सन्ध्योत्तरविहितकर्मणामनधिकारीत्यर्थ इत्याहुः। अनुकल्पमाह ऋत्विक्पुत्र इत्यादि। विट्पतिर्जामाता। देवकार्यं देवपूजनम्। तच्च मैत्रं प्रसाधनमिति वचनव्याख्यायां व्याख्यातम्। यदि तत्सायमिति। अत्र विशिष्य सायङ्कालनिषेधात् मध्याह्नादिकालोऽपि गौणत्वेनाभिमतः। आद्यभागे अष्टधा विभक्तस्य दिवसस्याद्यभागान्ते काले।
नृसिंहपुराणे,
ततश्चावसथं प्राप्य होमं कुर्याद्विचक्षणः।
देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणम् ।।
देवकार्यस्य सर्वस्य पूर्वाह्णस्तु विधीयते।
देवकार्याणि पूर्वाह्णे मनुष्याणां तु मध्यमे ।।
पितॄणामपराह्णे तु कार्याण्येतानि यत्नतः।
दिवसस्याद्यभागे तु सर्वमेतत्समाचरेत् ।।
गुरुः पित्रादिः।
मङ्गलान्याह नारदः,
लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः।
हिरण्यं सर्पिरादित्य आपो राजा तथाऽष्टमः ।।
एतानि सततं पश्येन्नमस्येदर्च्चयेच्च यः।
प्रदक्षिणं च कुरुते आयुस्तस्य न हीयते ।।
एतेषां ब्राह्मणादीनामष्टानां मङ्गलानां दिवसस्याद्यभागे वीक्षणमात्रं दर्शननमस्कारार्च्चनप्रदक्षिपीकरणानि समुदितानि आयुष्कामस्य तृतीयभागएव कर्त्तव्यत्वेन विहितानीति कल्पतरुः।
आपस्तम्बः, अथ स्नातकव्रतानि पूर्वेण ग्रामान्निष्क्रमणप्रवेशनानि शीलयेदुत्तरेण वा सन्ध्ययोर्बहिर्ग्रामादासनं वाग्यतश्च विप्रतिषेधे श्रुतिलक्षणं बलीयः शीलयेत्। यथा तच्छीलता निष्पद्यते तता कुर्यात्।
विप्रतिषेधे श्रौतेन होमादिना विरोधे श्रुतिलक्षणं श्रौतमेवानुष्ठेयत्वेन बलीयः न स्मार्त्तम्। एवं च स्नानाद्यर्थमपि बहिर्निगमनप्रवेशने ग्रामपूर्वोत्तरान्यतरमार्गेणेति सिद्धम्।
याज्ञवल्क्यः,
हुत्वाऽग्नीन्सूर्यदेवत्यान् जपेत् मन्त्रान् समाहितः। इति।
सूर्यदेवत्यान् मन्त्रानित्यन्वयः।
वराहपुराणे,
उदयान्निःसृतं सूर्यं यस्तु भक्त्या नरो द्विजः।
दध्यक्षताञ्जलिभिस्तु तिसृभिः पूजयेच्छुचिः ।।
तस्य भावप्रपन्नस्य अशुभं यत्समर्जितम्।
तत्क्षणादेव निर्द्दग्धं भस्मीभवति काष्ठवत् ।।
भावप्रपन्नस्य भक्त्या शरणं प्रपन्नस्य।
मनुः,
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्।
पूर्वाह्णएव कुर्वीत देवतानां च पूजनम् ।।
व्याख्यातमिदं मूत्रपुरीषोत्सर्गप्रकरणे।
विष्णुपुराणे,
आचान्तश्च ततः कुर्यात्पुमान्केशप्रसाधनम्।
आदर्शाञ्जनमङ्गल्यदूर्वाद्यालम्भनानि च ।।
केशप्रसाधनं केशपरिष्कारः। आदर्शो दर्पणः। अञ्जनं सौवीराञ्जनं सुरमा इति मध्यदेसे प्रसिद्धम्। आदिशब्देन दध्यादीनामुपादानम्।
छन्दोगपरिशिष्टे,
श्रोत्रियं सुभगां गां च आग्निमग्निचितं तथा।
प्रातरुत्थाय य पश्येदापद्भ्यः स प्रमुच्यते ।।
अग्निचित् कृताग्निचयः।
तथा,
पापिष्ठिं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम्।
प्रातरुत्थाय यः पश्येत्तत्कलेरुपलक्षणम् ।।
स्मृतिचन्द्रिकायां पुराणां,
रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम्।
गुरुमग्निं च सूर्यं च प्रातः पश्येत्सदा बुधः ।।
ब्रह्मपुराणे,
स्वमात्मानं घृते पश्येद्यदीच्छेच्चिरजीवितम्।
अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च।
एतानि सद्यः शमयन्ति पापं गङ्गाजलं भारतकीर्त्तनं च ।।
आत्मानं शरीरम्।
मनुः,
दैवतान्यभिगच्छेच्च धार्मिकांश्च द्विजोत्तमान्।
ईश्वरं चैव रक्षार्थँ गुरूनेवच पर्वसु ।।
अभिवादयेत्तु तान् वृद्धान् दद्याच्चैवासनं स्वकम्।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ।।
अभिगच्छेत् आभिमुख्येन पूजार्थ गच्छेत्। गुरूनेवेत्येवकारोऽभिगच्छेदित्यनन्तरं बोध्यः।
छागलेयो यमश्च द्वितीये,
यतीनां दर्शनं चैव स्पर्शनं भाषणं तथा।
कुर्वाणः पूयते नित्यं तस्मात्पश्येत्तु नित्यशः ।।
अग्निचित् कपिला सत्री राजा भिक्षुर्महोदधिः।
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः ।।
पश्येदित्यनेन स्पर्शभाषणे अप्युपादीयेते। पश्येच्चेति पाठे तु चकारेणैव तत्समुच्चयः। अग्निचित् कृताग्निचयनः। कपिला कपिलवर्णा गौः। सत्री कृतसत्रयागः। अन्नादिसत्रशील इति केचित्। भिक्षुर्यतिः।
वाराहपुराणे,
वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम्।
नमस्येच्चैव यो भक्त्या स पापेभ्यः प्रमुच्यते ।।
यज्वा मिष्टान्नदः सत्री शतायुर्धार्मिकः शुचिः।
ज्ञाननिष्ठांस्तपःसिद्धान् दृष्ट्वा पापात्प्रमुच्यते ।।
शुचिस्तीर्थादिपूतः। ज्ञाननिष्ठोऽध्यात्मनिरतः। अत्र शुचिरित्यनन्तरमेतानिति शेषः।
विष्णुः,
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना।
षडङ्गमेतत्परमं मङ्गलं परमं गवाम् ।।
श्रृङ्गोदके गवां पुण्यं सर्वाघविनिषूदनम्।
मनुः,
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविरआयति।
अम्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ।।
आयति आगच्छति।
वामनपुराणे,
कृत्वा शिरःस्नानमथाह्निकं च संपूज्य तोयेन पितॄन्सदेवान्।
होमं च कृत्वाऽऽलभनं शुभानां ततो बहिर्निर्गमनं प्रशस्तम् ।।
दूर्वां तथा सर्पिरथोदकुम्भं धेनुं सवत्सां वृषभं सुवर्णम्।
महीमयं स्वस्तिकमक्षतानि लाजा मधु ब्राह्मणकन्यकाश्च ।।
श्वेतानि पुष्पाणि तथा शमीं च हुताशनं चन्दनमर्कविम्बम्।
अस्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निजजातिधर्मान्।
देशानुदिष्टं कुलधर्म्ममग्र्यं स्वगोत्रधर्मं न हि सन्त्यजेच्च ।।
आह्निकमहःस्नानम्। एतच्चाभ्युदयादौ।
अरुग्दिवा चरेत् स्नानं मध्याह्ने वा विशेषतः।
इति वसिष्ठवाक्यात्। यदि त्वाह्निकं सर्वमहःकृत्यमुच्यते तदा संपूज्येत्यादि व्यर्थं स्यादिति श्रीदत्तः। आह्निकं सन्ध्योपासनमिति तु युक्तम्। संपूज्य तोयेन पितॄनित्यनेन प्रातःस्नाने पितृतर्पणं कर्त्तव्यमित्युक्तमिति कल्पतरुः। दूर्वां तथेत्यत्र दूर्वादधिम् इति क्वचित्पाठः। स्वस्तिको गृहभेदः अर्कबिम्बालम्भनं च चक्षुषा, तेन निरीक्षणं पर्यवस्यति। अत्र शिरःस्नानादि सर्वं यथाकालप्राप्तमनूद्य ततस्तु कुर्यान्निजजातिधर्मानित्यादि तृतीयभागे विधीयते। निजजातिधर्मश्च स्वस्वजातिविहितोऽर्थार्जनादिरूपः। तत्रापियस्मिन्देशे यस्यां च जातौ यस्मिन् कुले योऽर्जनोपायो विहितोऽथवाऽनिन्दितः स एव तत्र तत्र तेन कर्त्तव्य इत्यर्थः। तत्र होमदेवपूजानन्तरं गुरुमङ्गलवीक्षणं क्षणेन प्रथमार्द्धयामे विहितम्। द्वितीयतृतीयभागयोर्वेदाभ्याससमित्कुशाद्याहरणे अर्थार्जनादि च क्रमशोऽभिहितम्।
वामनपुराणे चार्तार्जनात्पूर्वं मङ्गलालम्भनादिकमुक्तम्। वचनान्तरेषु तु अन्येषामुक्तानां कर्मणां कालो न प्रतीयते। ततश्च तृतीयभागकर्त्तव्यार्थार्जनात्पूर्वं प्रथमभागादावेतेषां यथासम्भवं कर्त्तव्यता प्रतीयते। कल्पतरौ तु देवपूजागुरुमङ्गलवीक्षणसूर्यार्घदानतत्स्तुतिकेशप्रसाधनादर्शदर्शनाञ्जनदूर्वादिसन्मङ्गलालम्भनात्मदर्शनानि प्रथमभागप्रकरणे लिखितानि। अन्यानि तृतीयभागकर्त्तव्यप्रकरणे लिखितानि। श्रीदत्तादिनिबन्धेषु तु सर्वाण्येतानि प्रथमभागकर्त्तव्यप्रकरणे लिखितानि इति।
भरद्वाजः,
कण्डूय पृष्ठतो गां तु कृत्वा चाश्वत्थवन्दनम्।
उपगम्य गुरून् सर्वान् विप्रांश्चैवाभिवादयेत् ।।
शङ्खः,
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः।
कुर्वात प्रणतो भक्त्या गुरूणामभिवादनम् ।।
विष्णुः,
कृतसन्ध्योपासनश्च गुर्वाभिवादनं कुर्यात्।
याज्ञवल्क्यः,
अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि।
ततोऽभिवादयेद् वृद्धानसावहमिति ब्रुवन् ।।
यद्यपि सन्ध्योपासनानन्तरमभिवादनं ब्रह्मचारिप्रकरणे एवो श्रूयते तथाप्युत्तरेषां चैतदविरोधीति गौतमवचनात् गृहस्थादीनामपि तत्प्राप्तिः। तस्य वचनस्य चायमर्थः। एतत् ब्रह्मचारिणोच यद्विहितं तत्र यद गृहस्थाद्याश्रमाविरोधितद् उत्तरेषां गृहस्थादीनामपि। स्वस्वाश्रमविरुद्धं तु न भवति। यथा ब्रह्मचर्यं गृहस्थस्य, गुरुकुलवासो वैखानसस्य, अग्निकार्यं प्रव्रजितस्येति।
गृहस्थधर्मे शान्तिपर्वण्यपि,
सायं प्रातश्च विप्राणामुद्दिष्टमभिवादनम्। इति।
अत्राभिवादनप्रकारश्च संस्कारप्रकाशे विस्तरेण दर्शितः ।।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजित--
चरणकमल--
श्रीमन्महाराजाधिराजप्रतापरूद्रतनूज--
श्रीमन्महाराजाधिराजमधूकरसाहसूनु--
श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरीक--
विकासदिनकर--
श्रीवीरसिंहदेवोद्योजित--
श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्र्यमहागजपारीणविद्वज्जनजीवातु--
श्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधनिबन्धे आह्निकप्रकाशे प्रथमभागीयकृत्यम्।
----------- *** ------------
अथ प्रातः स्नानादि।
सम्पाद्यताम्तत्र दन्तधावनोत्तरं प्रातःश्नानात्प्राक्केशप्रसाधनं केचिदिच्छन्ति। पठन्ति च---
केशप्रसाधनं चैच कुर्वीत स्नानपूर्वतः।
दक्षिणाभिमुखो नैव नैवोर्ध्वो नान्यदर्शने ।।
बृहन्नारदीये तु,
ब्राह्मो मुहूर्त्ते चोत्थाय पुरुषार्थाविरोधिनीम्।
वृत्तिं सञ्चिन्तयेद्विप्रः कृतकेशप्रसाधनः ।। इत्युक्त्वा--
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः।
इत्यादिना शौचमुक्तम्। ततश्चोत्थानानन्तरमेव केशप्रसाधनं सिध्यति। कल्पतरुकारादयस्तु प्रातर्होमान्तं कर्म उक्त्वा----
आचान्तश्च ततः कुर्यात्पुमान्केशप्रसाधनम्।
इति विष्णुपुराणादिवाक्यानि केशसाधनविधायकानि लिखितवन्तः। विष्णुपुराणे टीकायां श्रीधरस्वामिनाऽपि ``सन्ध्योपासनहोमादीनां सूर्योदयास्तमयप्रसङ्गेन प्रागेवोक्तत्वात्तदुपरितनं कर्मकाण्डमाह आचान्तश्चेत्यादिना इत्युक्तम्। एवं च सति यद्यप्येतेषां कालानां केशप्रसाधने विकल्पः सिध्यति तथापि प्रातर्होमानन्तरमेव प्रामाणिकनिबन्धानुसारेण कुर्वन्तीत्यतोऽस्माभिरपि तत्रैव लेख्यम्।
छन्दोगपरिशिष्टे कात्यायनः,
यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः।
दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ।।
अनातुरः स्नानसंवर्द्धनीयरोगशून्यः। यथेतिकर्त्तव्यतया मृदालम्भादिरूपया मध्याह्ने स्नानं कुर्यात्तथैव नित्यं प्रत्यहं दन्तान् प्रक्षाल्प नदनदीदेवखातगर्त्तप्रस्रवणादिषु प्रातरपि स्नानं कुर्यादित्यर्थः। अनातुर इत्यभिधानाच्च आतुरः स्नाननिमित्ताप्रायत्यहरितः सम्मार्जनादिना शौचमापाद्य संध्यां कुर्यात्। स्नाननिमित्ताप्रात्ये तु वक्ष्यमाणाः स्नानानुकल्पाः गेहेचेदिति। अत्रामन्त्रवदिति मन्त्रसंक्षेपोऽभिमत इति माधवस्मृतिचन्द्रिकाकारौ। तच्चिन्त्यम्। प्रातर्न तनुयात्स्नानमित्यनेन वक्ष्यमाणच्छन्दोगपरिशिष्टवाक्यान्तरेण नद्यादिक्रियमाणप्रातःस्नानेऽपि मन्त्रबाहुल्यादिरूपविस्तरप्रतिषेधप्राप्तौ गेहे चेदित्यादेर्वैयर्थ्यापत्तेः। कल्पतरुप्रभृतयस्तु तत् प्रातःस्नानं यदि गेहे केनचिन्निमित्तेन करोति तदा स्नानाङ्गमन्त्ररहितं कार्यामित्याहुः। तत्रापि उपांशु काम्या इष्टय इत्यत्र काम्यास्विष्टिषु उपांशुत्वस्य प्रधानमात्रान्वयवत् प्रधानएव मन्त्रनिवृत्तिः, न त्वङ्गेषु। तच्छब्देन प्रधानमात्रपरामर्शात्। यदा गृहाभ्यन्तरेऽवश्यकर्त्तव्यतया प्रातःस्नानं करोति तदा देहप्रक्षालनरूपं स्नानममन्त्रकमेव कार्यमिति ब्राह्मणसर्वस्वेऽभिदधतो हलायुधस्याप्यङ्गे मन्त्रान्वयोऽभिमत इत्युन्नीयते। एतेन गेहे चेत्तदमन्त्रवदित्यत्र तच्छब्देन प्रधानमात्रपरामर्शादमन्त्रकं प्रधानं शरीरक्षालनमेव कार्यं नत्वङ्गमिति मतं निरस्तम्। यतः स्नानविधिनैव साङ्गस्तनप्राप्तौ तच्छब्देन प्रधानमात्रमनूद्य तत्रैव मन्त्रनिवृत्तिरनेन बोधिता नत्वङ्गनिवृत्तिः। इदं च प्रातःस्नानएव। प्रातःस्नानमुपक्रम्याभिधानात्। मध्याह्नस्नानं तु गृहे अनुपपत्त्या क्रियमाणं समन्त्रकमेव।
मैथिलास्तु---
मलापकर्षणं तीरे मन्त्रवत्तु जले स्मृतम्।
इति दक्षवचनेन समन्त्रकस्नानस्य जलएव नियमनान्मध्याह्नस्नानमपि गेहेऽमन्त्रकमेवेत्याहुः। अत्र गृहपदं नद्यादिभिन्नस्थलपरम्। नद्यादावित्युक्त्वा गेहे चेदित्याद्यभिधानेन तता प्रतीतेः। अत एव नद्यादौ गृहस्म्भवेऽपि तत्र समन्त्रकमेव स्नानम्। गेहइत्युद्धृतोदकस्नानोपलक्षणम्। नद्याद्यभावे विधानादिति श्रीदत्तोपि।
उद्धृतोदकस्नानेऽपि तर्पणमङ्गम्। अप्रायत्यनिमित्तकस्नानाद्यतिरिक्तस्नानमात्रएव तर्प्पणाङ्गकत्वस्य वक्ष्यमाणत्वात्। उद्धृतोदकस्नानाङ्गतर्पणमुद्धृतोदकेनैव कार्यमित्यत्र नियामकाभावादुद्धृतोदकस्नानेन प्रधानस्नानदेसस्य तर्पणायोग्यत्वे तदङ्गतर्पणं नद्यादावपि कार्यम्। प्रधानस्नानदेसस्य तर्पणयोग्यत्वे तु प्रदानसादेश्याय् तदङ्गतर्पणमुद्धृतोदकेनापि तत्रैव कार्यम्।
तथा,
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः।
प्रातर्न तनुयात्स्नानं होमलोपो विगर्हितः ।।
न तनुयान्न विस्तारयेत्। अत्र होमपदं स्नानोत्तरकालीनावश्यककर्मपरम्। युक्तेस्तुल्यत्वात्। एवं चोदितहोमिनाऽपि पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिं जुहुयादितिगोभिलोक्तस्याग्निप्रादुष्करणकालस्य लोपसम्भावनायाम्, एवं निरग्निनाऽपि---
पूर्वां सन्ध्यां सनक्षत्रामुपक्रम्य यथाविधि।
गायत्रीमभ्यसेत्तावद्यावदादित्यर्शनम् ।।
इति नृसिंहपुराणोक्तस्य प्रातःसंध्योपक्रमकालस्य लोपसम्भावनायां प्रातःस्नानविस्तरो न कार्यः। न तनुयादित्यनेन सङ्क्षेप आक्षिप्तः। स च संक्षेपो योगियाज्ञवल्क्येनाभिहितः।
यथा,
योऽसौ विस्तरशः प्रोक्तः स्नानस्य विधिरुत्तमः।
असामर्थ्यान्न कुर्याच्चेत्तदाऽयं विधिरुच्यते ।।
स्नानमन्तर्जपं चैव मार्जनाचमने तथा।
तीर्थस्यावाहनं चैव तीर्थस्य परिकल्पना ।।
अघमर्षणसूक्तेन त्रिरावृत्तेन नित्यशः।
स्नानाचरणमेतत्तु समादिष्टं महात्मभिः ।।
अन्यांश्च वारुणान्मन्त्रान्कामतः सम्प्रयोजयेत्।
यथाकालं यथादेशं ज्ञात्वा ज्ञात्वा विचक्षणः ।। इति।
अत्र पूर्वप्रतिपन्नक्रमवत्तीर्थपरिकल्पनादिपदार्थानुवादेन मबोद्धव्यः। यदि तु कालदेशवशाच्छक्नोति तदा परानापि वारुणान्मन्त्रान्प्रयोजयेदित्यर्थः इति कल्पतरुः। न च मध्याह्नस्नानप्रकरणे एव योगियाज्ञवल्क्येन एतत्संक्षेपाभिधानात्कथमस्य प्रातःसस्नाने निवेश इति वाच्यम्। यथाऽहनीत्यादिना मध्याह्नस्नानधर्माणामेव प्रातःस्नानेऽतिदेशात्। समुद्रकरभाष्यादौ तु स्वस्वगृह्यविहितस्नानेष्वेवावाहनमृद्ग्रहणादीनामनेकमन्त्रसाध्यानामेकद्वित्रिमन्त्रैरनुष्ठानं सङ्क्षेप इत्युक्त्वा योगियाज्ञवल्क्योक्तं सङ्क्षेपमुक्त्वापद्मपुराणीयादि चेति रत्नाकरः। स च विधिरस्माभिर्मध्याह्नस्नानप्रकरणे वक्ष्यते। ब्राह्मणसर्वस्वे तु अन्योऽपि सङ्क्षेप उक्तः।
यथा तत्रैव व्यासः,
अन्तर्जले ऋतंसत्यं जपेत्त्रिरघमर्षणम्। इति।
एतस्य स्नानप्रकरणे पाठादेतावतैव स्नानाङ्गं सिद्ध्यतीत्युन्नियते। मुख्यं तु मज्जनमर्थसिद्धमेव। अन्योऽपि संक्षेपस्तत्रैव दक्षोक्तः।
यथा,
संध्यास्नानमृगन्तेन मध्याह्ने च ततः पुनः। इति।
संध्यामुपासितुं स्नानं संध्यास्नानं, प्रातःस्नानमित्यर्थः ऋगन्तेन द्रुपदाद्यघमर्षणादिकाब्दैवत्यमन्त्रमात्रेणेति तत्र व्याख्यातम्। अन्योऽपि संक्षेपस्तत्रैव।
यथा पैठीनसिः, हिरण्यवर्ण इति सूक्तेन स्नात्वा शौचं कृत्वा ऽपां मध्ये त्रीन् प्राणायामान् कुर्यात्।
शौचं कृत्वा आचम्येत्यर्थः। कल्पतरुप्रभृतिधृतस्नानप्रकरणस्थबृहस्पतिवाक्यादपरोऽपि संक्षेपः प्रतीयते।
यथा,
द्रुपदादिव यो मन्त्रो वेदे वाजसनेयके।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ।।
अस्य स्नानप्रकरणेऽभिधानात् बृहस्पतिना चाङ्गान्तरानभिधानादेतावतैव स्नानाङ्गं सिद्ध्यतीति प्रतीयते इति।
दक्षः,
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः।
स्रवत्येव दिवा रात्रौ प्रातःस्नानं विशोधनम् ।।
क्लिद्यन्ति च सुपुप्तस्य इन्द्रियाणि स्रवन्ति च।
अङ्गानि समतां यान्ति उत्तमान्यधमानि च ।।
तथा,
अस्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन।
लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान् ।।
प्रातःस्नानं प्रशंसन्ति दृष्टदृष्टकरं हि तत्।
सर्वमर्हति शुद्धात्मा प्रातःस्नायी जपादिकम् ।।
समतां यान्तीति। उत्तमाङ्गानि चक्षुरादीनि क्लेदशम्पर्कादधमाङ्गतुल्यानि वन्तीत्यर्थः। अस्नात्वा नाचरेदित्यत्र हेतुः लालास्वेदसमाकीर्ण इति। अत्र यत इति शेषः। दृष्टादृष्टकरमिति। दृष्टं मलापनयनद्वारा शुद्धिः, अदृष्टं नित्यत्वेन पापक्षय इति कल्पतरुः। अन्यत्र तु प्रातः स्नानस्य अपरे अपि दृष्टादृष्टे फले श्रूयेते।
यथाह दक्षः,
प्रातरुत्थाय यो विप्रः प्रातः स्नायी भवेत्सदा।
सप्तजन्मकृतं पापं त्रिर्भिर्वर्षैर्व्यपोहति ।।
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ।
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।।
तिसृष्वपिच सन्ध्यासु स्नातव्यं च तपस्विभिः।
गुणा दश स्नानपरस्य साधो रूपं च तेजश्च बलं च शौचम्।
आयुष्यमारोग्यमलोलुपत्वं दुःस्वप्नगातश्च तपश्च मेधा ।।
उपस्युषसीत्यादि। अत्र पूर्वपूर्वकालबाधे उत्तरोत्तरकालविधानम्। यद्यपि प्रातःसन्ध्यां सनक्षत्रामित्यादिना प्रातःसन्ध्योपक्रमस्य सूर्योदयात्प्रागेव कर्त्तव्यताविधानेन अस्नात्वा नाचरेत्कर्मेत्यादिना दक्षेण अस्नातस्य सन्ध्यादिकर्मानधिकारप्रतिपादनेनोदिते स्नानविधानमनुपपन्नं तथापि सूर्योदयात्पूर्वं स्नानादिकरणासामर्थ्ये सामर्थ्येऽपि वा केनचिद्विघ्नेन प्रतिबन्धे उदिते तत्कार्यमित्येवंपरमिदमिति। माधवस्मृतिचन्द्रिकाकाराभ्यां तु-----
सन्धौ संध्यामुपासीत नास्तगे नोदिते रवौ।
इति योगियाज्ञवल्कयेन सूर्योदयोत्तरं सन्ध्यानिषेधेन स्नानोत्कर्षासम्भवात् उदिते उदयाभिमुखे इति व्याख्यातम्। तच्चिन्त्यम्। सन्धअयामुपास्तइत्युपक्रम्य अतिक्रान्तायां महाव्याहृतीः सावित्रीं स्वस्त्ययनादि जपित्वेत्यादिसाङ्ख्यायनगृह्येन कालातिक्रमेऽपि सायंसंध्यामभिधाय एवं प्रातः प्राङ्मुखस्तिष्ठन्नित्यादिना एवंशब्देन प्रातःसन्ध्यायां सायंसन्ध्याधर्मातिदेशेनोदयानन्तरमपि प्रातःसन्ध्याप्राप्तेः। सूर्योदयाभिमुखकालस्य सन्ध्यायमित्यनेनैव प्राप्तत्वादुदिते रवावित्यस्य वैयर्थ्यापत्तेश्च। योगियाज्ञवल्क्यवचनं तु एकवाक्यतानुरोधेन नत्रोः पर्युदासपरतया मुख्यकालमात्रपरमिति न विरोधः।
दक्षः,
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते।
तेषां मध्ये तु यन्नित्यं तत्पुनर्भिद्यते द्विधा ।।
मलापकर्षणं पार्श्वे मन्त्रवत्तु जले स्मृतम्।
सन्ध्यास्नानमुभाभ्यां तु स्नानदेशाः प्रकीर्त्तिताः ।।
द्विधा मलापकर्षणं मन्त्रवच्चेत्यर्थः। मलापकर्षणस्वरूपमाह----
शङ्खः,
मलापकर्षणं नाम स्नानमभ्यङ्गपूर्वकम्।
मलापकर्षणार्था तु प्रवृत्तिस्तस्य नान्यथा ।। इति।
पार्श्वे जलपार्श्वे। जले न कर्त्तव्यमिति यावत्। अत एव पार्श्वे न जलमध्यइति रत्नाकरः।
अत एव विष्णुः, नाप्सु मेहेन नोद्धर्षणं कुर्यात्।
उद्धर्षणं गात्रमलक्षालनम्। सन्ध्यास्नानं प्रातःस्नानम्। उभाभ्यां जले स्थले चेति कल्पतरुः। केचित्तु अत्रात्यन्तमलिनः काय इत्यादिना प्रातःस्नानस्य मलशोधकत्वावश्यकत्वाभिधानेनोभाभ्यामित्युक्तम्। तेन प्रातः प्रथमं मलापकर्षणाय स्थले स्नात्वा पश्चाज्जले स्नातव्यम्। अन्यथोभाभ्यामिति समुच्चयासङ्गतिरिति वदन्ति। तच्चिन्त्यम्। लिखितशङ्खवाक्यादिपर्यालोचनयाऽभ्याङ्गादिपूर्वकस्नानस्यैव मलापकर्षणस्नानत्वेन प्रातःस्नानस्य मलापकर्षकस्नानत्वाभावात्। तस्यापि मलापकर्षकत्वे मलापकर्षणं पार्श्वे इत्यनेनैव स्थलकर्त्तव्यताया मन्त्रवत्त्वेन च जलकर्त्तव्यतायाः प्राप्तत्वात् सन्द्यास्नानमुभाभ्यामिति व्यर्थमेव स्यात्। तस्मात् प्रातःस्नानस्य स्थलकर्त्तव्यताया अप्राप्त्यर्थमिदं वचनम्। गेहे चेत्तदमन्त्रवदिति कात्यायनसंवादोऽप्यत्र। स्नानमाचरेदित्युपक्रम्य----
विष्णुः, न राहुदर्शनवर्ज्जं रात्रौ, न सन्ध्यायां, प्रातः स्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य स्नायात्।
सन्ध्यायां सायंसन्ध्यायामिति कल्पतरुः। महार्णवप्रकारो तु न सन्ध्ययोरिति पठित्वा सन्ध्याद्वये स्नाननिषेधादरुणकिरणग्रस्तत्वं सन्ध्यापूर्वशुक्लभास्वरपूर्वदिगुपलक्षिते काले उपसंहृतम्। तन्न। तत्कालस्यापि रात्रित्वेन तेनैव विष्णुवाक्येन निषेधात्। तस्मान्निषेधोऽयं रागप्राप्तस्नानविषयः। अत एव---
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ।
इति दक्षवाक्येन---
स्नातो यः पूर्वसन्ध्यायां सदा मामभिगच्छति।
इत्यादिवाक्येन च सन्ध्यायामपि स्नानमभिहितम्। एवञ्चसूर्योदयं विना नैव स्नानदानादिकाः क्रियाः।
इति मार्कण्डेयपुराणवचनं तदितरस्नानपरमिति श्रीदत्तादयः। वस्तुतस्तु---
अग्नेर्विहरणं चैव क्रत्वभावश्च लक्ष्यते।
इति द्वितीयार्द्धेऽग्निविहरणश्रवणात्तस्य च सूर्योदयात्पूर्वमेव विधानात्सूर्योदयशब्देनोषःकालो लक्ष्यते। अत एव कल्पतरुणाऽपि परिभाषायामिदं वचनं तथैव व्याख्यातम्। अत्रोदिते रवावित्यनेन सूर्येदयानन्तरमपि प्रातःस्नानाभिधानात्।
प्रातःकालो मुहूर्त्तांस्त्रीनिति श्राद्धप्रकरणपठितेनापि मत्स्यपुराणवचनेन परिभाषितः प्रातःकालः प्रातःस्नानस्य गौणः काल इति वदन्ति।
विष्णुः,
स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि।
पवित्राणां तथा जप्ये दाने च विधिचोदिते ।।
अलक्ष्मीः कालकरणी च दुः स्वप्नं दुर्विचिन्तितम्।
अम्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ।।
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति।
नित्यस्नानेन पूयन्ते तेऽपि पापकृतो जनाः ।।
कालकरणी दुःसहस्य रक्षसो दुहीता। दुर्विचिन्तितम् अशुभचिन्तितम्। अम्मात्रैण उद्धृतेनानुद्धृतेन वेत्यर्थ इति ककल्पतरुः। मन्इत्रादिकं विनापीति श्रीदत्तपारिजातौ। धारणा निश्चयः। याम्यं यमलोकोद्भवम्।
--------- *** ---------
अथ शौचम्
सम्पाद्यताम्तस्यावश्यकत्वमाह दक्षः,
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ।।
शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ।।
अशौचात्तु वरं बाह्यं तस्मादाभ्यन्तरं वरम्।
उभाभ्यां तु शुचिर्यस्तु स शुचिर्नेतरः शुचिः ।।
सदा कार्य इत्यनेन शौचस्य पुरुषार्थता शौचाचारेत्यादिना
च कर्मार्थता उक्ता। भावशुद्धिरन्तः करणशुद्धिः।
मृत्तिकानां सहस्रेण उदकुम्भशतेन च।
न शुध्यन्ति दुरात्मानो येषां भावो न निर्मलः ।।
मुधाद्रव्येण शुद्धिः स्यान्न क्लेशो न धनव्ययः।
यस्य शोचेऽपि शैथिल्यं वृत्तं तस्य परीक्षितम् ।।
मुधाद्रव्येण धनव्ययं विनापि सुलभेन द्रव्येण।
बृहन्नारदीयेऽपि,
मृदां भारसहस्रैस्तु कोटिकुम्भजलैस्तथा।
कृतशोचोऽकपि दुष्टात्मा स चाण्डाल इति स्मृतः ।।
अन्तऋःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः।
अलं धौतं सुराभाण्डमिव भाति द्विजोत्तमः ।।
दुष्टात्मा दुष्टान्तःकरणः। तत्र बाह्यशौचकरणप्रकारे
याज्ञवल्क्यबौधायनौ,
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्ज्जलैः।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः।
शिश्नग्रहणम् ऊर्वादौ मूत्रस्पर्शनिवृत्तिरूपदृष्टार्थम्। उत्थायेति शौचार्थं स्थलान्तरगमनाय उत्थाय शौचकरणासम्भवात्। तेन स्थलान्तरे गत्वोपविश्य शौचं कुर्यादिति सुचितं भवति।
व्यासनाम्ना पठन्ति च,
उत्थायोद्धृतमृत्तोरयैर्लिङ्गपायुकरान् क्रमात्।
शोधयेदात्मनः शुद्धेस्तदन्यत्रोपविश्य च ।।
उद्धृतैरित्यम्भःसु शौचनिषेधार्थम्। तदाह
पैठीनसिः,
मूत्रोच्चारे कृते शौचं न स्यादन्तर्ज्जलाशये।
अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः ।।
स्मृतिचन्द्रिकामाधवीयादौ दक्षौऽपि,
तीर्थे शौचं न कुर्वीत कुर्वीतोद्धृतवारिणा। इति।
तीर्थे जले। यद्यपि
निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ।
इति कोषात्तीर्थशब्दस्य जलविशेषवाचकत्वं तथाप्यत्र पैठीनस्येकवाक्यतया जलमात्रवाचकत्वम्। यदा तु जलाशयात्पात्रेण जलोद्धरणं न सम्भवति तदा हस्तेनाप्युदधृत्य यथा शौचं कर्त्तव्यम्। तदाह
आदित्यपुराणम्,
रत्निमात्रं जलं त्यक्त्वा कुर्याच्छौचमनुद्धृते।
पश्चात्तच्छोधयेत्तीर्थमन्यथा त्वशुचिर्भवेत् ।।
जलं जलाशयस्थं तस्माद्रत्निमात्रं स्थलं त्यक्त्वेत्यर्थः। अनुद्धृते पात्रेण जलोद्धरणासम्भवे सतीत्यर्थः।
यस्मिन् स्थाने कृतं शौचं वारिणा तत्तु शोधयेत्।
इति ऋष्यश्रृङ्गवचनमप्येतत्परमेव। ``गन्धलेपक्षयकरमिति। गन्धलेपयोः क्षयकरं शौचं क्षालनम् अतन्द्रितोऽनलसः सन् कुर्यादित्यर्थः। अतन्द्रित इत्यनेन मन्वाद्युक्तसंख्यानियमः सूचितः। तेन गन्धलेपक्षयः संख्यानियमश्चेति द्वयमपि शुदूध्यर्थमावश्यकम्। तत्र गन्धलेपक्षयस्य शुद्धिहेतुत्वमाह
मनुः,
यावन्नापौत्यमेध्याक्तात् गन्धो लेपश्च तत्कृतः।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ।।
पैठीनसिश्च,
मृत्तिकां सङ्गृह्य एका लिङ्गे अपाने पञ्च एकस्मिन् हरते दश उभयोः सप्त मृत्तिकाः।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्।
त्रिगुणं च वनस्थानां यतीनां च चतुर्गुणम् ।।
गन्धलेपक्षयाद्वा प्रक्षाल्याचम्य प्रयतो भवति।
एकस्मिन् वामे। गन्धलेपक्षयाद्वेति वाकारः प्रागुक्तसंख्यासमुच्चये। असति विरोधे अदृष्टार्थानां विकल्पाभावात्। अत एव
लिङ्गे मृदेका दातव्या तिस्रो वामे द्वयोर्द्वयम्।
अपाने पञ्च वामे तु दश सप्त तथोभयोः ।।
तिस्रस्तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक्।
एवं शौचं प्रकुर्वीत गन्धलेपापनुत्तये ।।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः।
त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् ।।
स्वग्रामे पूर्णमाचारं पथ्यर्धं मुनिसत्तम।
आतुरे नियमो नास्ति महापदि तथैवच ।।
गन्धलेपक्षयकरं शौचं कुर्यात् प्रयत्नतः।
स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि ।।
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते।
विधवानां च विप्रेन्द्रा एवं शौचं प्रकीर्तिततम् ।।
इति बृहन्नारदीयवाक्येन संख्यानियमगन्धलेपक्षययोर्द्वयोरप्यावश्यकत्वं प्रतीयते। वामे हस्ते। द्वयोर्हस्तयोः। एतावत्पर्यन्तं मूत्रशोचम्। पुरीषशौचमाह--अपान इत्यादिना। संख्यानियमस्य शुद्धिहेतुत्वमाह
मनुः,
विण्मूत्रोत्सर्गसिद्ध्यर्थं मृद्वार्यादेयमर्थवत्।
अर्थवत् गन्धलेपक्षयरूपप्रयोजनसाधनम्।
तथा,
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ।।
एकत्र वामे। क्वचित्तु वामकरे इति पाठ एव। उभयोः करयोः।
विष्णुपुराणेऽपि,
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप।
हस्तद्वये च सप्तान्या मृदः शौचोपपादिकाः ।।
अत्र शौचं शुद्धिः। एवं च गृहीतशिश्न इति याज्ञवल्क्यश्लोकव्याख्यायाम् ``अत्र गन्धलेपयोः क्षयकरमिति सर्वाश्रमिणां साधारणमिदं शौचं मृत्सङ्ख्यानियमस्त्वदृष्टार्थ इति मिताक्षरायां यदुक्तं तत्रादृष्टपदं शुद्धिपरतया व्याख्येयम्। अत एव पैठीनसिवाक्यात् गन्धलेपक्षयादेव शुद्धिःक सङ्ख्यानियमस्त्वदृष्टार्थ इति केषाञ्चिद्व्यवस्थाऽनादेया। मन्वादिवाक्यादुभयोरेव शुद्धिहेतुत्वावगगात्। यत्तु
यावत्साध्विति मन्येत तावच्छौचं विधीयते।
प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ।।
इति देवलवचनम्। अत्र साध्विति गन्धलेपक्षयो जात इति, शौचं मृज्जलक्षालनरूपं, प्रमाणमियत्ता तत् अनुपनीतद्विजातिपरम्।
तथाच ब्रह्मपुराणम्,
न यावदुपनीयेत द्विजः शूद्रस्तथाङ्गना।
गन्धलेपक्षयकरं शौचं तेषां विधीयते ।।
प्रमाणं शौचसंख्या वा न शिष्टैरुपदिश्यते।
यावच्च शुद्धिं मन्येत तावच्छौचं समाचरेत् ।।
प्रमाणं मृत्प्रमाणम्।
पितामहोऽपि,
न यावदुयनीयन्ते द्विजाः शूद्रास्तथाङ्गनाः।
गन्धलेपक्षयकरं शौचमेषां विधीयते ।।
अत्र स्त्रीशूद्रपदमजातोद्वाहाभिप्रायं अनुपनीतद्विजसाहचर्यात् इति माधवाचार्याः।
स्त्रीशूद्रयोरर्द्धमानं शौचं प्रोक्तं मनीषिभिः।
दिवाशौचस्य निश्यर्द्धं पथि पादो विधीयते ।।
आर्त्तः कुर्याद्यथाशक्ति स्वस्थः कुर्याद्यथोदितम्।
इत्यपरार्कधृतब्रह्मण्डपुराणेन स्त्रीशूद्रयोः संख्याविशेषाभिधानादप्ययमर्थः सिध्यति। माधवीयमदनरत्रप्रदीपादिषु तुस्त्रीशूद्रयोरर्द्धमानमित्यादिवचनानि आदित्यपुराणीयत्वेन लिखि तानि। पूर्वोदाहृत--स्त्रीणामनुपनीतानां गन्धलेपक्षयावधीति बृहन्नारदीयवचनादपि स्त्रीणामनुपनीतानां च मृत्संख्यानियमाभावः प्रतीयते। आश्रमिणामेव मूत्संख्याविधानादनाश्रमिविषयं उदकविषयं वा देवलवचनम्। अत एव
दातव्यमुदकं तावद्यावत्स्यान्मृत्तिकाक्षयः।
इति दक्षेणाप्युक्तमिति वर्द्धमानश्रीदत्तपारिजातवाचस्पतिमिश्रादयः।
कल्पतरुकृतस्तु यावत्साध्विति मन्येतेति देवलवचनानुसारान्मनूक्तमृत्सङ्ख्याधिकोत्तरमृत्सङ्ख्यानां गन्धलेपानुवृत्तिशङ्कया व्यवस्थेत्याहुः। तेषामयमाशयः देवलवचनस्थं प्रमाणपदं एका लिङ्गे इत्यादि मन्वाद्युक्तेयत्तापरं सा च नोपदिश्यते न नियम्यते मुन्यन्तरेण गन्धलेपशङ्कायामधिकसङ्ख्याया उक्तत्वात्। अत एव तत्रैव देवलेन यावत्साध्विति मन्येतेत्युक्तमिति। क्वचित्तु प्रमाणं द्रव्यसङ्ख्या वेति देवलवचने पाठः. तत्र प्रमाणं मृत्तिकापरिमाणं, द्रव्यसङ्ख्या मृत्तिकासङ्ख्या।
ब्रह्माण्डपुराणे,
उद्धृतोदकमादाय मृत्तिकां चैव वाग्यतः।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ।।
प्रकरणाच्छौचमिति लभ्यते।
तथा,
सुनिर्णिक्ते मृदं दद्यान्मृदन्ते त्वप एवच।
सुनिर्णिक्ते जलेन सुप्रक्षालिते।
तथाच गौतमः, गन्धलेपापकर्षणे शौचममेध्यस्य तदद्भिः पूर्वं मृदा चेति।
अमेध्यस्य गन्धलेपापकर्षणे सति शौचं तत् गन्धलेपापकर्षणं पूर्वमद्भिः। अर्थादनन्तरं मृदा चकारात्तदन्ते जलेनापि।
स्मृतिचन्द्रिकायां तु,
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं स्मृतम्।
इति सुनिर्णिक्त इत्यस्य पूर्वार्द्धं पठितं तेनायमर्थः स्पष्ट एव। एवं च सुनिर्णिक्तपदं काष्ठादिप्रोञ्छितगुदाद्यनुवादकमिति हलायुधव्याख्यानमनादेयं व्यर्थत्वाच्च।
आनुशासनिके,
शौचं कुर्याच्छनैर्धीरो बुद्धिपूर्वमसङ्करम्।
विप्लुषश्च यथा न स्युर्यथा चोरू न संस्पृशेत् ।।
शौचयोग्यां मृत्तिकामाह यमः,
आहरेन्मृत्तिकां विप्रः कूलात्ससिकतां तथा।
विप्र इति शौचकर्तृमात्रौपलक्षणं, कूलादिति शुचिदेशोपलक्षणम्।
तथाच शातातपः,
शुचिदेशात्तु सङ्ग्राह्य मृत्तिकाऽश्मादिवर्ज्जिता।
वृहन्नारदीयेऽपि,
अनुच्छिष्टप्रदेशात्तु शौचार्थं मृत्तिकां हरेत्।
दक्षोऽपि,
शुचौ देशे मृदौ ग्राह्या यावदर्थप्रमाणतः।
यावदर्थप्रमाणतः यावत्प्रयोजनपरिमाणाः।
वर्णभेदेन विशेषमाह मरीचिः,
विप्रे शुक्ला तु मृच्छौचे रक्ता क्षत्रे विधीयते।
हारिद्रवर्णा वैश्ये तु शूद्रे कृष्णेति निर्द्दिसेत् ।।
अत्र--
वैश्यस्य हरिता प्रोक्ता कृष्णा स्त्रीशूद्रयोस्तथा।
इति काश्यपीये विशेषः। उक्तविशेषासम्भवे
यस्मिन्देशे तु यत्तोयं या च यत्रैव मृत्तिका।
सैव तत्र प्रशस्ता स्यात्तया शौचं विधीयते ।।
इति स्मृतिचन्द्रिकाकारमाधवाचार्यादिबहुनिबन्धधृतमनुवाक्याद्व्यवस्था।
असम्भवे मृत्तिकाया वालुका द्विगुणा मता।
इति पठन्ति। वर्ज्या मृत्तिका विष्णुपुराणे उक्ताः।
वल्मीकमूषिकोत्खातां मृदमन्तर्ज्जलात्तथा।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ।।
अन्तः प्राण्यवपन्नां च हलोत्खातां च पार्थिव।
परित्यजेन्मृदश्चैताः सकलाः शौचसाधने ।।
अन्तर्जलात् जलमध्यात्। इदं च वाप्यादिक्रियमाणशौचातिरिक्तशौचपरम्। तत्र जलान्तर्गतमृद्ग्रहणस्यैव विधानात्।
यथा स्मृतिचन्द्रिकायां पराशरः, माधवीये स्मृतिमञ्जूषायां च यमः,
वापीकूपतडागेषु नाहरेद्बाह्यतो मृदम्।
आहरेज्जलमध्यात्तु परतो मणिबन्धनात् ।।
वापी दीर्घिका बद्धसोपानः कूपश्च। बाह्यतो जलाद्बाह्यतः। मणिबन्धः पाणिप्रकोष्ठयोः सन्धिः तस्मात्परतस्तदधिकप्रमाणात् जलमध्यादित्यर्थः। अथवा अन्यत्र क्रियमाणशौचेनापि यदा वापीकूपतडागस्था मृदो गृह्यन्ते तदा मणिबन्धाधिकपरिमाणकजलमध्याद्ग्राह्याः। तेन तद्भिन्नजलमध्यवर्त्तिमृत्तिका निषिद्धेति पर्यवस्यति। गेहात् गृहभित्यादितः, लेपसम्भवां चत्वरादिलेपसम्भवां, अन्तः प्राण्यवपन्नां अन्तर्मध्ये प्राणिभिरवपन्नां संबद्धां, शौचसाधने शुद्धिजनने।
यमः,
नाखूत्कृष्टाद् न वल्मीकात्पांशुलान्नच कर्द्दमात्।
न मार्गान्नोखराच्चैव शौचशिष्टाः परस्य च ।।
एतास्तु वर्जयेद्विद्वान् वृथाशौचं हि तन्मतम्।
आखुः मूषिकः।
देवलोऽपि,
अङ्गारतुषकीटास्थिशर्कराशकलान्विताम्।
वल्मीकोखरतोयान्तकुड्योत्खातश्मशानजाम् ।।
आहृतामन्यशौचार्थमाददीत न मृत्तिकाम्।
शौचमृक्तिकानिषेधप्रकरणे कूर्मपुराणम्,
न देवायतनात् कूपादिति।
मृत्तिकाग्रहणं च मूत्रपूरीषोत्सर्गात्पूर्वमेव कार्यम्। नानुदको नामृत्क इत्यादिपूर्वलिखितशङ्खलिखितवाक्यस्वरसात्।
पठन्ति च,
उद्धृत्य मृज्जलं कुर्यात्प्रोच्चारं मेहनं द्विजः।
द्वाभ्यां मूत्रपुरीषाभ्यामादौ गृह्णीत मृत्तिकाम् ।।
मृत्तिकाग्रहणप्रकारप्रतिपादकान्यपि कानि चिद्वचनानि पठन्ति,
विना लोहं विना काष्ठं मृत्तिका येन चोद्धृता।
विष्ठानुलेपनं तस्य पुनः शौचेन शुध्यति ।।
अष्टाङ्गुलं खनित्वा वा द्वादशाङ्गुलमेव वा।
तदधो मृत्तिका ग्राह्या सर्वत्रैव विचक्षणैः ।।
मृत्सङ्ख्यायां दक्षः,
स्थाप्य देशे शुचौ दद्याद्वामदक्षिणपाणिना।
एका लिङ्गे तु सव्ये त्रिरुभयोर्मृद्द्वयं स्मृतम् ।।
तिस्रोऽपाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः।
गृहस्थशौचमाख्यातं त्रिष्नन्येषु यथाक्रमम् ।।
द्विगुणं त्रिगुणं चैव चतुर्थस्य चतुर्गुणम्।
स्थाप्य स्थापयित्वा। ल्यबार्षः। दद्यात्, मृदमिति शेषः। वामदक्षिणपाणिना वामपाणिना दक्षिणपाणिना चेत्यर्थः। अत्र व्यवस्थामाह देवलः,
धर्मविद्दक्षिणं हस्तमधः शौचे न योजयेत्।
तथैव वामहस्तेन नाभेरूर्ध्वं न शोधयेत् ।।
प्रकृतिस्थितिरेषा स्यात्कारणादुभयक्रिया।
कारणाद्रोगादेः। उभयक्रिया वामेनाप्यूर्ध्वकायशोधनं दक्षिणेनाप्यधः कायशोधनमित्यर्थः। एकेत्यादौ मृत्तिका प्रकारणाल्लुभ्यते। सव्ये उभयोरिति च हस्ताभिप्रायेणेति कल्पतरुः। क्वचित्तु उभयोर्हस्तयोर्द्वयमिति पाठः। एकेत्याद्यर्द्धश्लोको मूत्रशौचाभिप्रायकः। तिस्र इत्यादिना पुरीषशौचस्य कथनात्। स्पष्टमाह
शातातपः,
एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोर्द्वयोः।
मूत्रशौचं समाख्यातं शुक्रे तु द्विगुणं स्मृतम् ।।
अत्र शुक्रशौचे यन्मूत्रशौचाद् द्वैगुण्यमुक्तं तल्लेपानुवृत्तौ। बौधायनेन मूत्रे मृदाऽद्भिः प्रक्षालनं त्रिः पाणेर्मूत्रवद्रेतसः समुत्सर्गे इत्यनेन मूत्ररेतसोः शौचसाम्याभिधानात्। अत्र मूत्रे मृदाद्भिरित्यादि शातातपाद्युक्तमूत्रशौचोपलक्षणम्। यत्र तु मूत्रपुरीषयोः समुच्चयस्तत्राधिकसङ्ख्याकपुरीषोत्सर्गविहितहस्तादिशौचे कृते न्यूनसङ्ख्याकस्य मूत्रोत्सर्गविहितस्य हस्तादिशौचस्य प्रसङ्गेन सिद्धिरिति न पृथक् तदनुष्ठानम्। अत एव समुच्चिततदुभयशौचं वदता मनुना एका लिङ्गेत्यादिवचने शोध्यभेदाभिप्रायेण मूत्रशौचान्तः पातिलिङ्गशौचमात्रमुक्तमिति। पुरीषशौचमाह तिस्र इति। एकस्मिन् वामकरे, उभयोः हस्तयोः। अत्र यद्यपि प्रागुक्तमन्वादिवाक्येषु पादशौचं नोक्तं तथापि वक्ष्यमाणमुन्यन्तरवचनानुसारात्तदप्यत्र समुच्येयम्।
हस्तपादयोः प्रक्षालने विशेषमाह मरीचिः,
तिसृभिश्चातलात्पादौ शोध्यौ गुल्फात्तथैव च।
हस्तौ त्वामणिबन्धाच्च लेपगन्धापकर्षणात् ।।
अन्येषु ब्रह्मचारिवानप्रस्थायतिषु। एका लिंगे गुदे तिस्र इत्या द्युक्त्वा मनुर्विष्णुपुराणं च,
एतच्छौचं गृहस्थानं द्विगुणं ब्रह्मचारिणाम्।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ।।
इदञ्च द्वैगुण्यादिकं संख्यामात्रे तदनन्तरमेव सर्वैर्मुनिभिरभिध्यानात्। ननु संख्यायामाधिक्यमन्यत्र दृश्यते
यथा यमः,
शिश्ने त्वेका गुदे तिस्रो वामे पाणौ चतुर्द्दश।
ततः पुनरुभाभ्यां च दातव्याः सप्त मृत्तिकाः ।।
शौचमेतद्गृहस्थस्य द्विगुणं ब्रह्मचारिणः।
त्रिगुणं तु वनस्थस्य भिक्षोरेतच्चतुर्गुणम् ।।
शङ्खः,
मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्त्तिते।
एकस्मिन् विंशतिर्हस्ते द्वयोर्द्देयाश्चतुर्द्दश ।।
मेहनं अपानम्।
तथा,
तिस्रस्तु मृत्तिका देयाः कृत्वा तु नशशोधनम्।
अत्र हस्तस्य प्रकृतत्वाद्धस्तयोरिति ज्ञेयम्। यत्तु स्मृतिचन्द्रिकामाधवीयमदनरत्नादिधृतेन
षडन्या नखशुद्धौ तु देयाः शौचेप्सुना मृदः।
इति दक्षवचनेन नखशुद्ध्यनन्तरं षण्मृत्तिकादानमुक्तं तत् लेपाधिक्ये। नखशोधनं तु तृणादिना मृत्तिकापसारणेन।
तथा,
तिस्रस्तु पादयोर्देयाः शौचकामस्य नित्यशः।
शौचमेतद्गृहस्थानां तथा गुरुनिवासिनाम् ।।
द्विगुणं स्याद्वनस्थानां यतीनां त्रिगुणं भवेत्।
गुरुनिवासिनां ब्रह्मचारिणाम्। पैठीनसिवाक्यं च मृत्तिकां संगृह्येत्यादि अधिकसंख्याप्रतिपादकं प्रागुदाहृतम्।
हारीतः,
एकान्तमुक्रम्य एका लिङ्गे तिस्रो मृदाऽपाने दद्यात् नवार्शोदोषात् पाणिं प्रक्षाल्य दश सव्ये षट् पृष्ठे सप्तोभाभ्यां द्विगुणं ब्रह्मचारिणां त्रिगुणं वानप्रस्थानां चतुर्गुणं भिक्षूणाम्।
एकान्तं विजनम्। उक्रम्य मूत्रपुरीषोत्सर्गस्थानादुत्थाय गत्वा अर्शोदोषादर्शोरोगात् पृष्ठे सन्निहितत्वात्सव्यस्य पृष्ठे एतच्छौचं ब्रह्मचार्याद्यतिरिक्तस्य ब्रह्मचार्य्यादीनां द्वैगुण्यादिविधानात्। तेन विधुरस्यापीदं शौचं सिध्यति।
ब्रह्मपुराणे,
द्वे लिङ्गे मृत्तिके देये गुदे सप्त यथाक्रमम्।
द्वात्रिंशद्वामहस्ते च तथा देयास्तु मृत्तिकाः ।।
द्वयोस्तु षोडशान्यास्तु पुनस्सप्त च सर्वदा।
पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिना ।।
द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्।
पुनः सप्त चेति नखशोधनादनन्तरमिति श्रीदत्तादयः। पादयोर्द्वे एकैकस्मिन्नेकैकेत्यर्थः। एवं मूत्रशौचेपि स्मृतिचन्द्रिकादिधृतविवस्वद्वाक्यादधिकसङ्ख्या प्रतीयते
यथा,
तिस्रो मृदो लिङ्गशौचे ग्राह्याः सान्तरमृत्तिकाः।
वामपाणौ मृदः पञ्च तिस्रः पाण्योर्द्वयोरपि ।।
सान्तरा जलेन व्यवहिताः। इति चेत्, सत्यम्। एता अधिकाधिकसङ्ख्या बहुसंवादिमनूक्तसङ्ख्यानुष्ठाने कृतेपि अधिकाधिकगन्धलेपानुवृत्तौ व्यवस्थितविकल्पेन बोद्धव्याः। किन्तु पादशौचं वामपाणिपृष्ठशौचं नखशोधनानन्तरशौचं च मनूक्तशौचानुष्ठानेपि कर्त्तव्यं दृष्टार्थत्वादविरोधाच्च। तत्र पादशौचे प्रत्येकं तिस्रः, पुरीषशौचे प्रत्येकमेकैका, मूत्रशौचे औचित्यादिति बहवः। उभयत्र शौचे प्रतिपादमेकैका तिस्र इति तु लेपशङ्कायामिति श्रीदत्तादयः। एतेष्वपि कल्पेषु सङ्ख्यानियमः शुद्ध्यर्थ एव अदृष्टार्थकत्वकल्पने गौरवात्। यत्तु मेहने मृत्तिकाः सप्तेत्यादि प्रागुदाहृतं शङ्खवचनं मनूक्तसङ्ख्यातो द्विगुणसंख्याभिधायकतया ब्रह्मचारिपरतयाऽपरार्केण व्याख्यातं तत् शौचमेतद्गृहस्थानामिति तदुत्तरशङ्खवचनादर्शनेन।
अत्र मृत्तिकापरिमाणे दक्षः,
अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तदर्द्धार्द्धा प्रकीर्त्तिता ।।
लिङ्गेप्यत्र समाख्याता त्रिपर्व्वी पूर्यते यया।
दातव्यमुदकं तावद्यावत्स्यान्मृत्तिकाक्षयः ।।
तदर्धार्द्धेति द्वितीयार्द्धप्रसृत्यर्द्धा तृतीया तदर्द्धेत्यर्थः। अयं च पाठः कल्पतरुप्रभृतिषु दृश्यते। बहुनिबन्धेषु तु तदर्द्धा परिकीर्त्तितेति पाठो दृश्यते तत्र च द्वितीया तृतीया च प्रत्येकं प्रसृतिचतुर्थाशमितैवेत्यर्थः। यत्तु
स्मृतिचन्द्रिकामाधवीयादौ,
प्रथमा प्रसृतिर्ज्ञेया द्वितीया तु तदर्द्धिका।
तृतीया मृत्तिका ज्ञेया त्रिभागकरपूरणी ।।
इत्यङ्गिरोवचनं तत् लेपाधिक्यविषयम्। गुदे पञ्चमृत्तिकादाने तु मृत्परिमाणमाह स्मृतिचन्द्रिकादौ
वृद्धवसिष्ठः,
अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका भवेत्।
पूर्वपूर्वार्द्धमात्रास्तु चतस्रोन्याः प्रकीर्त्तिताः ।।
लिङ्गेपीति अपिना हस्तादिपरिग्रहः। क्वचित्तु मृदाऽन्यत्रेति पाठः।
शङ्खोऽपि,
मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया। इति।
यत्तु
आर्द्रामलकमात्रास्तु ग्राह्या इन्द्रव्रते स्मृताः।
तथैवाहुतयः सर्वाः शौचार्थे याश्च मृत्तिकाः ।।
इति शातातपवचनं, यदपि
आर्द्रामलकमानेन कुर्याद्धोमहविर्बलिन्।
प्राणाहुतिबलिं चैव मृदं गात्रविशोधनीम् ।।
इति व्यासवचनं तदत्यन्तलेपशङ्कादिशून्यपादाद्यभिप्रायम्।
दक्षः,
अन्यदेव दिवाशौचमन्यद्रात्रौ विधीयते।
अन्यदापत्सु विप्राणामन्यदेव त्वनापदि ।।
यथोक्तं तु दिवाशौचमर्द्धं रात्रौ विधियते।
आतुरस्य तदर्द्धं स्यात्तदर्द्धं तु पथि स्मृतम् ।।
न्यूनाधिकं न कर्त्तव्यं शौचशुद्धिमभीप्सता।
प्रायाश्चित्तेन युज्येत विहितातिक्रमे कृते ।।
विप्राणामित्युपलक्षणं अन्यदेव कथयति यथोक्तमित्यादिना पथि स्मृतमित्यन्तेन। अत्र अर्द्धत्वं संख्याया परिमाणेन च बोध्यम्। संख्यापरिमाणोभयमुक्त्वा दक्षेणार्द्धाभिधानात्। एका लिङ्गे इत्यत्र तु परिमाणार्द्धमेव ग्राह्यं एकसंख्याया अर्द्धासम्भवात् एकानुष्ठानं विना अर्द्धानुष्ठानासम्भवाच्च। आदिसंख्यायां तु संख्यार्द्धं द्व्यादिकमेव ग्राह्यं सार्द्धादिसंख्याग्रहणासम्भवात् द्व्यादिसंख्यानुष्ठानं विना सार्द्धादिसंख्यानुष्ठानासम्भवाच्च। अत एव न्यूनाधिकं न कर्तव्यमिति वचनं नात्र प्रवर्त्तते। अत एव
देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम्।
उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत्।
इति बौधायनवाक्ये उपपत्तिमित्युक्तम्। अत्रापि गन्धलेपक्षयस्त्वा वश्यकः। ``न्यूनाधिकमिति इदमपि संख्यापरिमाणोभयविषयकं तदुभयमुक्त्वा दक्षेणाभिधानात्। विहितसंख्यादितो न्यूनसंख्याद्यनुष्ठाने कृते गन्धलेपक्षये जातेपि शुद्ध्यर्थं विहितसंख्या पूरणीयैव, विहितसंख्याद्यनुष्ठाने कृतेऽपि गन्धलेपानुवृत्तौ अविहितमधिकं न कर्त्तव्यं द्वितीयार्द्धेन विहितातिक्रम एव प्रायश्चित्ताभिधानात्। किन्तु विहिता सैव संख्या वा आवर्त्तनीया मुन्यन्तरोक्ता तदधि कसंख्या वा पूरणीया विहितत्वाविशेषात्।
आपस्तम्बः,
अह्नि शौचं यथा प्रोक्तं निश्यर्द्धं तु तादष्यते।
पथि पादस्तु विज्ञेय आर्त्तः कुर्याद्यथाबलम् ।।
अत्र पथि चतुर्थांशविधानात्प्रागुदाहृतदक्षवचनोक्तेः पथ्यष्टमांसोभयाधिक्ये रात्रावपि पथि पाद एव नतु तदर्द्धं तद्विधायकवचनाभावात्। निश्यर्द्धमित्यनेन यथोक्तशौचस्यैवार्द्धविधानात्।
बृहन्नारदीये,
स्वग्रामे पूर्णमाचारं पथ्यर्द्धं मुनिसत्तमाः।
आतुरे नियमो नास्ति महापदि तथैव च ।।
तथा,
स्त्रीणामनुपनीतानां गन्धलेपक्षयावधि।
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते ।।
विधवानां च विप्रेन्द्रा एवं शौचं प्रकीर्त्तितम्।
अत्र पथ्यर्द्धविधानं भयाभावे। मूत्रोत्सर्गार्थं
प्रवृत्तस्य विण्मूत्रोत्सर्गाभावेऽपि शौचमाह
वृद्धपराशरः,
उपविष्टस्तु विण्मूत्रं कर्त्तुं यस्तु न विन्दति।
स कुर्यादर्द्धशौचं तु स्वस्य शौचस्य सर्वदा ।।
माधवीयादौ दक्षः,
न शौचं वर्षधाराभिराचरेत्तु कदाचन।
संवर्त्ताङ्गिरसौ,
कृते मूत्रे पुरीषै वै यदा नैवोदकं भवेत्।
स्नात्वा लब्ध्वोदकं पश्चात्सचैलः स विशुद्ध्यति ।।
उदकं लब्ध्वेत्यनेन यथोक्तं शौचमुपलक्षितम्। अन्यथा वैयर्थअयात्। तेन यथोक्तं शौचं कृत्वा सचैलं स्नात्वा विशुध्यतीत्यर्थः। अत्र मूत्रादिशौचे क्रमापेक्षायां मूत्रस्य रेतसश्च शौचे
एका लिङ्गे तु सव्ये त्रिरुभयोर्मृद्द्वयं स्मृतम्।
इति दक्षपाठक्रम आदरणीयः। मूत्रपुरीषोभयशौचे तु एकालिङ्गे गुदे तिस्र इत्यादिमनुपाठक्रम आदरणीयः।
अत्र यद्यपि
मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्त्तिते।
इति शङ्खवचने लिङ्गगुदशौचयोर्व्युक्रमो दृश्यते तथापि मनुस्मृतेर्बलवत्वात् बहुसंवादाच्च मानवक्रम एवादरणीय इति।
मन्वादिनाऽनुक्तमपिहारीतोक्तं वामपाणिपृष्ठे यत् षट्कृत्वो मृत्ति कादानं तद्वामपाणिशौचानन्तरमुभयपाणिशौचात्पूर्वं कार्यम्। तथैव दश सव्ये षट् पृष्ठे सप्तोभाभ्यामिति पूर्वोदाहृतहारीतवाक्येनाभिधानात्। नखशौचं तूभयपाणिशौचानन्तरम्। तदनन्तरमुभयोर्हस्तयोस्तिसृणां मृत्तिकानां दानं लेपाधिक्ये षण्णांसप्तानां वा। तदनन्तरं पादशौचम्। प्राग्लिखितशङ्खादिवाक्यतस्तथाक्रमप्रतीतेः। केवलपुरीषशौचे तु लिङ्गशौचं विना अयमेव क्रम आदरणीयः। केवलपुरीषशौचे कुतश्चिदपि मुनिवाक्यात् पादशौचं न प्रतीयते। पादयो द्वे गृहीत्वा त्वित्यादि ब्रह्मपुराणीममपि
द्वे लिङ्गे मृतिके देये गुदे सप्त यथाक्रमम्।
इत्युपक्रम्याभिधानान्मूत्रपुरीषोभयोत्सर्गपरमेव। तथापि आचारात्तत्रापि पादयोरेकैकां मृत्तिकां गृह्णाति।
अत्र--
उद्धृतोदकमादाय मृत्तिकां चैव वाग्यतः।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ।।
इति मूत्रपुरीषशौचप्रकरणस्थब्रह्माण्डपुराणीयवाक्यात् तच्छौचान्तः पातिपादप्रक्षालनमपि दिवा उदङ्मुखो रात्रौ दक्षिणामुखः कुर्यात्।
केचित्तु
प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः।
उदङ्मुखो मूत्रं कुर्यात् प्रत्यक् पादावनेजनम् ।।
इत्यापस्तम्बवाक्यादिदमपि पादप्रक्षालनं प्रत्यङ्मुखेन कार्यम्। अत्र दक्षिणामुख इत्यस्य, रात्रौ सायाह्ने चेति शेषः। यमदेवलवचनैकवाक्यत्वात्। उदङ्मुख इत्यस्य, सन्ध्याद्वयप्रातर्मध्याह्नेष्विति शेषः। मनुयमदेवलवचनैकवाक्यत्वात्। प्रत्यक् पशअचिमाभिमुखं यथा भवति तथा। पादावनेजनं पादप्रक्षालनम्। इदं दैवपित्र्याकाचमनार्थकपदप्रक्षालनातिरिक्तपादप्रक्षालनपरम्। तदर्थकाचमनार्थकपादप्रक्षालने तु आचमनप्रकरणवक्ष्यमाणदेवलवचनेन तदन्यदिगभिधानात्। ब्रह्माण्डपुराणीयस्य शौचदिङ्नियमस्य पादप्रक्षालनातिरिक्तशौचपरता, पादप्रक्षालने आपस्तम्बेन विशेषाभिधानात् इत्याहुः।
अत्रेदं चिन्त्यम्। शौचान्तः पातिपादप्रक्षालनातिरिक्तपादप्रक्षालनपरत्वेनैवापस्तम्बीयवाक्यस्योपपत्तौ तस्य न ब्रह्माण्डपुराणीयवाक्यसङ्कोचकत्वम्। प्रत्युत शौचप्रकरणानुगृहीतेन ब्रह्माण्डपुराणीयवाक्येनैवानारभ्याधीतस्यापस्तम्बीयवचनस्य सङ्कोचो युक्त इति।
अथैवं प्राग्लिखित--पादयोर्द्वे गृहीत्वेत्यादिब्रह्मपुराणी, यादिवाक्येनाचमनस्यापि शौचत्वकथनाद्रात्रौ तदाचमनस्यापि दक्षिणाभिमुखेन कर्त्तव्यत्वं प्रसज्येतेति चेन्न, पुरीषादिशौचप्रकरणपठितबृहन्नारदीयवाक्येनैव तत्र दिग्विशेषाभिधानात्।
यथा,
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः।
प्राङ्मुखोदङ्मुखो वापि आचामेत् प्रयतेन्द्रियः ।।
प्राङ्मुखः उदङ्मुखः इति पदच्छेदः। सन्धिरार्षः। पादप्रक्षालने क्रमाकाङ्क्षायां स्वस्वशाखीयमधुपर्कप्रकरणोक्त एव क्रमस्तत्तच्छाखीयैरादरणीयः ``एकत्र दृष्टः शास्त्रार्थोऽन्यत्रापीति न्यायात् सकलदेशीयशिष्टाचाराच्च। यत्तु प्रकरणान्तरीयक्रमान्वये ते तु प्रक्षाल्य चरणे पृथगिति देवलवचनात् क्रमाकाङ्क्षासत्वात्। स च क्रमो मधुपर्कप्रकरणे पारस्करादिभिरुक्तः।
यथा पारस्करः,
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश्वेद्दक्षिणं प्रथममिति।
अत्र वाभं चरणं प्रक्षाल्येतरं प्रक्षालयति क्षत्रियादिरर्घ्यः। यदि ब्राह्मणोऽर्घ्यः स्या त्तदा प्रथमं दक्षिणं प्रक्षाल्य वामं प्रक्षालयति इति हरिहरः।
अर्हणीय इत्यनुवृत्तौ ब्राह्मणत्वादिविशेषम् पुरस्कृत्य
गोभिलः, सव्यं पादमवनेनिज इति सव्यं पादं प्रक्षालयेत् दक्षिणं पादमवनोनिज इति दक्षिणं पादं प्रक्षालयेत्।
अत्र छन्दोगानां सर्वेषामेव पाठक्रमाद्वामोपक्रमं पादप्रक्षालनं प्रतीयते। आश्वलायनेन तु अर्हणीयातिरिक्तस्य पादलक्षप्राकत्वं तत्र विशेष उक्तः।
यथा तत्सूत्रम् पादौ प्रक्षालापयीत दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् सव्यं शूद्रायेति।
यदि क्षत्रियवैश्यौ पादप्रक्षाचलयितारौ तदा दक्षिणं वा पूर्वं सव्यं वा पूर्वमिति नास्ति नियमः। तेन वाजसनेयिनां ब्राह्मणणानां दक्षिणोपक्रममन्येषां वामोपक्रमं छन्दोगानां सर्वेषां वामोपक्रमम्। आश्वलायनानां ब्राह्मणकर्त्तृकपादप्रक्षालने दक्षिणोपक्रमं शूद्रकर्तृकपादप्रक्षालने वामोपक्रमं क्षत्रियवैश्यकर्तृकपादप्रक्षालनेऽनियतोपक्रमं पादप्रक्षालनमिति व्यवस्थितम्। एवमन्येषां स्वस्वसूत्रानुसारेण बोध्यम्।
ऋष्यश्रृङ्गः,
यस्मिन् स्थाने कृतं शौचं वारिणा तत्तु शोधयेत्।
न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत् ।।
इदं
पश्चात्तच्चोधयेतीर्थम्।
इत्यादित्यपुराणैकवाक्यतया जलाशयशौचपरमिति वदन्ति।
श्रीदत्तमदनरत्नादिषु बहुषु निबन्धेषु तु शौचसामान्यानन्तरमेवेदं वाक्यं लिखितम्।
हारीतः,
तिसृभिः पादौ प्रक्षाल्य गोमयेन मृदा वा कमण्डलुं परिमूज्य पूर्ववदुपस्पृश्यादित्यं सोममग्निं वीक्षेत।
अत्र दिवा आदित्यमग्निं वा, रात्रौ सोममग्निं वा पश्येदित्यर्थः। चन्द्रसूर्ययोरभावेऽग्निमित्यन्ये।
शङ्खलिखितौ,
कमण्डलुमुपस्पृश्य प्रक्षाल्य पाणिपादौ चाचम्येशानं मनसा
ध्यायेत्।
उपस्पृश्य परिमृज्य, प्रक्षाल्य पाणिपादाविति आचमनार्थं पाणिपादप्रक्षालनानुवादः। ईशानं महादेवम्।
पादयोर्द्वे गृहीत्वा तु सुप्रक्षालितपाणिना।
द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ।।
इति प्राग्लिखितब्रह्मपुराणीयवाक्येन विष्णुस्मरणमुक्तं तदनयोरदृष्टार्थत्वात्समुच्चयः। ईशानपदं योगाद्विष्णुपरमिति केचित् तन्न, रूढेर्योगापहारित्वात् विष्णुपदेपि योगसम्भवाच्च।
अथ गण्डूषकरणम्।
-------------
तत्र प्रयोगपारिजाते आश्वलायनः,
कुर्याद् द्वादश गण्डूषान् पुरीषोत्सर्जने द्विजः।
मूत्रोत्सर्गे तु चतुरो भोजनान्ते तु षोडश ।।
भक्षभोज्यावसाने तु गण्डूषाष्टकमादरात्।
गण्डूषनिक्षेपस्थलमाह
मार्कण्डेयः,
पुरतः सर्वदेवाश्च दक्षिणे पितरस्तथा।
ऋषयः पृष्ठतः सर्वे वामे गण्डूषमुत्सृजेत् ।।
---- *** ----