२७०

[य्]
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह॥१॥

लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह॥२॥

कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम्।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम॥३॥

विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः।
इन्द्रियार्थैर्गुणैश्चैव अस्ताभिः प्रपितामह॥४॥

न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः।
कदा वयं भविष्यामो राज्यं हित्वा परन्तप॥५॥

[भी]
नास्त्यनन्तं महाराज सर्वं सङ्ख्यान गोचरम्।
पुनर्भावोऽपि सङ्ख्यातो नास्ति किं चिदिहाचलम्॥६॥

न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः।
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ॥७॥

ईशोऽयं सततं देही नृपते पुण्यपापयोः।
तत एव समुत्थेन तमसा रुध्यतेऽपि च॥८॥

यथाञ्जन मयो वायुः पुनर्मानः शिलं रजः।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः॥९॥

तथा कर्मफलैर्देही रञ्जितस्तमसावृतः।
विवर्णो वर्ममाश्रित्य देहेषु परिवर्तते॥१०॥

ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्॥११॥

अयत्न साध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः।
त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः॥१२॥

अस्मिन्नर्थे पुरा गीतं शृणुष्वैक मना नृप।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्॥१३॥

निर्जितेनासहायेन हृतराज्येन भारत।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्॥१४॥

भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव॥१५॥

[व्र्त्र]
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम्।
न शोचामि न हृष्यामि भूतानामागतिं गतिम्॥१६॥

कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः।
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः॥१७॥

क्षपयित्वा तु तं कालं गणितं कालचोदिताः।
सावशेषेण कालेन सम्भवन्ति पुनः पुनः॥१८॥

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च।
निर्गच्छन्त्यवशा जीवाः कालबन्धन बन्धनाः॥१९॥

एवं संसरमाणानि जीवान्यहमदृष्टवान्।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्॥२०॥

तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च।
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च॥२१॥

कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा॥२२॥

[भी]
कालसङ्ख्यान सङ्ख्यातं सृष्टि स्थिति परायनम्।
तं भासमानं भगवानुशनाः प्रत्यभासत।
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाससे॥२३॥

[व्र्त्र]
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीसिनाम्।
मया यज्जय लुब्धेन पुरा तप्तं महत्तपः॥२४॥

गन्धानादाय भूतानां रसांश्च विविधानपि।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा॥२५॥

ज्वालामाला परिक्षिप्तो वैहायसचरस्तथा।
अजेयः सर्वभूतानामासं नित्यमपेतभीः॥२६॥

ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्॥२७॥

युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः॥२८॥

वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः॥२९॥

नूनं तु तस्य तपसः सावशेषं ममास्ति वै।
यदहं प्रस्तुमिच्छामि भवन्तं कर्मणः फलम्॥३०॥

ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम्।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्॥३१॥

कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः॥३२॥

केन वा कर्मणा शक्यमथ ज्ञानेन केन वा।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि॥३३॥

इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह।
मयोच्यमानं पुरुषर्षभ त्वम् अनन्यचित्तः सह सोदरीयैः॥३४॥

संबंधित कड़ियाँ

सम्पाद्यताम्
  1. वृत्रगीता
    1. वृत्रगीता १
    2. वृत्रगीता २
  2. गीता

बाहरी कडियाँ

सम्पाद्यताम्
"https://sa.wikisource.org/w/index.php?title=वृत्रगीता_१&oldid=17652" इत्यस्माद् प्रतिप्राप्तम्