वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/प्रथमोऽङ्कः

← उपोद्घातः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
प्रथमोऽङ्कः
भट्टनारायणः
द्वितीयोऽङ्कः →

श्रीशिवः शरणम् ।

वेणीसंहारम्


प्रथमोऽङ्कः

निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः
करैरिन्दोरन्तश्छुरित इव संभिन्नमुकुलः ।
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः
प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥ १ ॥

अपि च ।

कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं
गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते-
रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ २ ॥

अपि च ।

दृष्टः सप्रेम देव्या किमिदमिति भयात्संभ्रमाच्चासुरीभिः ।
शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैरुपशमितवधूसंभ्रमैर्दैत्यवीरैः
सामन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥ ३ ॥

( नान्द्यन्ते )

सूत्रधारः---अलमतिप्रसङ्गेन ।

श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ४ ॥

(समन्तादवलोक्य) तत्रभवन्तः परिषदग्रेसराः । विज्ञाप्यं नः किंचिदस्ति ।

कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषोऽत्र ।
मधुलिह इव मधुबिंदून्विरलानपि भजत गुणलेशान् ॥ ५ ॥

 तदिदं कवेर्मुगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयम् । तत्र कविपरिश्रमानुरोधाद्वा उदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये ।

( नेपथ्ये )

 भाव, त्वर्यतां त्वर्यताम् । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति–-‘प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्य' इति ।

 सूत्रधारः(आकर्ण्य सानन्दम्)अहो नु खलु भोः, भगवता सकलजगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं संधिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विकं, नारम्भयसि कुशीलवैः सह संगीतकम् ।

( प्रविश्य )

 पारिपार्श्विकः---भवतु । आरम्भयामि । कतमं समयमाश्रित्य गीयताम् ।

 सुत्रधारः--नन्वमुमेव तावच्चन्द्रातपनक्षत्रग्रहक्रौञ्चहंससप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां संगीतकम् । तथा ह्यस्यां शरदि

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ६ ॥

 पारिपार्श्विकः--(ससंभ्रमम्।)भाव, शान्तं पापम् । प्रतिहतममङ्गलम् । ।

 सूत्रधारः--( सवैलक्ष्यस्मितम् ) मारिष, शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलम् ?

 पारिपार्श्विकः-—न खलु न जाने । किंत्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।

 सूत्रधारः–-मारिष, ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि ।

निर्वाणवैरदहनाः प्रशमादरीणां ।
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ७ ॥

( नेपथ्ये । साधिक्षेपम् । )

आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद,

लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्य पाण्डववधूपरिधानकेशा-
न्स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥ ८ ॥

( सूत्रधारपारिपार्श्विकावाकर्णयतः। )

 पारिपार्श्विकः—-भाव ! कुत एतत् ।

 सूत्रधारः--( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिबन्निव नः सर्वान्सहदेवेनानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् ।

( इति निष्क्रान्तौ )

प्रस्तावना ।

( ततः प्रविशति सहदेवेनानुगम्यमानः क्रुद्धो भीमसेनः ।)

 भीमसेनः--आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद । ('लाक्षागृहानल-'( १।८ ) इत्यादि पुनः पठति । )

 सहदेवः—-( सानुनयम् । ) आर्य, मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । पश्य । ('निर्वाणवैरदहनाः' ( १।७ )इति पठित्वान्यथाभिनयति ।)

 भीमसेनः--( सोपालम्भम् ।) न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । संधेयास्ते भ्रातरो युष्माकम् ।

 सहदेवः--(सरोषम् ) आर्य !

धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे ।
राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ ९ ॥

 भीमसेनः-–एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।

प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि-
र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् ।
जरासंधस्योरःस्थलमिव विरूढं पुनरपि
क्रुधा संधिं भीमो विघटयति यूयं घटयत ॥ १० ॥

 सहदेवः--( सानुनथम् ।) आर्य, एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।

 भीमसेनः--किं नाम, कदाचित्खिद्यते गुरुः ? गुरुः खेदमपि जानाति ? पश्य ।

तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं ।
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ११ ॥

 तत्सहदेव ! निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीपितस्य भीमस्य वचनाद्विज्ञापय राजानम् ।

 सहदेवः-–आर्य ! किमिति ?

 भीमसेनः--

युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १२ ॥

[ इत्युद्धतं परिक्रामति ।]

 सहदेवः--(तमेवानुगच्छन्नात्मगतम् ।) अये कथमार्यः पाञ्चाल्याश्चतुःशालकं प्रति प्रस्थितः । भवतु तावदहमत्रैव तिष्ठामि । [ इति स्थितः ।]

 भीमसेनः--[ प्रतिनिवृत्यावलोक्य च । ] सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।

 सहदेवः-–आर्य नेदमायुधागारम् । पाञ्चाल्याश्चतुःशालकमिदम् ।

 भीमसेनः--किं नाम ? नेदमायुधागारम् ? पाञ्चाल्याश्चतुःशालकामिदम् ? [ विचिन्त्य सहर्षम् ।] आमन्त्रयितव्यैव मया पाञ्चाली । [सप्रणयं सहदेवं हस्ते गृहीत्वा । ] वत्स, आगम्यताम् । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।

(उभौ प्रवेशं नाटयतः।)

 सहदेवः--(ससंभ्रमम् ।) आर्य, इदमासनमास्तीर्णम् । अत्रोपविश्यार्यः पालयतु कृष्णागमनम् ।

 भीमसेनः--वत्स, कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन प्रकारेण संधिं कर्तुं सुयोधनं प्रति प्रहितः ।

 सहदेवः-–आर्य, पञ्चभिर्ग्रामैः ।

 भीमसेनः--(कर्णौ पिधाय ।) अहह ! देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । ( परिवृत्य स्थित्वा ।) तद्वत्स ! न त्वया कथितं न च मया भीमेन श्रुतम् ।

यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १३ ॥

( नेपथ्ये)

समस्ससदु समस्ससदु भट्टिणी । (समाश्वसितु समाश्वसितु भट्टिनी ।)

 सहदेवः--(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति ? तत्कष्टतरमापतितम् ।

यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १४ ॥

(ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च ।)

[द्रौपदी सास्रं निश्वसिति ।]

 चेटी-–समस्ससदु समस्ससदु भट्टिणी | अवणइस्संदि दे मण्णुं णिचा णुबद्धकुरुवेरो कुमालो भीमसेणो (समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।)

 द्रौपदी--हञ्जे बुद्धिमदिए ! होदि एदं जइ महाराओ पडिऊलो ण भवे । (हञ्जे बुद्धिमतिके ! भवत्येतद्यदि महाराजः प्रतिकूलो न भवेत् ।)

 चेटी-–( विलोक्य )एसो कुमालो चिट्ठदि ता णं उवसप्पदु भट्टिणी (एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी)

 द्रौपदी--हञ्जे एव्वं करेह्म (हञ्जे एवं कुर्वः )

( इति परिक्रामतः )

 द्रौपदी--हञ्जे कहेहि णाहस्स मह आगमणं । (हञ्जे ! कथय नाथस्य ममागनम् ।)

 चेटी--जं देवी आणवेदि । ( यद्देव्याज्ञापयति )

( इति परिक्रामति )

 (भीमसेनोऽशृण्वन् ‘यत्तदूर्जितम् ( १।१३ ) इति पुनः पठति ।)

 चेटी--( परिवृत्य ) भट्टिणि ! पिअं दे णिवेदेमि । परिकुविदो विअ कुमालो लख्खीअदि । ( भट्टिनि ! प्रियं ते निवेदयामि । परिकुपित इव कुमारो लक्ष्यते ।)

 द्रौपदी-–हञ्जे ! जइ एव्वं ता अवहीरणा वि एसा मं आसासअदि । ता एअन्ते उवविट्टा भविअ सुणोमि दाव णाहस्स ववसिदं । ( हञ्जे ! यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदेकान्त उपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् ।

( उभे तथा कुरुतः ।)

 भीमसेनः-- (सक्रोधं सहदेवमधिकृत्य । ) किं नाम पञ्चभिर्ग्रामैः संधिः ?

मथ्नामि कौरवशतं समरे न कोपाद्-
दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू
संधिं करोतु भवतां नृपतिः पणेन ॥ १५ ॥

 द्रौपदी--( सहर्षं जनान्तिकम् ) णाह, अस्सुदपुव्वं क्खु दे एदिसं वअणं । ता पुणो वि दाव भणाहि । ( नाथ ! अश्रुतपूर्वं खलु ते ईदृशं वचनम् । तत्पुनरपि तावद्भण । )

( भीमसेनोऽशृण्वन्नेव ‘मथ्नामे कौरवशतं ( १।१५) इति पुनः पठति ।)

 सहदेवः--आर्य ! किं महाराजस्य संदेशोऽयमार्येणाव्युत्पन्न इव गृहीतः ?

 भीमसेनः---का पुनरत्र व्युत्पत्तिः

 सहदेवः-–आर्य ! एवं गुरुणा संदिष्टम् ।

 भीमसेनः----कस्य ?

 सहदेवः--सुयोधनस्य ।

 भीमसेनः--किमिति ?

 सहदेवः--

इंद्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् ।
प्रयच्छ चतुरो ग्रामान्कंचिदेकं च पञ्चमम् ॥ १६ ॥

 भीमसेनः--ततः किम् ?

 सहदेवः-–तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्धाटनमेवेदं मन्ये ।

 भीमसेनः--( साटोपम् )वत्स ! एवं कृते किं भवति ।

 सहदेवः--आर्य ! एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति । कुरुराजस्यासंधेयता च प्रतिपादिता भवति ।

 भीमसेनः--मूढ! सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसंधेयता तदैव प्रतिपादिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । प्रसिद्धश्च लोकेऽपि धार्तराष्ट्रकुलक्षयः ।

( सहदेवो लज्जां नाटयति )

 भीमसेनः-–स किं लज्जाकरो भवताम् ? अपि च रे मूर्ख !

युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः !
न लज्जयति दाराणां सभायां केशकर्षणम् ॥ १७ ॥

 द्रौपदी--( जनान्तिकम् ) णाह, ण लज्जन्ति एदे । तुमं वि दाव माविसुमरेहि । ( नाथ ! न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।)

 भीमसेनः-- ( सस्मरणम् )वत्स ! कथं चिरयति पाञ्चाली ?

 सहदेवः--आर्य ! का खलु वेलात्रभवत्याः प्राप्तायाः । किंतु रोषावेशवशादागताप्यार्येण नोपलक्षिता ।  भीमसेनः--(दृष्ट्वा सादरम् ।) देवि ! समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।

 द्रौपदी-–णाह उदासीणेसु तुम्हेसु मह मण्णू, ण उण कुविदेसु । (नाथ उदासीनेषु युष्मासु मम मन्युर्न पुनः कुपितेषु ।)

 भीमसेनः--यद्येवमपगतपरिभवमात्मानं समर्थयस्व (हस्ते गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य ।) किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।

 द्रौपदी-–णाह ! किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ! ( नाथ ! किमुद्वेगकारणं युष्मासु सन्निहितेषु ?)

 भीमसेनः--किमिति नावेदयसि ? ( केशानवलेक्य) अथवा किमावेदितेन ?

जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेष्वपि ।
पाञ्चालराजतनया वहते यदिमां दृशाम् ॥ १८ ॥

 द्रौपदी--हञ्जे बुद्धिमदिए कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ ? (हञ्जे बुद्धिमतिके। कथय नाथाय कोऽन्यो मम परिभवेन खिद्यते ।)

 चेटी--जं देवि आणवेदि । (भीममुपसृत्य । अञ्जलिं बद्ध्वा ।) सुणादु कुमालो । इदोवी अहिअदरं अज्ज उव्वेअकालणं आसी देवीए । (यद्देव्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः ।

 भीमसेनः--किं नामास्मादप्यधिकतरम् ? बुद्धिमतिके | कथय ।

कौरव्यवंशदावेऽस्मिन्क एष शलभायते ?।
मुक्तवेणी स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १९ ॥

 चेटी--सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्पमुहेण सवित्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा । (शृणोतु कुमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृता आर्याया गान्धार्याः पादवन्दनं कर्तुं गता ।)

 भीमसेनः--युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।

 चेटी---तदो पडिणिवुत्तमाणा भाणुमदीए दिठ्ठा । (ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा )

 भीमसेनः--(सक्रोधम् ।)आः, शत्रोर्भार्यया दृष्टा ? हन्त, स्थानं क्रोधस्य देव्याः । ततस्ततः ।  चेटी--तदो ताए तेवीं पेक्खिअ सहीजणदिण्णादिठ्ठएि सगव्वं ईति विहसिअ भणिअं । (ततस्तया देवीं प्रेक्ष्य सखीजनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् ।)

 भीमसेनः--न केवलं दृष्टा उक्ता च ? अहो किं कुर्मः । ततस्ततः ।

 चेटी--अइ जण्णसेणि ! पञ्च ग्गामा पत्थीअन्ति त्तिसुणीअदि । ता कीस दाणीं वि दे केसा ण संजमीअन्ति ? (अयि याज्ञसेनि ! पञ्च ग्रामाः प्रार्थ्यन्त इति श्रूयन्ते तत्कस्मादिदानीमपि ते केशा न संयम्यन्ते ? )

 भीमसेनः--सहदेव ! श्रुतम् ?

 सहदेवः––आर्य ! उचितमेवैतत्तस्याः । दुर्योधनकलत्रं हि सा । पश्य

स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि ।
मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ २० ॥

 भीमसेनः--बुद्धिमतिके ! ततो देव्या किमभिहितम् ?

 चैटी--कुमाल ! जइ परिजणहीणा भवें तदो देवी भणादि (कुमार ! यदि परिजनहीना भवेत्तदा देवी भणति ।)

भीमसेनः--किं पुनरभिहितं भवत्या ?

चेटी--कुमाल ! एव्वं मए भणिदं अइ भाणुमदि ! तुह्माणं अमुकेसु केसहत्थेसु कधं अह्माणं देवीए केसा संजमीअन्ति त्ति । ( कुमार एवं मया भणितम् । अयि भानुमति ! युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।

 भीमसेनः--(सपरितोषम् ) साधु बुद्धिमतिके ! साधु । तदभिहितं यदस्मत्परिजनोचितम् । (इति स्वाभरणानि बुद्धिमतिकायै प्रयच्छति । अधीरमासनादुतिष्ठन् । ) अयि पाञ्चालराजतनये ! श्रूयताम् । अचिरेणैव कालेन

  चञ्चद्भुजभ्रमितचण्डगदामिघात-
   संचूर्णितोरुयुगलस्य सुयोधनस्य ।
  स्त्यानावनद्धघनशोणितशोणपाणि-
   रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ २१ ॥

 द्रौपदी--किं णाह ! दुक्करं तुए परिकुविदेण ? सव्वहा अणुगेह्णन्तु एदं ववसिदं दे भादरो ( किं नाथ ! दुष्करं त्वया परिकुपितेन ? सर्वथानुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः । )  सहदेवः--अनुगृहीतमेतदस्माभिः ।

  (नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति ।)

 भीमसेनः--

मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुंदिभिस्ताड्यतेऽयम् ॥ २२ ॥

प्रविश्य संभ्रांतः

 कञ्चुकी--कुमार ! एष खलु भगवान्वासुदेवः ।

( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति ।)

 भीमसेनः--( ससंभ्रमम् ।) क्वासौ भगवान् ?

 कञ्चुकी–-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।

( सर्वे संभ्रमं नाटयन्ति ।)

 भीमसेनः--किं संयतः ?

 कञ्चुकी–-नहि नहि, संयन्तुमारब्धः ।

 भीमसेनः--किं कृतं देवेन ?

 कञ्चुकी--ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः कुमारमविलम्बितं द्रष्टुमिच्छति ।

 भीमसेनः--( सहासम्) किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ? (आकाशे दत्तदृष्टिः) आः दुरात्मन्कुरुकुलपांसन ! एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् ।

 सहदेवः–आर्य ! किमसौ दुरात्मा सुयोधनहतको वासुदेवमपि भगवन्तं स्वरूपेण न जानाति ?

 भीमसेनः--वत्स, मूढः खल्वयं दुरात्मा कथं जानातु । पश्य ।

आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता-
त्तं मोहांधः कथमयममुं वेत्तु देवं पुराणम् ॥ २३ ॥

आर्य मैत्रेय ! किमिदानीमध्यवस्यति गुरुः ?

 कञ्चुकी--स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।

( इति निष्क्रान्तः ।)

( नेपथ्ये । कलकलानन्तरम् । )

 भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च, शृण्वन्तु भवन्तः ।

  यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
   यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
  तद्द्यूतारणिसंभृतं नृपसुताकेशाम्बराकर्षणैः
   क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ २४ ॥

 भीमसेनः--( आकर्ण्य । सहर्षम् । ) जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।

 द्रौपदी--णाह ! किं दाणीं एसो पलअजलहरत्थणिमंसलो क्खणे क्खणे समरदुन्दुही ताडीअदि ?(नाथ ! किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते? )

 भीमसेनः--देवि ! किमन्यत् ? यज्ञ: प्रवर्तते ।

 द्रौपदी--( सविस्मयम् )को एसो जण्णो ( क एष यज्ञः ? )

 भीमसेनः--रणयज्ञः । तथाहि ।

  चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः
   सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
  कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
   राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ २५ ॥

 सहदेवः--आर्य ! गच्छामो वयमिदानीं गुरुजनानुज्ञाता विक्रमानुरूपमाचरितुम् ।

 भीमसेनः--वत्स ! एते वयमुद्यता एवार्यस्यानुज्ञामनुष्ठातुम् । (उत्थाय) देवि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय ।

 द्रोपदी--( बाष्पं धारयन्ती ।) णाह, असुरसमराहिमुहस्स हरिणो विअमङ्गलं तुह्माणं होदु । जं च अम्बा कुन्दी आसासदि तं तुह्माणं विअ, ( नाथ ! असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । यच्चाम्बा कुन्त्याशास्ते तद्युष्माकं भवतु ।)

  उभौ--प्रतिगृहीतं मङ्गलवचनमस्माभिः ।

 द्रौपदी--अण्णं अ णाह ! पुणो वि तुह्महिं समरादो आअच्छिअ अहं समासासइदव्वा । (अन्यच्च नाथ ! पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या)

 भीमसेनः--ननु पाञ्चालराजतनये ! किमद्याप्यलीकाश्वासनया ?

  भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
  अनि:शेषितकौरव्यं न पश्यसि वृकोदरम् ॥ २६ ॥

 द्रौपदी-–णाह ! मा क्खु जण्णसेणीपरिहवुद्दीविदकोवाणला अणवेक्खिदसरीरा संचरिस्सध । जदो अप्पमत्तसंचरणिज्जाइं रिउवलाइं सुणीअन्ति । ( नाथ ! मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतोऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते । )

 भीमसेनः--अयि सुक्षत्रिये !

 अन्योन्यास्फालभिन्नद्विपरुधिरंवसामांसमस्तिष्कपङ्के
  मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ ।
 स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे
  सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ २७ ॥

( इति निष्कान्ताः सर्वे ।)

इति प्रथमोऽङ्कः ।