वेतालपञ्चविंशतिः ससन्धिपाठः

तथा च कथयाम्य् एतां तदीयां ते कथां शृणु ।
प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे ॥ १२,८.२१ ॥

तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ।
प्राक् त्रिविक्रमसेनाख्यः ख्यातकीर्तिर् अभून् नृपः ॥ १२,८.२२ ॥

तस्य प्रत्यहम् आस्थानगतस्योपेत्य भूपतेः ।
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलम् उपानयत् ॥ १२,८.२३ ॥

सो ऽपि राजा तद् आदाय फलम् आसन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥ १२,८.२४ ॥

इत्थं गतेषु वर्षेषु दशस्व् अत्र किलैकदा ।
दत्त्वा राज्ञे फलं तस्मै भिक्षाव् आस्थानतो गते ॥ १२,८.२५ ॥

स राजा तत् फलं प्रादात् प्रविष्टायात्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥ १२,८.२६ ॥

स मर्कटस् तद् अश्नाति यावत् तावत् फलात् ततः ।
विभिन्नमध्यान् निरगाद् अनर्घं रत्नम् उत्तमम् ॥ १२,८.२७ ॥

तद् दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥ १२,८.२८ ॥

हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तच् छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥ १२,८.२९ ॥

क्षिप्तानि तान्य् अनुद्घाट्य मया गञ्जे गवाक्षतः ।
यद्य् आदिशसि तद् देव तम् उद्घाट्य गवेषये ॥ १२,८.३० ॥

इत्य् ऊचिवान् अनुमतो राज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत् पुनः ॥ १२,८.३१ ॥

शीर्णानि नात्र पश्यामि कोषे तानि फलान्य् अहम् ।
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥ १२,८.३२ ॥

तच् छ्रुत्वा तान् मनीन् दत्त्वा तुष्टो ऽस्मै कोषरक्षिणे ।
राजान्येद्युर् अपृच्छत् स भिक्षुं तं प्राग्वद् आगतम् ॥ १२,८.३३ ॥

भिक्षो धनव्ययेनैवं सेवसे मां किम् अन्वहम् ।
नेदानीं ते ग्रहीष्यामि फलं यावन् न वक्ष्यसि ॥ १२,८.३४ ॥

इत्य् उक्तवन्तं राजानं भिक्षुस् तं विजने ऽब्रवीत् ।
वीरसाचिव्यसापेक्षं मन्त्रसाधनम् अस्ति मे ॥ १२,८.३५ ॥

तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये ।
तच् छ्रुत्वा प्रतिपेदे तत् तथेत्य् अस्य स भूपतिः ॥ १२,८.३६ ॥

ततः स श्रमणस् तुष्टो नृपं पुन उवाच तम् ।
तर्हि कृष्णचतुर्दश्याम् आगामिन्यां निशागमे ॥ १२,८.३७ ॥

इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे ।
आगन्तव्यं त्वया देव प्रतिपालयतो ऽन्तिकम् ॥ १२,८.३८ ॥

बाढम् एवं करिष्यामीत्य् उक्ते तेन महीभुजा ।
स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥ १२,८.३९ ॥

अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनां प्रतिपन्नां तां भिक्षोस् तस्य नृपः स्मरन् ॥ १२,८.४० ॥

प्रदोषे नीलवसनस् तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिर् अलक्षितः ॥ १२,८.४१ ॥

ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलोग्रनयनज्वालादारुणदर्शनम् ॥ १२,८.४२ ॥

असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥ १२,८.४३ ॥

भैरवस्यापरं रूपम् इव गम्भीरभीषणम् ।
स्फूर्जन् महाशिवारावं श्मशानं तद् अविह्वलः ॥ १२,८.४४ ॥

विचित्य चात्र तं प्राप्य भिक्षुं वटतरोर् अधः ।
कुर्वाणं मण्डलन्यासम् उपसृत्य जगाद सः ॥ १२,८.४५ ॥

एषो ऽहम् आगतो भिक्षो ब्रूहि किं करवाणि ते ।
तच् छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुर् उवाच तम् ॥ १२,८.४६ ॥

राजन् कृतः प्रसादश् चेत् तद् इतो दक्षिणामुखम् ।
गत्वा विदूरम् एकाकी विद्यते शिंशपातरुः ॥ १२,८.४७ ॥

तस्मिन्न् उल्लम्बितमृतः को ऽप्य् एकः पुरुषः स्थितः ।
तम् इहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥ १२,८.४८ ॥

तच् छ्रुत्वैव तथेत्य् उक्त्वा स राजा सत्यसंगरः ।
दक्षिणां दिशम् आलम्ब्य प्रवीरः प्रययौ ततः ॥ १२,८.४९ ॥

आत्तदीप्तचितालातलक्षितेन पथात्र सः ।
गत्वा तमसि तं प्राप कथंचिच् छिंशपातरुम् ॥ १२,८.५० ॥

तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः ।
सो ऽपश्यल् लम्बमानं तं भूतस्येव शवं तरोः ॥ १२,८.५१ ॥

आरुह्य चात्र भूमौ तं छिन्न रज्जुम् अपातयत् ।
पतितश् चात्र सो ऽकस्माच् चक्रन्द व्यथितो यथा ॥ १२,८.५२ ॥

ततो ऽवरुह्य कृपया जीवाशङ्की स तस्य यत् ।
राजाङ्गं प्रामृशत् तेन सो ऽट्टहासं व्यधाच् छवः ॥ १२,८.५३ ॥

ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा ।
किं हसस्य् एहि गच्छाव इति यावद् अकम्पितः ॥ १२,८.५४ ॥

वक्ति तावन् न भूमौ सवेतालं शवम् ऐक्षत ।
ऐक्षतात्रैव वृक्षे तु लम्बमानं स्थितं पुनः ॥ १२,८.५५ ॥

ततो ऽधिरुह्य भूयो ऽपि तम् अवातारयत् ततः ।
वज्राद् अपि हि वीराणां चित्तरत्नम् अखण्डितम् ॥ १२,८.५६ ॥

आरोप्य च सवेतालं स्कन्धे मौनेन तं शवम् ।
स त्रिविक्रमसेनो ऽथ राजा गन्तुं प्रचक्रमे ॥ १२,८.५७ ॥

यान्तं च तं शवान्तःस्थो वेतालो ऽंसस्थितो ऽब्रवीत् ।
राजन्न् अध्वविनोदाय कथाम् आख्यामि ते शृणु ॥ १२,८.५८ ॥

अस्ति वाराणसी नाम पुरारिवसतिः पुरी ।
स्थलीव कैलासगिरेर् या पुण्यजनसेविता ॥ १२,८.५९ ॥

भूरिवारिभृता शश्वदुपकण्ठनिवेशिनी ।
हारयष्टिर् इवाभाति यस्याः स्वर्गतरङ्गिणी ॥ १२,८.६० ॥

प्रतापानलनिर्दग्धविपक्षकुलकाननः ।
तस्यां प्रतापमुकुटो नाम राजाभवत् पुरा ॥ १२,८.६१ ॥

तस्याभूद् वज्रमुकुटस् तनयो रूपशौर्ययोः ।
कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥ १२,८.६२ ॥

राजपुत्रस्य तस्यात्र मन्त्रिपुत्रो महामतिः ।
आसीद् बुद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ १२,८.६३ ॥

तेन सख्या सह क्रीडन् स कदाचिन् नृपात्मजः ।
जगाम दूरम् अध्वानं मृगयाति प्रसङ्गतः ॥ १२,८.६४ ॥

शौर्यश्रीचामराणीव सिंहानां मस्तकानि सः ।
छिन्दच् छरैः सटालानि विवेशैकं महावनम् ॥ १२,८.६५ ॥

तत्रास्थाने स्मरस्येव पठत् कोकिलबन्दिनि ।
दत्तोपकारे तरुभिर् मञ्जरीचलचामरैः ॥ १२,८.६६ ॥

सो ऽन्वितो मन्त्रिपुत्रेण तेनापश्यत् सरोवरम् ।
विचित्रकमलोत्पत्तिधामाम्बुधिम् इवापरम् ॥ १२,८.६७ ॥

तस्मिंस् तदैव सरसि स्नानार्थं काचिद् आगता ।
तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ १२,८.६८ ॥

पूरयन्तीव लावण्यनिर्झरेण सरोवरम् ।
दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ १२,८.६९ ॥

प्रत्यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना ।
सा जहार मनस् तस्य राजपुत्रस्य तत्क्षणम् ॥ १२,८.७० ॥

सो ऽप्य् अहार्षीत् तथा तस्या युवा दृष्ट्वा विलोचने ।
यथा नैक्षत सा कन्या लज्जां स्वाम् अप्य् अलंकृतिम् ॥ १२,८.७१ ॥

यूनि पश्यति तस्मिन् सा केयं स्याद् इति सानुगे ।
संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ॥ १२,८.७२ ॥

करोति स्मौत्पलं कर्णे गृहीत्वा पुष्पशेखरात् ।
चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ १२,८.७३ ॥

पद्मं शिरसि साकूतं हृदये चादधे करम् ।
राजपुत्रश् च तस्यास् तां संज्ञां न ज्ञातवांस् तदा ॥ १२,८.७४ ॥

मन्त्रिपुत्रस् तु बुबुधे स सखा तस्य बुद्धिमान् ।
क्षणाच् च सा ययौ कन्या नीयमानानुगैस् ततः ॥ १२,८.७५ ॥

प्राप्य च स्वगृहं तस्थौ पर्यङ्गे ऽङ्गं निधाय सा ।
चित्तं तु निजसंज्ञार्थम् आस्थात् तस्मिन् नृपात्मजे ॥ १२,८.७६ ॥

सो ऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा ।
गत्वा स्वनगरीं कृच्छ्रां प्रापावस्थां तया विना ॥ १२,८.७७ ॥

सख्या च मन्त्रिपुत्रेण तेन पृष्टस् तदा रहः ।
शंसता ताम् अदुष्प्रापां त्यक्तधैर्यो जगाद सः ॥ १२,८.७८ ॥

यस्या न नाम न ग्रामो नान्वयो वावबुध्यते ।
सा कथं प्राप्यते तन् माम् आश्वासयसि किं मृषा ॥ १२,८.७९ ॥

इत्य् उक्तो राजपुत्रेण मन्त्रिपुत्रस् तम् अभ्यधात् ।
किं न दृष्टं त्वया तद् यत् संज्ञया सूचितं तया ॥ १२,८.८० ॥

न्यस्तं यद् उत्पलं कर्णे तेनैतत् ते तयोदितम् ।
कर्णोत्पलस्य राष्ट्रे ऽहं निवसामि महीभृतः ॥ १२,८.८१ ॥

कृता यद् दन्तरचना तेनैतत् कथितं तया ।
तत्र जानीहि मां दन्तघाटकस्य सुताम् इति ॥ १२,८.८२ ॥

पद्मावतीति नामोक्तं तयोत्तंसितपद्मया ।
त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥ १२,८.८३ ॥

कलिङ्गदेशे ह्य् अस्त्य् अत्र ख्यातः कर्णोत्पलो नृपः ।
तस्य प्रसादवित्तो ऽस्ति महान् यो दन्तघाटकः ॥ १२,८.८४ ॥

सङ्ग्रामवर्धनाख्यस्य तस्याप्य् अस्ति जगत्त्रये ।
रत्नं पद्मावती नाम कन्या प्राणाधिकप्रिया ॥ १२,८.८५ ॥

एतच् च लोकतो देव यथावद् विदितं मम ।
अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥ १२,८.८६ ॥

इत्य् उक्तो मन्त्रिपुत्रेन तेन राजसुतो ऽथ सः ।
तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥ १२,८.८७ ॥

संमन्त्र्य च समं तेन स तद्युक्तः स्वमन्दिरात् ।
प्रियार्थी मृगयाव्याजात् पुनस् ताम् अगमद् दिशम् ॥ १२,८.८८ ॥

अर्धमार्गे च वाताश्ववेगवञ्चितसैनिकः ।
तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ १२,८.८९ ॥

तत्र तौ प्राप्य नगरं कर्णोत्पलमहीभृतः ।
अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ १२,८.९० ॥

तद् अदूरे च वासार्थम् एकस्या वृद्धयोषितः ।
गृहं प्राविशतां मन्त्रिपुत्रराजसुताव् उभौ ॥ १२,८.९१ ॥

दत्ताम्बुयवसौ वाहौ गुप्ते ऽवस्थाप्य चात्र सः ।
राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥ १२,८.९२ ॥

कच्चिद् वेत्स्य् अम्ब सङ्ग्रामवर्धनं दन्तघाटकम् ।
तच् छ्रुत्वा सा जरद्योषित् सश्रद्धा तम् अभाषत ॥ १२,८.९३ ॥

वेद्म्य् एव धात्री तस्यास्मि स्थापिता तेन चाधुना ।
पद्मावत्याः स्वदुहितुः पार्श्वे ज्येष्ठतरेत्य् अहम् ॥ १२,८.९४ ॥

किं त्व् अहं न सदा तत्र गच्छाम्य् उपहताम्बरा ।
कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ १२,८.९५ ॥

एवम् उक्तवतीं प्रीतः स्वोत्तरीयादिदानतः ।
संतोष्य सो ऽत्र वृद्धां तां मन्त्रिपुत्रो ऽब्रवीत् पुनः ॥ १२,८.९६ ॥

माता त्वं तद् वदामस् ते गुप्तं यत् तत् कुरुष्व नः ।
दन्तघाटसुताम् एतां गत्वा पद्मावतीं वद ॥ १२,८.९७ ॥

सो ऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया ।
तेन चेह तद् आख्यातुं प्रेषिता प्रणयाद् अहम् ॥ १२,८.९८ ॥

तच् छ्रुत्वा सा तथेत्य् उक्त्वा वृद्धा दानवशीकृता ।
गत्वा पद्मावतीपार्श्वम् आजगाम क्षणान्तरे ॥ १२,८.९९ ॥

पृष्टा जगाद तौ राजसुतमन्त्रिसुतौ च सा ।
युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥ १२,८.१०० ॥

तया श्रुत्वा च निर्भर्त्स्य पाणिभ्याम् अहम् आहता ।
द्वाभ्यां कर्पूरलिप्ताभ्याम् उभयोर् गण्डयोर् मुखे ॥ १२,८.१०१ ॥

ततः परिभवोद्विग्ना रुदत्य् अहम् इहागता ।
एतास् तद् अङ्गुलीमुद्राः पुत्रौ मे पश्यतं मुखे ॥ १२,८.१०२ ॥

एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् ।
जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥ १२,८.१०३ ॥

मा गा विषादं रक्षन्त्या मन्त्रं निर्भर्त्स्य यत् तया ।
कर्पूरशुभ्रा वक्त्रे ऽस्याः स्वाङ्गुल्यो दश पातिताः ॥ १२,८.१०४ ॥

तद् एतद् उक्तं पक्षे ऽस्मिञ् शुक्ले चन्द्रवतीर् इमाः ।
रात्रीर् दश प्रतीक्षध्वं संगमानुचिता इति ॥ १२,८.१०५ ॥

इत्य् आश्वास्य स तं राजसुतं मन्त्रिसुतस् ततः ।
विक्रीय गुप्तं हस्तस्थं काञ्चनं किंचिद् आपणे ॥ १२,८.१०६ ॥

वृद्धया साधयामास महार्हं भोजनं तया ।
ततस् तौ बुभुजाते द्वौ तत् तया सह वृद्धया ॥ १२,८.१०७ ॥

एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् ।
पद्मावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥ १२,८.१०८ ॥

सापि मृष्टान्नपानादिलुब्धा तद् अनुरोधतः ।
गत्वा वासगृहं तस्या भूयो ऽभ्येत्य जगाद तौ ॥ १२,८.१०९ ॥

इतो गत्वाद्य तूष्णीम् अप्य् अहं तत्र स्थिता तया ।
युष्मत्कथापराधं तम् उद्गिरन्त्या स्वयं पुनः ॥ १२,८.११० ॥

सा लक्तकाभिस् तिसृभिः कराङ्गुलिभिर् आहता ।
उरस्य् अस्मिन्न् अथैषाहम् इहायाता तद् अन्तिकात् ॥ १२,८.१११ ॥

तच् छ्रुत्वा राजपुत्रं तं स्वैरं मन्त्रिसुतो ऽब्रवीत् ।
मा कार्षीर् अन्यथा शङ्काम् अस्या हि हृदये तया ॥ १२,८.११२ ॥

सा लक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः ।
रजस्वला निशास् तिस्रः स्थिताहम् इति सूचितम् ॥ १२,८.११३ ॥

एवम् उक्त्वा नृपसुतं मन्त्रिपुत्रस् त्र्यहे गते ।
पद्मावत्यै पुनस् तस्यै वृद्धां तां प्रजिघाय सः ॥ १२,८.११४ ॥

सा गता मन्दिरं तस्यास् तया संमान्य भोजिता ।
प्रीत्या पानादिलीलाभिर् दिनं चात्र विनोदिता ॥ १२,८.११५ ॥

सायं च यावत् सा वृद्धा गृहम् आगन्तुम् इच्छति ।
उदभूद् भयकृत् तावत् तत्र कोलाहलो बहिः ॥ १२,८.११६ ॥

हा हा भ्रष्टो ऽयम् आलानाज् जनान् मथ्नन् प्रधावति ।
मत्तहस्तीति लोकस्य तत्राक्रन्दो ऽथ शुश्रुवे ॥ १२,८.११७ ॥

ततः पद्मावती सा तां वृद्धाम् एवम् अभाषत ।
स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथा ॥ १२,८.११८ ॥

तत् पीठिकां समारोप्य बद्धालम्बनरज्जुकाम् ।
बृहद्गवाक्षेणानेन त्वाम् अत्र प्रक्षिपामहे ॥ १२,८.११९ ॥

गृहोद्याने ततो वृक्षम् आरुह्यामुं विलङ्घ्य च ।
प्राकारम् अवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥ १२,८.१२० ॥

इत्य् उक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् ।
वृद्धां चेटीभिर् उद्याने रज्जुपीठिकया ततः ॥ १२,८.१२१ ॥

साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् ।
यथावद् राजपुत्राय तस्मै मन्त्रिसुताय च ॥ १२,८.१२२ ॥

ततः स मन्त्रिपुत्रस् तं राजपुत्रम् अभाषत ।
सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस् तया ॥ १२,८.१२३ ॥

तद् गच्छाद्यैव तत्र त्वं प्रदोषे ऽस्मिन् नृपागते ।
एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥ १२,८.१२४ ॥

इत्य् उक्तस् तेन तद्युक्तो राजपुत्रो ययौ स तत् ।
उद्यानं वृद्धयोक्तेन तेन प्राकारवर्त्मना ॥ १२,८.१२५ ॥

तत्रापश्यच् च रज्जुं तां लम्बमानां सपीठिकाम् ।
मार्गोन्मुखाभिश् चेटीभिर् उपरिष्टाद् अधिष्ठिताम् ॥ १२,८.१२६ ॥

आरूढस् तां च दृष्ट्वैव दासीभिस् ताभिर् आशु सः ।
रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥ १२,८.१२७ ॥

तस्मिन् प्रविष्टे स ययौ मन्त्रिपुत्रः स्वम् आस्पदम् ।
राजपुत्रस् तु तां पद्मावतीं तत्र ददर्श सः ॥ १२,८.१२८ ॥

पूर्णामृतांशुवदनां प्रसरत्कान्तिचन्द्रकाम् ।
कृष्णपक्षभयाद् गुप्तस्थितां राकानिशाम् इव ॥ १२,८.१२९ ॥

सापि दृष्ट्वा तम् उत्थाय चिरौत्सुक्योचितैस् ततः ।
कण्ठग्रहादिभिस् तैस् तैर् उपचारैर् अमानयत् ॥ १२,८.१३० ॥

ततस् तया स गान्धर्वविधिनोदूढया सह ।
गुप्तं राजसुतस् तस्थौ पूर्णेच्छस् तत्र कान्तया ॥ १२,८.१३१ ॥

स्थित्वा चाहानि कतिचिद् रात्रौ ताम् अवदत् प्रियाम् ।
सखा मम सहायातो मन्त्रिपुत्र इति स्थितः ॥ १२,८.१३२ ॥

स चात्र तिष्ठत्य् एकाकी त्वज्ज्येष्ठतरिकागृहे ।
गत्वा संभाव्य तं तन्वि पुन एष्यामि ते ऽन्तिकम् ॥ १२,८.१३३ ॥

तच् छ्रुत्वा तम् अवोचत् सा धूर्ता पद्मावती प्रियम् ।
हन्तार्यपुत्र पृच्छामि ताः संज्ञा मत्कृतास् त्वया ॥ १२,८.१३४ ॥

ज्ञाता किं किम् उवा तेन सख्या मन्त्रिसुतेन ते ।
एवम् उक्तवतीम् एतां राजपुत्रो जगाद सः ॥ १२,८.१३५ ॥

न ज्ञातं तन् मया किंचिज् ज्ञात्वा सर्वं च तेन मे ।
आख्यातं मन्त्रिपुत्रेण दिव्यप्रज्ञानशालिना ॥ १२,८.१३६ ॥

एतच् छ्रुत्वा विचिन्त्यैव भामिनी सा जगाद तम् ।
तर्ह्य् अयुक्तं कृतं यन् मे चिरात् स कथितस् त्वया ॥ १२,८.१३७ ॥

स मे भ्राता सखा यस् ते तस्य च प्रथमं मया ।
ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत् ॥ १२,८.१३८ ॥

इत्य् उक्तवत्यानुमतस् तया पूर्वपथेन सः ।
रजापुत्रो ऽन्तिकं तस्य सख्युर् आगात् ततो निशि ॥ १२,८.१३९ ॥

शशंस च कथामध्ये तत् तस्मै यत् तदाश्रयम् ।
संज्ञाविज्ञानकथनं कृतं तेन प्रियान्तिके ॥ १२,८.१४० ॥

मन्त्रिपुत्रस् तु सो ऽयुक्तम् इति न श्रद्दधे ऽस्य तत् ।
तावच् च सा तयोस् तत्र विभाताभूद् विभावरी ॥ १२,८.१४१ ॥

अथैतयोर् विधौ सांध्ये निवृत्ते कुर्वतोः कथाः ।
आगात् पक्वान्नताम्बूलहस्ता पद्मावतीसखी ॥ १२,८.१४२ ॥

सा मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारिका ।
निषेद्धुं राजपुत्रस्य भोजनं तत्र युक्तितः ॥ १२,८.१४३ ॥

कथान्तरे स्वामिनीं स्वां भोजनादौ तदागमम् ।
प्रतीक्षमाणाम् आवेद्य क्षणाद् गुप्तं ततो ययौ ॥ १२,८.१४४ ॥

ततस् तं मन्त्रिपुत्रः स राजपुत्रम् अभाषत ।
कौतुकं पश्य देवैकं दर्शयाम्य् अधुना तव ॥ १२,८.१४५ ॥

इत्य् उक्त्वा भक्ष्यम् एकं स पक्वान्नं दत्तवांस् ततः ।
सारमेयाय स च तत् खादित्वैव व्यपद्यत ॥ १२,८.१४६ ॥

तद् दृष्ट्वा किम् इदं चित्रम् इति राजसुतो ऽत्र सः ।
पप्रच्छ मन्त्रिपुत्रं तं स चैतं प्रत्यभाषत ॥ १२,८.१४७ ॥

संज्ञाज्ञानेन धूर्तं मां विदित्वा हन्तुकामया ।
तया विषान्नं प्रहितं मम त्वदनुरक्तया ॥ १२,८.१४८ ॥

नास्मिन् सति मदेकाग्रो राजपुत्रो भवेद् अयम् ।
एतद्वशश् च मुक्त्वा मां नगरीं स्वां व्रजेद् इति ॥ १२,८.१४९ ॥

तन् मुञ्च मन्युम् एतस्यां बन्धुत्यागान् महात्मनः ।
कुर्यास् त्वं हरणे युक्तिं वक्ष्याम्य् आलोच्य याम् अहम् ॥ १२,८.१५० ॥

इत्य् उक्तवन्तं तं मन्त्रिसुतो राजसुतो ऽत्र सः ।
सत्यं बुद्धिशरीरस् त्वम् इति यावत् प्रशंसति ॥ १२,८.१५१ ॥

अशङ्कितं बहिस् तावद् दुःखाकुलजनारवः ।
हा धिग् राज्ञः सुतो बालो विपन्न इति शुश्रुवे ॥ १२,८.१५२ ॥

तदाकर्णनहृष्टो ऽथ मन्त्रिपुत्रो नृपात्मजम् ।
जगाद हन्त गच्छाद्य पद्मावत्या गृहं निशि ॥ १२,८.१५३ ॥

तत्र तां पाययेस् तावद् यावत् पानमदेन सा ।
निःसंज्ञा नष्टचेष्टा च गतजीवेव जायते ॥ १२,८.१५४ ॥

ततस् तस्याः सनिद्रायाः शूलेनाङ्कं कटीतटे ।
दत्त्वाग्नितप्तेनादाय तदाभरणसंचयम् ॥ १२,८.१५५ ॥

आगच्छेस् त्वं गवाक्षेण रज्जुलम्बविनिर्गतः ।
ततः परं यथा भद्रं भवेज् ज्ञास्याम्य् अहं तथा ॥ १२,८.१५६ ॥

इत्य् उक्त्वा कारयित्वा च क्रोडवालनिभाश्रिकम् ।
मन्त्रिपुत्रो ददौ तस्मै त्रिशूलं राजसूनवे ॥ १२,८.१५७ ॥

राजपुत्रः स हस्ते तत् कृत्वा कुटिलकर्कशम् ।
कालायस दृढं चित्तम् इव कान्तावयस्ययोः ॥ १२,८.१५८ ॥

तथेति पूर्ववद् रात्राव् अगात् पद्मावतीगृहम् ।
अविचार्यं प्रभूणां हि शुचेर् वाक्यं स्वमन्त्रिणः ॥ १२,८.१५९ ॥

तत्र तां मद्यनिश्चेष्टां शूलेन जघने ऽङ्किताम् ।
हृतालंकरणां कृत्वा तस्यागात् सख्युर् अन्तिकम् ॥ १२,८.१६० ॥

दर्शिताभरणस् तस्मै शशंस च यथाकृतम् ।
ततः स मन्त्रिपुत्रो ऽपि सिद्धं मेने मनीषितम् ॥ १२,८.१६१ ॥

प्रातर् गत्वा श्मशानं च सो ऽभूत् तापसवेषभृत् ।
स्वैरं राजसुतं तं च विदधे शिष्यरूपिणम् ॥ १२,८.१६२ ॥

अब्रवीत् तं च गच्छैकम् इतो ऽलंकरणाद् इमाम् ।
मुक्तावलीं समादाय त्वं विक्रेतुम् इवापणे ॥ १२,८.१६३ ॥

बहुमूल्यं वदेश् चास्या येनैतां नैव कश् चने ।
गृह्णीयाद् भ्राम्यमाणां च सर्वः कोऽपि विलोकयेत् ॥ १२,८.१६४ ॥

गुरुणा मम विक्रेतुम् इयं दत्तेत्य् अनाकुलः ।
ब्रूयाश् च यदि गृह्णीयुर् अत्र त्वां पुररक्षिणः ॥ १२,८.१६५ ॥

इति स प्रेषितस् तेन गत्वा राजसुतस् तदा ।
अतिष्ठद् आपणे भ्राम्यन् व्यक्तं मुक्तावलीं दधत् ॥ १२,८.१६६ ॥

तथाभूतश् च जगृहे स दृष्ट्वा पुररक्षिभिः ।
दन्तघाटसुतामोषज्ञप्तेश् चौरेगवेषिभिः ॥ १२,८.१६७ ॥

निन्ये च नगराध्यक्षनिकटं तैः स तत्क्षणात् ।
स च तं तापसाकारं दृष्ट्वा पप्रच्छ सान्त्वतः ॥ १२,८.१६८ ॥

कुतो मुक्तावलीयं ते भगवन्न् इह हारिता ।
दन्तघाटककन्याया हृतं ह्य् आभरणं निशि ॥ १२,८.१६९ ॥

तच् छ्रुत्वा राजपुत्रस् तं सो ऽवादीत् तापसाकृतिः ।
गुरुणा मम दत्तेयम् एत्यासौ पृच्छ्यताम् इति ॥ १२,८.१७० ॥

ततश् चोपेत्य तं नत्वा पप्रच्छ नगराधिपः ।
मुक्तावलीयं भगवन् कुतस् ते शिष्यहस्तगा ॥ १२,८.१७१ ॥

श्रुत्वैतद् विजनं कृत्वा स धूर्तस् तम् अभाषत ।
अहं तपस्वी भ्राम्यामि सदारण्येष्व् इतस् ततः ॥ १२,८.१७२ ॥

सो ऽहं दैवाद् इह प्राप्तः श्मशाने ऽत्र स्थितो निशि ।
अपश्यं योगिनीचक्रं समागतम् इतस् ततः ॥ १२,८.१७३ ॥

तन्मध्ये चैकयानीय योगिन्या राजपुत्रकः ।
उद्घाटितहृदम्भोजो भैरवाय निवेदितः ॥ १२,८.१७४ ॥

पानमत्ता च सा हर्तुं जपतो मे ऽक्षमालिकाम् ।
प्रावर्तत महामाया विकारान् कुर्वती मुखे ॥ १२,८.१७५ ॥

अतिप्रवृत्ता च मया क्रुद्धेन जघनस्थले ।
अङ्किता सा त्रिशूलेन मन्त्रप्रज्वालिताश्रिणा ॥ १२,८.१७६ ॥

हृता मुक्तावली चेयं तस्याः कण्ठान् मया तदा ।
सैषाद्य तापसानर्हा विक्रेया मम वर्तते ॥ १२,८.१७७ ॥

एतच् छ्रुत्वा पुराध्यक्षो गत्वा भूपं व्यजिज्ञपत् ।
भूपो ऽप्य् आकर्ण्य तत् तां च बुद्ध्वा तन्मौक्तिकावलीम् ॥ १२,८.१७८ ॥

प्रेक्षणप्रेषितायातवृद्धाप्तवनितामुखात् ।
श्रुत्वा च दृश्यशूलाङ्कां जघने सत्यम् एव ताम् ॥ १२,८.१७९ ॥

ग्रस्तः सुतो मे डकिन्या तयेत्य् उत्पन्ननिश्चयः ।
स्वयं तस्यान्तिकं गत्वा मन्त्रिपुत्रतपस्विनः ॥ १२,८.१८० ॥

पृष्ट्वा च निग्रहं तस्याः पद्मावत्याः स तद्गिरा ।
पितृभ्यां शोच्यमानायाः पुरान् निर्वासनं व्यधात् ॥ १२,८.१८१ ॥

निर्वासिताटवीस्था सा विग्नापि न जहौ तनुम् ।
उपायं मन्त्रिपुत्रेण तं संभाव्य तथा कृतम् ॥ १२,८.१८२ ॥

दिनान्ते तां च शोचन्तीम् अश्वारूढाव् उपेयतुः ।
त्यक्ततापसवेषौ तौ मन्त्रिपुत्रनृपात्मजौ ॥ १२,८.१८३ ॥

आश्वास्यारोप्य तुरगे स्वराष्ट्रं निन्यतुश् च ताम् ।
तत्र तस्थौ तया साकं राजपुत्रः स निर्वृतः ॥ १२,८.१८४ ॥

दन्तघाटस् त्व् अरण्ये तां क्रव्यादैर् भक्षितां सुताम् ।
मत्वा व्यपादि शोकेन भार्या चानुजगाम तम् ॥ १२,८.१८५ ॥

इत्य् आख्याय स भूयस् तं वेतालो नृपम् अब्रवीत् ।
तन् मे ऽत्र संशयं छिन्द्धि दंपत्योर् एतयोर् वधात् ॥ १२,८.१८६ ॥

मन्त्रिपुत्रस्य किं पापं राजपुत्रस्य किं नु वा ।
पद्मावत्याः किम् अथ वा त्वं हि बुद्धिमतां वरः ॥ १२,८.१८७ ॥

जानानश् च न चेद् राजन् मम तत्त्वं वदिष्यसि ।
तद् एष शतधा मूर्धा निश्चितं ते स्फुटिष्यति ॥ १२,८.१८८ ॥

इत्य् उक्तवन्तं वेतालं विजानञ् शापभीतितः ।
स त्रिविक्रमसेनस् तम् एवं प्रत्यब्रवीन् नृपः ॥ १२,८.१८९ ॥

योगेश्वर किम् अज्ञेयम् एतन् नैषां हि पातकम् ।
त्रयाणाम् अपि राज्ञस् तु पापं कर्णोत्पलस्य तत् ॥ १२,८.१९० ॥

वेतालो ऽप्य् आह राज्ञः किं ते हि तत्कारिणस् त्रयः ।
काकाः किम् अपराध्यन्ति हंसैर् जग्धेषु शालिषु ॥ १२,८.१९१ ॥

राजा ततो ऽब्रवीच् चैनं न दुष्यन्ति त्रयो ऽपि ते ।
मन्त्रिसूनोर् हि तत् तावत् प्रभुकार्यम् अपातकम् ॥ १२,८.१९२ ॥

पद्मावतीराजपुत्रौ तौ हि कामशराग्निना ।
संतप्ताव् अविचारार्हाव् अदोषौ स्वार्थम् उद्यतौ ॥ १२,८.१९३ ॥

कर्णोत्पलस् तु राजा स नीतिशास्त्रेष्व् अशिक्षितः ।
चरैः प्रजास्व् अनन्विष्यंस् तत्त्वशुद्धिं निजास्व् अपि ॥ १२,८.१९४ ॥

अजानन् धूर्तचरितानीङ्गिताद्यविचक्षणः ।
तथा तन् निर्विचारं यच् चक्रे तेन स पापभाक् ॥ १२,८.१९५ ॥

इत्य् आकर्ण्य विमुक्तमौनम् उदिते सम्यङ् नृपेणोत्तरे
स्कन्धात् तस्य स दार्ढ्यम् आकलयितुं मायाबलात् तत्क्षणम् ।
वेतालो नृकलेवरान्तरगतः क्वाप्य् अप्रतर्क्यो ययौ
निःकम्पः स च भूपतिः पुनर् अमुं प्राप्तुं व्यधान् निश्चयम् ॥ १२,८.१९६ ॥


नवमस् तरङ्गः ।

ततो ऽत्र पुन आनेतुं तं वेतालम् अगान् नृपः ।
स त्रिविक्रमसेनस् तच् छिंशपापादपान्तिकम् ॥ १२,९.१ ॥

प्राप्तो ऽत्र वीक्षते यावच् चितालोकवशान् निशि ।
तावद् ददर्श तं भूमौ कूजन्तं पतितं शवम् ॥ १२,९.२ ॥

अथ तं मृतदेहस्थं वेतालं स महीपतिः ।
आरोप्य स्कन्धम् आनेतुं तूष्णीं प्रववृते जवात् ॥ १२,९.३ ॥

ततः स्कन्धात् स वेतालो भूयस् तं नृपम् अब्रवीत् ।
राजन् महत्य् अनुचिते क्लेशे ऽस्मिन् पतितो भवान् ॥ १२,९.४ ॥

अतस् तव विनोदाय खतयामि खतां शृणु ।
अस्त्य् अग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः ॥ १२,९.५ ॥

अग्निस्वामीति तत्रासीद् ब्राह्मणो वेदपारगः ।
तस्यातिरूपा मन्दारवतीत्य् अजनि कन्यका ॥ १२,९.६ ॥

यां निर्माय नवानर्घलावण्यां नियतं विधिः ।
स्वर्गस्त्रीपूर्वनिर्माणं निजम् एवाजुगुप्सत ॥ १२,९.७ ॥

तस्यां च यौवनस्थायाम् आययुः कान्यकुब्जतः ।
समसर्वगुणास् तत्र त्रयो ब्राह्मणपुत्रकाः ॥ १२,९.८ ॥

तेषां चात्मार्थम् एकैकस् तत्पितुस् ताम् अयाचत ।
अनिच्छन् दानम् अन्यस्मै तस्याः प्रानव्ययाद् अपि ॥ १२,९.९ ॥

तत्पिता स तु तन्मध्यान् नैकस्मा अपि तां ददौ ।
भीतो ऽन्ययोर् वधात् तेन तस्थौ कन्यैव सा ततः ॥ १२,९.१० ॥

ते च त्रयो ऽपि तद्वक्त्रचन्द्रैकासक्त दृष्ठयः ।
चकोरव्रतम् आलम्ब्य तत्रैवासन् दिवानिशम् ॥ १२,९.११ ॥

अथाकस्मात्समुत्पन्न दाहज्वरवशेन सा ।
जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ १२,९.१२ ॥

ततस् तां विप्रपुत्रास् ते परासुं शोकविक्लवाः ।
कृतप्रसाधनां नीत्वा श्मशानं चक्रुर् अग्निसात् ॥ १२,९.१३ ॥

एकश् च तेषां तत्रैव विधाय मठिकां ततः ।
कृततद्भस्मशय्यः सन्न् आस्तायाचितभैक्षभुक् ॥ १२,९.१४ ॥

द्वितीयो ऽस्थीन्य् उपादाय तस्या भागीरथीं ययौ ।
तृतीयस् तापसो भूत्वा भ्रान्तुं देशान्तराण्य् अगात् ॥ १२,९.१५ ॥

स भ्राम्यंस् तापसः प्राप ग्रामं वक्रोलकाभिधम् ।
तत्रातिथिः सन् कस्यापि विप्रस्य प्राविशद् गृहम् ॥ १२,९.१६ ॥

तत्पूजितः स यावच् च भोक्तुं तत्र प्रचक्रमे ।
तावद् एकः शिशुस् तत्र प्रवृत्तो ऽभूत् प्ररोदितुम् ॥ १२,९.१७ ॥

स सान्त्व्यमानो ऽपि यदा न व्यरंसीत् तदा क्रुधा ।
बाहाव् आदाय गृहिणी ज्वलत्य् अग्नौ तम् अक्षिपत् ॥ १२,९.१८ ॥

क्षिप्त मात्रः स मृद्वङ्गो भस्मीभावम् अवाप्तवान् ।
तद् दृष्ट्वा जातरोमाञ्चः सो ऽब्रवीत् तापसो ऽतिथिः ॥ १२,९.१९ ॥

हा धिक्कष्टं प्रविष्टो ऽस्मि ब्रह्मराक्षसवेश्मनि ।
तन्मूर्तं किल्बिषम् इदं न भोक्ष्ये ऽन्नम् इहाधुना ॥ १२,९.२० ॥

एवं वदन्तं तं सो ऽत्र गृहस्थः प्राह पश्य मे ।
शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥ १२,९.२१ ॥

इत्य् उक्त्वादाय तन् मन्त्रपुस्तिकाम् अनुवाच्य च ।
तत्र भस्मनि चिक्षेप स धूलिम् अभिमन्त्रिताम् ॥ १२,९.२२ ॥

तेनोदतिष्ठत् तद्रूप एव जीवन् स बालकः ।
ततः स निर्वृतस् तत्र भुक्तवान् विप्रतापसः ॥ १२,९.२३ ॥

गृहस्थो ऽपि स तां नागदन्ते ऽवस्थाप्य पुस्तिकाम् ।
भुक्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥ १२,९.२४ ॥

सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः ।
स प्रियाजीवितार्थी तां पुस्तिकां तापसो ऽग्रहीत् ॥ १२,९.२५ ॥

गृहीत्वैव च निर्गत्य ततो रात्रिदिनं व्रजन् ।
क्रमाच् छ्मशानं तत् प्राप यत्र दग्धास्य सा प्रिया ॥ १२,९.२६ ॥

ददर्श चात्र तत्कालं तं द्वितीयम् उपागतम् ।
यः स गङ्गाम्भसि क्षेप्तुं तदस्थीनि गतो ऽभवत् ॥ १२,९.२७ ॥

ततस् तं च तम् आद्यं च तस्या भस्मनि शायिनम् ।
निबद्धमठिकं तत्र द्वाव् अप्य् एतौ जगाद सः ॥ १२,९.२८ ॥

मठिकापास्यताम् एषा यावद् उत्थापयामि ताम् ।
जीवन्तीं भस्मतः कान्तां मन्त्रशक्त्या कयाप्य् अहम् ॥ १२,९.२९ ॥

इति तौ प्रेर्य निर्बन्धान् निर्लोठ्य मठिकां च सः ।
उद्घाट्य तापसो विप्रः पुस्तिकां ताम् अवाचयत् ॥ १२,९.३० ॥

अभिमन्त्र्य च मन्त्रेण धूलिं भस्मन्य् अवाक्षिपत् ।
उदतिष्ठच् च जीवन्ती सा मन्दारवती ततः ॥ १२,९.३१ ॥

वह्निं प्रविश्य निष्क्रान्तं वपुः पूर्वाधिकद्युति ।
तदा बभार सा कन्या कञ्चनेनेव निर्मितम् ॥ १२,९.३२ ॥

तादृशीं तां पुनर् जातां ते दृष्ट्वैव स्मरातुराः ।
प्राप्तुकामास् त्रयो ऽप्य् एवम् अन्योनं कलहं व्यधुः ॥ १२,९.३३ ॥

एको ऽब्रवीद् इयं भार्या मम मन्त्रबलार्जिता ।
तीर्थप्रभावजा भार्या ममेयम् इति चापरः ॥ १२,९.३४ ॥

रक्षित्वा भस्म तपसा जीवितेयं मयेह यत् ।
तद् एषा मम भार्येति तृतीयो ऽत्र जगाद सः ॥ १२,९.३५ ॥

विवादनिर्णये तेषां त्वं तावन् मे महीपते ।
निश्चयं ब्रूहि कस्यैषा कन्या भार्योपपद्यते ॥ १२,९.३६ ॥

विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि ।
इति वेतालतः श्रुत्वा तं स राजैवम् अभ्यधात् ॥ १२,९.३७ ॥

यः क्लेशम् अनुभूयापि मन्त्रेणैताम् अजीवयत् ।
पिता स तस्यास् तत्कार्यकरणान् न पुनः पतीः ॥ १२,९.३८ ॥

यश् चास्तीनि निनायास्य गङ्गायां स सुतो मतः ।
यस् तु तद् भस्मशय्यं ताम् आश्लिष्यासीत् तपश् चरन् ॥ १२,९.३९ ॥

श्मशान एव तत् प्रीत्या भर्ता तस्याः स उच्यते ।
कृतं तदनुरूपं हि तेन गाढानुरागिण ॥ १२,९.४० ॥

एवं नृपात् त्रिविक्रमसेनाच् छ्रुत्वैव मुक्तमौनात् सः ।
तस्य स्कन्धाद् अगमद् वेतालो ऽतर्कितः स्वपदम् ॥ १२,९.४१ ॥

राजाथ भिक्ष्वर्थसमुद्यतस् तं
प्राप्तुं स भूयो ऽपि मनो बबन्ध ।
प्राणात्यये ऽपि प्रतिपन्नम् अर्थं
तिष्ठन्त्य् अनिर्वाह्य न धीरसत्त्वाः ॥ १२,९.४२ ॥

दशमस् तरङ्गः ।

अथ भूयो ऽपि वेतालम् आनेतुं नृपसत्तमः ।
स त्रिविक्रमसेनस् तम् उपागाच् छिंशपातरुम् ॥ १२,१०.१ ॥

तत्रस्थम् एतं संप्राप्य मृतदेहगतं पुनः ।
स्कन्धे गृहीत्वैवागन्तुं तूष्णीं प्रववृते ततः ॥ १२,१०.२ ॥

प्रयान्तं च तम् आह स्म स वेतालो ऽस्य पृष्ठगः ।
चित्रं नोद्विजसे राजन् निशि कुर्वन् गमागमम् ॥ १२,१०.३ ॥

तद् अखेदाय भूयस् ते वर्णयामि कथां शृणु ।
अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले पुरम् ॥ १२,१०.४ ॥

तत्रासीन् नृपतिः पूर्वं नाम्ना विक्रमकेसरी ।
गुणानाम् इव रत्नानाम् आश्रयं यं व्यधाद् विधिः ॥ १२,१०.५ ॥

तत्र शापावतीर्णो ऽभूद् दिव्यविज्ञानवाञ् शुकः ।
विदग्धचूदमणिर् इत्य् आख्यया सर्वशास्त्रवित् ॥ १२,१०.६ ॥

तेनोपदिष्टां सदृशीं राजपुत्रीं नृपात्मजः ।
मागधीम् उपयेमे स भार्यां चन्द्रप्रभाभिधाम् ॥ १२,१०.७ ॥

तस्या अपि तथाभूता सर्वविज्ञानशालिनी ।
शारिका सोमिका नाम राजपुत्र्याः किलाभवत् ॥ १२,१०.८ ॥

ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारिके ।
सेवमाने स्वविञ्जानैर् दंपती तौ निजप्रभू ॥ १२,१०.९ ॥

एकदा साभिलाषस् तां शारिकां सो ऽब्रवीच् छुकः ।
एकशय्यासनाहारं सुभगे भज माम् इति ॥ १२,१०.१० ॥

नाहं पुरुषसंसर्गम् इच्छामि पुरुषा यतः ।
दुष्टाः कृतघ्ना इति सा सारिका प्रत्युवाच तम् ॥ १२,१०.११ ॥

न दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः स्त्रियः ।
इति भूयः शुकेनोक्ते विवादो ऽत्रालगत् तयोः ॥ १२,१०.१२ ॥

कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः ।
निश्चयायाथ सभ्यं तं राजपुत्रम् उपेयतुः ॥ १२,१०.१३ ॥

स विवादपदं श्रुत्वा तयोर् आस्थानगः पितुः ।
कथं कृतघ्नाः पुरुषा ब्रूहीत्य् आह स्म शारिकाम् ॥ १२,१०.१४ ॥

ततः सा शृणुतेत्य् उक्त्वा निजपक्षप्रसिद्धये ।
पुंदोषाख्यायिनीम् एतां शारिकाकथयत् कथाम् ॥ १२,१०.१५ ॥

अस्ति कामन्दिका नाम या महानगरी भुवि ।
अर्थदत्ताभिधानो ऽस्ति वणिक् तस्यां महाधनः ॥ १२,१०.१६ ॥

धनदत्ताभिधानश् च पुत्रस् तस्योदपद्यत ।
पितर्य् उपरते सो ऽपि बभूवोच्छृङ्खलो युवा ॥ १२,१०.१७ ॥

द्यूतादिसङ्गे दूर्ताश् च मिलित्वा तम् अपातयन् ।
कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः ॥ १२,१०.१८ ॥

अचिराद् व्यसनक्षीणधनो दौर्गत्यलज्जया ।
सो ऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्य् अगात् ॥ १२,१०.१९ ॥

गच्छंश् च चन्दनपुरं नाम स्थानम् अवाप्य सः ।
विवेश भोजनार्थी सन्न् एकस्य वणिजो गृहम् ॥ १२,१०.२० ॥

स वणिक् सुकुमारं तं दृष्ट्वा पृष्ट्वान्वयादिकम् ।
ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥ १२,१०.२१ ॥

ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् ।
ततः स धनदत्तो ऽत्र तस्थौ श्वशुरवेश्मनि ॥ १२,१०.२२ ॥

दिनेष्व् एव च यातेषु सुखविस्मृतदुर्गतिः ।
स्वदेशं गन्तुकामो ऽभूत् प्राप्तार्थो व्यसनोन्मुखः ॥ १२,१०.२३ ॥

ततो ऽनुमान्य कथम् अप्य् अवशं श्वशुरं शठः ।
तं दुहित्रेकसंतानं गृहीत्वा ताम् अलंकृताम् ॥ १२,१०.२४ ॥

भार्यां रत्नावलीं युक्ताम् एकया वृद्धया स्त्रिया ।
स आत्मना तृतीयः सन्देशात् प्रस्थितवांस् ततः ॥ १२,१०.२५ ॥

क्रमात् प्राप्याटवीं दूराम् उक्त्वा तस्करजां भियम् ।
गृहीत्वाभरणं तस्या भार्यायाः स्वीचकार सः ॥ १२,१०.२६ ॥

दृश्यतां द्यूतवेश्यादिकष्टव्यसनसङ्गिनाम् ।
हृदयं हा कृतघ्नानां पुंसां निस्त्रिंशकर्कशम् ॥ १२,१०.२७ ॥

सो ऽथ पापो ऽर्थहेतोस् तां भार्यां गुणवतीम् अपि ।
हन्तुं श्वभ्रे निचिक्षेप तया वृद्धस्त्रिया युताम् ॥ १२,१०.२८ ॥

क्षिप्त्वैव च गते तस्मिन् साथ वृद्धा व्यपद्यत ।
तद् भार्या तु लतागुल्मविग्नया न व्यपादि सा ॥ १२,१०.२९ ॥

उत्तस्थौ च ततः श्वभ्रात् क्रोशन्ती करुणं शणैः ।
आलम्ब्य तृणगुल्मादि सशेषत्वात् किलायुषः ॥ १२,१०.३० ॥

आययौ विक्षताङ्गी च पृष्ट्वा मार्गं पदे पदे ।
यथागतेनैव पथा कृच्छ्रात् तत् सदनं पितुः ॥ १२,१०.३१ ॥

तत्राकस्मात् तथाभूता प्राप्ता पृष्टा ससंभ्रमम् ।
मात्रा पित्रा च रुदती साध्वी सैवम् अभाषत ॥ १२,१०.३२ ॥

मुषिताः स्म पथि स्तेनैर् नीतो बद्ध्वा च मत्पतिः ।
वृद्धा मृता निपत्यापि श्वभ्रे नाहं मृता पुनः ॥ १२,१०.३३ ॥

अथागतेन केनापि पथिकेन कृपालुना ।
उद्धृताहं ततः श्वभ्रात् प्राप्तास्मीह च दैवतः ॥ १२,१०.३४ ॥

एवम् उक्तवती मात्रा पित्रा चाश्वासिता ततः ।
भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥ १२,१०.३५ ॥

याति काले च तद्भर्ता स स्वदेशगतः पुनः ।
द्यूतक्षपिततद्वित्तो दनदत्तो व्यचिन्तयत् ॥ १२,१०.३६ ॥

आनयामि पुनर् गत्वा मार्गित्वा श्वशुराद् धनम् ।
गृहे स्थिता मे त्वत् पुत्रीत्य् अभिधास्ये च तत्र तम् ॥ १२,१०.३७ ॥

एवं स हृदये ध्यात्वा प्रायाच् छ्वशुरवेश्म तत् ।
प्राप्तं च तत्र तं दूरात् स्वभार्या पश्यति स्म सा ॥ १२,१०.३८ ॥

धावित्वा चापतत् तस्य सा पापस्यापि पादयोः ।
दुष्टे ऽपि पत्यौ साध्वीनां नान्यथावृत्तिमानसम् ॥ १२,१०.३९ ॥

भीताय च ततस् तस्मै तद् अशेषं न्यवेदयत् ।
यन् मृषा चौरपातादि पित्रोः प्राग् वर्णितं तया ॥ १२,१०.४० ॥

ततस् तया समं तत्र निर्भयः श्वाशुरे गृहे ।
प्रविष्टः श्वशुराभ्यां स हर्षाद् दृष्ट्वाभ्यनन्द्यत ॥ १२,१०.४१ ॥

दिष्ट्या जीवन्न् अयं मुक्तश् चौरैर् इति महोत्सवः ।
तेन तच्छ्वशुरेणाथ चक्रे मिलितबन्धुना ॥ १२,१०.४२ ॥

ततः स धनदत्तो ऽत्र भुञ्जानः श्वशुरश्रियम् ।
रत्नावल्या तया साकम् आसीत् पत्न्या यथासुखम् ॥ १२,१०.४३ ॥

एकदा तत्र रात्रौ च स नृशंसश् चकार यत् ।
कथोपरोधतः शान्तम् अवाच्यम् अपि कथ्यते ॥ १२,१०.४४ ॥

हत्वाङ्कसुप्तां भार्यां तां तदाभरणसंचयम् ।
अपहृत्य ततः प्रायात् स स्वदेशम् अलक्षितः ॥ १२,१०.४५ ॥

ईदृशाः पुरुषाः पापा इति शारिकयोदिते ।
त्वम् इदानीं वदेत्य् आह राजपुत्रस् तदा शुकम् ॥ १२,१०.४६ ॥

ततो जगाद स शुको देव दुःसहसाहसाः ।
स्त्रियो दुश्चरिताः पापास् तथा च श्रूयतां कथा ॥ १२,१०.४७ ॥

अस्ति हर्षवती नाम नगरी तत्र चाभवत् ।
अग्रणीर् धर्मदत्ताख्यो बहुकोटीश्वरो वणिक् ॥ १२,१०.४८ ॥

वसुदत्ताभिधाना च रूपे ऽनन्यसमा सुता ।
बभूव तस्य वणिजः प्राणेभ्यो ऽप्य् अधिकप्रिया ॥ १२,१०.४९ ॥

सा च तेन समानाय रूपयौवनशालिने ।
दत्ता वराङ्गनानेत्रचकोरामृतरश्मये ॥ १२,१०.५० ॥

नाम्ना समुद्रदत्ताय वणिक्पुत्राय साधवे ।
नगर्याम् आर्यजुष्टायां ताम्रलिप्त्यां निवासिने ॥ १२,१०.५१ ॥

कदाचित् सा स्वदेशस्थे पत्यौ स्वस्य पितुर् गृहे ।
स्थिता वणिक्सुता दूरात् कंचित् पुरुषम् ऐक्षत ॥ १२,१०.५२ ॥

तं युवानं सुकान्तं सा चपला मारमोहिता ।
गुप्तं सखीमुखानीतं भेजे प्रच्छन्नकामुकम् ॥ १२,१०.५३ ॥

ततःप्रभृति तेनैव सह तत्र सदा रहः ।
रात्रौ रात्राव् अरंस्तासौ तदेकासक्तमानसा ॥ १२,१०.५४ ॥

एकदा च स कौमारः पतिस् तस्याः स्वदेशतः ।
आजगामात्र तत्पित्रोः प्रमोद इव मूर्तिमान् ॥ १२,१०.५५ ॥

सोत्सवे च दिने तस्मिन् सा नक्तं कृतमण्डना ।
मात्रानुप्रेषिता भेजे शय्यास्थापि न तं पतिम् ॥ १२,१०.५६ ॥

प्रार्थिता तेन चालीकसुप्तं चक्रे ऽन्यमानसा ।
पानमत्तो ऽध्वखिन्नश् च सो ऽपि जह्रे ऽथ निद्रया ॥ १२,१०.५७ ॥

ततश् च सुप्ते सर्वस्मिन् भुक्तपीते जने शनैः ।
संधिं भित्त्वा विवेशात्र चौरो वासगृहान्तरे ॥ १२,१०.५८ ॥

तत्कालं तम् अपश्यन्ती साप्य् उत्थाय वणिक्सुता ।
स्वजारकृतसंकेता निरगान् निभृतं ततः ॥ १२,१०.५९ ॥

तदालोक्य स चौरो ऽत्र विघ्नितेच्छो व्यचिन्तयत् ।
येषाम् अर्थे प्रविष्टो ऽहं तैर् एवाभरणैर् वृता ॥ १२,१०.६० ॥

निशीथे निर्गतैषा तद् वीक्षे ऽहं सा क्व गच्छति ।
इत्य् आकलय्य निर्गत्य स चौरस् तां वणिक्सुताम् ॥ १२,१०.६१ ॥

वसुदत्ताम् अनु ययौ दत्तदृष्टिर् अलक्षितः ।
सापि पुष्पादिहस्तैकससंकेतसखीयुता ॥ १२,१०.६२ ॥

गत्वा बाह्यं प्रविष्टाभूद् उद्यानं नातिदूरगम् ।
तत्रापश्यच् च तं वृक्षे लम्बमानं स्वकामुकम् ॥ १२,१०.६३ ॥

संकेतकागतं रात्रौ लब्ध्वा नगररक्षिभिः ।
उल्लम्बितं चौरबुद्ध्या पाशकण्ठं मृतं स्थितम् ॥ १२,१०.६४ ॥

ततः सा विह्वलोद्भ्रान्ता हा हतास्मीति वादिनी ।
पपात भूमौ कृपणं विलपन्ती रुरोद च ॥ १२,१०.६५ ॥

अवतार्याथ वृक्षात् तं गतासुं निजकामुकम् ।
उपवेश्याङ्गरागेण पुष्पैश् चालंचकार सा ॥ १२,१०.६६ ॥

समालिङ्ग्य च निःसंज्ञं रागशोकान्धमानसा ।
उन्नमय्य मुखं यावत् तस्यार्ता परिचुम्बति ॥ १२,१०.६७ ॥

तावत् स तस्याः सहसा निर्जीवः परपूरुषः ।
वेतालानुप्रविष्टः सद् दन्तैश् चिच्छेद नासिकाम् ॥ १२,१०.६८ ॥

तेन सा विह्वला तस्मात् सव्यथापसृताप्य् अहो ।
किं स्विज् जीवेद् इति हता पुन एत्य तम् ऐक्षत ॥ १२,१०.६९ ॥

दृष्ट्वा च वीतवेतालं निश्चेष्टं मृतम् एव तम् ।
सा भीता परिभूता च चचाल रुदती शनैः ॥ १२,१०.७० ॥

तावच् छन्नः स्थितः सो ऽथ चौरः सर्वं व्यलोकयत् ।
अचिन्तयच् च किम् इदं पापया कृतम् एतया ॥ १२,१०.७१ ॥

अहो बताशयः स्त्रीणां भीषणो घनतामसः ।
अन्धकूप इवागाधः पाताय गहनः परम् ॥ १२,१०.७२ ॥

तद् इदानीम् इयं किं नु कुर्याद् इति विचिन्त्य सः ।
कौतुकाद् दूरतश् चौरो भूयो ऽप्य् अनुससार ताम् ॥ १२,१०.७३ ॥

सापि गत्वा प्रविश्यैव तत् सुप्तस्थितभर्तृकम् ।
गृहं तदा स्वकं प्रौच्चैः प्ररुदत्य् एवम् अब्रवीत् ॥ १२,१०.७४ ॥

परित्रायध्वम् एतेन दुष्टेन मम नासिका ।
छिन्ना निरपराधाया भर्तृरूपेण शत्रुणा ॥ १२,१०.७५ ॥

श्रुत्वैतं मुहुर् आक्रन्दं तस्याः सर्वे ससंभ्रमम् ।
उदतिष्ठन् प्रबुध्यात्र पतिः परिजनः पिता ॥ १२,१०.७६ ॥

एत्याथ तत्पिता दृष्ट्वा ताम् आर्द्रच्छिन्ननासिकाम् ।
क्रुद्धस् तं बन्धयामास भार्याद्रोहीति तत् पतिम् ॥ १२,१०.७७ ॥

स तु नैवाब्रवीत् किंचिद् बध्यमानो ऽपि मूकवत् ।
विपर्यस्तेषु सर्वेषु शृण्वत्सु श्वशुरादिषु ॥ १२,१०.७८ ॥

ततो ज्ञत्वैव तच् चौरे तस्मिन्न् अपसृते लघु ।
कोलाहलेन तस्यां च व्यतीतायां क्रमान् निशि ॥ १२,१०.७९ ॥

स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः ।
राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ १२,१०.८० ॥

राजा च कृतविज्ञप्तिः स्वदारद्रोह्य् असाव् इति ।
तस्यादिशद् वणिक्सूनोर् वधं न्यक्कृततद्वचाः ॥ १२,१०.८१ ॥

ततो वध्यभुवं तस्मिन् नीयमाने सडिण्डिमम् ।
उपागम्य स चौरो ऽत्र बभाषे राजपूरुषान् ॥ १२,१०.८२ ॥

निःकारणं न वध्यो ऽयं यथावृत्तं तु वेद्म्य् अहम् ।
मां प्रापयत राजाग्रं यावत् सर्वं वदाम्य् अतः ॥ १२,१०.८३ ॥

इत्य् ऊचिवान् स नीतस् तैर् नृपस्याग्रं वृताभयः ।
आ मूलाद् रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥ १२,१०.८४ ॥

अब्रवीच् च न चेद् देव मद्वाचि प्रत्ययस् तव ।
तत् सा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥ १२,१०.८५ ॥

तच् छ्रुत्वा वीक्षितुं भृत्यान् प्रेष्य सत्यम् अवेत्य तत् ।
स राजा तं वणिक्पुत्रं मुक्तवान् वधनिग्रहात् ॥ १२,१०.८६ ॥

तां च कर्णाव् अपि छित्वा दुष्टां देशान् निरस्तवान् ।
तद् भार्यां श्वशुरं चास्य तं सर्वस्वम् अदण्डयत् ॥ १२,१०.८७ ॥

चौरं च तं पुराध्यक्षं तुष्टश् चक्रे स भूपतिः ।
एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः ॥ १२,१०.८८ ॥

इत्य् उक्तवान् एव शुको भूत्वा चित्ररथाभिधः ।
क्षीणेन्द्रशापो गन्धर्वो दिव्यरूपो दिवं ययौ ॥ १२,१०.८९ ॥

शारिका सापि तत्कालं भूत्वा स्वःस्त्री तिलोत्तमा ।
तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥ १२,१०.९० ॥

विवादश् चाप्य् अनिर्णीतः सभायां सो ऽभवत् तयोः ।
इत्य् आख्याय कथां भूयस् तं वेतालो ऽब्रवीन् नृपम् ॥ १२,१०.९१ ॥

तद् भवान् वक्तु किं पापाः पुरुषाः किमुत स्त्रियः ।
अजल्पतो जान तस् ते शिरो यस्यति खण्डशः ॥ १२,१०.९२ ॥

एतन् निशम्य वचनं वेतालस्यांसवर्तिनस् तस्य ।
स जगाद भूपतिस् तं योगेश्वर योषितः पापाः ॥ १२,१०.९३ ॥

पुरुषः कोऽपि हि तादृक् क्वापि कदाचिद् भवेद् दुराचारः ।
प्रायः सर्वत्र सदा स्त्रियस् तु तादृग्विधा एव ॥ १२,१०.९४ ॥

इत्य् उक्तवतो नृपतेः प्राग्वत् स्कन्धात् स तस्य वेतालः ।
नष्टो ऽभूत् स च राजा जग्राह पुनस् तदानयनयत्रम् ॥ १२,१०.९५ ॥


एकादशस् तरङ्गः ।

ततो गत्वा पुनस् तस्य निकटं शिंशपातरोः ।
स त्रिविक्रमसेनो ऽत्र श्मशानं निशि भूपतिः ॥ १२,११.१ ॥

लब्ध्वा मुक्तात्तहासं तं वेतालं नृशरीरगम् ।
निःकम्पः स्कन्धम् आरोप्य तूष्णीम् उदचलत् ततः ॥ १२,११.२ ॥

चलन्तं च तम् अंसस्थो वेतालः सो ऽब्रवीत् पुनः ।
राजन् कुभिक्षोर् एतस्य कृते को ऽयं तव श्रमः ॥ १२,११.३ ॥

आयासे निष्फले ऽमुष्मिन् विवेको बत नास्ति ते ।
तद् इमां शृणु मत्तस् त्वं कथां पथि विनोदिनीम् ॥ १२,११.४ ॥

अस्ति शोभावती नाम सत्याख्या नगरी भुवि ।
तस्यां च शूद्रकाख्यो ऽभूद् भूपतिः प्राज्यविक्रमः ॥ १२,११.५ ॥

यस्य जज्वाल जयिनः प्रतापज्वलनो निशम् ।
बन्दीकृतारिललनाधूतचामरमारुतैः ॥ १२,११.६ ॥

अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा ।
राज्ञि यस्मिन् विसस्मार रामादीन् अपि भूपतीन् ॥ १२,११.७ ॥

तं कदाचिन् महीपालं प्रियशूरम् उपाययौ ।
सेवार्थं मालवाद् एको नम्ना वीरवरो द्विजः ॥ १२,११.८ ॥

यस्य धर्मवती नाम भार्या सत्ववरः सुतः ।
कन्या वीरवती चेति त्रयं गृहपरिच्छदः ॥ १२,११.९ ॥

सेवापरिच्छदश् चान्यत् त्रयं कट्यां कृपाणिका ।
करे करतलैकत्र चारु चर्म परत्र च ॥ १२,११.१० ॥

तावन्मात्रपरीवारो दीनारशतपञ्चकम् ।
प्रत्यहं प्रार्थयामास राज्ञस् तस्मात् स वृत्तये ॥ १२,११.११ ॥

राजापि स तम् आकारसूचितोदारपौरुषम् ।
वीक्ष्य तस्मै ददौ वृत्तिं सूद्रकस् तां यथेप्सिताम् ॥ १२,११.१२ ॥

अल्पे परिकरे ऽप्य् एभिर् इयद्भिः स्वर्णरूपकैः ।
किम् एष व्यसनं पुष्णात्य् अथ कंचन सद्व्ययम् ॥ १२,११.१३ ॥

इत्य् अन्वेष्टुं समाचारं कौतुकात् स महीपतिः ।
प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः ॥ १२,११.१४ ॥

स च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम् ।
स्थित्वा च तस्या मध्याह्नं सिंहद्वारे धृतायुधः ॥ १२,११.१५ ॥

गत्वा स्ववृत्तिलब्धानां दीनाराणां शतं गृहे ।
भोजनार्थं स्वभार्याया हस्ते प्रादात् किलान्वहम् ॥ १२,११.१६ ॥

वस्त्राङ्गरागताम्बूलं क्रीणाति स्म शतेन च ।
शतं स्नात्वा च पूजार्थं व्यधाद् विष्णोः शिवस्य च ॥ १२,११.१७ ॥

विप्रेभ्यः कृपणेभ्यश् च ददौ दानं शतद्वयम् ।
एवं विभेजे पञ्चापि तानि नित्यं शतान्य् असौ ॥ १२,११.१८ ॥

ततः कृत्वाग्निकार्यादि भूक्त्वा गत्वैकको निशि ।
सिंहद्वारे पुनस् तस्थौ पाणौ करतलां दधत् ॥ १२,११.१९ ॥

एतां सततचर्यां च तस्य वीरवरस्य सः ।
राजा चारमुखाच् छ्रुत्वा तुतोष हृदि शुद्रकः ॥ १२,११.२० ॥

निवारयामास च तांश् चारांस् तस्यानुमार्गगान् ।
मेने विशेषपूजार्हं पुरुषातिशयं च तम् ॥ १२,११.२१ ॥

अथ यातेषु दिवसेष्व् अवहेलावलङ्घिते ।
ग्रीष्मे वीरवरेणात्र सुप्रचण्डार्कतेजसि ॥ १२,११.२२ ॥

तदीर्ष्यात इवोद्भूतविद्युत्करतलां दधत् ।
धाराप्रहारी निनदन्न् आजगाम घनागमः ॥ १२,११.२३ ॥

तदा च घोर मेघौघे प्रवर्षति दिवानिशम् ।
सिंहद्वारे तथैवासीत् सो ऽत्र वीरवरो ऽचलः ॥ १२,११.२४ ॥

तं च दृष्ट्वा दिवा राजा प्रासादाग्रात् स शूद्रकः ।
निशि भूयस् तदारोहज् जिज्ञासुस् तस्य तां स्थितिम् ॥ १२,११.२५ ॥

जगाद च ततः को नु सिंहद्वारे स्थितो ऽत्र भोः ।
तच् छ्रुत्वाहं स्थितो ऽत्रेति सो ऽपि वीरवरो ऽब्रवीत् ॥ १२,११.२६ ॥

अहो सुदृढसत्त्वो ऽयं भक्तो वीरवरो मयि ।
तद् एष प्रापणीयो मे ऽवश्यम् एव महत् पदम् ॥ १२,११.२७ ॥

इति संचिन्त्य नृपतिः प्रासादाद् अवतीर्य सः ।
शूद्रकः शयनं भेजे प्रविश्यान्तःपुरं ततः ॥ १२,११.२८ ॥

अन्येद्युश् च भृशं मेघे धारासारेण वर्षति ।
प्रदोषे गुप्तभवने काले तमसि जृम्भिते ॥ १२,११.२९ ॥

पुनः स राजा जिज्ञासुः प्रासादम् अधिरुह्य तम् ।
सिंहद्वारे स्थितः को ऽत्रेत्य् एकाकी प्राह तं स्फुटम् ॥ १२,११.३० ॥

अहं स्थित इति प्रोक्ते पुनर् वीरवरेण च ।
यावद् विस्मयते सो ऽत्र राजा तद्धैर्यदर्शनात् ॥ १२,११.३१ ॥

तावद् विदूरे शुश्राव सहसा रुदतीं स्त्रियम् ।
विषादविकलाम् एकां प्रलापकरुणस्वनम् ॥ १२,११.३२ ॥

न मे राष्ट्रे पराभूतो न दरिद्रो न दुःखितः ।
कश् चिद् अस्ति तद् एषा का रोदित्य् एकाकिनी निशि ॥ १२,११.३३ ॥

इति चाचिन्तयच् छ्रुत्वा स जातकरुणो नृपः ।
आदिदेश च तं वीरवरम् एकम् अधः स्थितम् ॥ १२,११.३४ ॥

भो वीरवर शृण्व् एषा दूरे स्त्री कापि रोदिति ।
कासौ रोदिति किं चेति त्वया गत्वा निरूप्यताम् ॥ १२,११.३५ ॥

तच् छ्रुत्वा स तथेत्य् उक्त्वा गन्तुं वीरवरस् ततः ।
प्रावर्तत निबद्धासिधेनुः करतलाकरः ॥ १२,११.३६ ॥

न च मेघान्धकारं तज् ज्वलद्विद्युद्विलोचनम् ।
स्थूलधाराशिलावार्षि रक्षोरूपम् अजीगणत् ॥ १२,११.३७ ॥

प्रस्थितं वीक्ष्य तादृश्यां तस्यां रात्रौ तम् एककम् ।
करुणाकौतुकाविष्टो राजा प्रासादपृष्ठतः ॥ १२,११.३८ ॥

आवतीर्य गृहीतासिर् एकाकी तस्य पृष्ठतः ।
सो ऽपि प्रतस्थे तत्रैव शुद्रको ऽनुपलक्षितः ॥ १२,११.३९ ॥

स च वीरवरो गत्वा रुदितानुसृतिक्रियः ।
बहिर्नगर्याः प्रापैकं सरस् तत्र ददर्श च ॥ १२,११.४० ॥

हा शूर हा कृपालो हा त्यागिञ् शून्या त्वया कथम् ।
वत्स्यामीत्यादि रुदतीं तां स्त्रियं वारिमध्यगाम् ॥ १२,११.४१ ॥

का त्वं रोदिषि किं चैवम् इत्य् अन्वक्प्राप्तभूपतिः ।
पप्रच्छ तां च साश्चर्यस् ततः साप्य् एवम् अभ्यधात् ॥ १२,११.४२ ॥

भो वीरवर जानीहि वत्स मां पृथिवीम् इमाम् ।
तस्या ममाधुना राजा शूद्रको धार्मिकः पतिः ॥ १२,११.४३ ॥

तृतीये च दिने तस्य राज्ञो मृत्युर् भविष्यति ।
तादृशं च पतिं प्राप्स्याम्य् अहम् अन्यं नृपं कुतः ॥ १२,११.४४ ॥

अतस् तम् अनुशोचामि दुःखितात्मानम् एव च ।
एतच् छ्रुत्वा स तां त्रस्त इव वीरवरो ऽब्रवीत् ॥ १२,११.४५ ॥

हे देवि कच् चिद् अप्य् अस्ति को ऽप्य् उपायः स तादृशः ।
येनास्य न भवेन्मृत्युर् जगद्रक्षामणेः प्रभोः ॥ १२,११.४६ ॥

इति तद् वचनं श्रुत्वा सा जगाद वसुंधरा ।
एको ऽस्त्य् उपायस् तं चैकः कर्तुं शक्तो भवान् इति ॥ १२,११.४७ ॥

ततो वीरवरो ऽवादीत् तर्हि देवि वद द्रुतम् ।
यावत् तत् साधयाम्य् आशु को ऽर्थः प्राणैर् ममान्यथा ॥ १२,११.४८ ॥

तच् छ्रुत्वोवाच वसुधा विरः को ऽन्यस् त्वया समः ।
स्वामिभक्तस् तद् एतस्य शर्मोपायम् इमं शृणु ॥ १२,११.४९ ॥

राज्ञा कृतप्रतिष्टास्ति यैषा राजकुलान्तिके ।
उत्तमा चण्डिका देवी सांनिध्योत्कर्षशालिनी ॥ १२,११.५० ॥

तस्यै सत्त्ववरं पुत्रम् उपहारीकरोषि चेत् ।
तन् नैष राजा म्रियते जीवत्य् अन्यत् समाशतम् ॥ १२,११.५१ ॥

अद्यैव चैतद् भवता कृतं चेद् अस्ति तच् छिवम् ।
अन्यथास्य तृतीये ऽह्नि प्राप्ते नास्त्य् एव जीवितम् ॥ १२,११.५२ ॥

इत्य् उक्तः स तया पृथ्व्या वीरो वीरवरस् तदा ।
यामि देवि करोम्य् एतद् अधुनैवेत्य् अभाषत ॥ १२,११.५३ ॥

ततो भद्रं तवेत्य् उक्त्वा वसुधा सा तिरोदधे ।
तच् च सर्वं स शुश्राव गुप्तम् अन्वक्स्थितो नृपः ॥ १२,११.५४ ॥

ततश् च गूढे जिज्ञासौ तस्मिन् राज्ञ्य् अनुगच्छति ।
शूद्रके त्वरितं गेहं निशि वीरवरो ययौ ॥ १२,११.५५ ॥

तत्र पुत्रोपहारो ऽस्य राजार्थे धरया यथा ।
उक्तस् तथाब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः ॥ १२,११.५६ ॥

तच् छ्रुत्वा सा तम् आह स्म नाथ कार्यं शिवं प्रभोः ।
तत्प्रबोध्य सुतस्यास्य शिशोर् वक्तु भवान् इति ॥ १२,११.५७ ॥

ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् ।
आख्याय तं च वृत्तान्तम् एवं वीरवरो ऽब्रवीत् ॥ १२,११.५८ ॥

तत् पुत्र चण्डिकादेव्या उपहारीकृते त्वयि ।
राजा जीवत्य् असौ नो चेत् तृतीये ऽह्नि विपद्यते ॥ १२,११.५९ ॥

एतच् छ्रुत्वैव बालो ऽपि यथार्थं नाम दर्शयन् ।
अक्लीबचित्तः पितरं तं स सत्त्ववरो ऽब्रवीत् ॥ १२,११.६० ॥

कृतार्थो ऽहं मम प्राणै राजा चेत् तात जीवति ।
भुक्तस्य हि तदन्नस्य दत्ता स्यान् निष्कृतिर् मया ॥ १२,११.६१ ॥

तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरो ऽधुना ।
उपहारीकुरुध्वं माम् अस्तु शान्तिर् मया प्रभोः ॥ १२,११.६२ ॥

इति सत्त्ववरेणोक्ते तेन वीरवरो ऽत्र सः ।
साधु सत्यं प्रसूतो ऽसि मत्तः पुत्रेत्य् अभाषत ॥ १२,११.६३ ॥

एतत् सो ऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः ।
अह एषां समं सत्त्वं सर्वेषाम् इत्य् अचिन्तयत् ॥ १२,११.६४ ॥

ततो वीरवरः स्कन्धे कृत्वा सत्त्ववरं सुतम् ।
भर्या धर्मवती चास्य कन्यां वीरवतीम् अपि ॥ १२,११.६५ ॥

उभौ तौ ययतुस् तस्यां रात्रौ तच् चण्डिकागृहम् ।
राजापि शूद्रकश् छन्नः पृष्टतः स तयोर् ययौ ॥ १२,११.६६ ॥

तत्र देव्याः पुरः स्कन्धात् सो ऽथ पित्रावतारितः ।
देवीं सत्त्ववरो नत्वा धैर्यराशिर् व्यजिज्ञपत् ॥ १२,११.६७ ॥

मम मूर्धोपहारेण राजा जीवतु शुद्रकः ।
अन्यद् वर्षशतं देवि कुर्याद् राज्यम् अकण्टकम् ॥ १२,११.६८ ॥

एवम् उक्तवतस् तस्य साधु साध्व् इत्य् उदीर्य सः ।
सूनोः सत्त्ववरस्याथ कृष्ट्वा करतलां शिशोः ॥ १२,११.६९ ॥

छित्त्वा शिरश् चण्डिकायै देव्यै वीरवरो ददौ ।
मत्पुत्रेणोपहारेण राजा जीवत्व् इति ब्रुवन् ॥ १२,११.७० ॥

साधु कः स्वामिभक्तो ऽन्यः समो वीरवर त्वया ।
येनैवम् एकसत्पुत्रप्राणव्ययविधायिना ॥ १२,११.७१ ॥

दत्तो जीवश् च राज्यं च शुद्रकस्यास्य भूपतेः ।
इत्य् अन्तरिक्षाद् उदगात् तत्क्षणं तत्र भारती ॥ १२,११.७२ ॥

तच् च सर्वं नृपे तस्मिंश् छन्ने शृण्वति पस्यति ।
कन्या वीरवती सा तु बाला वीरवरात्मजा ॥ १२,११.७३ ॥

उपेत्याश्लिष्य मूर्धाणं तस्य भ्रातुर् हतस्य तम् ।
विलपन्त्य् उरुशोकान्धा हृत्स्फोटेन व्यपद्यत ॥ १२,११.७४ ॥

ततो वीरवरं भार्या धर्मवत्य् एवम् अब्रवीत् ।
राज्ञस् तावत् कृतं श्रेयस् तद् इदानीं वदामि ते ॥ १२,११.७५ ॥

निर्ज्ञाना यत्र बालापि भ्रातृशोकाद् इयं मृता ।
नष्टे ऽपत्यद्वये ऽप्य् अस्मिंस् तत्र किं जीवितेन मे ॥ १२,११.७६ ॥

प्राग् एव राज्ञः श्रेयोर्थं मूढया स्वशिरो मया ।
देव्यै नोपहृतं तस्माद् देह्य् अनुज्ञां ममाधुना ॥ १२,११.७७ ॥

प्रविषम्य् अनलं तावद् आत्तापत्यकलेवरा ।
इत्याग्रहाद् वदन्तीं तां सो ऽथ वीरवरो ऽब्रवीत् ॥ १२,११.७८ ॥

एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः ।
अपत्यदुःखैकमये जीवितव्ये मनस्विनि ॥ १२,११.७९ ॥

किं न दत्तो मयैवात्मेत्य् एषा मा भूच् च ते व्यथा ।
दद्यां किं नाहम् आत्मानम् अन्यसाध्यं भवेद् यदि ॥ १२,११.८० ॥

तत् प्रतीक्षस्व यावत् ते चिताम् अत्र करोम्य् अहम् ।
अमीभिर् दारुभिर् देवीक्षेत्रनिर्माणसंभृतैः ॥ १२,११.८१ ॥

इत्य् उक्त्वा दारुभिस् तैः स कृत्वा वीरवरश् चिताम् ।
दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम् ॥ १२,११.८२ ॥

ततो धर्मवती पत्नी पतित्वा सास्य पादयोः ।
प्रणम्य देवीं चण्डीं तां व्यजिज्ञपद् अपांसुला ॥ १२,११.८३ ॥

जन्मान्तरे ऽप्य् अयं भूयाद् आर्यपुत्रः पतिर् मम ।
एतत् प्रभोस् तु राज्ञो ऽस्तु मद्देहेनामुना शिवम् ॥ १२,११.८४ ॥

इत्य् उदीर्यैव सा साध्वी तस्मिन्न् अम्भोवहेलया ।
ज्वालाकलापजटिले निपपात चितानले ॥ १२,११.८५ ॥

ततश् च चिन्तयामास वीरो वीरवरो ऽत्र सः ।
निष्पन्नं राजकार्यं मे वाग् दिव्या ह्य् उद्गता यथा ॥ १२,११.८६ ॥

भुक्तस्य चान्नपिण्डस्य जातो ऽहम् अनृणः प्रभोः ।
तद् इदानीं ममैकस्य केयं जीवितगृध्नुता ॥ १२,११.८७ ॥

भरणीयं प्रियं कृत्स्नं व्ययीकृत्य कुटुम्बकम् ।
जीवयन्न् एकम् आत्मानं मादृशः को हि शोभते ॥ १२,११.८८ ॥

तत् किम् आत्मोपहारेणाप्य् एतां प्रीणामि नाम्बिकाम् ।
इत्य् आलोच्य स देवीं तां स्तुत्या प्राग् उपतस्थिवान् ॥ १२,११.८९ ॥

जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे ।
जय विबुधोत्सवकारिणि धारिणि भुवनत्रयस्य मातृवरे ॥ १२,११.९० ॥

जय जगद् अर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् ।
जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ १२,११.९१ ॥

जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमस् ते ऽस्तु ।
शूद्रकनृपतेर् अधुना प्रसीद मन्मस्तकोपहारेण ॥ १२,११.९२ ॥

इत्य् उपस्थाय देव्यां स तस्यां वीरवरः पुनः ।
सद्यः करतलाघातेनोत्तमाङ्गं स्वमच्छिनत् ॥ १२,११.९३ ॥

तद् आलोक्याखिलं तत्र छन्नस्थः शुद्रको नृपः ।
साकुलश् च सदुःखश् च साश्चर्यश् च व्यचिन्तयत् ॥ १२,११.९४ ॥

अहो किम् अप्य् अनेनैतद् अन्यत्रादृष्टम् अश्रुतम् ।
साधुना सकुटुम्बेन दुःकरं मत्कृते कृतम् ॥ १२,११.९५ ॥

विचित्रे ऽप्य् अत्र संसारे धीरः स्यादीदृशः कुतः ।
अख्यापयन् प्रभो अर्थे परोक्षं यो ददात्य् असून् ॥ १२,११.९६ ॥

एतस्य चोपकारोस्य न कुर्यां सदृशं यदि ।
तन् मे का प्रभुता किं च जीवितव्यं पशोर् इव ॥ १२,११.९७ ॥

इति संचिन्त्य नृपतिः खड्गम् आकृष्य कोपतः ।
उपेत्य शूद्रको देवीं तां प्रवीरो व्यजिज्ञपत् ॥ १२,११.९८ ॥

सततानुप्रपन्नस्य भगवत्य् अधुनामुना ।
मम मूर्धोपहारेण सुप्रीता कुर्व् अनुग्रहम् ॥ १२,११.९९ ॥

अयं वीरवरो विप्रो नामानुगुणचेष्टितः ।
मदर्थम् उज्झितप्राणः सकुटुम्बो ऽपि जीवतु ॥ १२,११.१०० ॥

इत्य् उदीर्यासिना राजा शिरश् छेत्तुं स शूद्रकः ।
यावत् प्रवर्तते तावद् उदभूद् भारती दिवः ॥ १२,११.१०१ ॥

मा साहसं कृथास् तुष्टा सत्त्वेनानेन ते ह्य् अहम् ।
प्रत्युज्जीवतु सापत्यदारो वीरवरो द्विजः ॥ १२,११.१०२ ॥

इत्य् उक्त्वा व्यरमद् वाक् सा स चोत्तस्थौ सपुत्रकः ।
साकं दुहित्रा पत्न्या च जीवन् वीरवरो ऽक्षतः ॥ १२,११.१०३ ॥

तद् विलोक्याद्भुतं राजा छन्नो भूत्वा पुनश् च सः ।
पश्यन्न् अतृप्तस् ताम् आसीद् दृष्ट्या हर्षाश्रुपूर्णया ॥ १२,११.१०४ ॥

सो ऽपि वीरवरो दृष्ट्वा सुप्तोत्थित इवाशु तम् ।
पुत्रदारं तथात्मानम् अभूद् विभ्रान्तमानसः ॥ १२,११.१०५ ॥

पप्रच्छ च पृथङ् नामग्राहं दारसुतान् स तान् ।
भस्मीभूताः कथं यूयं जीवन्तः पुन उत्थिताः ॥ १२,११.१०६ ॥

मयापि स्वशिरश् छिन्नं जीवाम्य् एषश् च किं न्व् इदम् ।
किं विभ्रमो ऽयम् आहो स्वित् सुस्पष्टो देव्यनुग्रहः ॥ १२,११.१०७ ॥

एवं वदन् स तैर् ऊचे दारापत्यैर् अलक्षितः ।
देव्यनुग्रह एवायं जीवामो यद् अमी इति ॥ १२,११.१०८ ॥

ततः स तत् तथा मत्वा नत्वा वीरवरो ऽम्बकाम् ।
आदाय पुत्रदारांस् तान्सिद्धकार्यो गृहं ययौ ॥ १२,११.१०९ ॥

तत्र प्रवेश्य पुत्रं तं भार्यां दुहितरं च ताम् ।
सिंहद्वारम् अगाद् राज्ञो रात्रौ तस्यां स पूर्ववत् ॥ १२,११.११० ॥

राजा स शूद्रको ऽप्य् एतद् दृष्ट्वा सर्वम् अलक्षितः ।
गत्वारुरोह स्वावासप्रासादं तं पुनस् तदा ॥ १२,११.१११ ॥

व्याहरच् च स्थितः को ऽत्र सिंहद्वारीति पृष्ठतः ।
ततो वीरवरो ऽवादीत् सैष तिष्ठाम्य् अहं प्रभो ॥ १२,११.११२ ॥

देवादेशाद् गतश् चाहम् अभूवं तां स्त्रियं प्रति ।
राक्षसीव च सा क्वापि दृष्टनष्टैव मे गता ॥ १२,११.११३ ॥

एतच् छ्रुत्वा वचस् तस्य राजा वीरवरस्य सः ।
सुतरां विस्मयाविष्टो दृष्टोदन्तो व्यचिन्तयत् ॥ १२,११.११४ ॥

अहो समुद्रगम्भीरधीरचित्ता मनस्विनः ।
कृत्वाप्य् अनन्यसामान्यम् उल्लेखं नोद्गिरन्ति ये ॥ १२,११.११५ ॥

इत्य् आद्य् आकलयंस् तूष्णीं प्रासादाद् अवरुह्य सः ।
प्रविश्यान्तःपुरं राजा रात्रिशेषं निनाय तम् ॥ १२,११.११६ ॥

प्रातश् चास्थानसमये दर्शनोपगतस्थिते ।
तस्मिन् वीरवरे प्रीतस् तथा कृत्स्नं स भूपतिः ॥ १२,११.११७ ॥

तदीयं रात्रिवृत्तान्तं मन्त्रिभ्यस् तम् अवर्णयत् ।
यथा बभूवुर् आश्चर्यमोहिता इव ते ऽखिलाः ॥ १२,११.११८ ॥

ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च ।
लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥ १२,११.११९ ॥

ततो ऽत्र तुल्यविभवाव् अन्योन्यस्योपकारिणौ ।
आसातां तौ सुखं वीरवरशूद्रकभूपती ॥ १२,११.१२० ॥

इत्य् आख्याय कथाम् एतां वेतालो ऽत्यद्भुतां तदा ।
तं त्रिविक्रमसेनं स राजानम् अवदत् पुनः ॥ १२,११.१२१ ॥

तद् ब्रूहि राजन्न् एतेषु वीरः सर्वेषु को ऽधिकः ।
पूर्व एव स शापस् ते यदि जानन् न वक्ष्यसि ॥ १२,११.१२२ ॥

एतच् छ्रुत्वा स भूपालो वेतालं प्रत्युवाच तम् ।
एतेषु शुद्रको राजा प्रवीरः सो ऽखिलेष्व् इति ॥ १२,११.१२३ ॥

ततो ऽब्रवीत् स वेतालो राजन् वीरवरो न किम् ।
सो ऽधिको यस्य तुल्यो ऽस्यां पृथ्व्याम् एव न जायते ॥ १२,११.१२४ ॥

तत्पत्नी नाधिका किं वा स्त्रीभुता यान्वमन्यत ।
तथोपहारपशुतां सूनोः प्रत्यक्षदर्शिनी ॥ १२,११.१२५ ॥

स वा सत्त्ववरो नात्र तत्पुत्रो ऽभ्यधिकः कथम् ।
बालस्यापि सतो यस्य सत्त्वोत्कर्षः स तादृशः ॥ १२,११.१२६ ॥

तत् कस्माच् छुद्रकं भूपम् एभ्यस् त्वं भाषसे ऽधिकम् ।
इत्य् उक्तवन्तं वेतालं स जगाद पुनर् नृपः ॥ १२,११.१२७ ॥

मैवं वीरवरस् तावत् स तादृक्कुलपुत्रकः ।
तस्य प्राणैः सुतैर् दारैः स्वामिसंरक्षणं व्रतम् ॥ १२,११.१२८ ॥

तत्पत्नी सापि कुलजा साद्वी पत्येकदेवता ।
भर्तृवर्त्मानुसारेण तस्या धर्मो ऽस्तु को ऽपरः ॥ १२,११.१२९ ॥

ताभ्यां जातस् तु तद्रूप एव सत्त्ववरो ऽपि सः ।
यादृशास् तन्तवः कामं तादृशो जायते पटः ॥ १२,११.१३० ॥

येषां प्राणैस् तु भृत्यानां नृपैर् आत्माभिरक्ष्यते ।
तेषाम् अर्थे त्यजन्देहं शुद्रको ऽत्र विशिष्यते ॥ १२,११.१३१ ॥

इत्य् आकर्ण्य वचः स तस्य नृपतेर् अंसाद् असंलक्षितः
वेतालः सहसा ययौ निजपदं भूयो ऽपि तन्मायया ।
राजाप्य् उच्चलितो बभूव पुनर् अप्य् आनेतुम् एतं पथा
पूर्वेणैव सुनिश्चितः पितृवने तस्मिन् स तस्यां निशि ॥ १२,११.१३२ ॥


द्वादशस् तरङ्गः ।

ततस् तस्य पुनर् गत्वा शिंशपाशाखिनो ऽन्तिकम् ।
तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ॥ १२,१२.१ ॥

वेतालम् अवतार्यैव कृत्वास्मै बहु वैकृतम् ।
स त्रिविक्रमसेनो द्राग् गन्तुं प्रववृते ततः ॥ १२,१२.२ ॥

आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि ।
रात्रौ महाश्मशाने ऽत्र स्कन्धस्थो व्याजहार सः ॥ १२,१२.३ ॥

राजन्न् अभिनिविष्टो ऽसि कष्टे ऽत्यन्तप्रियो ऽसि च ।
तत् ते चेतोविनोदाय वर्णयामि कथां शृणु ॥ १२,१२.४ ॥

उज्जयिन्याम् अभूद् विप्रः पुण्यसेनस्य भूपतेः ।
अनुजीवी प्रियो ऽमात्यो हरिस्वामीति सद्गुणः ॥ १२,१२.५ ॥

तस्यात्मनो ऽनुरूपायां भार्यायां गृहमेधिनः ।
गुणवान् सदृशः पुत्रो देवस्वामीत्य् अजायत ॥ १२,१२.६ ॥

तद्वच् चानन्य सामान्य रूपलावण्य विश्रुता ।
कन्या सोमप्रभा नाम तस्यान्वर्थोदपद्यत ॥ १२,१२.७ ॥

सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी ।
मातुर् मुखेन पितरं भ्रातरं च जगाद तम् ॥ १२,१२.८ ॥

शूरस्य ज्ञानिनो वाहं देया विज्ञानिनो ऽपि वा ।
अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेत् ॥ १२,१२.९ ॥

तच् छ्रुत्वा तादृशं तस्याश् चिन्वन्न् एकतमं वरम् ।
तत्पिता स हरिस्वामी यावच् चिन्तां वहत्य् अलम् ॥ १२,१२.१० ॥

तावद् व्यसर्जी रज्ञा स पुण्यसेनेन दूत्यया ।
संध्यर्थं विग्रहायात दाक्षिणात्यनृपान्तिकम् ॥ १२,१२.११ ॥

कृतकार्यश् च तत्रासाव् एकेनाभ्येत्य तां सुताम् ।
याचितो ऽभूद् द्विजाग्र्येण श्रुततद्रूपसंपदा ॥ १२,१२.१२ ॥

विज्ञानिनो ज्ञानिनो वा शूराद् वा नापरं पतिम् ।
मत्पुत्रीच्छति तत् तेषां मध्यात् कथय को भवान् ॥ १२,१२.१३ ॥

इत्य् उक्तस् तेन भार्यार्थः स हरिस्वामिना द्विजः ।
अहं जानामि विज्ञानम् इति तं प्रत्यभाषत ॥ १२,१२.१४ ॥

तर्हि तद् दर्शयस्वेति पुन उक्तश् च तेन सः ।
विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ॥ १२,१२.१५ ॥

मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् ।
आरोप्य नीत्वा स्वर्गादीं लोकांस् तस्मा अदर्शयत् ॥ १२,१२.१६ ॥

आनिनाय च तुष्टं तं तत्रैव कटकं पुनः ।
दाक्षिणात्यस्य नृपतेर् यत्रायातः स कार्यतः ॥ १२,१२.१७ ॥

ततः सो ऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् ।
विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ॥ १२,१२.१८ ॥

तत्कालम् उज्जयिन्याम् अप्य् अन्येनैत्य द्विजन्मना ।
देवस्वामी स तत्पुत्रः स्वसारं ताम् अयाच्यत ॥ १२,१२.१९ ॥

ज्ञानिविज्ञानिशूरेभ्यो नान्यम् इच्छति सा पतिम् ।
इति तेनापि सो ऽप्य् उक्तः शूरम् आत्मानम् अभ्यधात् ॥ १२,१२.२० ॥

ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजो ऽनुजाम् ।
देवस्वामी स शूराय दातुं तां प्रत्यपद्यत ॥ १२,१२.२१ ॥

सप्तमे ऽह्नि च तत्रैव विवाहं गणकोक्तितः ।
तस्यापि सो ऽभ्यधान् मातुः परोक्षं कृतनिश्चयः ॥ १२,१२.२२ ॥

तन्मातापि हरिस्वामिभार्या तत्कलम् एव सा ।
केनाप्य् एत्य तृतीयेन सुतां तां याचिता पृथक् ॥ १२,१२.२३ ॥

ज्ञानी शूरो ऽथ विज्ञानी भर्तास्मद् दुहितुर् मतः ।
इत्य् उक्तश् च तया मातर् अहं ज्ञानीति सो ऽभ्यधात् ॥ १२,१२.२४ ॥

पृष्ट्वा भूतं भविष्यच् च तस्मै तां ज्ञानिने सुताम् ।
प्रतिजज्ञे प्रदातुं साप्य् अह्नि तत्रैव सप्तमे ॥ १२,१२.२५ ॥

अन्येद्युश् चागतः सो ऽत्र हरिस्वामी यथा कृतम् ।
पत्न्यैः पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ॥ १२,१२.२६ ॥

तौ च तं स्वकृतं तस्मै भिन्नं भिन्नम् अवोचताम् ।
सो ऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ॥ १२,१२.२७ ॥

अथोद्वाहदिने तस्मिन् हरिस्वामिगृहे वराः ।
आययुर् ज्ञानिविज्ञानिशूरास् तत्र त्रयो ऽपि ते ॥ १२,१२.२८ ॥

तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधुः ।
अशङ्कितं गता क्वापि न विचित्याप्य् अलभ्यत ॥ १२,१२.२९ ॥

ततो ऽब्रवीद् धरिस्वामी ज्ञानिनं तं ससंभ्रमः ।
ज्ञानिन्न् इदानीं ब्रूह्य् आशु दुहिता मे क्व सा गता ॥ १२,१२.३० ॥

तच् छ्रुत्वा सो ऽवदज् ज्ञानी राक्षसेनापहृत्य सा ।
नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ॥ १२,१२.३१ ॥

इत्य् उक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः ।
हा धिक् कथं सा प्रप्येत विवाहश् चापि हा कथम् ॥ १२,१२.३२ ॥

श्रुत्वैतत् प्राह विज्ञानी धीरो भव नयामि वः ।
तत्राधुनैव यत्रैषो ज्ञानी वदति तां स्थिताम् ॥ १२,१२.३३ ॥

इत्य् उक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् ।
तत्रारोप्य हरिस्वामिज्ञानिशूरान् खगामिनि ॥ १२,१२.३४ ॥

तान् स संप्रापयामास क्षणाद् विन्ध्याटवीभुवि ।
ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ॥ १२,१२.३५ ॥

तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् ।
शूरो ऽथ योधयामास हरिस्वामिपुरस्कृतः ॥ १२,१२.३६ ॥

तदाश्चर्यम् अभूद् युद्धं तयोर् मानुषरक्षसोः ।
चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोर् इव ॥ १२,१२.३७ ॥

क्षणेन च स सङ्ग्रामदुर्मदस्यापि रक्षसः ।
अर्धचन्द्रेण बाणेन शूरस् तस्याच्छिनच् छिरः ॥ १२,१२.३८ ॥

हते रक्षसि तां सोमप्रभाम् आप्तां तदास्पदात् ।
आदाय विज्ञानिरथेनाजग्मुस् ते ततो ऽखिलाः ॥ १२,१२.३९ ॥

हरिस्वामिगृहं प्राप्य तेषां लग्ने ऽप्य् उपस्थिते ।
ज्ञानिविज्ञानिशूराणां विवाद उदभून् महान् ॥ १२,१२.४० ॥

ज्ञानी जगाद नाहं चेज् जानीयां तद् इयं कथम् ।
प्राप्येत कन्या गूढस्था देया मह्यम् असाव् इतः ॥ १२,१२.४१ ॥

विज्ञानी त्व् अवदन् नाहं कुर्यां चेद् व्योमगं रथम् ।
गमागमौ कथं स्यातां देवानाम् इव वः क्षणात् ॥ १२,१२.४२ ॥

कथं स्याच् चारथं युद्धं रथिना रक्षसा सह ।
तस्मान् मह्यम् इयं देया लग्नो ह्य् एष मयाजितः ॥ १२,१२.४३ ॥

शूरो ऽप्य् उवाच हन्यां चेन् नाहं तं राक्षसं रणे ।
तद् युवाभ्यां कृते यत्ने ऽप्य् एतां कन्यां क आनयेत् ॥ १२,१२.४४ ॥

तन् मह्यम् एषा दातव्येत्य् एवं तेषु विवादिषु ।
हरिस्वामी क्षणं तूष्णीम् आसीद् उद्भ्रान्तमानसः ॥ १२,१२.४५ ॥

तत् कस्मै सात्र देयेति राजन् वदतु मे भवान् ।
न वदिष्यसि जानंश् चेत् तत् ते मूर्धा स्फुटिष्यति ॥ १२,१२.४६ ॥

इति वेतालतस् तस्माच् छ्रुत्वा मौनं विहाय च ।
स त्रिविक्रमसेनस् तम् उवाचैवं महीपतिः ॥ १२,१२.४७ ॥

शूराय सा प्रदातव्या येन प्राणपणोद्यमात् ।
अर्जिता बहुवीर्येण हत्वा तं युधि राक्षसम् ॥ १२,१२.४८ ॥

ज्ञानिविज्ञानिनौ त्व् अस्य धात्रा कर्मकरौ कृतौ ।
सदा गणकतक्षाणौ परोपकरणे न किम् ॥ १२,१२.४९ ॥

इत्य् उक्तं मनुजपतेर् निशम्य तस्य स्कन्धाग्रात् सपदि स पूर्ववज् जगाम ।
वेतालो निजपदम् एव सो ऽपि राजानुद्वेगः पुनर् अपि तं प्रति प्रतस्थे ॥ १२,१२.५० ॥

त्रयोदशस् तरङ्गः ।

ततो गत्वा पुनस् तस्मात् प्राप्य तं शिंशपातरोः ।
वेतालं प्राग्वद् आदाय स्कन्धे मौनेन भूपतिः ॥ १२,१३.१ ॥

स त्रिविक्रमसेनो ऽत्र यावद् आगच्छति द्रुतम् ।
तावत् पथि स वेतालो भूयो ऽप्य् एवम् उवाच तम् ॥ १२,१३.२ ॥

राजन् सुधीः सुसत्त्वश् च भवांस् तेन प्रियो ऽसि मे ।
अतो विनोदिनीं वच्मि कथां प्रश्नं च मे शृणु ॥ १२,१३.३ ॥

आसीद् राजा यशःकेतुर् इति ख्यातो महीतले ।
तस्य शोभावती नाम राजधान्य् अभवत् पुरी ॥ १२,१३.४ ॥

तस्याम् अभून् नगर्यां च गौर्यायतनम् उत्तमम् ।
तस्य दक्षिणतश् चासीद् गौरीतीर्थाभिधं सरः ॥ १२,१३.५ ॥

तस्याषाढचतुर्दश्यां शुक्लायां प्रतिवत्सरम् ।
यात्रायां स्नातुम् एति स्म नानादिग्भ्यो महाजनः ॥ १२,१३.६ ॥

एकदा च तिथौ तस्यां स्नातुम् अत्राययौ युवा ।
रजको धवलो नाम ग्रामाद् ब्रह्मस्थलाभिधात् ॥ १२,१३.७ ॥

सो ऽपश्यद् रजकस्यात्र तीर्थे स्नानागतां सुताम् ।
कन्यां शुद्धपटाख्यस्य नाम्ना मदनसुन्दरीम् ॥ १२,१३.८ ॥

इन्दोर् लावण्यहारिण्या तया स हृतमानसः ।
अन्विष्य तन्नामकुले कामार्तो ऽथ गृहं ययौ ॥ १२,१३.९ ॥

तत्रानवस्थितस् तिष्ठन् निराहारस् तया विना ।
पृष्ठो मात्रार्तया तस्यै तच् छशंस मनोगतम् ॥ १२,१३.१० ॥

सा गत्वा विमलाख्याय तत् स्वभर्त्रे न्यवेदयत् ।
सो ऽप्य् आगत्य तथावस्थं दृष्ट्वा तं सुतम् अभ्यधात् ॥ १२,१३.११ ॥

किं विषीदसि पुत्रैवम् अदुष्प्राप्ये ऽपि वाञ्छिते ।
स हि मद्याचितः शुद्धपटो दास्यति ते सुताम् ॥ १२,१३.१२ ॥

अन्यूना हि वयं तस्मात् कुलेनार्थेन कर्मणा ।
तं वेद्म्य् अहं स मां वेत्ति तेनैतन् मे न दुःकरम् ॥ १२,१३.१३ ॥

इत्य् आश्वास्य स तं पुत्रम् आहारादौ प्रवर्त्य च ।
तद्युक्तो विमलो ऽन्येद्युर् ययौ शुद्धपटास्पदम् ॥ १२,१३.१४ ॥

ययाचे चात्र पुत्रस्य तस्यार्थे धवलस्य सः ।
कन्यां तस्मात् स चास्मै तां प्रतिशुश्राव सादरम् ॥ १२,१३.१५ ॥

लग्नं निश्चित्य चान्येद्युस् तां स शुद्धपटः सुताम् ।
धवलाय ददौ तस्मै तुल्यां मदनसुन्दरीम् ॥ १२,१३.१६ ॥

कृतोद्वाहश् च स तया साकं दर्शनसक्तया ।
भार्यया स्वपितुर् गेहं जगाम धवलः कृती ॥ १२,१३.१७ ॥

सुखस्थितस्य तस्याथ कदाचिच् छ्वशुरात्मजः ।
तस्या मदनसुन्दर्या भ्राता तत्रागतो ऽभवत् ॥ १२,१३.१८ ॥

स कृतप्रश्रयः सर्वैः स्वस्राश्लिष्याभिनन्दितः ।
संबन्धिपृष्टकुशलो विश्रान्तश् च जगाद तान् ॥ १२,१३.१९ ॥

अहं मदनसुन्दर्या जामातुश् च निमन्त्रणे ।
तातेन प्रेषितो यस्माद् देवीपूजोत्सवो ऽस्ति नः ॥ १२,१३.२० ॥

श्रद्धाय चैतत् तद्वाक्यं यथार्हैः पानभोजनैः ।
ते संबन्ध्यादयः सर्वे तद् अहस् तम् उपाचरन् ॥ १२,१३.२१ ॥

प्रातर् मदनसुन्दर्या स्वशुर्येण च तेन सः ।
सहितो धवलः प्रायाद् गृहं तच् छ्वाशुरं प्रति ॥ १२,१३.२२ ॥

प्राप्य शोभावतीं तां च पुरीम् आत्मतृतीयकः ।
ददर्श निकटं प्राप्य स गौर्यायतनं महत् ॥ १२,१३.२३ ॥

निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः ।
एतम् एतां भगवतीं पश्यामो देवताम् इह ॥ १२,१३.२४ ॥

तच् छ्रुत्वा स श्वशुर्यस् तं निषेधं प्रत्यभाषत ।
इयन्तो रिक्तहस्ताः किं पश्यामो देवताम् इति ॥ १२,१३.२५ ॥

अहं तावद् व्रजाम्य् एको युवाम् अत्रैव तिष्ठतम् ।
इत्य् उक्त्वा धवलो द्रष्टुं देवीं तां स ततो ययौ ॥ १२,१३.२६ ॥

प्रविश्यायतनं तस्याः प्रणम्य च विभाव्य च ।
ताम् अष्टादशदोर्दण्डखण्डितोच्चण्डदानवाम् ॥ १२,१३.२७ ॥

पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीम् ।
स विधिप्रेरणोत्पन्नबुद्धिर् एवम् अचिन्तयत् ॥ १२,१३.२८ ॥

जीवोपहारैर् विविधैर् इमां देवीं जनो ऽर्चति ।
अहं तु सिद्ध्यै किं नैतां प्रीणाम्य् आत्मोपहारतः ॥ १२,१३.२९ ॥

इति ध्यात्वैव तद्गर्भगृहाद् आदाय निर्जनात् ।
खड्गं सांयात्रिकैः कैश्चिद् देव्याः प्राक् प्राभृतीकृतम् ॥ १२,१३.३० ॥

बद्ध्वा शिरोरुहैर् घण्टाशृङ्खलायां निजं शिरम् ।
चिच्छेदैतेन खड्गेन तच् छिन्नं चापतद् भुवि ॥ १२,१३.३१ ॥

चिरं यावत् स नायाति तावद् गत्वा तम् ईक्षितुम् ।
तत्रैव देवीभवने तच्छ्वशुर्यो विवेश सः ॥ १२,१३.३२ ॥

सो ऽपि दृष्ट्वा तम् उत्कृत्तमूर्धानं भगिनीपतिम् ।
व्यामोहितस् तथैव स्वं शिरस् तेनासिनाच्छिनत् ॥ १२,१३.३३ ॥

सो ऽपि यावच् च नायाति तावद् उद्भ्रान्तमानसा ।
तद्देवीभवनं सापि ययौ मदनसुन्दरी ॥ १२,१३.३४ ॥

प्रविश्य दृष्ट्वैव पतिं भ्रातरं च तथागतौ ।
हा किम् एतद् धतास्मीति विलपन्त्य् अपतद् भुवि ॥ १२,१३.३५ ॥

क्षणाच् चोत्थाय शोचन्ती ताव् अकाण्डहताव् उभौ ।
किं ममाप्य् अधुनानेन जीवितेनेत्य् अचिन्तयत् ॥ १२,१३.३६ ॥

व्यजिज्ञपच् च देवीं तां देहत्यागोन्मुखी सती ।
देवि सौभाग्यचारित्रविधानैकाधिदेवते ॥ १२,१३.३७ ॥

अध्यासितशरीरार्धे भर्तुर् माररिपोर् अपि ।
अशेषललनालोकशरण्ये दुःखहारिणि ॥ १२,१३.३८ ॥

हृताव् एकपदे कस्माद् भर्ता भ्राता च मे त्वया ।
न युक्तम् एतन् मयि ते नित्यभक्ता ह्य् अहं त्वयि ॥ १२,१३.३९ ॥

तन् मे श्रितायाः शरणं शृण्व् एकं कृपणं वचः ।
एतां तावत् त्यजाम्य् अत्र दौर्भाग्योपहतां तनुम् ॥ १२,१३.४० ॥

जनिष्ये देवि भूयस् तु यत्र कुत्रापि जन्मनि ।
तत्रैताव् एव भूयास्तां द्वौ भर्तृभ्रातरौ मम ॥ १२,१३.४१ ॥

इति संस्तुत्य विज्ञप्य देवीं नत्वा च तां पुनः ।
पाशं विरचयामास लतयाशोकपादपे ॥ १२,१३.४२ ॥

तत्रार्पयति यावच् च पाशे कण्ठं वितत्य सा ।
तावत् तत्रोच्चचारैवं भारती गगनाङ्गणात् ॥ १२,१३.४३ ॥

मा कृथाः साहसं पुत्रि बालाया अपि ते ऽमुना ।
सत्त्वोत्कर्षेण तुष्टास्मि पाशम् एतं परित्यज ॥ १२,१३.४४ ॥

संश्लेषय शिरः स्वं स्वं भर्तृभ्रातृकबन्धयोः ।
उत्तिष्ठतां ते जीवन्ताव् एतौ द्वाव् अपि मद्वरात् ॥ १२,१३.४५ ॥

एतच् छ्रुत्वैव संत्यज्य पाशं हर्षाद् उपेत्य सा ।
अविभाव्यातिरभसाद् भ्रान्ता मदनसुन्दरी ॥ १२,१३.४६ ॥

बाला भर्तृशिरो भ्रातृदेहेन समयोजयत् ।
भर्तृदेहेन च भ्रातृशिरो विधिनियोगतः ॥ १२,१३.४७ ॥

ततो ऽक्षताङ्गौ जीवन्ताव् उभाव् उत्तस्थतुश् च तौ ।
शिरोविनिमयाज् जातसंकरौ काययोर् मिथः ॥ १२,१३.४८ ॥

अथान्योन्योदितस्वस्वयथावृत्तान्ततोषिणः ।
प्रणम्य देवीं शर्वानीं यथेष्टं ते ययुस् त्रयः ॥ १२,१३.४९ ॥

यान्ती च दृष्ट्वा स्वकृतं शिरोविनिमयं तयोः ।
विग्ना किंकार्यतामूढा साभून् मदनसुन्दरी ॥ १२,१३.५० ॥

तद् ब्रूहि राजन् को भर्ता तस्याः संकीर्णयोस् तयोः ।
पुर्वोक्तः स्यात् स शापस् ते जानानो न ब्रवीषि चेत् ॥ १२,१३.५१ ॥

इत्य् आकर्ण्य कथाप्रश्नं राजा वेतालतस् ततः ।
स त्रिविक्रमसेनो ऽत्र तम् एवं प्रत्यभाषत ॥ १२,१३.५२ ॥

यत् संस्थं तत्पतिशिरः सैष तस्याः पतिस् तयोः ।
प्रधानं च शिरो ऽङ्गेषु प्रत्यभिज्ञा च तद्गता ॥ १२,१३.५३ ॥

इत्य् उक्तवतो नृपतेस् तस्यांसात् पुनर् अतर्कितः स ययौ ।
वेतालः स च राजा जगाम भूयस् तम् आनेतुम् ॥ १२,१३.५४ ॥

चतुर्दशस् तरङ्गः ।

ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तं स्कन्धे जग्राह भूपतिः ॥ १२,१४.१ ॥

गृहीत्वा प्रस्थितं तं च वेतालः सो ऽब्रवीत् पथि ।
राजञ् श्रमविनोदार्थं कथाम् आख्यामि ते शृणु ॥ १२,१४.२ ॥

अस्तीह ताम्रलिप्तीति पुरी पूर्वाम्बुधेस् तटे ।
चण्डसेनाभिधानश् च राजा तस्याम् अभूत् पुरि ॥ १२,१४.३ ॥

पराङ्मुखः परस्त्रीषु यो न सङ्ग्रामभूमिषु ।
हर्ता च शत्रुलक्ष्मीणां न परद्रव्यसंपदाम् ॥ १२,१४.४ ॥

तस्यैकदा दाक्षिणात्यो राजपुत्रो जनप्रियः ।
आययौ सत्त्वशीलाख्यः सिंहद्वारे ऽत्र भूपतेः ॥ १२,१४.५ ॥

तत्र चात्मानम् आवेद्य नैर्धन्यात्तं नृपं प्रति ।
कपटं पाटयामास राजपुत्रैः सहापरैः ॥ १२,१४.६ ॥

ततः कार्पटिको भूत्वा बहून्य् अब्दानि तत्र सः ।
तस्थौ कुर्वन् सदा सेवान् नैव प्राप फलं नृपात् ॥ १२,१४.७ ॥

यदि राजान्वये जन्म निर्धनत्वं किम् ईदृशम् ।
निर्धनत्वे ऽपि किं धात्रा कृतेयं मे महेच्छता ॥ १२,१४.८ ॥

अयं हि सेवमानं माम् एवं क्लिष्टपरिच्छदम् ।
चिरं क्षुधावसीदन्तं राजा नाद्यापि वीक्षते ॥ १२,१४.९ ॥

इति यावच् च स ध्यायत्य् अत्र कार्पटिकस् ततः ।
तावद् आखेटकार्थं स निरगाद् एकदा नृपः ॥ १२,१४.१० ॥

तस्मिन् कार्पटिके धावत्य् अग्रे लगुडवाहिनि ।
जगाम चाश्वपादातयुतः सो ऽथ मृगाटवीम् ॥ १२,१४.११ ॥

कृताखेटश् च तत्रारान् महान्तं मत्तसूकरम् ।
अनुधावन् क्षणात् प्रापद् अतिदूरं वनान्तरम् ॥ १२,१४.१२ ॥

तत्र पर्णतृणच्छन्नमार्गे हारितसूकरः ।
श्रान्तो महावने सो ऽथ राजा दिङ्मोहम् आययौ ॥ १२,१४.१३ ॥

एकः कार्पटिकश् चाथ स तं वाताश्वपृष्ठगम् ।
प्रानानपेक्षो ऽनुययौ पदातिः क्षुत्तृषार्दितः ॥ १२,१४.१४ ॥

तं च दृष्ट्वा तथाभूतम् अन्वायातं स भूपतिः ।
सस्नेहम् अवदत् कच्चिद् वेत्सि मार्गं यथागतम् ॥ १२,१४.१५ ॥

तदाकर्ण्याञ्जलिं बद्ध्वा स तं कार्पटिको ऽभ्यधात् ।
वेद्मि किं च क्षणं तावद् इह विश्राम्यतु प्रभुः ॥ १२,१४.१६ ॥

द्युवधूमेखलामध्यमणिर् एष हि संप्रति ।
देदीप्यते स्फुरद्रश्मिशिखाजालो ऽब्जिनीपतिः ॥ १२,१४.१७ ॥

एतच् छ्रुत्वा स राजा तं सोपरोधम् अभाषत ।
तर्हि क्वापीह पानीयं भवता प्रेक्ष्यताम् इति ॥ १२,१४.१८ ॥

तथेत्य् आरुह्य स ततस् तुङ्गं कार्पटिकस् तरुम् ।
नदीं दृष्ट्वावरुह्याथ नृपं तत्र निनाय तम् ॥ १२,१४.१९ ॥

तद् वाहं च विपर्यानीकृतं कृतविवर्तनम् ।
दत्ताम्बुशष्पकवलं विदधे विगतश्रमम् ॥ १२,१४.२० ॥

कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात् ।
प्रक्षाल्योपानयत् तस्मै हृद्यान्य् आमलकानि सः ॥ १२,१४.२१ ॥

एतानि कुत इत्य् एतं पृच्छन्तं स च भूपतिम् ।
एवं व्यजिज्ञपज् जानुस्थितः सामलकाञ्जलिः ॥ १२,१४.२२ ॥

एतद्वृत्तिर् अहं नित्यं व्यतीतदशवत्सरः ।
चराम्य् आराधयन् देवम् अनेकान्तमुनिव्रतम् ॥ १२,१४.२३ ॥

तच् छ्रुत्वा सत्यनामा त्वं सत्त्वशीलः किम् उच्यते ।
इत्य् उक्त्वा स कृपाक्रान्तो ह्रीतश् चाचिन्तयन् नृपः ॥ १२,१४.२४ ॥

धिङ् नृपान् क्लिष्टम् अक्लिष्टं ये भृत्येष न जानते ।
धिक् च तं परिवारं यो न ज्ञापयति तांस् तथा ॥ १२,१४.२५ ॥

इति संचिन्त्य जग्राह स राजामलकद्वयम् ।
हस्तात् कार्पटिकस्याथ कथंचिद् अनुबध्नतः ॥ १२,१४.२६ ॥

भुक्त्वा च तन् निपीयाम्बु विशश्रामात्र स क्षणम् ।
जग्धामलकसंपीतजलकार्पटिकान्वितः ॥ १२,१४.२७ ॥

ततः सज्जीकृतं तेन वाहं कार्पटिकेन सः ।
आरुह्याग्रेसरे तस्मिन्न् एव मार्गप्रदर्शिनि ॥ १२,१४.२८ ॥

पश्चाद्भागम् अनारूढे हयस्याभ्यर्थिते ऽप्य् अलम् ।
ययौ स राजा स्वपुरिं पथि प्राप्तात्मसैनिकः ॥ १२,१४.२९ ॥

तत्र प्रख्याप्य तद्भक्तिं वसुभिर् विषयैश् च तम् ।
अपूरयत् कार्पटिकं न चामन्यत निष्कृतिम् ॥ १२,१४.३० ॥

ततः कृतार्थः पार्श्वे ऽस्य चण्डसिंहस्य भूपतेः ।
मुक्तकार्पटिकाचारः सत्त्वशीलः स तस्थिवान् ॥ १२,१४.३१ ॥

एकदा तेन राज्ञा च स सिंहलपतेः सुताम् ।
याचितुं सिंहलद्वीपम् आत्मार्थं प्रेषितो ऽभवत् ॥ १२,१४.३२ ॥

तत्राब्धिवर्त्मना गच्छन्न् अर्चिताभीष्टदेवतः ।
आरुरोह प्रवहणं राजादिष्टैः सह द्विजैः ॥ १२,१४.३३ ॥

गते तस्मिन् प्रवहणे मध्यभागम् अशङ्कितम् ।
उत्तस्थौ जलधेस् तस्माद् ध्वजो जनितविस्मयः ॥ १२,१४.३४ ॥

अभ्रम्लिहाग्रः सुमहाञ् जाम्बूनदविनिर्मितः ।
विचित्रवर्णविचलद्वैजयन्तीविराजितः ॥ १२,१४.३५ ॥

तत्कालं चात्र सहसा समुन्नम्य घनावली ।
भृशं वर्षितुम् आरेभे ववौ तीव्रश् च मारुतः ॥ १२,१४.३६ ॥

तैर् वर्षवातैः स बलाद् आकृष्याधोरनैर् इव ।
आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥ १२,१४.३७ ॥

तावच् च स ध्वजस् तस्मिन् वारिधौ वीचिविप्लुते ।
वहनेन समं तेन प्रावर्तत निमज्जितुम् ॥ १२,१४.३८ ॥

ततो द्विजास् ते तत्रस्थाश् चण्डसिंहं स्वभूपतिम् ।
उद्दिश्योद्घोषयामासुर् अभ्रह्मण्यं भयाकुलाः ॥ १२,१४.३९ ॥

तद् आकर्ण्यासहिष्णुश् च स्वामिभक्तेर् अनुध्वजम् ।
स सत्त्वशीलो निस्त्रिंशहस्तो बद्धोत्तरीयकः ॥ १२,१४.४० ॥

आत्मानम् अक्षिपत् तत्र निरपेक्षो महोदधौ ।
उदधेः कारणाशङ्की वीरः प्रतिविधित्सया ॥ १२,१४.४१ ॥

मग्ने च तस्मिन् वातोर्मिदूरोत्क्षिप्तम् अभज्यत ।
वहनं तच् च तत्स्ताश् च निपेतुर् यादसां मुखे ॥ १२,१४.४२ ॥

स च मग्नो ऽम्बुधौ तत्र सत्त्वशीलो निरीक्षते ।
यावत् तावद् ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥ १२,१४.४३ ॥

तस्मिन् मणिमयस्थम्भैर् भास्वरे हेममन्दिरे ।
सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥ १२,१४.४४ ॥

नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजम् ।
कात्यायनीदेवगृहं मेरुप्रोन्नतम् ऐक्षत ॥ १२,१४.४५ ॥

तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्च्य तदग्रतः ।
इन्द्रजालं किम् एतत् स्याद् इत्य् आश्चर्याद् उपाविशत् ॥ १२,१४.४६ ॥

तावच् च देव्यग्रगतप्रभामण्डलकान्तरात् ।
अकस्मान् निरगात् कन्या दिव्योद्घाट्य कवाटकम् ॥ १२,१४.४७ ॥

इन्दी वराक्षी फुल्लाब्जवदना कुसुमस्मिता ।
मृणालनालमृद्वङ्गी जङ्गमेव सरोजिनी ॥ १२,१४.४८ ॥

स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा ।
विवेश सत्त्वशीलस्य हृदयं च ततः समम् ॥ १२,१४.४९ ॥

निरगात् कृतपूजा च देवीगर्भगृहात् ततः ।
न पुनः सत्त्वशीलस्य हृदयात् सा कथं चन ॥ १२,१४.५० ॥

प्राविशत् सा च तत्रैव प्रभामण्डलकान्तरे ।
सत्त्वशीलो ऽप्य् असौ तस्याः पश्चात् तत्र प्रविष्टवान् ॥ १२,१४.५१ ॥

प्रविश्य च ददर्शान्तर् अन्यद् एवोत्तमं पुरम् ।
संकेतोद्यानम् इव यत् सर्वासां भोगसंपदाम् ॥ १२,१४.५२ ॥

तत्रान्तर्मणिपर्यङ्कनिषण्णां तां विलोक्य सः ।
कन्याम् उपेत्य तत्पार्श्वे सत्त्वशील उपाविशत् ॥ १२,१४.५३ ॥

आसीच् च तन्मुखासक्तलोचनो लिखितो यथा ।
अङ्गैः सोत्कम्पपुलकैर् वदन्न् आलिङ्गनोत्कताम् ॥ १२,१४.५४ ॥

दृष्ट्वा च तं स्मराविष्टं चेटीनाम् अत्र सा मुखम् ।
अद्राक्षीत् ताश् च तत्कालम् इङ्गितज्ञास् तम् अब्रुवन् ॥ १२,१४.५५ ॥

अतिथिस् त्वम् इह प्राप्तस् तद् अस्मत्स्वामिनीकृतम् ।
भजस्वातिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥ १२,१४.५६ ॥

तच् छ्रुत्वा सो ऽवलम्ब्याशां खतम् अप्य् उत्थितस् ततः ।
ययौ प्रदर्शितां ताभिर् एकाम् उद्यानवापिकाम् ॥ १२,१४.५७ ॥

तस्यां निमग्नश् चोत्तस्थौ ताम्रलिप्त्यां स तत्क्षणात् ।
चण्डसिंहनृपोद्यानवापीमध्यात् ससंभ्रमः ॥ १२,१४.५८ ॥

तत्र प्राप्तम् अकस्माच् च विक्ष्यात्मानम् अचिन्तयत् ।
अहो किम् एतत् क्वोद्यानम् इदं दिव्यं क्व तत् पुरम् ॥ १२,१४.५९ ॥

तत्रामृतासारसमं क्व तत् तस्याश् च दर्शनम् ।
क्व चानन्तरम् एवेदं तद्विश्लेषमहाविषम् ॥ १२,१४.६० ॥

स्वप्नश् च नायं सुस्पष्टो विनिद्रो ऽनुभवो हि मे ।
ध्रुवं पातालकन्याभिस् ताभिर् मूढो ऽस्मि वञ्चितः ॥ १२,१४.६१ ॥

इति ध्यायन् विना तां स कन्याम् उन्मादवान् इव ।
उद्याने तत्र बभ्राम कामार्तो विललाप च ॥ १२,१४.६२ ॥

तदवस्थं च तं दृष्ट्वा पिशङ्गैः पुष्परेणुभिः ।
वातोद्धूतैः परीताङ्गं विप्रयोगानलैर् इव ॥ १२,१४.६३ ॥

उद्यानपाला गत्वैव चण्डसिंहमहीभृतम् ।
व्यजिज्ञपन् स चोद्भ्रान्तः स्वयम् एत्य ददर्श तम् ॥ १२,१४.६४ ॥

सान्त्वयित्वा च पप्रच्छ किम् इदं ब्रूहि नः सखे ।
क्व प्रस्थितस् त्वं क्व प्राप्तः क्वास्तः क्व पतितः शरः ॥ १२,१४.६५ ॥

तच् छ्रुत्वा स स्ववृत्तान्तं तस्मै सर्व शशंस तम् ।
सत्त्वशीलो नृपतये सो ऽप्य् अथैवम् अचिन्तयत् ॥ १२,१४.६६ ॥

हन्त वीरो ऽपि मत्पुण्यैः कामेनैषो विडम्बितः ।
आनृण्यं गन्तुम् एतस्य लब्धो ह्य् अवसरो मया ॥ १२,१४.६७ ॥

इत्य् अन्तश् चिन्तयित्वा स वीरो राजा जगाद तम् ।
तह्रि मुञ्च मुधा शोकम् अहं त्वां प्रापयामि ताम् ॥ १२,१४.६८ ॥

नीत्वा तेनैव मार्गेण प्रियाम् असुरकन्यकाम् ।
इति चाश्वासयामास तं स स्नानादिना नृपः ॥ १२,१४.६९ ॥

अन्येद्युर् मन्त्रिविन्यस्तराज्यस् तेन समं च सः ।
प्रायात् प्रवहणारूढस् तद्दर्शितपथो ऽम्बुधिम् ॥ १२,१४.७० ॥

प्राप्य तन्मध्यभागं च दृष्ट्वा तं प्राग्वद् उत्थितम् ।
सपताकं ध्वजं सत्त्वशीलस् तं नृपम् अभ्यधात् ॥ १२,१४.७१ ॥

सो ऽयम् अभ्युत्थितो दिव्यप्रभावो ऽत्र महाध्वजः ।
मयि मग्ने ऽत्र मङ्क्तव्यं देवेनैतम् अनु ध्वजम् ॥ १२,१४.७२ ॥

इत्य् उक्त्वा निकटं प्राप्य ध्वजस्यास्य निमज्जतः ।
मार्गे स सत्त्वशीलो ऽसौ पूर्वम् आत्मानम् अक्षिपत् ॥ १२,१४.७३ ॥

ततो राजापि चिक्षेप तत्रात्मानं तथैव सः ।
अन्तो मग्नौ च तौ क्षिप्रं तद् दिव्यं प्रापतुः पुरम् ॥ १२,१४.७४ ॥

तत्र दृष्ट्वा स साश्चर्यो राजा देवीं प्रणम्य ताम् ।
पार्वतीं सत्त्वशीलेन सहितः समुपाविशत् ॥ १२,१४.७५ ॥

तावच् च निरगात् तत्र सा सखीजनसंगता ।
रूपिनीव प्रभा कन्या प्रभामण्डलकात् ततः ॥ १२,१४.७६ ॥

इयं सा सुमुखीत्य् उक्ते सत्त्वशीलेन तां नृपः ।
दृष्ट्वा युक्तम् अभिष्वङ्गं तस्य तस्याम् अमन्यत ॥ १२,१४.७७ ॥

सापि तं वीक्ष्य राजानं शुभशारीरलक्षणम् ।
पुरुषातिशयो ऽपूर्वः को ऽयं स्याद् इत्य् अचिन्तयत् ॥ १२,१४.७८ ॥

विवेश चाम्बिकाधाम पूजायै सा नृपो ऽपि सः ।
जगामोद्यानम् आदाय सत्त्वशीलम् अवज्ञया ॥ १२,१४.७९ ॥

क्षणाच् च कृतपूजा सा निरगाद् दैत्यकन्यका ।
याचित्वा सत्पतिप्राप्तिं देव्या गर्भगृहान्तरात् ॥ १२,१४.८० ॥

निर्गत्य सा जगादैकां सखीं सखि गवेष्यताम् ।
यो ऽसाव् इह मया दृष्टो महात्मा क्व स तिष्ठति ॥ १२,१४.८१ ॥

आतिथ्यं गृह्यताम् एत्य प्रसादः क्रियतां त्वया ।
इति चैषो ऽर्थ्यतां पूज्यः पुमान् को ऽप्य् उत्तमो ह्य् असौ ॥ १२,१४.८२ ॥

एवं सखी तयोक्ता सा विचित्योद्यानवर्तिने ।
स्वस्वामिनीनिदेशं तं प्रह्वा तस्मै न्यवेदयत् ॥ १२,१४.८३ ॥

तच् छ्रुत्वा स नृपो वीरः सावहेलम् उवाच ताम् ।
एषैवातिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते ॥ १२,१४.८४ ॥

एतच् छ्रुत्वा तया गत्वा सख्या सा श्राविता तदा ।
मेने मान्यम् उदारं तं सर्वथा दैत्यकन्यका ॥ १२,१४.८५ ॥

ततश् चाकृष्यमानेव धैर्यपाशेन तेन सा ।
नृपेण मानुषायोग्ये ऽप्य् आतिथ्ये निःस्पृहात्मना ॥ १२,१४.८६ ॥

पत्यर्थं पार्वतीसेवापरिपाकसमर्पितम् ।
मत्वा तत् स्वयम् उद्यानं विवेशासुरपुत्रिका ॥ १२,१४.८७ ॥

विचित्रशकुनालापैर् वाताञ्चितलताभुजैः ।
विकीर्णकुसुमैर् आरान् नन्द्यमानेव पादपैः ॥ १२,१४.८८ ॥

उपगम्य च सा तत्र यथावत् प्रश्रयानता ।
आतिथ्यग्रहणार्थं तं प्रार्थयामास पार्थिवम् ॥ १२,१४.८९ ॥

ततः स सत्त्वशीलं तम् उद्दिश्योवाच तां नृपः ।
अनेन कथितां देवीम् इहाहं द्रष्टुम् आगतः ॥ १२,१४.९० ॥

गौरीं ध्वजपथप्राप्यपरमाद्भुतकेतनाम् ।
सा दृष्टा तदनु त्वं च कान्यातिथ्यार्थितात्र नः ॥ १२,१४.९१ ॥

तच् छ्रुत्वा साब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम् ।
आगम्यतां द्वितीयं मे पुरं त्रिजगदद्भुताम् ॥ १२,१४.९२ ॥

एवम् उक्तवतीं तां च स विहस्य नृपो ऽब्रवीत् ।
तद् अप्य् अनेनैवोक्तं मे यत्र सा स्नानवापिका ॥ १२,१४.९३ ॥

ततः सा कन्यकावादीद् देव मा स्मैवम् आदिश ।
न विडम्बनशीलाहं का वा पूज्ये विडम्बना ॥ १२,१४.९४ ॥

अहं हि सत्त्वोत्कर्षेण युष्माकं किंकरीकृता ।
तन्मम प्रार्थनाभङ्गं नैवैवं कर्तुम् अर्हथ ॥ १२,१४.९५ ॥

एतच् छ्रुत्वा तथेत्य् उक्त्वा सत्त्वशीलसखः स तत् ।
प्रभामण्डलकोपान्तं ययौ राजा तया सह ॥ १२,१४.९६ ॥

अपावृतकवाटे च तस्मिन्न् अन्तस् तथैव सः ।
प्रवेशितो ददर्शास्यास् तद् दिव्यम् अपरं पुरम् ॥ १२,१४.९७ ॥

नित्य संनद्धसर्वर्तु सदापुष्पफलद्रुमम् ।
मेरुपृष्ठम् इवाशेषं निर्मितं रत्नकाञ्चनैः ॥ १२,१४.९८ ॥

रत्नासने महार्हे तं राजानम् उपवेश्य सा ।
यथोचितोपनीतार्घ्या दैत्यराजसुताब्रवीत् ॥ १२,१४.९९ ॥

कन्याहम् असुरेन्द्रस्य कालनेमेर् महात्मनः ।
चक्रायुधेन च स मे स्वर्गतिं प्रापितः पिता ॥ १२,१४.१०० ॥

विश्वकर्मकृतं चेदं पैतृकं मे पुरद्वयम् ।
न जरात्र न मृत्युश् च बाधते सर्वकामदे ॥ १२,१४.१०१ ॥

इदानीं च पिता त्वं मे सपुराहं वशे तव ।
इत्य् अर्पितात्मसर्वस्वां ताम् उवाच स भूपतिः ॥ १२,१४.१०२ ॥

यद्य् एवं तत् सुते ह्य् अस्मै मया दत्तास्य् अनिन्दिते ।
सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥ १२,१४.१०३ ॥

एवं देवीप्रसादेन मूर्तेनेव नृपेण सा ।
उक्ता गुणज्ञा विनता तत् तथेत्य् अन्वमन्यत ॥ १२,१४.१०४ ॥

ततः कृतार्थं तं तस्याः कृतपाणिग्रहं नृपः ।
दत्तासुरपुरैश्वर्यं सत्त्वशीलम् उवाच सः ॥ १२,१४.१०५ ॥

बुक्तयोर् आमलकयोस् तयोर् एकं मया तव ।
संशोधितम् असंशुद्धाद् ऋणी ते ऽहं द्वितीयतः ॥ १२,१४.१०६ ॥

इति प्रणतम् उक्त्वा तं दैत्यपुत्रीं जगाद ताम् ।
मार्गो मे दर्श्यतां येन स्वपुरीं प्राप्नुयाम् इति ॥ १२,१४.१०७ ॥

ततो ऽपराजितं नाम खड्गं भक्ष्यं फलं च सा ।
एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥ १२,१४.१०८ ॥

ताभ्यां युक्तस् तयोक्तायां वाप्यं मग्नः स्वदेशतः ।
उत्थाय सर्वसंसिद्धकामो ऽभूत् स क्रमान् नृपः ॥ १२,१४.१०९ ॥

सत्त्वशीलो ऽपि दैत्यस्त्रीपुरराज्यं शशास सः ।
तद् ब्रूहि को ऽब्धिपतने द्वयोः सत्त्वाधिको ऽनयोः ॥ १२,१४.११० ॥

इति श्रुत्वा तथा प्रश्नं वेतालाच् छपभीतितः ।
स त्रिविक्रमसेनस् तं भूपतिः प्रत्यभाषत ॥ १२,१४.१११ ॥

एतयोः सत्त्वशीलो ऽत्र स मे सत्त्वाधिको मतः ।
स ह्य् अविज्ञाततत्त्वार्थो निरास्थः पतितो ऽम्बुधौ ॥ १२,१४.११२ ॥

राजा तु तत्त्वं विज्ञाय विवेशाम्भोधिम् आस्थया ।
दैत्यकन्यां च नावञ्छद् असाध्या स्पृहयेति सः ॥ १२,१४.११३ ॥

इति तस्याकर्ण्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् ।
स जगाम पूर्ववत् तं वेतालः शिंशपातरुं स्वपदम् ॥ १२,१४.११४ ॥

राजापि तथैव स तं पुनर् अप्य् आनेतुम् अनुजगाम जवात् ।
प्रारब्धे ह्य् असमाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥ १२,१४.११५ ॥


पञ्चदशस् तरङ्गः ।

गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः ।
तं त्रिविक्रमसेनो ऽत्र स्कन्धे कृत्वोच्चचाल सः ॥ १२,१५.१ ॥

प्रयान्तं स पुनस् तं च वेतालः स्कन्धतो ऽब्रवीत् ।
श्रमविस्मृतये राजन् मत्तः प्रश्नम् इमं शृणु ॥ १२,१५.२ ॥

अङ्गदेशे ऽग्रहारो ऽस्ति महान् वृक्षघटाभिधः ।
विष्णुस्वामीति तत्रासीद् द्विजो यज्वा महाधनः ॥ १२,१५.३ ॥

तस्य च स्वानुरूपायां पत्न्यां जाताः क्रमात् त्रयः ।
बभूवुस् तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥ १२,१५.४ ॥

ते पित्रा प्रेषितास् तेन कूर्महेतोः कदाचन ।
प्रारब्धयज्ञेन ययुस् ते त्रयो भ्रातरो ऽम्बुधिम् ॥ १२,१५.५ ॥

प्राप्य कूर्मं ततो ज्यायान् कनिष्ठौ ताव् अभाषत ।
गृह्णातु युवयोर् एकः कूर्मं क्रतुकृते पितुः ॥ १२,१५.६ ॥

अहम् एतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् ।
इत्य् उक्तवन्तं तं ज्येष्ठं कनिष्ठौ ताव् अवोचताम् ॥ १२,१५.७ ॥

तवात्र विचिकित्सा चेन् नावयोर् अपि सा कथम् ।
तच् छ्रुत्वा सो ऽब्रवीज् ज्येष्ठो गृह्णीतं गच्छतं युवाम् ॥ १२,१५.८ ॥

पितुर् यज्ञक्रियालोपो भवेद् युष्मत्कृतो ऽन्यथा ।
ततो नरकपातः स्याद् युवयोस् तस्य च ध्रुवम् ॥ १२,१५.९ ॥

इत्य् उक्ताव् अनुजौ तेन तौ विहस्य तम् ऊचतुः ।
धर्मं वेत्स्य् आवयोर् एव समानम् अपि नात्मनः ॥ १२,१५.१० ॥

ततो ज्येष्ठो ऽब्रवीत् किं मे जानीथो नैव चङ्गताम् ।
अहं भोजनचङ्गो ऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ १२,१५.११ ॥

एतत् तस्य वचः श्रुत्वा भ्रातरं मध्यमो ऽब्रवीत् ।
अहं तर्ह्य् अधिकश् चङ्गो नारीचङ्गो विचक्षणः ॥ १२,१५.१२ ॥

मध्यमेनैवम् उक्ते तु ज्यायान् पुन उवाच सः ।
कूर्मं गृह्णातु तर्ह्य् एष कनीयान् आवयोर् इति ॥ १२,१५.१३ ॥

ततः स भ्रुकुटिं कृत्वा कनीयान् अप्य् उवाच तौ ।
हे मूर्खौ तूलिकाचङ्गश् चङ्गो ऽहं हि विशेषतः ॥ १२,१५.१४ ॥

एवं ते कलहासक्तास् त्रयो ऽपि भ्रातरो मिथः ।
निर्णयायाभिमानैकग्रस्ताः कूर्मं विहाय तम् ॥ १२,१५.१५ ॥

राज्ञः प्रसेनजिन्नाम्नस् तत्प्रदेशभुवो ऽन्तिकम् ।
नगरं सहसा जग्मुर् विटङ्कपुरनामकम् ॥ १२,१५.१६ ॥

तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च ।
नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ १२,१५.१७ ॥

तिष्ठतेहैव यावद् वः परीक्षिष्ये क्रमाद् अहम् ।
इत्य् उक्तस् तेन राज्ञा च तस्थुस् तत्र तथेति ते ॥ १२,१५.१८ ॥

स्वाहारकाले चानाय्य तेभ्यः सो ऽग्रासनं नृपः ।
राजार्हं दापयामास षड्रसं स्वादुभोजनम् ॥ १२,१५.१९ ॥

भुञ्जानेषु च सर्वेषु तदैको बुभुजे न सः ।
विप्रो भोजनचङ्गो ऽत्र जुगुप्साकूणिताननः ॥ १२,१५.२० ॥

कथं न भोजनं भुङ्क्ते ब्रह्मन् स्वादु सुगन्ध्य् अपि ।
इति रज्ञा स्वयं पृष्टः शनैर् विप्रो जगाद सः ॥ १२,१५.२१ ॥

शवधूमदुरामोदः शालिभक्ते ऽत्र विद्यते ।
तेन नाहम् इदं भोक्तुम् उत्सहे स्वाद्व् अपि प्रभो ॥ १२,१५.२२ ॥

इत्य् उक्ते तेन सर्वे ऽपि तत्राघ्राय नृपाज्ञया ।
ऊचुः कलमशाल्यन्नम् अदोषं तत् सुगन्धि च ॥ १२,१५.२३ ॥

स तु भोजनचङ्गस् तन् नाश्नात् पिहितनासिकः ।
ततः स राजा संचिन्त्य यावद् अन्विष्यति क्रमात् ॥ १२,१५.२४ ॥

तावन् नियोगिजनतस् तद् अन्नं बुबुधे तथा ।
ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥ १२,१५.२५ ॥

ततो ऽतिविस्मितस् तुष्टः स राजा तम् अभाषत ।
सत्यं भोजनचङ्गस् त्वं तदन्यद्भुज्यताम् इति ॥ १२,१५.२६ ॥

कृताहारश् च स नृपो विप्रान् वासगृहेषु तान् ।
विसृज्यानाययामास स्वम् एकां गणिकोत्तमाम् ॥ १२,१५.२७ ॥

तां च तस्मै द्वितीयस्मै प्राहिणोत् कृतमण्डनाम् ।
विप्राय नारिचङ्गाय सायं सर्वाङ्गसुन्दरीम् ॥ १२,१५.२८ ॥

सा च वासगृहं तस्य राजभृत्यान्विता ययौ ।
राकानिशेव पुर्णेन्दुमुखी कंदर्पदीपिनी ॥ १२,१५.२९ ॥

प्रविष्टायां च तस्यां स प्रभाभासितवेश्मनि ।
उत्पन्नमूर्च्छः संरुद्धनासाग्रो वामपाणिना ॥ १२,१५.३० ॥

नारीचङ्गो ऽब्रवीद् राजभृत्यान् निष्कास्यताम् इति ।
न चेन् मृतो ऽहं निर्याति गन्धो ऽस्याश् छागलो यतः ॥ १२,१५.३१ ॥

इत्य् उक्तास् तेन निन्युस् ते विग्नां तां राजपूरुषाः ।
राज्ञो ऽन्तिकं वारवधूं वृत्तान्तं जगदुश् च तम् ॥ १२,१५.३२ ॥

राजाप्य् आनाय्य तत्कालं नारीचङ्गम् उवाच तम् ।
येयं श्रीखण्डकर्पूरकालागुरुमदोत्तमैः ॥ १२,१५.३३ ॥

कृतप्रसाधना दिक्षु प्रसरच्चारुसौरभा ।
तस्या वारविलासिन्या गन्धः स्याच् छागलः कुतः ॥ १२,१५.३४ ॥

इत्य् उक्तो ऽपि स राज्ञा तन् नारीचङ्गस् तदा न यत् ।
प्रतिपेदे तदा राजा विचारपतितो ऽभवत् ॥ १२,१५.३५ ॥

पृच्छंश् च युक्त्या बुबुधे ताम् अजक्षीरवर्धिताम् ।
तन्मुखाद् एव बालत्वे मातृधात्रीवियोगतः ॥ १२,१५.३६ ॥

ततो ऽतिविस्मितस् तस्य नारीचङ्गस्य चङ्गताम् ।
प्रशंसन् नृपतिस् तस्मै तृतीयाय द्विजन्मने ॥ १२,१५.३७ ॥

तद्रसात् तूलिकाचङ्गायाशु शय्याम् अदापयत् ।
पर्यङ्कोपरि विन्यस्तसप्तसंख्याकतूलिकाम् ॥ १२,१५.३८ ॥

तस्यां च तूलिकाचङ्गो महार्हे वासवेस्मनि ।
सुष्वाप धौतसुश्लक्ष्णपटप्रच्छदवाससि ॥ १२,१५.३९ ॥

यामार्ध एव च गते स रात्रौ शयनात् ततः ।
उत्तस्थौ पाण्यवष्टब्धपार्श्वः क्रन्दन् व्यथार्दितः ॥ १२,१५.४० ॥

ददृशे तस्य पार्श्वे च तत्रत्यै राजपूरुषैः ।
गाढलग्नस्य बालस्य मुद्रेव कुटिलारुणा ॥ १२,१५.४१ ॥

गत्वा च तैस् तदाख्यातं राज्ञे राजाप्य् उवाच तान् ।
तूलिकानां तले किंचिन् मा स्यात् तद् वीक्ष्यताम् इति ॥ १२,१५.४२ ॥

गत्वेक्षन्ते च ते यावद् एकैकं तूलिकातलम् ।
तावत् सर्वतलाद् आपुर् वालं पर्यङ्कपृष्टतः ॥ १२,१५.४३ ॥

नीत्वा चादर्शयन् राज्ञे सो ऽप्य् आनीतस्य वीक्ष्य तत् ।
तद्रूपं तूलिकाचङ्गस्याङ्गं राजा विसिस्मिये ॥ १२,१५.४४ ॥

सप्तभ्यस् तूलिकाभ्यो ऽस्य वालो लग्नस् तनौ खतम् ।
इति चित्रीयमाणस् तां राजा रात्रिं निनाय सः ॥ १२,१५.४५ ॥

प्रातश् चाद्भुतवैदग्ध्यसौकुमार्या अमी इति ।
तेभ्यस् त्रिभ्यो ऽपि चङ्गेभ्यो हेमलक्षत्रयं ददौ ॥ १२,१५.४६ ॥

ततस् ते सुखितास् तत्र तस्थुर् विस्मृतकच्छपाः ।
पितुर् विघ्नितयज्ञार्थफलोपार्जितपातकाः ॥ १२,१५.४७ ॥

इत्य् आख्याय कथाद्भुतम् अंसनिषण्णः पुनः स वेतालः ।
पप्रच्छ तं त्रिविक्रमसेनं पृथ्वीपतिं प्रश्नम् ॥ १२,१५.४८ ॥

राजन् विचिन्त्य शापं पूर्वोक्तं ब्रूहि मे त्वम् एतेषाम् ।
भोजननारीशय्याचङ्गानां को ऽधिकश् चङ्गः ॥ १२,१५.४९ ॥

तच् छ्रुत्वैव स धीमान् वेतालं प्रत्युवाच तं नृपतिः ।
अहम् एषां निःकैतवम् अधिकं जानामि तूलिकाचङ्गम् ॥ १२,१५.५० ॥

यस्याङ्गे प्रत्यक्षं वालप्रतिबिम्बम् उद्गतं दृष्टम् ।
इतराभ्यां हि भवेत् तत् पूर्वं जात्व् अन्यतो ऽवगतम् ॥ १२,१५.५१ ॥

इति तस्योक्तवतो ऽंसाद् वेतालो भूपतेर् ययौ प्राग्वत् ।
सो ऽपि तथैव च राजा तम् अन्वयासीद् अनिर्विण्णः ॥ १२,१५.५२ ॥


षोडशस् तरङ्गः ।

ततो गत्वा पुनस् तस्माच् छिंशपापादपान् नृपः ।
स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् अग्रहीत् ॥ १२,१६.१ ॥

प्रस्थितश् च ततस् तेन वेतालेनाभ्यधायि सः ।
राजन् क्व राज्यं क्वैतस्मिञ् श्मशाने भ्रमणं निशि ॥ १२,१६.२ ॥

किम् एतन् नेक्षसे भूतसंकुलं रात्रिभीषणम् ।
चिताधूमैर् इव ध्वान्तैर् निरुद्धं पितृकाननम् ॥ १२,१६.३ ॥

कष्टं कीदृग् ग्रहो ऽयं ते भिक्षोस् तस्यानुरोधतः ।
तद् इदं शृणु तावन् मे प्रश्नं मार्गविनोदनम् ॥ १२,१६.४ ॥

अवन्तिष्व् अस्ति नगरी युगादौ देवनिर्मिता ।
शैवी तनुर् इवोद्दामभोगिभूतिविभूषिता ॥ १२,१६.५ ॥

पद्मावती भोगवती या हिरण्यवतीति च ।
कृतादिषु त्रिषु ख्याता कलाव् उज्जयिनीति च ॥ १२,१६.६ ॥

तस्यां च वीरदेवाख्यो राजाभूद् भूभृतां वरः ।
तस्य पद्मरतिर् नाम महादेवी बभूव च ॥ १२,१६.७ ॥

सो ऽथ राजा तया साकं गत्वा मन्दाकिनीतटे ।
हरम् आराधयामास तपसा पुत्रकाम्यया ॥ १२,१६.८ ॥

चिरं तपःस्थितश् चात्र परितुष्टेश्वरोदिताम् ।
कृतस्नानार्चनविधिः शुश्रावेमां गिरं दिवः ॥ १२,१६.९ ॥

राजन्न् उत्पत्स्यते पुत्रः शूरस् तव कुलोद्भवः ।
कन्या चानन्यसामान्यलावण्यन्यक्कृताप्सराः ॥ १२,१६.१० ॥

श्रुत्वैतां नाभसीं वाणीं सिद्धाभीष्टः स भूपतिः ।
वीरदेवः स्वनगरीम् आययौ महिषीसखः ॥ १२,१६.११ ॥

तत्रास्य शूरदेवाख्ये जाते प्रथमम् आत्मजे ।
तस्यां पद्मरतौ देव्यां क्रमाद् अजनि कन्यका ॥ १२,१६.१२ ॥

अनङ्गस्यापि रूपेण रतिम् उत्पादयेद् इयम् ।
इत्य् अनङ्गरतिर् नाम्ना पित्रा तेन व्यधायि सा ॥ १२,१६.१३ ॥

वृद्धिं गतायास् तस्याश् च स पिता सदृशं वरम् ।
प्रेप्सुर् आनाययत् पृथ्व्यां पटेषु लिखिथान् नृपान् ॥ १२,१६.१४ ॥

तेष्व् एको ऽपि न यत् तस्य तत्तुल्यः प्रत्यभासत ।
तेन राजा स वात्सल्यात् तां सुतां प्रत्यभाषत ॥ १२,१६.१५ ॥

अहं तावन् न पश्यामि सदृशं पुत्रि ते वरम् ।
तत् कुरुष्व नृपान् सर्वान् मेलयित्वा स्वयंवरम् ॥ १२,१६.१६ ॥

एतत् पितृवचः श्रुत्वा राजपुत्री जगाद सा ।
तात स्वयंवरं कर्तुं ह्रेपणान् नाहम् उत्सहे ॥ १२,१६.१७ ॥

किं त्व् एकं वेत्ति यो ऽपूर्वं विज्ञानं स्वाकृतिर् युवा ।
तस्मै त्वयाहं दातव्या नार्थो ऽन्येनाधिकेन मे ॥ १२,१६.१८ ॥

इत्य् अनङ्गरतेस् तस्याः श्रुत्वा स्वदुहितुर् वचः ।
तादृशं तद्वरं यावद् अन्विष्यति स भूपतिः ॥ १२,१६.१९ ॥

तावत् तल्लोकतो बुद्ध्वा चत्वारस् तम् उपाययुः ।
वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथात् ॥ १२,१६.२० ॥

ते राज्ञा पूजितास् तस्मै स्वं स्वं विज्ञानम् एकशः ।
शशंसुः संनिधौ तस्या राजपुत्र्यास् तदर्थिनः ॥ १२,१६.२१ ॥

एको जगाद शूद्रो ऽहम् आख्यया पञ्चपट्टिकः ।
पञ्चाग्र्यवस्त्रयुग्मानि करोम्य् एको ऽहम् अन्वहम् ॥ १२,१६.२२ ॥

तेभ्य एकं प्रयच्छामि देवायैकं द्विजन्मने ।
एकं च परिगृह्णामि वाससोर् आत्मनः कृते ॥ १२,१६.२३ ॥

एकं ददामि भार्यायै यदि सा भवतीह मे ।
एकं विक्रीय चाहारपानादि विदधाम्य् अहम् ॥ १२,१६.२४ ॥

एवं विज्ञानिने ऽनङ्गरतिर् मे दीयताम् इति ।
इत्य् एकेनोदिते तेन द्वितीयः पुरुषो ऽब्रवीत् ॥ १२,१६.२५ ॥

भाषाज्ञो नाम वैश्यो ऽहं सर्वेषां मृगपक्षिणाम् ।
रुतं वेद्मि तद् एषा मे राजपुत्री प्रदीयताम् ॥ १२,१६.२६ ॥

एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवांस् ततः ।
अहं खड्गधरो नाम दोःशाली क्षत्रियो नृप ॥ १२,१६.२७ ॥

न खड्गविद्याविज्ञाने प्रतिमल्लो ऽस्ति मे क्षितौ ।
तद् एषा तनया राजंस् त्वया मह्यं वितीर्यताम् ॥ १२,१६.२८ ॥

इत्य् उक्ते तु तृतीयेन चतुर्थ इदम् अभ्यधात् ।
विप्रो ऽहं जीवदत्ताख्यो विज्ञानं च ममेदृशम् ॥ १२,१६.२९ ॥

जन्तूं मृतान् अप्य् आनीय दर्शयाम्य् आशु जीवतः ।
तद्वीरचर्यासिद्धं मां पतिम् एषा प्रपद्यताम् ॥ १२,१६.३० ॥

एवं वक्तॄन् स तान् पश्यन् दिव्यवेषाकृतीन् नृपः ।
वीरदेवः सुतायुक्तो दोलारूढ इवाभवत् ॥ १२,१६.३१ ॥

इत्य् आख्याय कथाम् एतां वेतालः पृष्टवान् नृपम् ।
स त्रिविक्रमसेनं तं दत्तपूर्वोक्तशापभीः ॥ १२,१६.३२ ॥

तद् भवान् वक्तु तावन् मे कस्मै देया विशाम्पते ।
तेषां चतुर्णां मध्यात् सा कन्यानङ्गरतिर् भवेत् ॥ १२,१६.३३ ॥

एतच् छ्रुत्वा स राजा तं वेतालं प्रत्यभाषत ।
मौनं त्याजयति प्रायः कालक्षेपाय मां भवान् ॥ १२,१६.३४ ॥

अन्यथा गहनः को ऽयं प्रश्नो योगेश्वरोच्यताम् ।
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम् ॥ १२,१६.३५ ॥

वैश्यायापि कथं देया क्षत्रिया यच् च तद् गतम् ।
मृगादिभाषाविज्ञानं कार्ये तत् क्वोपयुज्यते ॥ १२,१६.३६ ॥

यो ऽपि विप्रस् तृतीयो ऽत्र तेनापि पतितेन किम् ।
स्वकर्मप्रच्युतेनेन्द्रजालिना वीरमानिना ॥ १२,१६.३७ ॥

तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा ।
देया खड्गधरायैव स्वविद्यावीर्यशालिने ॥ १२,१६.३८ ॥

एतत् तस्य वचो निशम्य नृपतेर् अंसस्थलात् पूर्ववत्
वेतालः स जगाम योगबलतः स्वस्थानम् एवाशु तत् ।
भूपालो ऽपि स तं तथैव पुनर् अप्य् आनेतुम् अन्वग् ययौ
उत्साहैकघने हि वीरहृदये नाप्नोति खेदो ऽन्तरम् ॥ १२,१६.३९ ॥


सप्तदशस् तरङ्गः ।

स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः ।
राजा जग्राह वेतालं पुनर् अंसे चचाल च ॥ १२,१७.१ ॥

प्रयान्तं च तम् आह स्म वेतालः सो ऽंसपृष्ठगः ।
श्रान्तो ऽसि राजंस् तद् इमां शृणु श्रमहरां कथाम् ॥ १२,१७.२ ॥

अभूत् सकलभूपालमस्तकन्यस्तशासनः ।
वीरबाहुर् इति ख्यातो नाम्ना पार्थिवसत्तमः ॥ १२,१७.३ ॥

तस्यानङ्गपुरं नाम बभूव नगरोत्तमम् ।
तत्रासीद् अर्थदत्ताख्यः सार्थवाहो महाधनः ॥ १२,१७.४ ॥

तस्यासीद् धनदत्ताख्यज्येष्ठपुत्रकनीयसी ।
सुता मदनसेनेति कन्यारत्नं वणिक्पतेः ॥ १२,१७.५ ॥

ताम् एकदा निजोद्याने क्रीडन्तीं ससखीजनाम् ।
ददर्श धर्मदत्ताख्यो भ्रातृमित्रं वणिक्सुतः ॥ १२,१७.६ ॥

स ताम् आलोक्य लावण्यरसनिर्भरनिर्झराम् ।
आलक्ष्य कुचकुम्भाग्रां वलित्रयतरङ्गिताम् ॥ १२,१७.७ ॥

यौवनद्विरदस्येव क्रीडामज्जनवापिकाम् ।
सद्यो ऽभूत् स्मरबाणौघसंतापहृतचेतनः ॥ १२,१७.८ ॥

अहो धाराधिरूढेन रूपेण द्योतितामुना ।
इयं मे मानसं भेत्तुं भल्ली मारेण निर्मिता ॥ १२,१७.९ ॥

इत्य् आदि यावद् ध्यायन् स निर्वर्णयति तां चिरम् ।
तावत् तस्यातिचक्राम चक्राह्वस्येव वासरः ॥ १२,१७.१० ॥

ततो मदनसेना सा विवेश स्वगृहान्तरम् ।
चित्तं च धर्मदत्तस्य तदनालोकनव्यथा ॥ १२,१७.११ ॥

तददर्शनदुःखाग्निसंतापेनेव च ज्वलन् ।
लोहितो निपपाताशु भास्वान् अप्य् अपराम्बुधौ ॥ १२,१७.१२ ॥

तां विज्ञायैव सुमुखीं नक्तम् अभ्यन्तरे गताम् ।
उदियाय शनैश् चन्द्रस् तन्मुखाब्जविनिर्जितः ॥ १२,१७.१३ ॥

तावद् गत्वा गृहं तां स धर्मदत्तो ऽनुचिन्तयन् ।
तस्थौ निपत्य शयने चन्द्रपादाहतो लुठन् ॥ १२,१७.१४ ॥

यत्नेन पृच्छ्यमानो ऽपि सखिभिर् बन्धुभिस् तथा ।
न किंचित् कथयाम् आस स्मरग्रहविमोहितः ॥ १२,१७.१५ ॥

निशि कृच्छ्राच् च संप्राप्तनिद्रः स्वप्ने तथैव ताम् ।
पश्यन्न् अनुनयन् कान्तां किं किं चक्रे न सोत्सुकः ॥ १२,१७.१६ ॥

प्रातः प्रबुद्धो गत्वा च ददर्शैकाकिनीं रहः ।
सखीं प्रतीक्षमानां तां तत्रोद्यानस्थितां पुनः ॥ १२,१७.१७ ॥

उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः ।
ताम् उपच्छन्दयामास वचोभिश् चरणानतः ॥ १२,१७.१८ ॥

कन्याहं परदाराश् च न तवास्मीह संप्रतम् ।
पित्रा समुद्रदत्ताय दत्ताहं वणिजे यतः ॥ १२,१७.१९ ॥

दिनैः कतिपयैर् एव विवाहो भविता च मे ।
तद् गच्छ तूष्णीं मा कश्चित् पश्येद् दोषो भवेत् ततः ॥ १२,१७.२० ॥

इत्य् उक्तः स तयात्य् अर्थं धर्मदत्तो जगाद ताम् ।
यद् अस्तु मे न जीवेयं विना हि भवतीम् अहम् ॥ १२,१७.२१ ॥

तच् छ्रुत्वा सा वणिक्कन्या बलात्कारभयाकुला ।
तम् उवाच विवाहो मे तावत् संपद्यताम् इह ॥ १२,१७.२२ ॥

कन्यादानफलं तातः प्राप्नोतु चिरकाङ्क्षितम् ।
ततो ऽहं त्वाम् उपैष्यामि निश्चितं प्रणयार्जिता ॥ १२,१७.२३ ॥

श्रुत्वैतत् सो ऽब्रवीन् नेष्टा ह्य् अन्यपूर्वा मम प्रिया ।
परभुक्ते हि कमले किम् अलेर् जायते रतिः ॥ १२,१७.२४ ॥

इत्य् उक्ता तेन सावादीत् कृतोद्वाहैव तर्ह्य् अहम् ।
पूर्वं त्वाम् उपयास्यामि ततो ऽभ्येष्यामि तं पतिम् ॥ १२,१७.२५ ॥

एवम् उक्तवतीं तस्मिन् नोज्झति प्रत्ययं विना ।
वणिक्पुत्रे सशपथं सत्यवाचं बबन्ध सा ॥ १२,१७.२६ ॥

ततस् तेनोज्झता विग्ना सा विवेश स्वमन्दिरम् ।
प्राप्ते च लग्नदिवसे निर्वृत्तोद्वाहमङ्गला ॥ १२,१७.२७ ॥

गत्वा पतिगृहं नीत्वा सोत्सवेन च तद्दिनम् ।
सा पत्या समम् अध्यास्त शयनीयगृहं निशि ॥ १२,१७.२८ ॥

तत्र शय्यानिषण्णापि न तस्य प्रत्यपद्यत ।
पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी ॥ १२,१७.२९ ॥

तेनानुनीयमानापि यद् उदश्रुर् बभूव सा ।
तत् स नाभिमतो ऽस्म्य् अस्या नूनम् इत्य् अकरोद् धृदि ॥ १२,१७.३० ॥

जगाद चानभिमतो यद्य् अहं तव सुन्दरि ।
तन् मे नार्थस् त्वया गच्छ यः प्रियस् तव तं प्रति ॥ १२,१७.३१ ॥

तच् छ्रुत्वा सा नतमुखी शनैर् एवम् उवाच तम् ।
त्वं मे प्राणाधिकः प्रेयान् विज्ञप्तिं किं तु मे शृणु ॥ १२,१७.३२ ॥

अनुतिष्ठ सहर्षं च प्रयच्छ च ममाभयम् ।
कुरुष्व शपथं यावद् आर्यपुत्र वदामि ते ॥ १२,१७.३३ ॥

एवम् उक्तवती कृच्छ्रात् तथा तेन कृते पुनः ।
सलज्जं सविषादं च सभयं च जगाद सा ॥ १२,१७.३४ ॥

एकाकिनीं गृहोद्याने दृष्ट्वा माम् एकदा युवा ।
अरुणद् धर्मदत्ताख्यः सखा भ्रातुः स्मरातुरः ॥ १२,१७.३५ ॥

रक्षन्त्या सपरीवादं कन्यादानफलं पितुः ।
मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः ॥ १२,१७.३६ ॥

पूर्वं कृतविवाहा त्वाम् उपैष्यामि ततः प्रियम् ।
तन् मे सत्यवचः पाल्यम् अनुमन्यस्व तत् प्रभो ॥ १२,१७.३७ ॥

यावत् तन् निकटं गत्वा क्षणेनोपैमि ते ऽन्तिकम् ।
न हि शक्नोम्य् अतिक्रान्तुं सत्यम् आबाल्य सेवितम् ॥ १२,१७.३८ ॥

इति तस्या वचोवज्रपातेन सहसा हतः ।
समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत् ॥ १२,१७.३९ ॥

अहो धिग् अन्यरक्तेयं गन्तव्यं ध्रुवम् एतया ।
तत्सत्यं हन्मि किं यातु को ऽस्याः परिणयग्रहः ॥ १२,१७.४० ॥

इत्य् आलोच्यानुमेने तां यथेष्टगमनाय सः ।
साप्य् उत्थाय ततस् तस्मान् निर्ययौ पतिवेश्मनः ॥ १२,१७.४१ ॥

तावद् अत्रोदयाद्रीन्द्रहर्म्याग्रं हिमदीधितिः ।
आरुरोह कराक्रान्तहसत्पूर्वदिगङ्गनः ॥ १२,१७.४२ ॥

ततस् तमःस्व् अप्य् आश्लिष्य स्थितेष्व् अद्रिदरी प्रियाः ।
सेवमानेषु भृङ्गेष्व् अप्य् अपरं कुमुदाकरम् ॥ १२,१७.४३ ॥

यान्ती मदनसेना सा मार्गे दृष्ट्वैकका निशि ।
चौरेणाधाव्य केनापि रुरुधे वसनाञ्चले ॥ १२,१७.४४ ॥

का त्वं ब्रूहि क्व यासीति तेनोक्ता बिभ्यती च सा ।
उवाच किं तवानेन मुञ्च कार्यम् इहास्ति मे ॥ १२,१७.४५ ॥

ततश् चौरो ऽब्रवीन् मत्तश् चौरात् त्वं मुच्यसे कथम् ।
तच् छ्रुत्वा सावदत् तं च गृहाणाभरणानि मे ॥ १२,१७.४६ ॥

अथ चौरो ऽभ्यधान् मुग्धे किम् एभिर् उपलैर् मम ।
चन्द्रकान्ताननां तार्क्ष्यरत्नासितशिरोरुहाम् ॥ १२,१७.४७ ॥

वज्रमध्यां सुवर्णाङ्गीं पद्मरागाङ्घ्रिहारिणीम् ।
जगदाभरणं नैव मोक्ष्यामि भवतीम् अहम् ॥ १२,१७.४८ ॥

इत्य् उक्ता तेन चौरेण विवशा सा वणिक्सुता ।
आख्याय निजवृत्तान्तम् एवं प्रार्थयते स्म तम् ॥ १२,१७.४९ ॥

क्षमस्व मे क्षणं यावत् कृत्वा सत्यानुपालनम् ।
इहस्थस्यैव ते पार्श्वम् आगमिष्यामि सत्वरम् ॥ १२,१७.५० ॥

नाहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमां गिरम् ।
श्रुत्वैतत् सत्यसंधां तां मत्वा चौरो मुमोच सः ॥ १२,१७.५१ ॥

तस्थौ प्रतीक्षमानश् च तत्रैव स तदागमम् ।
सापि तस्यान्तिकं धर्मदत्तस्य वणिजो ययौ ॥ १२,१७.५२ ॥

स चाभीष्टाम् अपि प्राप्तां तथा तां विजने स्थिताम् ।
दृष्ट्वा पृष्ट्वा यथावृत्तं विचिन्त्य क्षणम् अब्रवीत् ॥ १२,१७.५३ ॥

सत्येन तव तुष्टो ऽस्मि किं त्वया मे परस्त्रिया ।
यावत् त्वां नेक्षते कश्चित् तावद् गच्छ यथागतम् ॥ १२,१७.५४ ॥

इति तेन परित्यक्ता सा तथेत्य् आययौ ततः ।
चौरस्य निकटं तस्य प्रतिपालयतः पथि ॥ १२,१७.५५ ॥

ब्रूहि कस् ते ऽत्र वृत्तान्तो गताया इति पृच्छते ।
तस्मै सा तेन वणिजा यथा मुक्ता तथाब्रवीत् ॥ १२,१७.५६ ॥

ततः स चौरो ऽवादीत् तां यद्य् एवं तन् मयाप्य् असि ।
विमुक्ता सत्यतुष्टेन गृहं साभरणा व्रज ॥ १२,१७.५७ ॥

एवं तेनापि सा त्यक्ता रक्षिता चानुयायिना ।
अलुप्तशीला मुदिता पत्युर् एवाययौ गृहम् ॥ १२,१७.५८ ॥

तत्र गुप्तं प्रविष्टा सा प्रहृष्टोपागता सती ।
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत् ॥ १२,१७.५९ ॥

सो ऽप्य् अलुप्तमुखच्छायां ताम् असंभोगलक्षणाम् ।
संभाव्याभग्नचारित्रां सत्यलाभरतां सतीम् ॥ १२,१७.६० ॥

अदृष्टमनसं भार्याम् अभिनन्द्य कुलोचितम् ।
तस्थौ समुद्रदत्तो ऽथ तया सह यथासुखम् ॥ १२,१७.६१ ॥

इति तत्र कथाम् उक्त्वा पितृवनभूमौ तदा स वेतालः ।
वदति स्म तं त्रिविक्रमसेनं वसुधाधिपं भूयः ॥ १२,१७.६२ ॥

तद् ब्रूहि चौरवणिजाम् एषां मध्यान् नरेन्द्र कस् त्यागी ।
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा ॥ १२,१७.६३ ॥

तच् छ्रुत्वा स महीपतिर् उज्झितमौनस् तम् आह वेतालम् ।
एषां चौरस् त्यागी न पुनर् वणिजाव् उभाव् अपि तौ ॥ १२,१७.६४ ॥

यो हि पतिस् ताम् अजहाद् अत्याज्यां तादृशीं विवाह्यापि ।
कुलजः सो ऽन्यासक्तां भार्यां जानन् कथं वहतु ॥ १२,१७.६५ ॥

यो ऽप्य् अपरः स भयात् ताम् अत्याक्षीत् कालजीर्णसंवेगः ।
विदितार्थो भर्तास्याः प्रातर् ब्रूयान् नृपायेति ॥ १२,१७.६६ ॥

चौरस् तु गुप्तचारी निरपेक्षः पापकर्मकृत् प्राप्तम् ।
स्त्रीरत्नं यद् अमुञ्चत् साभरणं तेन स त्यागी ॥ १२,१७.६७ ॥

एतच् छ्रुत्वैवांसतस् तस्य राज्ञो
वेतालो ऽगात् पूर्ववत् स्वं पदं सः ।
राजा भूयो ऽप्य् अत्र संप्राप्तुम् एतत्
प्रायाद् एवाखण्डितोद्दामधैर्यः ॥ १२,१७.६८ ॥

अष्टादशस् तरङ्गः ।

ततो गत्वा पुनः प्राप्य शिंशपातो ऽग्रहीन् नृपः ।
स त्रिविक्रमसेनो ऽंसे वेतालं तं चचाल च ॥ १२,१८.१ ॥

आयान्तं च तम् अंसस्थो वेतालः सो ऽब्रवीन् नृपम् ।
राजन् विचित्राम् एकां ते वर्णयामि कथां शृणु ॥ १२,१८.२ ॥

उज्जयिन्याम् अभूत् पूर्वं नाम्ना धर्मध्वजो नृपः ।
तिस्रस् तस्याभवन् भार्या राजपुत्र्यो ऽतिवल्लभाः ॥ १२,१८.३ ॥

एका तास्व् इन्दुलेखेति तारावल्य् अपरा तथा ।
नाम्ना मृगाङ्कवत्य् अन्या निःसामान्यवपुर्गुणाः ॥ १२,१८.४ ॥

ताभिः स विहरन् राजा राज्ञीभिस् तिसृभिः सह ।
आसांचक्रे कृती तत्र जिताशेषरिपुः सुखम् ॥ १२,१८.५ ॥

एकदा तत्र संप्राप्ते वसन्तसमयोत्सवे ।
प्रियाभिः सहितस् ताभिर् उद्यानं क्रीडितुं ययौ ॥ १२,१८.६ ॥

तत्रालिमालामौर्वीकाः पश्यन् पुष्पानता लताः ।
चापयष्टीर् अनङ्गस्य मधुना सज्जिता इव ॥ १२,१८.७ ॥

शृण्वंश् च तद्द्रुमाग्रस्थकोकिलोदीरितां गिरम् ।
सम्भोगैकरसस्याज्ञाम् इव मानसजन्मनः ॥ १२,१८.८ ॥

सिषेवे ऽन्तःपुरैः साकं स राजा वासवोपमः ।
पानं मदस्य कंदर्पजीवितस्यापि जीवितम् ॥ १२,१८.९ ॥

तन्निःश्वाससुगन्धीनि तद्बिम्बौष्ठरुचीनि च ।
प्रियापीतावशेषाणि पिबन् रेमे मधूनि सः ॥ १२,१८.१० ॥

तत्र तस्येन्दुलेखाया राज्ञः केलिकचग्रहात् ।
तस्याः पपात कर्णाग्राद् उत्सङ्गे त्वङ्गद् उत्पलम् ॥ १२,१८.११ ॥

तेनोरुपृष्ठे सहसा क्षते जाते ऽभिघातजे ।
अभिजाता महादेवी हा हेत्य् उक्त्वा मुमूर्च्छ सा ॥ १२,१८.१२ ॥

तद् दृष्ट्वा विह्वलेनार्त्या राज्ञा परिजनेन च ।
समाश्वास्यत राज्ञी सा शनैः शीताम्बुमारुतैः ॥ १२,१८.१३ ॥

ततो नीत्वा स राजा तां राजधानीं भिषक्कृतैः ।
प्रियाम् उपाचरद् दिव्यैर् आमुक्तव्रणपट्टिकाम् ॥ १२,१८.१४ ॥

रात्रौ च सुस्थितां दृष्ट्वा तां स राजा द्वितीयया ।
तारावल्या सहारोहच् चन्द्रप्रासादम् ईश्वरः ॥ १२,१८.१५ ॥

तत्र तस्याङ्कसुप्ताया राज्ञस् तस्या हिमत्विषः ।
करा जालपथैः पेतुर् अङ्गे चलितवाससि ॥ १२,१८.१६ ॥

ततः क्षणात् प्रबुद्धा सा हा दग्धास्मीति वादिनी ।
शयनात् सहसोत्तस्थौ तदङ्गपरिमर्शिनी ॥ १२,१८.१७ ॥

किम् एतद् इति संभ्रान्तः प्रबुद्धो ऽथ ददर्श सः ।
उत्थाय राजा विस्फोटान् अङ्गे तस्या विनिर्गतान् ॥ १२,१८.१८ ॥

पृच्छन्तं सा च तं प्राह राज्ञी तारावली तदा ।
नग्नाङ्गे पतितैर् इन्दोः करैर् एतत् कृतं मम ॥ १२,१८.१९ ॥

इत्य् उक्तवत्याः क्रन्दन्त्याः सार्तिर् आह्वयति स्म सः ।
तस्याः परिजनं राजा विह्वलाकुलधावितम् ॥ १२,१८.२० ॥

तेनास्याः कारयामास सजलैर् नलिनीदलैः ।
शय्याम् अदापयच् चाङ्गे श्रीखण्डार्द्रविलेपनम् ॥ १२,१८.२१ ॥

तावद् बुद्ध्वा तृतीयास्य सा मृगाङ्कवती प्रिया ।
तत्पार्श्वम् आगन्तुमना निर्ययौ निजमन्दिरात् ॥ १२,१८.२२ ॥

निर्गता साशृणोत् क्वापि गृहे धान्यावघातजम् ।
निःशब्दायां निशि व्यक्तं विदूरे मुसलध्वनिम् ॥ १२,१८.२३ ॥

श्रुत्वैव हा मृतास्मीति ब्रुवाणा धुन्वती करौ ।
उपाविशद् व्यथाक्रान्ता मार्गे सा मृगलोचना ॥ १२,१८.२४ ॥

ततः प्रतिनिवृत्यैव नीत्वा परिजनेन सा ।
स्वम् एवान्तःपुरं बाला रुदती शयने ऽपतत् ॥ १२,१८.२५ ॥

ददर्श तत्र तस्याश् च चिन्वन् साश्रुः परिच्छदः ।
आलीनभ्रमरौ पद्माव् इव हस्तौ किणाङ्कितौ ॥ १२,१८.२६ ॥

गत्वा च सो ऽब्रवीद् राज्ञे राजाप्य् आगत्य विह्वलः ।
किम् एतद् इति पप्रच्छ सो ऽथ धर्मध्वजः प्रियाम् ॥ १२,१८.२७ ॥

सापि प्रदर्श्य हस्तौ तम् इत्य् उवाच रुजान्विता ।
श्रुते मुसलशब्दे मे जताव् एतौ किणाङ्कितौ ॥ १२,१८.२८ ॥

ततः स दाहशमनं दापयामास हस्तयोः ।
तस्याश् चन्दनलेपादि राजाद्भुतविषादवान् ॥ १२,१८.२९ ॥

एकस्या उत्पलेनापि पतता क्षतम् आहितम् ।
द्वितीयस्याः पुनर् दग्धम् अङ्गं शशिकरैर् अपि ॥ १२,१८.३० ॥

एकस्यास् तु तृतीयस्याः श्रुतेनापि विनिर्गताः ।
कष्टं मुसलशब्देन हस्तयोर् ईदृशाः किणाः ॥ १२,१८.३१ ॥

अहो युगपद् एतासां प्रेयसीनां ममाधुना ।
गुणो ऽप्य् अत्यभिजातत्वं जातो दोषाय दैवतः ॥ १२,१८.३२ ॥

इति चिन्तयतस् तस्य भ्रमतो ऽन्तःपुरेषु च ।
त्रियामा शतयामेव कृच्छ्रात् सा नृपतेर् ययौ ॥ १२,१८.३३ ॥

प्रातश् च स भिषक्शल्यहर्तृभिः सह संव्यधात् ।
तथा यथाभूद् अचिरात् स्वस्थान्तःपुरनिर्वृतः ॥ १२,१८.३४ ॥

एवम् एतां कथाम् उक्त्वा वेतालो ऽत्यद्भुतां तदा ।
स त्रिविक्रमसेनं तं पप्रच्छांसस्थितो नृपम् ॥ १२,१८.३५ ॥

अभिजाततरैतासु राजन् राज्ञीषु का वद ।
पूर्वोक्तः सो ऽस्तु शापस् ते जानन् यदि न जल्पसि ॥ १२,१८.३६ ॥

तच् छ्रुत्वा सो ऽब्रवीद् राजा सुकुमारतरात्र सा ।
अस्पृष्टे मुसले यस्याः शब्देनैवोद्गताः किणाः ॥ १२,१८.३७ ॥

उत्पलेन्दुकरैः स्पर्शे वृत्ते त्व् इतरयोर् द्वयोः ।
संजाता व्रणविस्फोटास् तेन तस्या न ते समे ॥ १२,१८.३८ ॥

इति तस्योक्तवतो ऽंसाद् राज्ञो भूयो जगाम स स्वपदम् ।
वेतालः स च राजा तथैव तं सुदृढनिश्चयो ऽनुययौ ॥ १२,१८.३९ ॥


नवदशस् तरङ्गः ।

स त्रिविक्रमसेनो ऽथ पुनस् तं शिंशपातरुम् ।
गत्वा प्राप्य च वेतालं राजा स्कन्धे चकार तम् ॥ १२,१९.१ ॥

प्रतस्थे च तम् आदाय तूष्णीम् एव स पूर्ववत् ।
ततो भूयस् तम् आह स्म वेतालः सो ऽंसपृष्ठतः ॥ १२,१९.२ ॥

राजन्न् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः ।
तद् एतां शृण्व् अखेदाय हृद्याम् आख्यामि ते कथाम् ॥ १२,१९.३ ॥

अङ्गदेशे यशःकेतुर् इति राजाभवत् पुरा ।
क्ष्माम् आश्रितो ऽङ्गगुप्त्यर्थम् अदग्धो ऽन्य इव स्मरः ॥ १२,१९.४ ॥

बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च ।
दीर्घदर्शीत्य् अभून् मन्त्री शक्रस्येव बृहस्पतिः ॥ १२,१९.५ ॥

तस्मिन् मन्त्रिणि विन्यस्य राज्यं स हतकण्टकम् ।
शनैः सुखैकसक्तो ऽभूद् वयोरूपमदान् नृपः ॥ १२,१९.६ ॥

तस्थाव् अन्तःपुरे शश्वन् नास्थाने प्रमदास्पदे ।
शुश्राव रक्तिमद् गीतं वचनं न हितैषिणाम् ॥ १२,१९.७ ॥

रज्यति स्म च निश्चिन्तो जालवातायनेषु सः ।
न पुना राजकार्येषु बहुच्छिद्रेषु जात्व् अपि ॥ १२,१९.८ ॥

दीर्घदर्शी तु तद् राज्यचिन्ताभारं समुद्वहन् ।
अतिष्ठत् स महामन्त्री दिवानिशम् अतन्द्रितः ॥ १२,१९.९ ॥

नाममात्रे कृतधृतिं प्रक्षिप्य व्यसने नृपम् ।
मन्त्री राज्ञः श्रियं भुङ्क्ते दीर्घदर्शीह साम्प्रतम् ॥ १२,१९.१० ॥

इत्य् उत्पन्ने महत्य् अत्र जनवादे ऽथ गेहिनीम् ।
स्वैरं मेधाविनीं नाम दीर्घदर्शी जगाद सः ॥ १२,१९.११ ॥

प्रिये राज्ञि सुखासक्ते तद्भारं वहतो ऽपि मे ।
राज्यं भक्षितम् एतेनेत्य् उत्पन्नम् अयशो जने ॥ १२,१९.१२ ॥

लोकवादश् च मिथ्यापि महताम् इह दोषकृत् ।
तत्याज किं न रामो ऽपि जनवादेन जानकीम् ॥ १२,१९.१३ ॥

तद् अत्र किं मया कार्यम् इत्य् उक्ते तेन मन्त्रिणा ।
भार्या मेधाविनी धीरा सान्वर्था तम् अभाषत ॥ १२,१९.१४ ॥

तीर्थयात्रापदेशेन युक्त्यापृच्छ्य महीपतिम् ।
कंचित् कालं विदेशं ते गन्तुं युक्तं महामते ॥ १२,१९.१५ ॥

एवं ते निःस्पृहस्यैष जनवादो निवर्त्स्यति ।
त्वय्य् अस्थिते ततो राज्यम् उद्वक्ष्यति नृपः स्वयम् ॥ १२,१९.१६ ॥

ततश् चास्य शनैर् एतद् व्यसनं हानिमेष्यति ।
आगतस्यात्र निर्गर्हा भवित्री मन्त्रिता च ते ॥ १२,१९.१७ ॥

इत्य् उक्तो भार्यया गत्वा दीर्घदर्शी तथेति सः ।
कथाप्रसङ्गे तं भूपं यशःकेतुं व्यजिज्ञपत् ॥ १२,१९.१८ ॥

अनुजानीहि मां राजन् दिवसान् कांश्चिद् अप्य् अहम् ।
व्रजामि तीर्थयात्रायै धर्मो हि प्रेप्सितः स मे ॥ १२,१९.१९ ॥

तच् छ्रुत्वा सो ऽब्रवीद् राजा मैवं तीर्थैर् विना परः ।
दानादिः किं न धर्मो ऽस्ति स्वर्ग्यस् ते स्वगृहेष्व् अपि ॥ १२,१९.२० ॥

अथावोचत् स मन्त्री तम् अर्थशुद्ध्यादि मृग्यते ।
दानादौ नित्यशुद्धानि तीर्थानि नृपते पुनः ॥ १२,१९.२१ ॥

यावच् च यौवनं राजंस् तावद् गम्यानि धीमता ।
अविश्वास्ये शरीरे हि संगमस् तैः कुतो ऽन्यदा ॥ १२,१९.२२ ॥

इति तस्मिन् वदत्य् एव राज्ञि चैवं निषेधति ।
प्रविश्यात्र प्रतीहारो राजानं तं व्यजिज्ञपत् ॥ १२,१९.२३ ॥

देव व्योमसरोमध्यम् अंशुमाली विगाहते ।
तद् उत्तिष्ठत सैषा वः स्नानवेलातिवर्तते ॥ १२,१९.२४ ॥

श्रुत्वैतत् सहसा स्नातुम् उदतिष्ठन् महीपतिः ।
यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहं ययौ ॥ १२,१९.२५ ॥

तत्रावस्थाप्य भार्यां ताम् अनुयात्रानिवारिताम् ।
स प्रतस्थे ततो युक्त्या स्वभृत्यैर् अप्य् अतर्कितः ॥ १२,१९.२६ ॥

एकाकी च भ्रमंस् तांस् तान् देशांस् तीर्थानि च व्रजन् ।
स प्राप पुण्ड्रविषयं दीर्घदर्शी सुनिश्चयः ॥ १२,१९.२७ ॥

तत्र पत्तन एकस्मिन्न् अदूरे ऽब्धेः प्रविश्य सः ।
एकं देवकुलं शैवं तत्प्राङ्गण उपाविशत् ॥ १२,१९.२८ ॥

तत्रार्ककरसंतापक्लान्तं दूराध्वधूसरम् ।
ददर्श निधिदत्ताख्यो वणिग् देवार्चनागतः ॥ १२,१९.२९ ॥

स तं तथाविधं दृष्ट्वा सोपवीतं सुलक्षणम् ।
संभाव्य चोत्तमं विप्रम् आतिथेयो ऽनयद् गृहम् ॥ १२,१९.३० ॥

तत्र चापूजयत् स्नानभोजनाद्यैस् तम् उत्तमैः ।
कः कुतस् त्वं क्व यासीति विश्रान्तं च स पृष्टवान् ॥ १२,१९.३१ ॥

दीर्घदर्शीति विप्रो ऽहम् अङ्गदेशाद् इहागतः ।
तीर्थयात्रार्थम् इत्य् एव गाम्भीर्यात् सो ऽप्य् उवाच तम् ॥ १२,१९.३२ ॥

ततः स निधिदत्तो ऽपि तं जगाद महावणिक् ।
सुवर्णद्वीपगमनायोद्यतो ऽहं वणिज्यया ॥ १२,१९.३३ ॥

तत् त्वं तिष्ठेह मद्गेहे यावद् एष्याम्य् अहं ततः ।
तीर्थयात्रापरिश्रान्तो विश्रान्तो ह्य् अथ यास्यसि ॥ १२,१९.३४ ॥

तच् छ्रुत्वा सो ऽब्रवीद् दीर्घदर्शी तर्हि ममेह किम् ।
त्वयैव सह यास्यामि सार्थवाह यथासुखम् ॥ १२,१९.३५ ॥

एवम् अस्त्व् इति तेनोक्ते साधुना सो ऽथ तद्गृहे ।
चिराद् अवाप्तशयनो निशां मन्त्री निनाय ताम् ॥ १२,१९.३६ ॥

अन्येद्युर् अथ तेनैव वणिजा सह वारिधिम् ।
गत्वारुरोह तद्भाण्डपूर्णं प्रवहणं च सः ॥ १२,१९.३७ ॥

तेन गच्छन् प्रवहणेनाब्धिम् अद्भुतभीषणम् ।
विलोकयन् स संप्राप स्वर्णद्वीपं क्रमेण तत् ॥ १२,१९.३८ ॥

क्व मन्त्रिमुख्यता चास्य क्व वाध्वोल्लङ्घिताम्बुधिः ।
अयशोभीरवः किं न कुर्वते बत साधवः ॥ १२,१९.३९ ॥

तत्र द्वीपे समं तेन कंचित् कालम् उवास सः ।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ ॥ १२,१९.४० ॥

आगच्छंश् च ततो ऽकस्मात् तद्युक्तो वहनस्थितः ।
कल्पवृक्षं ददर्शाब्धाव् ऊर्मेः पश्चात् समुत्थितम् ॥ १२,१९.४१ ॥

प्रवालशाखासुभगैः स्कन्धैर् जाम्बूनदोज्ज्वलैः ।
फलैर् मणिमयैः कान्तैः कुसुमैश् चोपशोभितम् ॥ १२,१९.४२ ॥

तस्य स्कन्धे च सद्रत्नपर्यङ्कोत्सङ्गवर्तिनीम् ।
कन्याम् अत्यद्भुताकारकमनीयाम् अवैक्षत ॥ १२,१९.४३ ॥

अहो किम् एतद् इत्य् एवं यावद् ध्यायति स क्षणम् ।
तावत् सा वीणिनी कन्या गातुम् एवं प्रचक्रमे ॥ १२,१९.४४ ॥

यत् कर्मबीजम् उप्तं येन पुरा निश्चितं स तद् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥ १२,१९.४५ ॥

इत्य् उद्गाय क्षणात् तस्मिन्न् अम्भोधौ दिव्यकन्यका ।
सकल्पद्रुमपर्यङ्कशय्यात्रैव ममज्ज सा ॥ १२,१९.४६ ॥

किमप्य् अपूर्वम् अद्येदं मया दृष्टम् इहाद्भुतम् ।
क्वाब्धिः क्व दृष्टनष्टो ऽत्र गायद्दिव्याङ्गनस् तरुः ॥ १२,१९.४७ ॥

यदि वा वन्द्य एषो ऽब्धिर् आकरः शश्वद् ईदृशाम् ।
लक्ष्मीन्दुपारिजाताद्या नास्मात् ते ते किम् उद्गताः ॥ १२,१९.४८ ॥

इति तं चिन्तयन्तं च तत्क्षणं दीर्घदर्शिनम् ।
विलोक्य विस्मयाविष्टं कर्णधारादयो ऽब्रुवन् ॥ १२,१९.४९ ॥

एवम् एषा सदैवेह दृश्यते वरकन्यका ।
निमज्जति च तत्कालं तवैतद् दर्शनं नवम् ॥ १२,१९.५० ॥

इत्य् उक्तस् तैः समं तेन निधिदत्तेन स क्रमात् ।
मन्त्री चित्रीयमाणो ऽब्धेस् तीरं पोतगतो ऽभ्यगात् ॥ १२,१९.५१ ॥

तत्रोत्तारितभाण्डेन तेनैव वणिजा सह ।
जगाम हृष्टभृत्येन सोत्सवं सो ऽथ तद्गृहम् ॥ १२,१९.५२ ॥

स्थित्वा नातिचिरं तत्र निधिदत्तम् उवाच तम् ।
सार्थवाह भवद्गेहे विश्रान्तो ऽहं चिरं सुखम् ॥ १२,१९.५३ ॥

इदानीं गन्तुम् इच्छामि स्वदेशं भद्रम् अस्तु ते ।
इत्य् उक्त्वा तम् अनिच्छन्तम् अप्य् आमन्त्र्य वणिक्पतिम् ॥ १२,१९.५४ ॥

दीर्घदर्शी स सत्त्वैकसहायः प्रस्थितस् ततः ।
क्रमोल्लङ्घितदूराध्वा प्रापाङ्गविषयं निजम् ॥ १२,१९.५५ ॥

तत्र तं ददृशुश् चारा बहिर् नगरम् आगतम् ।
ये यशःकेतुना राज्ञा प्राङ्न्यस्तास् तद्गवेषणे ॥ १२,१९.५६ ॥

तैश् च गत्वा स विज्ञप्तश् चारै राजा तम् अभ्यगात् ।
स्वयं निर्गत्य नगरात् तद्विश्लेषसुदुःखितः ॥ १२,१९.५७ ॥

उपेत्य च परिष्वङ्गपूर्वं तम् अभिनन्द्य सः ।
निनायाभ्यन्तरं भूपश् चिराध्वक्षामधूसरम् ॥ १२,१९.५८ ॥

त्यक्त्वास्मान् किं त्वया नीतं न परं बत मानसम् ।
यावच् छरीरम् अप्य् एतन् निःस्नेहपरुषां दशाम् ॥ १२,१९.५९ ॥

किं वा भगवतो वेत्ति भवितव्यस्य को गतिम् ।
यद् अकस्मात् तवैषाभूत् तीर्थादिगमने मतिः ॥ १२,१९.६० ॥

तद् ब्रूहि के त्वया भ्रान्ता देशा दृष्टं च किं नवम् ।
इति तत्र च तं राजा स जगाद स्वमन्त्रिणम् ॥ १२,१९.६१ ॥

ततः सुवर्णद्वीपान्तं सो ऽध्वानं वर्णयन् क्रमात् ।
अब्धाव् उद्गमिनीं तस्मै तां दृष्टां दिव्यकन्यकाम् ॥ १२,१९.६२ ॥

गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थिताम् ।
यथावत् कथयामास दीर्घदर्शी महीभृते ॥ १२,१९.६३ ॥

स तां श्रुत्वैव च नृपस् तथा स्मरवशो ऽभवत् ।
यथा तया विना मेने निष्फले राज्यजीविते ॥ १२,१९.६४ ॥

जगाद च तम् एकान्ते नीत्वा स्वसचिवं तदा ।
द्रष्टव्यासौ मयावश्यं जीवितं नास्ति मे ऽन्यथा ॥ १२,१९.६५ ॥

यामि त्वदुक्तेन पथा प्रणम्य भवितव्यताम् ।
निवारणीयो नाहं ते नानुगम्यश् च सर्वथा ॥ १२,१९.६६ ॥

गुप्तम् एको हि यास्यामि राज्यं रक्ष्यं तु मे त्वया ।
मद्वचो मान्यथा कार्षीः शापितो ऽसि ममासुभिः ॥ १२,१९.६७ ॥

इत्य् उक्त्वा तत्प्रतिवचो निरस्य विससर्ज तम् ।
मन्त्रिणं स्वगृहं राजा चिरोत्कं स्वजनं प्रति ॥ १२,१९.६८ ॥

तत्रानल्पोत्सवे ऽप्य् आसीद् दीर्घदर्शी सुदुर्मनाः ।
स्वामिन्य् असाध्यव्यसने सुखं सन्मन्त्रिणां कुतः ॥ १२,१९.६९ ॥

अन्येद्युश् च स तद्धस्तन्यस्तराज्यभरो नृपः ।
यशःकेतुस् ततः प्रायान् निशि तापसवेषभृत् ॥ १२,१९.७० ॥

गच्छंश् च कुशनाभाख्यं मुनिं मार्गे ददर्श सः ।
सो ऽत्र तं तापसाकल्पं प्रणतं मुनिर् आदिशत् ॥ १२,१९.७१ ॥

लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ ।
गत्वा प्रप्स्यसि ताम् इष्टां कन्यां व्रज निराकुलः ॥ १२,१९.७२ ॥

इति तद्वचसा प्रीतास् तं प्रणम्य स पार्थिवः ।
गच्छन् देशान् नदीर् अद्रीन् क्रान्त्वा तं प्रापद् अम्बुधिम् ॥ १२,१९.७३ ॥

सुतारशङ्खधवलैर् वीचिभ्रूभिर् विकस्वरैः ।
वीक्षमाणम् इवावर्तनेत्रैर् आतिथ्यसंभ्रमात् ॥ १२,१९.७४ ॥

तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः ।
लक्ष्मीदत्तेन जज्ञे ऽस्य स्वर्णद्वीपं यियासुना ॥ १२,१९.७५ ॥

तेनैव सह चक्राङ्कपादमुद्रादि दर्शनात् ।
प्रह्वेणारुह्य वहनं प्रतस्थे सो ऽम्बुधौ नृपः ॥ १२,१९.७६ ॥

मध्यम् अब्धेश् च संप्राप्ते वहने वारिमध्यतः ।
उदगात् कल्पविटपिस्कन्धस्था सात्र कन्यका ॥ १२,१९.७७ ॥

यावत् पश्यति तां राजा चकोर इव चन्द्रिकाम् ।
तावत् सा गायति स्मैवं वल्लकीवाद्यसुन्दरम् ॥ १२,१९.७८ ॥

यत् कर्मबीजम् उप्तं येन पुरा निश्चितं स तद् भुङ्क्ते ।
पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुम् अन्यथाभावः ॥ १२,१९.७९ ॥

तस्माद् यत्र यथा यद् भवितव्यं यस्य दैवयोगेन ।
तत्र तथा तत्प्राप्त्यै विवशो ऽसौ नीयते ऽत्र न भ्रान्तिः ॥ १२,१९.८० ॥

इति सूचितभव्यार्थां गायन्तीं तां विभावयन् ।
निःस्पन्दः स क्षणं तस्थौ राजा स्मरशराहतः ॥ १२,१९.८१ ॥

रत्नाकर नमः सत्यम् अगाधहृदयाय ते ।
येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥ १२,१९.८२ ॥

तत् सुरैर् अप्य् अलभ्यान्तं सपक्षक्ष्माभृदाश्रयम् ।
शरणं त्वां प्रपन्नो ऽहम् इष्टसिद्धिं विधत्स्व मे ॥ १२,१९.८३ ॥

एवं यावत् समुद्रं तं स नतः स्तौति भूमिपः ।
तावत् सा कन्यका तत्र निममज्ज सपादपा ॥ १२,१९.८४ ॥

तद् दृष्ट्वैवानुमार्गे ऽस्याः स राजात्मानम् अक्षिपत् ।
वारिधाव् अत्र कामाग्निसंतापस्येव शान्तये ॥ १२,१९.८५ ॥

तद् वीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः ।
लक्ष्मीदत्तो वणिग् दुःखाद् देहत्यागोद्यतो ऽभवत् ॥ १२,१९.८६ ॥

मा कार्षीः साहसं नास्ति मग्नस्यास्याम्भुधौ भयम् ।
एषो राजा यशःकेतुर् नाम्ना तापसवेषभृत् ॥ १२,१९.८७ ॥

एतत् कन्यार्थम् आयातः पूर्वभार्येयम् अस्य च ।
एतां प्राप्य पुनश् चासाव् अङ्गराज्यं समेष्यति ॥ १२,१९.८८ ॥

इत्य् अथाश्वासितो वाचा तत्कालं गगनोत्थया ।
सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥ १२,१९.८९ ॥

स राजापि यशःकेतुर् निमग्नो ऽन्तो महोदधौ ।
अकस्मान् नगरं दिव्यम् अपश्यज् जातविस्मयः ॥ १२,१९.९० ॥

भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः ।
विराजमानं प्रासादैर् मुक्ताजालगवाक्षकैः ॥ १२,१९.९१ ॥

नानारत्नशिलापट्टबद्धसोपानवापिकैः ।
कामदैः कल्पवृक्षाढ्यैर् उद्यानैर् उपशोभितम् ॥ १२,१९.९२ ॥

समृद्धे ऽपि पुरे तत्र निर्जने ऽथ गृहं गृहम् ।
अनुप्रविश्य न यदा तां ददर्श प्रियां क्वचित् ॥ १२,१९.९३ ॥

तदा विचिन्वन् दृष्ट्वैकम् उत्तुङ्गं मणिमन्दिरम् ।
आरुह्य द्वारम् उद्घाट्य प्रविवेश स भूपतिः ॥ १२,१९.९४ ॥

प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितम् एककम् ।
वस्त्राच्छादितसर्वाङ्गं शयानं कंचिद् ऐक्षत ॥ १२,१९.९५ ॥

किं स्यात् सैवेति सोत्कण्ठम् उद्घाटयति तन्मुखम् ।
यावत् तावद् अपश्यत् तां स्वेप्सिताम् एव सो ऽङ्गनाम् ॥ १२,१९.९६ ॥

स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् ।
ज्योत्स्नावदातां पातालगताम् इव दिवा निशाम् ॥ १२,१९.९७ ॥

तद्दर्शनेन चास्याभूद् अवस्था कापि सा तदा ।
ग्रीष्मर्तौ मरुपान्थस्य सरित्संदर्शनेन या ॥ १२,१९.९८ ॥

साप्य् उन्मीलितचक्षुस् तं कल्याणाकृतिलक्षणम् ।
वीक्ष्याकस्मात् तथाप्राप्तं संभ्रमाच् छयनं जहौ ॥ १२,१९.९९ ॥

कृतातिथ्या नतमुखी पूजयन्तीव पादयोः ।
फुल्लेक्षणोत्पलन्यासैः शनैर् एतम् उवाच च ॥ १२,१९.१०० ॥

को भवान् किम् अगम्यं च प्रविष्ठो ऽसि रसातलम् ।
राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥ १२,१९.१०१ ॥

इत्य् आदिश महाभाग प्रसादो यदि ते मयि ।
एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥ १२,१९.१०२ ॥

अङ्गराजो यशःकेतुर् इति नाम्नास्मि सुन्दरि ।
आप्ताद् अन्वहदृश्यां च त्वाम् अश्रौषम् इहाम्बुधौ ॥ १२,१९.१०३ ॥

ततस् त्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च ।
आगत्यैष प्रविष्टो ऽहम् अनुमार्गेण ते ऽम्बुधिम् ॥ १२,१९.१०४ ॥

तन् मे कथय कासि त्वम् इत्य् उक्ते तेन चाथ सा ।
सलज्जा सानुरागा च सानन्दा चैवम् अभ्यधात् ॥ १२,१९.१०५ ॥

मृगाङ्कसेन इत्य् अस्ति श्रीमान् विद्याधराधिपः ।
मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुताम् इमाम् ॥ १२,१९.१०६ ॥

स माम् अस्मिन् स्वनगरे विमुच्यैकाकिनीं पिता ।
न जाने हेतुना केन गतः क्वापि सपौरकः ॥ १२,१९.१०७ ॥

तेनाहं शून्यवसतेर् निर्विण्णोन्मज्ज्य वारिधेः ।
यन्त्रकल्पद्रुमारूढा गायामि भवितव्यताम् ॥ १२,१९.१०८ ॥

एवम् उक्तवती तेन स्मरता तन् मुनेर् वचः ।
तथारज्यत सा राज्ञा वचोभिः प्रेमपेशलैः ॥ १२,१९.१०९ ॥

यथानुरागविवशा भार्यात्वं तस्य तत्क्षणम् ।
अङ्गीचकार वीरस्य समयं त्व् एकम् अभ्यधात् ॥ १२,१९.११० ॥

शुक्लकृष्णचतुर्दश्याम् अष्टम्यां चार्यपुत्र ते ।
प्रतिमासम् अनायत्ता चतुरो दिवसान् अहम् ॥ १२,१९.१११ ॥

यत्र क्वापि दिनेष्व् एषु गच्छन्ती चास्मि न त्वया ।
प्रष्टव्या न निषेद्धव्या कारणं ह्य् अत्र विद्यते ॥ १२,१९.११२ ॥

एवं ताम् उक्तसमयां स राजा दिव्यकन्यकाम् ।
तथेत्य् उक्त्वैव गान्धर्वविधिना परिणीतवान् ॥ १२,१९.११३ ॥

भेजे ततश् च संभोगसुखं तत्र तया सह ।
यथाभूद् अन्य एवास्या मान्मथो मण्डनक्रमः ॥ १२,१९.११४ ॥

केशेषु स्रस्तमाल्येषु कचग्रहनखावली ।
बिम्बाधरे ऽथ निष्पीतनीरागे दशनक्षतिः ॥ १२,१९.११५ ॥

कुचयोः करजश्रेणिर् भिन्नमाणिक्यमालयोः ।
लुप्ताङ्गरागेष्व् अङ्गेषु गाढालिङ्गनरागिता ॥ १२,१९.११६ ॥

इति तद्दिव्यसंभोगसुखावस्थितम् अत्र तम् ।
सा मृगाङ्कवती भार्या भूपं प्राहेदम् एकदा ॥ १२,१९.११७ ॥

त्वम् इहैव प्रतीक्षेथाः कार्यार्थं क्वापि याम्य् अहम् ।
अद्य सैषा हि संप्राप्ता मम कृष्णचतुर्दशी ॥ १२,१९.११८ ॥

इह स्थस् त्व् आर्यपुत्रामुं मा स्म गाः स्फाटिकं गृहम् ।
मात्र वाप्यां निपतितो भूलोकं त्वं गमिष्यसि ॥ १२,१९.११९ ॥

इत्य् उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुराद् बहिः ।
राजापि प्राप्तखड्गस् तां छन्नो जिज्ञासुर् अन्वगात् ॥ १२,१९.१२० ॥

तत्रापश्यत् तमःश्यामं व्यात्तवक्रबिलं च सः ।
साकारम् इव पातालम् आयान्तं राक्षसं नृपः ॥ १२,१९.१२१ ॥

स राक्षसो निपत्यैव मुक्तघोररवस् तदा ।
तां मृगाङ्कवतीं वक्त्रे निक्षिप्यैव निगीर्णवान् ॥ १२,१९.१२२ ॥

तद् दृष्ट्वैवातिकोपेन सहसा स ज्वलन्न् इव ।
निर्मोकमुक्तभुजगश्यामलेन महासिना ॥ १२,१९.१२३ ॥

कोषाकृष्टेन धावित्वा राजसिंहो ऽभिधावतः ।
चिच्छेद रक्षसस् तस्य संदष्टौष्ठपुटं शिरः ॥ १२,१९.१२४ ॥

रक्षःकबन्धवान्तेन राज्ञस् तस्यास्रवारिणा ।
क्रोधजो ऽथ शशामाग्निर् न तु कान्तावियोगजः ॥ १२,१९.१२५ ॥

ततो मोहनिशान्धे ऽस्मिन् विनष्टगतिके नृपे ।
अकस्मान् मेघमलिनस्याङ्गं भित्त्वेव रक्षसः ॥ १२,१९.१२६ ॥

तस्योद्द्योतितदिक्चक्रा चन्द्रमूर्तिर् इवामला ।
सा मृगाङ्कवती जीवन्त्य् अक्षताङ्गी विनिर्ययौ ॥ १२,१९.१२७ ॥

तां तथा संकटोत्तीर्णां दृष्ट्वा कान्तां ससंभ्रमम् ।
एह्य् एहीति वदन् राजा प्रधाव्यैवालिलिङ्ग सः ॥ १२,१९.१२८ ॥

प्रिये किम् एतत् स्वप्नो ऽयम् उत मायेति तेन सा ।
पृष्टा नृपेण संस्मृत्य विद्याधर्य् एवम् अब्रवीत् ॥ १२,१९.१२९ ॥

शृण्व् आर्यपुत्र न स्वप्नो न मायेयम् अयं पुनः ।
विध्याधरेन्द्रात् स्वपितुः शापो ऽभूद् ईदृशो मम ॥ १२,१९.१३० ॥

बहुपुत्रो ऽपि स हि मे पिता पूर्वं वसन्न् इह ।
मया विनातिवात्सल्यान् नाहारम् अकरोत् सदा ॥ १२,१९.१३१ ॥

अहं च सर्वदा शर्वपूजासक्तेह निर्जने ।
चतुर्दश्योर् अथाष्टम्योर् आगच्छं पक्षयोर् द्वयोः ॥ १२,१९.१३२ ॥

एकदा च चतुर्दश्याम् इहागत्य रसान् मम ।
चिरं गौरीं समर्चन्त्या दैवाद् अवसितं दिनम् ॥ १२,१९.१३३ ॥

तद् अहर् मत्प्रतीक्षः सन् क्षुधितो ऽपि स मत्पिता ।
नाभुङ्क्त नापिबत् किंचिद् आसीत् क्रुद्धस् तु मां प्रति ॥ १२,१९.१३४ ॥

ततो रात्राव् उपेतां मां सापराधाम् अधोमुखीम् ।
भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः ॥ १२,१९.१३५ ॥

यथा त्वदवलेपेन ग्रस्तो ऽद्याहम् अयं क्षुधा ।
मासि मासि तथाष्टम्योश् चतुर्दश्योश् च केवलम् ॥ १२,१९.१३६ ॥

हरार्चनरसाद् यन्तीम् अत्रैव त्वां बहिः पुरे ।
नाम्ना कृतान्तसंत्रासो राक्षसो निगरिष्यति ॥ १२,१९.१३७ ॥

भित्त्वा भित्त्वास्य हृदयं जीवन्ती च निरेष्यसि ।
न स्मरिष्यसि शापं च न तां निगरणव्यथाम् ॥ १२,१९.१३८ ॥

स्थास्यस्य् एकाकिनी चात्रेत्य् उक्तशापवचाः शनैः ।
सो ऽनुनीतो मया ध्यात्वा शापान्तं मे ऽब्रवीत् पिता ॥ १२,१९.१३९ ॥

भर्ता भूत्वा यशःकेतुनामाङ्गनृपतिर् यदा ।
राक्षसेन निगीर्णां त्वां दृष्ट्वा तं निहनिष्यति ॥ १२,१९.१४० ॥

तदा त्वं मोक्ष्यसे शापाद् धृदयात् तस्य निर्गता ।
संस्मरिष्यसि शापादि विद्याः सर्वास् तथा निजाः ॥ १२,१९.१४१ ॥

इत्य् आदिश्य स शापान्तं त्यक्त्वा माम् एककाम् इह ।
निषधाद्रिं गतस् तातो भूलोकं सपरिच्छदः ॥ १२,१९.१४२ ॥

अहं तथा चरन्ती च शापमोहाद् इहावसम् ।
क्षीणश् चैष स शापो मे जाता सर्वत्र च स्मृतिः ॥ १२,१९.१४३ ॥

तत् तातपार्श्वम् अधुना निषधाद्रिं व्रजाम्य् अहम् ।
शापान्ते स्वां गतिं याम इत्य् एष समयो हि नः ॥ १२,१९.१४४ ॥

त्वम् इहास्व स्वराष्ट्रं वा व्रज स्वातन्त्र्यम् अत्र ते ।
एवं तयोक्ते स नृपो दुःखितो ऽर्थयते स्म ताम् ॥ १२,१९.१४५ ॥

सप्ताहानि न गन्तव्यं प्रसीद सुमुखि त्वया ।
क्षिपाव तावद् औत्सुक्यम् उद्याने क्रीडनैर् इह ॥ १२,१९.१४६ ॥

त्वं गच्छाथ पितुः स्थानं यास्याम्य् अहम् अपि स्वकम् ।
एतत् तद्वचनं मुग्धा तथेत्य् अङ्गीचकार सा ॥ १२,१९.१४७ ॥

ततो ऽत्र रेमे स तया सहोद्यानेषु कान्तया ।
सजलोत्पलनेत्रासु वापीषु षडहं नृपः ॥ १२,१९.१४८ ॥

मा स्म यातं विहायास्मान् इति पूत् कुर्वतीष्व् इव ।
उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः ॥ १२,१९.१४९ ॥

सप्तमे ऽह्नि स युक्त्या तां प्रियां तत्रानयद् गृहे ।
भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका ॥ १२,१९.१५० ॥

तत्र कण्ठे गृहीत्वा तां तस्यां वाप्यां निपत्य सः ।
उत्तस्थौ स्वपुरोद्यानवापीमध्यात् तया सह ॥ १२,१९.१५१ ॥

तत्र कान्तासखं प्राप्तं तं दृष्ट्वोद्यानपालकाः ।
हृष्टास् तन् मन्त्रिणे गत्वा जगदुर् दीर्घदर्शिने ॥ १२,१९.१५२ ॥

सो ऽप्य् एत्य पादपतितस् तम् आनीतेप्सिताङ्गनम् ।
दृष्ट्वा प्रावेशयन् मन्त्री सपौरो ऽभ्यन्तरं नृपम् ॥ १२,१९.१५३ ॥

अहो सैषा कथं प्राप्ता राज्ञा दिव्याङ्गनामुना ।
व्योम्नीव विद्युद् इव या क्षणदृश्या मयेक्षिता ॥ १२,१९.१५४ ॥

यद् यस्य लिखितं धात्रा ललाटाक्षरपङ्क्तिषु ।
तद् अवश्यम् असंभाव्यम् अपि तस्योपतिष्ठते ॥ १२,१९.१५५ ॥

इत्य् अत्र मन्त्रिमुख्ये ऽस्मिन् ध्यायत्य् अन्यजने ऽपि च ।
दिव्यस्त्रीप्राप्तिसाश्चर्यं राजागमनसोत्सवे ॥ १२,१९.१५६ ॥

सा मृगाङ्कवती दृष्ट्वा तं स्वदेशगतं नृपम् ।
इयेष पूर्णसप्ताहा यातुं वैद्याधरीं गतिम् ॥ १२,१९.१५७ ॥

नाविरासीच् च विद्यास्याः स्मृताप्य् उत्पतनी तदा ।
ततः सा मुषितेवात्र विषादम् अगमत् परम् ॥ १२,१९.१५८ ॥

किम् अकस्माद् विषण्णेव दृश्यसे वद मे प्रिये ।
इत्य् उक्ता तेन राज्ञा सा विध्यादर्य् एवम् अब्रवीत् ॥ १२,१९.१५९ ॥

स्थिताहं शापमुक्तापि त्वत्स्नेहाद् यद् इयच् चिरम् ।
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः ॥ १२,१९.१६० ॥

तच् छ्रुत्वा हन्त सिद्धेयं मम विद्याधरीति सः ।
राजा ततो यशःकेतुः पूर्णं चक्रे महोत्सवम् ॥ १२,१९.१६१ ॥

तद् दृष्ट्वा दीर्घदर्शी स मन्त्री गत्वा गृहं निशि ।
शयनीयगतो ऽकस्माद् धृत्स्फोटेन व्यपद्यत ॥ १२,१९.१६२ ॥

ततो ऽनुभूय तच्छोकं धृतराज्यभरः स्वयम् ।
यशःकेतुश् चिरं तस्थौ स मृगाङ्कवतीयुतः ॥ १२,१९.१६३ ॥

इत्य् एतां कथयित्वा मार्गे तस्मै कथां स वेतालः ।
अवदत् पुनस् त्रिविक्रमसेनं नृपतिं तम् अंसगतः ॥ १२,१९.१६४ ॥

तद् ब्रूहि भूपते ते संपन्ने स्वामिनस् तथाभ्युदये ।
हृदयं सपदि स्फुटितं तस्य महामन्त्रिणः किम् इति ॥ १२,१९.१६५ ॥

दिव्यस्त्री न मया किं प्राप्तेति शुचास्फुटद् धृदयम् ।
किं वा राज्यम् अभीप्सोर् राजागमजेन दुःखेन ॥ १२,१९.१६६ ॥

एतच् च यदि न वक्ष्यसि मह्यं जानन्न् अपीह तद् राजन् ।
धर्मश् च तव विनङ्क्ष्यति यास्यति दलशश् च झटिति शिरः ॥ १२,१९.१६७ ॥

श्रुत्वेति तु त्रिविक्रमसेनो राजा जगाद वेतालम् ।
नैतत् तस्मिन् द्वयम् अपि शुभचरिते युज्यते हि मन्त्रिवरे ॥ १२,१९.१६८ ॥

किं तु स्त्रीमात्ररसाद् उपेक्षितं येन भूभुजा राज्यम् ।
तस्याधुना तु दिव्यस्त्रीरक्तस्यात्र का वार्ता ॥ १२,१९.१६९ ॥

तन् मे कष्टे ऽपि कृते प्रत्युत दोषो बताधिकीभूतः ।
इति तस्य विभावयतो हृदयं तन्मन्त्रिणः स्फुटितम् ॥ १२,१९.१७० ॥

इत्य् उक्ते नरपतिना पुनः स मायी वेतालो निजपदम् एव तज् जगाम ।
राजापि प्रसभम् अवाप्तुम् अन्वधावद् भूयो ऽपि द्रुतम् अथ तं स धीरचेताः ॥ १२,१९.१७१ ॥

विंशस् तरङ्गः ।

अथ गत्वा पुनः प्राप्य शिंशपातस् ततो नृपः ।
स त्रिविक्रमसेनस् तं स्कन्धे वेतालम् आददे ॥ १२,२०.१ ॥

आयान्तं च स वेतालो भूयस् तं नृपम् अब्रवीत् ।
राजञ् शृणु कथाम् एकां संक्षिप्तां वर्णयामि ते ॥ १२,२०.२ ॥

अस्ति वाराणसी नाम पुरी हरनिवासभूः ।
देवस्वामीति तत्रासीन् मान्यो नरपतेर् द्विजः ॥ १२,२०.३ ॥

महाधनस्य तस्यैको हरिस्वामीत्य् अभूत् सुतः ।
तस्य भार्या च लावण्यवतीत्य् अत्युत्तमाभवत् ॥ १२,२०.४ ॥

तिलोत्तमादिनाकस्त्रीनिर्माणे प्राप्तकौशलः ।
अनर्घरूपलावण्यां मन्ये यां निर्ममे विधिः ॥ १२,२०.५ ॥

तया स कान्तया साकं हरिस्वामी कदाचन ।
रतिश्रान्तो ययौ निद्रां हर्म्ये चन्द्रांशुशीतले ॥ १२,२०.६ ॥

तत् कालं तेन मार्गेण कामचारी विहायसा ।
आगान् मदनवेगाख्यो विद्याधरकुमारकः ॥ १२,२०.७ ॥

स तत्र लावण्यवतीं पत्युः पार्श्वे ददर्श ताम् ।
सुप्तां रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम् ॥ १२,२०.८ ॥

तद्रूपहृतचित्तः सन् मदनान्धः स तत् क्षणम् ।
सुप्ताम् एव निपत्यैतां गृहीत्वा नभसा ययौ ॥ १२,२०.९ ॥

क्षणात् प्रबुद्धो ऽथ युवा हरिस्वामी स तत्पतिः ।
प्राणेश्वरीम् अपश्यंस् ताम् उदतिष्ठत् ससंभ्रमः ॥ १२,२०.१० ॥

अहो किम् एतत् क्व गता कुपिता सा नु किं मयि ।
छन्ना जिज्ञासितुं किं मे चित्तं परिहसत्य् उत ॥ १२,२०.११ ॥

इत्य् अनेकविकल्पौघव्याकुलस् ताम् इतस् ततः ।
हर्म्यप्रासादवलभीष्व् अन्विष्यन् सो ऽभ्रमन् निशि ॥ १२,२०.१२ ॥

अगृहोद्यानतश् चिन्वन् यन् न प्राप कुतो ऽपि ताम् ।
तत् स शोकाग्निसंतप्तो विललापाश्रुगद्गदम् ॥ १२,२०.१३ ॥

हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरि हा प्रिये ।
रात्र्या तुल्यगुणद्वेषात् किं नु सोढासि नानया ॥ १२,२०.१४ ॥

त्वया कान्त्या जितो बिभ्यद् इव चन्दनशीतलैः ।
करैर् असुखयद् यो मां सो ऽयम् इन्दुस् त्वया विना ॥ १२,२०.१५ ॥

लब्धान्तर इवेदानीं तैर् एव तुदति प्रिये ।
प्रज्वलद्भिर् इवाङ्गारैर् विषदिग्धैर् इवाशुगैः ॥ १२,२०.१६ ॥

इत्य् आदि क्रन्दतस् तस्य सा हरिस्वामिनस् तदा ।
कृच्छ्राद् व्यतीयाय निशा न पुनर् विरहव्यथा ॥ १२,२०.१७ ॥

प्रातर् बिभेद विश्वस्य करैः संतमसं रविः ।
भेत्तुं न चक्षमे तस्य मोहान्धतमसं पुनः ॥ १२,२०.१८ ॥

विलब्ध इव चक्राह्वैस् तस्य तीर्णनिशैस् तदा ।
भेजे शतगुनीभावं करुणाक्रन्दितध्वनिः ॥ १२,२०.१९ ॥

स्वजनैः सान्त्व्यमानो ऽपि वियोगानलदीपितः ।
न च लेभे द्विजयुवा धृतिं तां प्रेयसीं विना ॥ १२,२०.२० ॥

इह स्थितम् इह स्नातं कृतम् अत्र प्रसाधनम् ।
विहृतं च तयात्रेति ययौ त्व् इत इतो रुदन् ॥ १२,२०.२१ ॥

मृता तावन् न सा तत् किम् आत्मैवं हन्यते त्वया ।
अवश्यं ताम् अवाप्तासि जीवञ् जातु कुतश्चन ॥ १२,२०.२२ ॥

तद् धैर्यम् अवलम्बस्व तां गवेषय च प्रियाम् ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः ॥ १२,२०.२३ ॥

इति बन्धुसुहृद्वाक्यैर् बोधितः सो ऽथ कृच्छ्रतः ।
दिनैः कैश्चिद् धरिस्वामी बबन्ध धृतिम् आस्थया ॥ १२,२०.२४ ॥

अचिन्तयच् च सर्वस्वं कृत्वा ब्राह्मणसाद् अहम् ।
भ्रमामि तावत् तीर्थानि क्षपयाम्य् अघसंचयम् ॥ १२,२०.२५ ॥

पापक्षयाद् धि तां जातु प्रियां भ्राम्यन्न् अवाप्नुयाम् ।
इत्य् आलोच्य यथावस्थं स्नानाद्य् उत्थाय सो ऽकरोत् ॥ १२,२०.२६ ॥

अन्येद्युश् च विचित्रान्नपानं सत्त्रे द्विजन्मनाम् ।
चकारावारितं किं च ददौ धनम् अशेषतः ॥ १२,२०.२७ ॥

ब्राह्मण्यमात्रवित्तस्य निर्गत्यैव स्वदेशतः ।
प्रियाप्राप्तीच्छया सो ऽथ तीर्थानि भ्रमितुं ययौ ॥ १२,२०.२८ ॥

भ्राम्यतश् च जगामास्य भीमो ग्रीष्मर्तुकेसरी ।
प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेसरः ॥ १२,२०.२९ ॥

प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः ।
न्यस्तोष्माण इवात्युष्णा वान्ति स्म च समीरणाः ॥ १२,२०.३० ॥

शुष्यद्विदीर्णपङ्काश् च हृदयैः स्फुटितैर् इव ।
जलाशया ददृशिरे घर्मलुप्ताम्बुसंपदः ॥ १२,२०.३१ ॥

चीरीचीत्कारमुखरास् तापम्लानदलाधराः ।
मधुश्रीविरहान् मार्गेष्व् अरुदन्न् इव पादपाः ॥ १२,२०.३२ ॥

तस्मिन् काले ऽर्कतापेन वियोगेन क्षुधा तृषा ।
नित्याध्वना च स क्लान्तो विरूक्षक्षामधूसरः ॥ १२,२०.३३ ॥

भोजनार्थि हरिस्वामी प्राप ग्रामं क्वचिद् भ्रमन् ।
पद्मनाभाभिधानस्य गृहं विप्रस्य सत्त्रिणः ॥ १२,२०.३४ ॥

तत्र दृष्ट्वा स भुञ्जानान् विप्रान् अभ्यन्तरे बहून् ।
द्वारशाखां समालम्ब्य तस्थौ निःशब्दनिश्चलः ॥ १२,२०.३५ ॥

तथास्थितं तम् आलोक्य सत्त्रिणस् तस्य गेहिनी ।
पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत् ॥ १२,२०.३६ ॥

अहो क्षुन् नाम गुर्व्य् एषा न कुर्यात् कस्य लाघवम् ।
यद् एवम् अयम् अन्नार्थी को ऽप्य् आस्ते द्वार्य् अधोमुखः ॥ १२,२०.३७ ॥

दूराध्वाभ्यागतः स्नातस् तावत् क्षीणेन्द्रियः क्षुधा ।
तद् एषश् चान्नदानस्य पात्रम् इत्य् अवधार्य सा ॥ १२,२०.३८ ॥

परमान्नभृतं साध्वी तस्मै सघृतशर्करम् ।
पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ ॥ १२,२०.३९ ॥

जगाद चैतं भुङ्क्ष्वैतद् गत्वा वापीतटे क्वचित् ।
इदं स्थानं समुच्छिष्टं भुञ्जानैर् ब्राह्मनैर् वृतम् ॥ १२,२०.४० ॥

तथेति सो ऽन्नपात्रं तद् गृहीत्वा नातिदूरतः ।
गत्वा स्थापितवान् वाप्यास् तटे वटतरोर् अधः ॥ १२,२०.४१ ॥

प्रक्षाल्य पाणिपादं च वाप्याम् आचम्य चात्र सः ।
यावद् भक्षयितुं तुष्टः परमान्नम् उपैति तत् ॥ १२,२०.४२ ॥

तावद् गृहीत्वा कृष्णाहिं चञ्च्वा पादयुगेन च ।
श्येनः कुतश्चिद् आगत्य तरौ तस्मिन्न् उपाविशत् ॥ १२,२०.४३ ॥

तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा ।
उत्क्रान्तजीवितस्यास्याद् विषलाला विनिर्ययौ ॥ १२,२०.४४ ॥

सा तत्राधःस्थिते तस्मिन्न् अन्नपात्रे ऽपतत् तदा ।
तच् चादृष्ट्वा हरिस्वामी स एत्यान्नम् अभुङ्क्त तत् ॥ १२,२०.४५ ॥

क्षुधार्तस्य तदा तस्य मृष्टान्नं तत् क्षणेन तत् ।
कृत्स्नं भुक्तवतस् तीव्रा प्रोदभूद् विषवेदना ॥ १२,२०.४६ ॥

अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ।
यद् विषीभूतम् अन्नं मे सक्षीरघृटशर्करम् ॥ १२,२०.४७ ॥

इति जल्पन् विषार्तः स हरिस्वामी परिस्खलन् ।
गत्वा तां सत्त्रिणस् तस्य विप्रस्योवाच गेहिनीम् ॥ १२,२०.४८ ॥

त्वद्दत्ताद् विषम् अन्नान् मे जातं तद् विषमन्त्रिणम् ।
कंचिन् ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ १२,२०.४९ ॥

इत्य् उक्त्वैव स तां साध्वीं किम् एतद् इति विह्वलाम् ।
हरिस्वामी परावृत्तनेत्रः प्राणैर् व्ययुज्यत ॥ १२,२०.५० ॥

ततः सा तेन निर्दोषाप्य् आतिथेय्य् अपि सत्त्रिणा ।
भार्या निष्कासिता गेहान् मिथ्यातिथिवधक्रुधा ॥ १२,२०.५१ ॥

साप्य् उत्पन्नमृषावद्या सुशुभाद् अपि कर्मणः ।
जातावमाना तपसे साध्वी तीर्थम् अशिश्रियत् ॥ १२,२०.५२ ॥

कस्य विप्रवधः सो ऽस्तु सर्पश्येनान्नदेश्व् इति ।
तद् अभूद् धर्मराजाग्रे वादो नासीत् तु निर्णयः ॥ १२,२०.५३ ॥

तत् त्रिविक्रमसेन त्वं रजन् ब्रूहि ममाधुना ।
कस्य सा ब्रह्महत्येति पूर्वः शापः स ते ऽन्यथा ॥ १२,२०.५४ ॥

इति वेतालतो राजा श्रुत्वा शापनियन्त्रितः ।
स त्रिविक्रमसेनस् तं मुक्तमौनो ऽब्रवीद् इदम् ॥ १२,२०.५५ ॥

तस्य तत् पातकं तावत् सर्पस्य यदि वास्य कः ।
विवशस्यापराधो ऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ १२,२०.५६ ॥

अथ स्येनस्य तेनापि किं दुष्टं क्षुधितात्मना ।
अकस्मात् प्राप्तम् आनीय भक्ष्यं भक्षयता निजम् ॥ १२,२०.५७ ॥

दंपत्योर् अन्नदात्रोर् वा तयोर् एकस्य वा कुतः ।
अभाव्यदोषौ धर्मैकप्रवृत्तौ ताव् उभौ यतः ॥ १२,२०.५८ ॥

तद् अहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः ।
अविचार्यैव यो ब्रूयाद् एषाम् एकतमस्य ताम् ॥ १२,२०.५९ ॥

इत्य् उक्तवतो ऽस्य नृपस्यांसाद् भूयो ऽप्य् अगात् स वेतालः ।
निजपदम् एव नृपो ऽपि स पुनर् अपि धीरस् तम् अन्वगाद् एव ॥ १२,२०.६० ॥


एकविंशस् तरङ्गः ।

स त्रिविक्रमसेनो ऽथ गत्वा तं शिंशपातरोः ।
भूयो ऽप्य् आसाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ १२,२१.१ ॥

प्रस्थितं च तम् उर्वीशं स वेतालो ऽभ्यधात् पुनः ।
राजञ् श्रान्तो ऽसि तच् चित्रां कथाम् आख्यामि ते शृणु ॥ १२,२१.२ ॥

अस्त्य् अयोध्येति नगरी राजधानी बभूव या ।
रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः ॥ १२,२१.३ ॥

तस्यां राजाभवद् वीरकेतुर् नाम ररक्ष यः ।
क्षोणीम् इमां महाबाहुः प्राकारो नगरीम् इव ॥ १२,२१.४ ॥

तस्मिन् महीपताव् अस्यां पुर्याम् एको महावणिक् ।
रत्नदत्ताभिधानो ऽभूद् वणिङ्नीवहनायकः ॥ १२,२१.५ ॥

नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत ।
सुता रत्नवती नाम देवताराधनार्जिता ॥ १२,२१.६ ॥

सा च तस्य पितुर् वेश्मन्य् अवर्धत मनस्विनी ।
रूपलावण्यविनयैः सहैव सहजैर् गुणैः ॥ १२,२१.७ ॥

यौवनस्थां च तां तस्माद् रत्नदत्तान् न केवलम् ।
महान्तो वणिजो यावद् राजानो ऽपि ययाचिरे ॥ १२,२१.८ ॥

सा तु पुंद्वेषिणी नैच्छद् भर्तारम् अपि वासवम् ।
प्राणत्यागोद्यता सेहे न विवाहकथाम् अपि ॥ १२,२१.९ ॥

तेन तस्याः पिता तूष्णीं तस्थौ वात्सल्यदुःस्थितः ।
स च प्रवादो ऽयोद्यायां तस्यां सर्वत्र पप्रथे ॥ १२,२१.१० ॥

अत्रान्तरे सदा चौरैर् मुष्यमाणाः किलाखिलाः ।
संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥ १२,२१.११ ॥

नित्यं मुष्यामहे चौरै रात्रौ रात्राव् इह प्रभो ।
लक्ष्यन्ते ते च नास्माभिस् तद् देवो वेत्तु यत् परम् ॥ १२,२१.१२ ॥

इति पौरैः स विज्ञप्तो राजा ताम् अभितः पुरीम् ।
तस्करान्वेषणे छन्नान् आदिशद् रत्रिरक्षकान् ॥ १२,२१.१३ ॥

ते ऽपि प्रापुर् न यच् चौरान् पुरी सामुष्यतैव च ।
तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ १२,२१.१४ ॥

एकाकी चात्तशस्त्रो ऽत्र भ्रमन् सो ऽपश्यद् एकतः ।
एकं प्राकारपृष्टेन यान्तं कम् अपि पूरुषम् ॥ १२,२१.१५ ॥

निःशब्दपदविन्यासविचित्रगतिकौशलम् ।
सशङ्कलोलनयनं पश्यन्तं पृष्टतो मुहुः ॥ १२,२१.१६ ॥

अयं स नूनं चौरो मे मुष्णात्य् एकचरः पुरीम् ।
इति मत्वैव निकटं स तस्योपययौ नृपः ॥ १२,२१.१७ ॥

ततः स चौरो दृष्ट्वा तं नृपं को ऽसीत्य् अभाषत ।
चौरो ऽहम् इति राजा तं चौरं प्रत्यब्रवीत् स तम् ॥ १२,२१.१८ ॥

सो ऽथ चौरो ऽभ्यधाद् दृष्ट्वा तर्हि तुल्यो ऽसि मे सुहृत् ।
तद् एहि मद्गृहं तावन् मित्राचारं करोमि ते ॥ १२,२१.१९ ॥

तच् छ्रुत्वा स तथेत्य् उक्त्वा तेनैव सह भूपतिः ।
ययौ वनान्तर्धरणीखातान्तर्वर्ति तद्गृहम् ॥ १२,२१.२० ॥

अशेषभोगभोगाढ्यं भास्वद्दीपप्रकाशितम् ।
नवीनम् इव पातालं बलिराजानधिष्ठितम् ॥ १२,२१.२१ ॥

तत्र प्रविष्टे तस्मिंश् च कृतासनपरिग्रहे ।
राज्ञि सो ऽभ्यन्तरगृहं प्रविवेशाथ तस्करः ॥ १२,२१.२२ ॥

तत् क्षणं च तम् एत्यैका दासी तत्रावदन् नृपम् ।
महाभाग प्रविष्टस् त्वम् इह मृत्युमुखे कथम् ॥ १२,२१.२३ ॥

एकचौरो ह्य् असौ पापं निर्गत्यातः करिष्यति ।
ध्रुवं विस्वासघातीति तद् इतस् त्वरितं व्रज ॥ १२,२१.२४ ॥

इत्य् उक्तः स तया राजा निर्गत्यैव ततो द्रुतम् ।
गत्वा स्वराजधानीं च निशि सैन्यान्य् असज्जयत् ॥ १२,२१.२५ ॥

संनद्धसैन्यश् चागत्य दस्योस् तस्य रुरोध तत् ।
भूगृहद्वारविवरं रसत्तूर्याकुलैर् बलैः ॥ १२,२१.२६ ॥

ततो रुद्धे गृहे वृत्तं प्रतिभेदम् अवेत्य सः ।
मरणे निश्चितश् चौरः शूरो युद्धाय निर्ययौ ॥ १२,२१.२७ ॥

निर्गतश् च रणे चक्रे पराक्रमम् अमानुषम् ।
करांश् चकर्त करिणां जङ्घाश् चिच्छेद वाजिनाम् ॥ १२,२१.२८ ॥

जहार च शिरांस्य् एको भटानां खड्गचर्मभृत् ।
ततस् तं क्षपितानीकम् अभ्यधावत् स्वयं नृपः ॥ १२,२१.२९ ॥

स तस्य खड्गविद्याज्ञो राजा करणयुक्तितः ।
हस्ताज् जहार निस्त्रिंशम् अथ तां क्षुरिकाम् अपि ॥ १२,२१.३० ॥

अशस्त्रं मुक्तशस्त्रो ऽथ बाहुयुद्धेन तं नृपः ।
चौरं निहत्य धरणौ सजीवग्राहम् अग्रहीत् ॥ १२,२१.३१ ॥

निनाय तं च संयम्य सधनं नगरीं निजाम् ।
प्रातश् चाज्ञापयत् तस्य शूलारोपणनिग्रहम् ॥ १२,२१.३२ ॥

नीयमानं च तं वध्यभूमिं चौरं सडिण्डिमम् ।
ददर्श सा रत्नवती वणिक्कन्यात्र हर्म्यतः ॥ १२,२१.३३ ॥

व्रणितं धूलिलिप्ताङ्गम् अप्य् एतं मारमोहिता ।
दृष्ट्वैव गत्वा पितरं रत्नदत्तम् उवाच सा ॥ १२,२१.३४ ॥

वधाय नीयते यो ऽयम् एष भर्ता वृतो मया ।
तन् नृपाद् रक्ष तातैनं न चेद् एनम् अनु म्रिये ॥ १२,२१.३५ ॥

तच् छ्रुत्वा तां पितावादीत् किम् इदं पुत्रि भाषसे ।
या त्वं नेच्छसि भूपालाम् अपि भर्तॄन् अभीप्सतः ॥ १२,२१.३६ ॥

सा पापं तस्करम् इमं वाञ्छस्य् आपद्गतं कथम् ।
इत्य् आदि पित्रा प्रोक्तापि निश्चयान् न चचाल सा ॥ १२,२१.३७ ॥

ततः स तत्पिता गत्वा तस्य चौरस्य सत्वरम् ।
सर्वस्वेनापि राजानं वधान् मोक्षम् अयाचत ॥ १२,२१.३८ ॥

राजा तु तं न तत्याज हेमकोटिशतैर् अपि ।
स्वशरीरपणानीतं चौरं सर्वापहारिणम् ॥ १२,२१.३९ ॥

ततः पितर्य् उपायाते विमुखे सा वणिक्सुता ।
अनुमर्तुं कृतस्नाना वार्यमाणापि बन्धुभिः ॥ १२,२१.४० ॥

आरुह्य शिबिकां तस्य दस्योर् वध्यभुवं ययौ ।
अन्वीयमाना रुदता पित्रा मात्रा जनेन च ॥ १२,२१.४१ ॥

तावच् च वधकैः सो ऽत्र चौरः शूले ऽधिरोपितः ।
तां ददर्श गलत्प्राणस् तथा सज्ञातिम् आगताम् ॥ १२,२१.४२ ॥

जनाच् छ्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणं ततः ।
हसन् स चौरः किम् अपि प्राणाञ् शूलगतो जहौ ॥ १२,२१.४३ ॥

ततो ऽवतारितं शूलात् सा तच्चौरकलेवरम् ।
आदाय चारुरोहात्र चितां साध्वी वणिक्सुता ॥ १२,२१.४४ ॥

तत् क्षणं च श्मशाने ऽत्र भैरवः कृतसंनिधिः ।
अदृश्यो भगवान् एवं ताम् उवाचान्तरिक्षतः ॥ १२,२१.४५ ॥

अस्मिन् स्वयंवरपताव् एवं भक्त्या तवानया ।
तुष्टो ऽस्मि तद् वरं मत्तः प्रार्थयस्व पतिव्रते ॥ १२,२१.४६ ॥

तच् छ्रुत्वैव वरं देवाद् एवं वव्रे प्रणम्य सा ।
नाथ पुत्रशतं भूयाद् अपुत्रस्यापि मत्पितुः ॥ १२,२१.४७ ॥

येनानन्यसुतो नैषः प्राणाञ् जह्यान् मया विना ।
इति प्रोक्तवतीम् एनां साध्वीं देवो ऽब्रवीत् पुनः ॥ १२,२१.४८ ॥

पितुः पुत्रशतं ते ऽस्तु वरम् अन्यं वृणीष्व च ।
त्वादृशी दृढसत्त्वा हि नैतावन्मात्रम् अर्हति ॥ १२,२१.४९ ॥

तद् आकर्ण्याथ सावादीत् प्रसन्नो मयि चेत् प्रभुः ।
तज् जीवत्व् एष भर्ता मे धार्मिकश् च सदास्त्व् इति ॥ १२,२१.५० ॥

एवम् अस्त्व् अक्षतो जीवन्न् उत्तिष्ठत्व् एष ते पतिः ।
धार्मिकश् चास्तु राजास्य वीरकेतुश् च तुष्यतु ॥ १२,२१.५१ ॥

इत्य् उक्तवत्य् अनालक्ष्यमूर्तौ शर्वे नभःस्थिते ।
उत्तस्थाव् अक्षताङ्गो ऽत्र चौरो जीवंस् तदैव सः ॥ १२,२१.५२ ॥

ततो विस्मितहृष्टः सन् रत्नदत्तः सुतां वणिक् ।
आदाय तां रत्नवतीं चौरं जामातरं च तम् ॥ १२,२१.५३ ॥

प्रहृष्टैर् बान्धवैः साकं प्रविश्य निजमन्दिरम् ।
लब्धपुत्रवरश् चक्रे स्वानन्दोचितम् उत्सवम् ॥ १२,२१.५४ ॥

ज्ञातवृत्तान्ततुष्टश् च तदैवानाय्य तं नृपः ।
एकवीरं वीरकेतुश् चौरं सेनापतिं व्यधात् ॥ १२,२१.५५ ॥

चौर्यान् निवृत्तो ऽथ स तां परिणीय वणिक्सुताम् ।
एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥ १२,२१.५६ ॥

इति कथयित्वा स कथां वेतालो दत्तपूर्वशापभयम् ।
अंसस्थितस् त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥ १२,२१.५७ ॥

राजन् ब्रूहि सपितृकाम् उपस्थितां तां वणिक्सुतां दृष्ट्वा ।
चौरेण शूलपृष्टे रुदितं हसितं च किं तेन ॥ १२,२१.५८ ॥

अथ राजा प्रत्यवदद् रुदितं चौरेण दुःखतस् तेन ।
नास्यानृण्यम् अकारणबन्धोर् यातो ऽस्मि वणिज इति ॥ १२,२१.५९ ॥

आश्चर्यतश् च हसितं किम् इयं कन्या नृपान् वरान् हित्वा ।
मय्य् अस्मिन्न् अनुरक्ता स्त्रीचित्तम् अहो विचित्रम् इति ॥ १२,२१.६० ॥

इत्य् उक्तवाक्यस्य महीभृतो ऽंसान्
मायी स्वशक्त्यैव तदा जगाम ।
स्वं धाम वेतालवरः स राजाप्य्
एतं पुनः पूर्ववद् अन्वगच्छत् ॥ १२,२१.६१ ॥

द्वाविंशस् तरङ्गः ।

ततो गत्वा पुनः प्राप्य वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तम् आदायोदचलत् पुनः ॥ १२,२२.१ ॥

आयान्तं तं च राजानं स वेतालो ऽंसपृष्ठगः ।
जगाद भूयो ऽप्य् एतां ते राजन् वच्मि कथां शृणु ॥ १२,२२.२ ॥

अभून् नेपालविषये नाम्ना शिवपुरं पुरम् ।
यथार्थनामा तत्रासीद् यशःकेतुः पुरा नृपः ॥ १२,२२.३ ॥

स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके ।
चन्द्रप्रभाख्यया देव्या सार्धं भोगान् असेवत ॥ १२,२२.४ ॥

कालेन तस्यां देव्यां च तस्याजायत कन्यका ।
राज्ञः शशिप्रभा नाम जगन्नेत्रशशिप्रभा ॥ १२,२२.५ ॥

क्रमेण यौवनस्था सा मधुमासे कदाचन ।
ययौ यात्रोत्सवं द्रष्टुम् उद्यानं सपरिच्छदा ॥ १२,२२.६ ॥

तत्रैकदेशे ऽपश्यत् तां कुसुमावचयोद्यताम् ।
उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥ १२,२२.७ ॥

प्रसूनवृन्तविगलत्संदंशकरशोभिनीम् ।
आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः ॥ १२,२२.८ ॥

स तया दृष्टया सद्यो हृतस्य मनसो युवा ।
मनःस्वाम्य् अपि नैवाभूत् स्वामी मदनमोहितः ॥ १२,२२.९ ॥

मार्गणानां कृते किं स्विद् रतिर् एषा मनोभुवः ।
वसन्तसंभृतानीह पुष्पाण्य् उच्चिनुते स्वयम् ॥ १२,२२.१० ॥

किं वार्चयितुकामेयं माधवं वनदेवता ।
इति संचिन्तयन्तं तं साप्य् अपश्यन् नृपात्मजा ॥ १२,२२.११ ॥

दृष्टमात्रे च सा तस्मिन् साङ्गे नव इव स्मरे ।
न पुष्पाणि न चाङ्गानि सोत्का नात्मानम् अस्मरत् ॥ १२,२२.१२ ॥

इत्य् अन्योननवप्रेमसरसौ यावद् अत्र तौ ।
तिष्ठतस् तावद् उदभूद् धाहाहेति महारवः ॥ १२,२२.१३ ॥

किम् एतद् इति चोत्क्षिप्तकंधरं पश्यतोस् तयोः ।
आयाद् अत्रोपलब्धान्यगजगन्धोत्थया रुषा ॥ १२,२२.१४ ॥

भग्नालानो विनिर्गत्य मत्तो मार्गद्रुमान् रुजन् ।
पतिताधोरनो धावंल् लम्बमानाङ्कुशः करी ॥ १२,२२.१५ ॥

ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् ।
राजपुत्रीं प्रधाव्यैव दोर्भ्याम् उत्क्षिप्य चैककाम् ॥ १२,२२.१६ ॥

अङ्गैः किंचित् कृताश्लेषां भयप्रेमत्रपाकुलाम् ।
निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ १२,२२.१७ ॥

अथागतैः परिजनैः स्तुवद्भिस् तं द्विजोत्तमम् ।
मुहुर् विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ १२,२२.१८ ॥

तत्र तस्थौ तम् एवार्ता स्मरन्ती प्राणदायिनम् ।
स्मराग्निपुटपाकेन पच्यमाना दिवानिशम् ॥ १२,२२.१९ ॥

सो ऽप्य् उद्यानान् मनःस्वामी तदा तस्माद् अनुव्रजन् ।
स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोत्को व्यचिन्तयत् ॥ १२,२२.२० ॥

नैतां विनाधुना स्थातुं जीवितुं वाहम् उत्सहे ।
तन् मे श्रीमूलदेवो ऽत्र धूर्थः सिद्धो गुरुर् गतिः ॥ १२,२२.२१ ॥

इति संचिन्त्य कथम् अप्य् अस्मिन्न् अवसिते दिने ।
प्रतो ययौ गुरोस् तस्य मूलदेवस्य सो ऽन्तिकम् ॥ १२,२२.२२ ॥

ददर्श तं च मित्रेण शशिना नित्य संगतम् ।
सिद्धमायाद्भुतपथं सशरीरम् इवाम्बरम् ॥ १२,२२.२३ ॥

न्यवेदयच् च तत् तस्मै प्रणम्य स्वमनीषितम् ।
सो ऽपि साधयितुं तस्य प्रतिपेदे विहस्य तत् ॥ १२,२२.२४ ॥

ततः स योगगुलिकां क्षिप्त्वा धूर्तपतिर् मुखे ।
मूलदेवो व्यधाद् वृद्धब्राह्मणाकृतिम् आत्मनः ॥ १२,२२.२५ ॥

द्वितीयां गुलिकां दत्त्वा मुखक्षेप्यां चकार च ।
सुकान्तकन्यकारूपं तं मनःस्वामिनं द्विजम् ॥ १२,२२.२६ ॥

तद्रूपं तं समादाय गत्वा धूर्ताधिपो ऽथ सः ।
तत्प्रियाजनकं भूपम् आस्थाने तं व्यजिज्ञपत् ॥ १२,२२.२७ ॥

राजन्न् एको ऽस्ति मे पुत्रः कन्या दूराच् च तत्कृते ।
मयैषा याचितानीता स च क्वापि गतो ऽधुना ॥ १२,२२.२८ ॥

तम् अन्वेष्टुम् अहं यामि तद् एषा रक्ष्यतां त्वया ।
आनयामि सुतं यावत् त्वं हि विश्वस्य रक्षिता ॥ १२,२२.२९ ॥

तच् छ्रुत्वा शापभीत्या च प्रतिपद्य स भूपतिः ।
सुताम् आनाययामास यशःकेतुः शशिप्रभाम् ॥ १२,२२.३० ॥

जगाद चैतां पुत्रीमां कन्यां रक्षेः स्वमन्दिरे ।
स्वपार्श्व एव चाहारं शय्यां चास्याः प्रकल्पयेः ॥ १२,२२.३१ ॥

इति पित्रोक्तया निन्ये कन्यारूपस् तथेति सः ।
अन्तःपुरं मनःस्वामी राजपुत्र्या तया निजम् ॥ १२,२२.३२ ॥

यथारुचि ततो याते मुलदेवे द्विजाकृतौ ।
कन्यारूपः स तत्रासीन् मनःस्वामी प्रियान्तिके ॥ १२,२२.३३ ॥

दिनैश् च तां सखीप्रीतिविस्रम्भं सम्यगागताम् ।
एकदा विरहक्षामां शयनीयलुठत्तनुम् ॥ १२,२२.३४ ॥

रात्रौ रहो राजसुताम् आसन्नशयनस्थितः ।
कन्यारूपप्रतिच्छन्नो मनःस्वामी स पृष्टवान् ॥ १२,२२.३५ ॥

सखि किं पाण्डुरच्छाया क्षीयमाणा दिने दिने ।
कान्तपक्षवियुक्तेव दुःखितासि शशिप्रभे ॥ १२,२२.३६ ॥

ब्रूहि मे को ह्य् अविश्वासः स्निग्धमुग्धे सखीजने ।
इदानीं नैव भोक्ष्ये ऽहं न वदिष्यसि चेन् मम ॥ १२,२२.३७ ॥

तच् छ्रुत्वा सा विनिःश्वस्य शनै राजसुताब्रवीत् ।
किं मे त्वय्य् अप्य् अविश्वासः शृणु तत् सखि वच्मि ते ॥ १२,२२.३८ ॥

एकदाहं मधूद्यानयात्रां द्रष्टुं गताभवम् ।
तत्रापश्यं च सुभगं कंचिद् ब्राह्मणपुत्रकम् ॥ १२,२२.३९ ॥

हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरम् ।
मधुमासम् इवालोकक्रीडालंकृतकाननम् ॥ १२,२२.४० ॥

चकोरायितुम् एते च प्रवृत्ते यावद् उन्मुखे ।
तन्मुखेन्दुद्युतिसुधापायिनी मे विलोचने ॥ १२,२२.४१ ॥

तावत् स्रवन्मदजलस् तत्राकस्मान् निरर्गलः ।
अकालकालमेघाभो गर्जन्न् आगान् महागजः ॥ १२,२२.४२ ॥

तत्संभ्रमात् परिजने नष्टे ऽहं भयविह्वला ।
उत्क्षिप्य विप्रपुत्रेण नीता तेनैव दूरतः ॥ १२,२२.४३ ॥

श्रीखण्डेनानुलिप्तेव सिक्तेव सुधया तथा ।
अहं तदङ्गस्पर्शेन न जाने कां दशाम् अगाम् ॥ १२,२२.४४ ॥

क्षनाच् च परिवारेण मिलितेनावशा ततः ।
इहानीतास्मि निक्षिप्ता स्वर्गाद् इव भुवस् तले ॥ १२,२२.४५ ॥

तदाप्रभृति संकल्पैस् तैस् तैः कल्पितसंगमम् ।
पश्यामि तं प्रबुद्धापि पार्श्वस्थं प्राणदं पतिम् ॥ १२,२२.४६ ॥

सुप्ता स्वप्ने च कुर्वाणं चाटून्य् आलोकयामि तम् ।
त्याजयन्तं हठाल् लज्जां चुम्बनालिङ्गनाधिभिः ॥ १२,२२.४७ ॥

न च प्राप्नोम्य् अभव्या तन्नामाद्यज्ञानमोहिता ।
तद् एवं मां दहत्य् एष प्राणेशविरहानलः ॥ १२,२२.४८ ॥

इति वाक्सुधया तस्याः पूर्णस्वश्रवणोदरः ।
सानन्दः स मनःस्वामी विप्रकन्यावपुर्धरः ॥ १२,२२.४९ ॥

कृतार्थमानी मत्वा तं कालम् आत्मप्रकाशने ।
स्वरूपं प्रकटीचक्रे निष्कृष्य गुलिकां मुखात् ॥ १२,२२.५० ॥

जगाद च विलोलाक्षि सो ऽहम् एवैष यस् त्वया ।
उद्याने दर्शनक्रीतो नीतो निर्व्याजदासताम् ॥ १२,२२.५१ ॥

त्वत् संस्तवक्षणभ्रंशात् क्लेशं तं चाप्तवान् अहम् ।
यस्यैषः परिणामो मे कन्यारूपग्रहो ऽभवत् ॥ १२,२२.५२ ॥

तस्मात् सफलयैतां मे विसोढां विरहव्यथाम् ।
आत्मनश् च न तन्वङ्गि क्षमते ऽतः परं स्मरः ॥ १२,२२.५३ ॥

एवं वदन्तं सहसा प्राणेशं तं विलोक्य सा ।
आसीद् राजसुता क्षिप्रं स्नेहाश्चर्यत्रपाकुला ॥ १२,२२.५४ ॥

अथात्यौत्सुक्यनिर्वृत्तगान्धर्वोद्वाहयोस् तयोः ।
प्रेम्णस् तस्य मतो यादृक् तादृशो ऽभूद् रतोत्सवः ॥ १२,२२.५५ ॥

ततः सो ऽत्र मनःस्वामी कृती तस्थौ द्विरूपभृत् ।
दिवा सगुलिकाः कन्या रात्राव् अगुलिकाः पुमान् ॥ १२,२२.५६ ॥

गतेष्व् अथ दिनेष्व् अत्र यशःकेतोर् महीपतेः ।
मृगाङ्कदत्तसंज्ञेन स्वशुर्येण निजा सुता ॥ १२,२२.५७ ॥

दत्ता मृगाङ्कवत्याख्या महार्हविभवोत्तरा ।
द्विजातये महामन्त्रिप्रज्ञासागरसूनवे ॥ १२,२२.५८ ॥

तस्मिन् मातुलपुत्र्याः सा राजपुत्री शशिप्रभा ।
विवाहे मातुलगृहं तज् जगाम निमन्त्रिता ॥ १२,२२.५९ ॥

तया सह ययौ सो ऽपि कन्यकापरिवारया ।
विप्रपुत्रो मनःस्वामी कान्तकन्यास्वरूपधृत् ॥ १२,२२.६० ॥

तत्र तं कन्यकारूपधरं मन्त्रिसुतो ऽथ सः ।
दृष्ट्वा किल स्मरव्याधगाढबाणाहतो ऽभवत् ॥ १२,२२.६१ ॥

ततो मुषितचित्तः संस् तया कपटकन्यया ।
ययौ मन्त्रिसुतः शून्यं स्वगृहं स्ववधूसखः ॥ १२,२२.६२ ॥

तत्र तन्मुखलावन्यध्यानासक्तो जगाम सः ।
तीव्ररागमहाव्यालदष्टो मोहम् अशङ्कितम् ॥ १२,२२.६३ ॥

किम् एतद् इति संभ्रान्ते जने तत्रोत्सवोज्झिते ।
तम् उपागाद् द्रुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥ १२,२२.६४ ॥

तेन चाश्वास्यमानो ऽपि पित्रा मोहात् प्रबुध्य सः ।
प्रलपन्न् इव सोन्मादम् उज्जगार मनोगतम् ॥ १२,२२.६५ ॥

अस्वाधीनं च तं मत्वा तत् पितर्य् अतिविह्वले ।
तस्मिन् राजापि तद् बुद्ध्वा तत्रैव समुपाययौ ॥ १२,२२.६६ ॥

स तं दृष्ट्वा झटित्य् एव गाढाभिष्वङ्गतो गतम् ।
सप्तमीं मदनावस्थां जगाद प्रकृतीर् नृपः ॥ १२,२२.६७ ॥

कथं ब्राह्मणनिक्षेपः कन्या सास्मै प्रदीयते ।
तया विना च नियतं पश्चिमाम् एत्य् असौ दशाम् ॥ १२,२२.६८ ॥

अस्मिन् नष्टे पितास्यैषो मम मन्त्री विनङ्क्ष्यति ।
एतन्नाशे राज्यनाशस् तद् इह ब्रूत का गतिः ॥ १२,२२.६९ ॥

इत्य् उक्तास् तेन राज्ञा ताः सर्वाः प्रकृतयो ऽब्रुवन् ।
राज्ञो धर्मं निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ १२,२२.७० ॥

मूलं तस्य विदुर् मन्त्रं स च मन्त्रिष्व् अवस्थितः ।
मन्त्रिनाशे मूलनाशाद् रक्ष्या धर्मक्षतिर् ध्रुवम् ॥ १२,२२.७१ ॥

पापं च स्याद् द्विजस्यास्य ससूनोर् मन्त्रिणो वधात् ।
तस्माद् रक्ष्यो ऽयम् आसन्नो ऽवश्यं ते धर्मविप्लवः ॥ १२,२२.७२ ॥

दातव्या मन्त्रिपुत्राय विप्रन्यस्ता कुमारिका ।
कालान्तरागते विप्रे क्रुद्धे प्रतिविधास्यते ॥ १२,२२.७३ ॥

एवम् उक्तः प्रकृतिभिस् तथेति प्रत्यपद्यत ।
स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकाम् ॥ १२,२२.७४ ॥

आनीतश् च स निश्चित्य लग्नं राजसुतागृहात् ।
कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ १२,२२.७५ ॥

अन्येनान्यार्थम् आनीताम् अन्यस्मै मां ददासि चेत् ।
कामं तद् अस्तु राजा त्वं धर्माधर्मौ तवाद्य तौ ॥ १२,२२.७६ ॥

अहं विवाहम् इच्छामि समयेनेदृशेन तु ।
एकशय्यां न नेतव्या पत्या तावद् अहं हठात् ॥ १२,२२.७७ ॥

यावत् तीर्थानि षण्मासान् परिभ्रम्य स नागतः ।
एवं न चेत् कृत्तजिह्वां दन्तैर् जानीहि मां मृताम् ॥ १२,२२.७८ ॥

इत्य् उक्ते समये तेन यूना कन्यावपुर्भृता ।
राज्ञा स बोधितः प्राप निर्वृत्तिं मन्त्रिपुत्रकः ॥ १२,२२.७९ ॥

तथेति प्रतिपद्यैतत् कृत्वोद्वाहं किलाशु तम् ।
एकस्मिन् स्थापयित्वा च वासके ते सुरक्षिते ॥ १२,२२.८० ॥

तां मृगाङ्कवतीम् आद्यां वधूं कूटवधूं च ताम् ।
जगाम तीर्थयात्रायै मूडः कान्ताप्रियेच्छया ॥ १२,२२.८१ ॥

स चोवास मनःस्वामी स्त्रीरूपो ऽत्र तया सह ।
मृगाङ्कवत्येकगृहे समानशयनासनः ॥ १२,२२.८२ ॥

तथा स्थितं कदाचित् तं सा मृगाङ्कवती निशि ।
शय्यागृहे रहो ऽवादीद् बहिःसुप्ते परिच्छदे ॥ १२,२२.८३ ॥

कथां कांचित् त्वम् आख्याहि निद्रा नास्ति हि मे सखि ।
तच् छ्रुत्वाकथयत् सो ऽस्यै स्त्रीरूपस् तां कथां युवा ॥ १२,२२.८४ ॥

यत्रेलाख्यस्य राजर्षेः सूर्यवंशभुवः पुरा ।
प्राप्तस्य गौरीशापेन स्त्रीत्वं विश्वैकमोहनम् ॥ १२,२२.८५ ॥

अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे ।
अभूद् बुधेन संयोगः समभूच् च पुरूरवाः ॥ १२,२२.८६ ॥

तां कथां कथयित्वा च धूर्तः पुन उवाच सः ।
तद् एवं देवतादेशान् मन्त्रौषधवशेन वा ॥ १२,२२.८७ ॥

पुरुषः स्त्री कदाचित् स्यात् स्त्री वा जातु पुमान् भवेत् ।
भवन्ति चैवं संयोगाः कामजा महताम् अपि ॥ १२,२२.८८ ॥

श्रुत्वैतत् तरुणी मुग्धा विवाहप्रोषितानुका ।
सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ १२,२२.८९ ॥

श्रुत्वैतां मे कथाम् एतद् अङ्गं सिमिसिमायते ।
हृदयं सीदतीवेदं तद् एतत् सखि किं वद ॥ १२,२२.९० ॥

तच् छ्रुत्वा सो ऽङ्गनारूपो विप्रः पुन उवाच ताम् ।
एतानि कामचिह्नानि नन्व् अपूर्वाणि ते सखि ॥ १२,२२.९१ ॥

मयैतान्य् अनुभूतानि निगूहे न ह्य् अहं तव ।
इति तेनोदितावादीत् सा मृगाङ्कवती शनैः ॥ १२,२२.९२ ॥

सखि प्राणसमा त्वं मे तत् कालज्ञा न वच्मि किम् ।
अपि पुंसः प्रवेशः स्याद् उपायेन हि केनचित् ॥ १२,२२.९३ ॥

एवम् उक्तवतीम् एतां स च लब्धाशयस् तदा ।
प्राह धूर्तपतेः शिष्यो यद्य् एवं तद् वदामि ते ॥ १२,२२.९४ ॥

वैष्णवो ऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि ।
पुरुषः स्यां तद् एषो ऽद्य भवामि त्वत्कृते पुमान् ॥ १२,२२.९५ ॥

इत्य् उक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् ।
यौवनोद्दामम् आत्मानं तस्यै कान्तम् अदर्शयत् ॥ १२,२२.९६ ॥

ततः कथितविस्रम्भः सर्वस्वगतयन्त्रणः ।
कालोचितरसः कोऽपि तयोर् आसीद् रतोत्सवः ॥ १२,२२.९७ ॥

अथ तत्र तया साकं स मन्त्रिसुतभार्यया ।
तस्थौ द्विजो दिवा नारी रात्रौ च पुरुषो भवन् ॥ १२,२२.९८ ॥

आसन्नागमनं तं च बुद्ध्वा मन्त्रिसुतं दिनैः ।
ताम् आदाय निशि स्वैरं पलाय्य स ययौ ततः ॥ १२,२२.९९ ॥

एतस्मिंश् च कथासंधौ मूलदेवः स तद्गुरुः ।
बुद्ध्वा तद् अखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ १२,२२.१०० ॥

शशिनानुगतः सख्या तरुणद्विजरूपिणा ।
आगत्य तं यशःकेतुं प्रह्वो राजानम् अब्रवीत् ॥ १२,२२.१०१ ॥

आनीतो ऽयं मया पुत्रो देहि मे तां स्नुषाम् इति ।
ततः संमन्त्र्य स नृपः शापभीतस् तम् अभ्यधात् ॥ १२,२२.१०२ ॥

ब्रह्मन् न जाने क्व गता सा स्नुषा ते क्षमस्व तत् ।
अपराधात् सुतस्यार्थे ददामि स्वसुतां तव ॥ १२,२२.१०३ ॥

इत्य् उक्त्वा धूर्तराजं तं कृतकक्रोधनिष्ठुरम् ।
विब्रुवाणं जरद्विप्ररूपं प्रार्थ्य स भूपतिः ॥ १२,२२.१०४ ॥

तत्सख्ये कृततत्पुत्रव्यपदेशाय तां ददौ ।
तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ १२,२२.१०५ ॥

ततः स मूलदेवस् तौ यथाभूतौ वधूवरौ ।
आदाय स्वास्पदं प्रायाद् राजार्थेष्व् अकृतस्पृहः ॥ १२,२२.१०६ ॥

तत्र तस्मिंश् च मिलिते मनःस्वामीन्य् अभून् महान् ।
विवादो मूलदेवाग्रे शशिनस् तस्य चोभयोः ॥ १२,२२.१०७ ॥

मनःस्वाम्य् अब्रवीद् एषा दीयतां मे शशिप्रभा ।
कन्यैव हि मयोदूडा प्राग् असौ गुर्वनुग्रहात् ॥ १२,२२.१०८ ॥

शशी जगाद को ऽस्यास् त्वं मूर्ख दारा इयं मम ।
अग्निसाक्षिकम् एषा हि पित्रा मे प्रतिपादिता ॥ १२,२२.१०९ ॥

एवं मायाबलप्राप्तराजपुत्रीनिमित्ततः ।
विवादासक्तयोर् नासीत् परिच्छेदस् तयोर् द्वयोः ॥ १२,२२.११० ॥

तद् राजंस् त्वं मम ब्रूहि तावत् कस्योपपद्यते ।
भार्या सा संशयं छिन्धि पूर्वोक्तः समयो ऽस्ति ते ॥ १२,२२.१११ ॥

इति वेतालतः श्रुत्वा तस्मात् स्कन्धाग्रवर्तिनः
स त्रिविक्रमसेनस् तं नृपतिः प्रत्यभाषत ॥ १२,२२.११२ ॥

मन्ये शशिन एवासौ भार्या न्याय्या नृपात्मजा ।
यस्मै प्रदत्ता प्रकटं पित्रा धर्म्येण वर्त्मना ॥ १२,२२.११३ ॥

मनःस्वामी तु तां भेजे चौर्याद् गान्धर्वधर्मतः ।
चौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातु चित् ॥ १२,२२.११४ ॥

इति तस्य वचो निशम्य राज्ञो
वेतालः स ययौ पुनस् तद् एव ।
सहसैव तद् अंसतः स्वधाम
क्षितिपः सो ऽपि तम् अन्वियाय तूर्णम् ॥ १२,२२.११५ ॥


त्रयोविंशस् तरङ्गः ।

अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस् तम् आदायोदचलत् ततः ॥ १२,२३.१ ॥

आगच्छन्तं च तं भूपं स वेतालो ऽब्रवीत् पुनः ।
राजञ् शृणु कथाम् एकाम् उदारां कथयामि ते ॥ १२,२३.२ ॥

अस्तीह हिमवान् नाम नगेन्द्रः सर्वरत्नभूः ।
यो गौरीगङ्गयोस् तुल्यः प्रभवो हरकान्तयोः ॥ १२,२३.३ ॥

शूरासंस्पृष्टपृष्ठश् च यो मध्ये कुलभूभृताम् ।
अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥ १२,२३.४ ॥

तस्यास्ति सानुन्य् अन्वर्थं तत् काञ्चनपुरं पुरम् ।
न्यासीकृतम् इवार्केण रश्मिवृन्दं विभाति यत् ॥ १२,२३.५ ॥

जीमूतकेतुर् इत्य् आसीत् तस्मिन् पुरवरे पुरा ।
विद्याधरेश्वरः श्रीमान् मेराव् इव शतक्रतुः ॥ १२,२३.६ ॥

तस्यासीत् स्वगृहोद्याने कल्पवृक्षो ऽन्वयागतः ।
यथार्थनामा प्रथितो यो मनोरथदायकः ॥ १२,२३.७ ॥

तं प्रार्थ्य देवतात्मानं स राजा तत् प्रसादतः ।
प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् ॥ १२,२३.८ ॥

दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ १२,२३.९ ॥

संप्राप्तयौवनं तं च यौवराज्ये ऽभिषिक्तवान् ।
तनयं प्रेरितः सद्भिस् तद्गुणैः सचिवैश् च सः ॥ १२,२३.१० ॥

यौवराज्यस्थितश् चैषो जातु जीमूतवाहनः ।
हितैषिभिर् उपागत्य जगदे पितृमन्त्रिभिः ॥ १२,२३.११ ॥

देव कल्पतरुर् यो ऽयम् अस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥ १२,२३.१२ ॥

नास्मिन् सति हि शक्रो ऽपि बाधेतास्मान् कुतो ऽपरः ।
एतच् छ्रुत्वा स जीमूतवाहनो ऽन्तरचिन्तयत् ॥ १२,२३.१३ ॥

अहो बतेदृशम् इमं संप्राप्यामरपादपम् ।
नासादितं किम् अप्य् अस्मात् पूर्वैर् नस् तादृशं फलम् ॥ १२,२३.१४ ॥

केवलं कैश्चिद् अप्य् अर्थैर् अर्थितैः कृपणोचितैः ।
आत्मा चैषो महात्मा च नीतौ द्वाव् अपि लाघवम् ॥ १२,२३.१५ ॥

तद् अहं साधयीष्यामि कामम् अस्मान् मनोगतम् ।
इति निश्चित्य स ययौ महासत्त्वो ऽन्तिकं पितुः ॥ १२,२३.१६ ॥

तत्र संविहिताशेषशुश्रूषापरितोषितम् ।
सुखासीनं तम् एकान्ते पितरं स व्यजिज्ञपत् ॥ १२,२३.१७ ॥

तत त्वम् एव जानासि यद् एतस्मिन् भवाम्बुधौ ।
आशरीरम् इदं सर्वं वीचिविभ्रमचञ्चलम् ॥ १२,२३.१८ ॥

विशेषेनाचिरस्थायिप्रकाशप्रविलायिनी ।
संध्या विद्युच् च लक्ष्मीश् च दृष्टा कुत्र कदा स्थिरा ॥ १२,२३.१९ ॥

एकः परोपकारस् तु संसारे ऽस्मिन्न् अनश्वरः ।
यो धर्मयशसी सूते युगान्तशतसाक्षिणी ॥ १२,२३.२० ॥

तत् तात क्षणिकेष्व् एषु भोगेष्व् अस्माभिर् ईदृशः ।
एष कल्पतरुः कस्य कृते मोघो ऽभिरक्ष्यते ॥ १२,२३.२१ ॥

यैर् वा मम ममेत्य् एवम् आग्रहेनैष रक्षितः ।
पूर्वैस् ते कुत्र कुत्रायं तेषां कश् चैष को ऽस्य वा ॥ १२,२३.२२ ॥

तस्मात् परोपकारैकफलसिद्ध्यै त्वदाज्ञया ।
तातैनं विनियुञ्जे ऽहं कामदं कल्पपादपम् ॥ १२,२३.२३ ॥

एवम् अस्त्व् इति पित्रा च दत्तानुज्ञो ऽथ तेन सः ।
जीमूतवाहनो गत्वा कल्पद्रुमम् उवाच तम् ॥ १२,२३.२४ ॥

अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस् त्वया ।
तन् ममैकम् इमं कामम् अनन्यं परिपूरय ॥ १२,२३.२५ ॥

अदरिद्रां यथा पृथ्वीम् इमां द्रक्ष्ये तथा कुरु ।
भद्रं ते व्रज दत्तो ऽसि लोकायार्थार्थिने मया ॥ १२,२३.२६ ॥

इत्य् उक्तवति जीमूतवाहने रचिताञ्जलौ ।
त्यक्तस् त्वयैषो जातो ऽस्मीत्य् उदभूद् वाक् तरोस् ततः ॥ १२,२३.२७ ॥

क्षणाच् चोत्पत्य स दिवं कल्पवृक्षस् तथा वसु ।
ववर्ष भुवि नैवासीत् को ऽप्य् अस्यां दुर्गतो यथा ॥ १२,२३.२८ ॥

ततस् तस्य तया तीव्रसर्वसत्त्वानुकम्पया ।
जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ॥ १२,२३.२९ ॥

तेन तद्गोत्रजाः सर्वे मात्सर्याद् असहिष्णवः ।
तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतम् ॥ १२,२३.३० ॥

जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः ।
युद्धाय समनह्यन्त तद् राज्यापजिहीर्षया ॥ १२,२३.३१ ॥

तद् दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः ।
तात कस्यापरस्यास्ति शक्तिस् त्वयि धृतायुधे ॥ १२,२३.३२ ॥

किं त्व् अस्य पापकस्यार्थे शरीरस्य विनाशिनः ।
हत्वा बन्धून् अकृपनो राज्यं को नाम वाञ्छति ॥ १२,२३.३३ ॥

तत् किं राज्येन नः कार्यं गत्वान्यत्र क्वचिद् वयम् ।
धर्मम् एव चरिष्यामो लोकद्वयसुखावहम् ॥ १२,२३.३४ ॥

मोदन्तां कृपणा एते दायादा राज्यलोलुपाः ।
इत्य् उक्तवन्तं जीमूतकेतुस् तं स पिताब्रवीत् ॥ १२,२३.३५ ॥

अहं त्वदर्थम् इच्छामि राज्यं पुत्र त्वम् एव चेत् ।
तज् जहासि कृपाविष्टस् तन् मे वृद्धस्य तेन किम् ॥ १२,२३.३६ ॥

एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सो ऽन्वितः ।
मलयाद्रिम् अगात् त्यक्तराज्यो जीमूतवाहनः ॥ १२,२३.३७ ॥

तत्र चन्दनसंछन्नवहन् निर्झरकन्दरे ।
शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ॥ १२,२३.३८ ॥

मित्रं चास्यात्र संपेदे मित्रावसुर् इति श्रुतः ।
विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ॥ १२,२३.३९ ॥

एकदा चात्र स भ्राम्यन् विवेशोपवनस्थितम् ।
द्रष्टुम् आयतनं देव्या गौर्या जीमूतवाहनः ॥ १२,२३.४० ॥

तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् ।
सखीजनान्वितां शैलतनयाराधनोद्यताम् ॥ १२,२३.४१ ॥

आकर्ण्यमानसंगीतमञ्जुवीणारवां मृगैः ।
दृष्टलोचनलावन्यलज्जितैर् इव निश्चलैः ॥ १२,२३.४२ ॥

दधता तारकं कृष्णम् अर्जुनेन स्वचक्षुषा ।
पाण्डवीयाम् इव चमूं कर्णमूलं विविक्षतीम् ॥ १२,२३.४३ ॥

परःपरविमर्देन मुखेन्दोर् इव दर्शनम् ।
अतृप्ताव् इव वाञ्छन्तौ बिभ्रन्तीं संमुखौ स्तनौ ॥ १२,२३.४४ ॥

धातुर् घटयतो मुष्टिग्रहेणेव निपीडिते ।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनोरमाम् ॥ १२,२३.४५ ॥

दृष्टया च तया सद्यः सो ऽभूज् जीमूतवाहनः ।
तन्व्या मुषितचित्तो ऽन्तो दृष्टिमार्गप्रविष्टया ॥ १२,२३.४६ ॥

सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारदम् ।
कामाङ्गदाहवैराग्याद् वनं मधुम् इवाश्रितम् ॥ १२,२३.४७ ॥

तथानुरागविवशा भेजे कन्या विहस्तताम् ।
यथा सखीव वीणास्या व्याकुलालापतां ययौ ॥ १२,२३.४८ ॥

ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः ।
किं धन्यं नाम सख्यास् ते को वंशो ऽलंकृतो ऽनया ॥ १२,२३.४९ ॥

तच् छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्य् असौ ।
मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता ॥ १२,२३.५० ॥

एवम् उक्त्वा सहृदया सा तं जीमूतवाहनम् ।
नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतम् ॥ १२,२३.५१ ॥

तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् ।
सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ॥ १२,२३.५२ ॥

जगत्पूज्यो ऽतिथिर् ह्य् एष प्राप्त इत्य् उदिते तया ।
साभूद् विद्याधरसुता तूष्णीं लज्जानतानना ॥ १२,२३.५३ ॥

लज्जावतीयं मत्तो ऽर्चा गृह्यताम् इति वादिनी ।
एकाथ तत् सखी तस्मै सार्घ्यां मालाम् उपानयत् ॥ १२,२३.५४ ॥

स चादायैव जीमूतवाहनः प्रेमनिर्भरः ।
कण्ठे मलयवत्यास् तां मालां तस्याः समर्पयत् ॥ १२,२३.५५ ॥

सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।
नीलोत्पलमयीं मालाम् इव तस्मिन् न्यवेशयत् ॥ १२,२३.५६ ॥

इत्य् अन्योनकृताशब्दस्वयंवरविशेषयोः ।
तयोर् एत्य जगादैका चेटी तां सिद्धकन्यकाम् ॥ १२,२३.५७ ॥

जननी राजपुत्रि त्वां स्मरत्य् आगच्छ माचिरम् ।
तच् छ्रुत्वाकृष्य कामेषुकीलिताम् इव कृच्छ्रतः ॥ १२,२३.५८ ॥

सोत्कां प्रियमुखाद् दृष्टिं कथंचित् सा ययौ गृहम् ।
जीमूतवाहनो ऽप्य् आगात् तन् नतात्मा स्वमाश्रमम् ॥ १२,२३.५९ ॥

साथ स्वां जननीं दृष्टा प्राणेशविरहातुरा ।
गत्वा मलयवत्य् आशु पपात शयनीयके ॥ १२,२३.६० ॥

अथान्तर्गतकामाग्निधूमेनेवाविलेक्षणा ।
अश्रुधारां प्रमुञ्चन्ती संतापक्वथिताङ्गका ॥ १२,२३.६१ ॥

सखीभिश् चन्दनैर् लिप्ता वीजिता चाब्जिनीदलैः ।
रतिं न भेजे शयने नाङ्के सख्या न भूतले ॥ १२,२३.६२ ॥

गते ऽथ वासरे क्वापि रक्तया सह संध्यया ।
हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति ॥ १२,२३.६३ ॥

स्मरेण प्रेर्यमाणापि दूतीसंप्रेषणादि सा ।
लज्जया नाशकत् कर्तुं जीवितस्पृहयोज्झिता ॥ १२,२३.६४ ॥

निनाय च निशाम् इन्दुविषमाम् अब्जिनीव ताम् ।
बद्धमोहालिपटले हृदि संकोचम् एत्य सा ॥ १२,२३.६५ ॥

तावच् च तद्वियोगार्तः सो ऽपि जीमूतवाहनः ।
शयनस्थो ऽपि पतितो हस्ते कुसुमधन्वनः ॥ १२,२३.६६ ॥

नूतनोद्भिन्नरागो ऽपि प्रोन्मिषत्पाण्डुरच्छविः ।
ह्रीमूको ऽपि वदन् पीडां कामजाम् अनयन् निशाम् ॥ १२,२३.६७ ॥

प्रातश् चात्युत्सुको भूयस् तद् गौर्यायतनं ययौ ।
यत्र दृष्टाभवत् तेन सा सिद्धाधिपपुत्रिका ॥ १२,२३.६८ ॥

तत्र तेन स मित्रेण मुनिपुत्रेण पृष्ठतः ।
आगत्याश्वास्यते यावन् मदनानलविह्वलः ॥ १२,२३.६९ ॥

तावत् तत्रैव साप्य् आगान् निर्गत्यैकैव निर्जने ।
गुप्तं मलयवत्य् आत्मत्यागाय विरहासहा ॥ १२,२३.७० ॥

अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा ।
उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपत् ॥ १२,२३.७१ ॥

त्वद्भक्त्या देवि संवृत्तो नास्मिञ् जन्मनि चेन् मम ।
जीमूतवाहनो भर्ता तद् भूयात् सो ऽन्यजन्मनि ॥ १२,२३.७२ ॥

इत्य् उक्त्वा रचयामास स्वोत्तरीयेण तत् क्षणम् ।
अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥ १२,२३.७३ ॥

हा नाथ विश्वविख्यातकरुणेनापि न त्वया ।
कथम् अस्मि परित्राता देव जीमूतवाहन ॥ १२,२३.७४ ॥

एवम् उक्त्वा गले यावत् सा तं पाशं नियच्छति ।
उच्चचार दिवस् तावद् भारती देव्युदीरिता ॥ १२,२३.७५ ॥

पुत्रि मा साहसं कार्षीश् चक्रवर्ती पतिस् तव ।
विद्याधरेन्द्रो जीमूतवाहनो हि भविष्यति ॥ १२,२३.७६ ॥

इत्य् उक्तवत्यां देव्यां स श्रुत्वैव सवयस्यकः ।
जीमूतवाहनो हृष्टां प्रियाम् उपजगाम ताम् ॥ १२,२३.७७ ॥

सैष देव्या वरः पश्य वितीर्णः सत्य एव ते ।
इति जल्पति बालां तां तन्मित्रे मुनिपुत्रके ॥ १२,२३.७८ ॥

जीमूतवाहनस् तत् तद् ब्रुवन् प्रणयपेशलम् ।
स्वहस्तेनैव तं तस्याः कण्ठात् पाशम् अपानयत् ॥ १२,२३.७९ ॥

ततो ऽकस्मात् सुधावर्षम् इव मन्वानयोस् तयोः ।
भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा ॥ १२,२३.८० ॥

चिन्वानागत्य सहसा सखी हृष्टा जगाद ताम् ।
सखि कल्याणिनी दिष्ट्या वर्धसे ऽभीष्टसिद्धितः ॥ १२,२३.८१ ॥

अद्यैव हि महाराजस् तव विश्वावसुः पिता ।
कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥ १२,२३.८२ ॥

इहागतो जगन्मान्यस् तात कल्पतरुप्रदः ।
विद्याधरेन्द्रतनयो यो ऽयं जीमूतवाहनः ॥ १२,२३.८३ ॥

अतिथित्वात् स नः पूज्यो वरश् चान्यो न तादृशः ।
तस्मान् मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥ १२,२३.८४ ॥

तथेति श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते ।
तादर्थ्येन महाभागस्यास्याश्रमपदं गतः ॥ १२,२३.८५ ॥

जाने सद्यश् च भावी ते विवाहस् तत् स्वमन्दिरम् ।
आयाहि यातु चैषो ऽपि महाभागः स्वम् आस्पदम् ॥ १२,२३.८६ ॥

इत्य् उक्ता सा तया सख्या राजपुत्री शनैस् ततः ।
ययुः सहर्षा सोत्का च मुहुर् वलितकंधरा ॥ १२,२३.८७ ॥

जीमूतवाहनो ऽप्य् आशु गत्वा स्वाश्रमम् आगतात् ।
मित्रावसोर् यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥ १२,२३.८८ ॥

जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः ।
यत्र मित्रं स तस्यासीत् सा च भार्यैव तत्स्वसा ॥ १२,२३.८९ ॥

ततो मित्रावसुः प्रीतस् तत्पित्रोः परितुष्यतोः ।
आवेद्य गत्वा पितरौ कृतार्थः स्वाव् अनन्दयत् ॥ १२,२३.९० ॥

निनाय च तदैव स्वान् गृहाञ् जीमूतवाहनम् ।
चक्रे चोत्सवसंभारं स्वसिद्ध्युचितवैभवम् ॥ १२,२३.९१ ॥

तस्मिन्न् एव च धन्ये ऽह्नि तस्य विद्याधरप्रभोः ।
स्वसुर् मलयवत्याश् च विवाहं समपादयन् ॥ १२,२३.९२ ॥

ततो नवोढया साकं तया जीमूतवाहनः ।
तस्थौ मलयवत्या स तत्र सिद्धमनोरथः ॥ १२,२३.९३ ॥

एकदा कौतुकाच् चात्र स मित्रावसुना सह ।
मलयाद्रौ भ्रमन्न् अब्धेर् वेलावनम् उपेयिवान् ॥ १२,२३.९४ ॥

तत्रास्थिराशीन् सुबहून् दृष्ट्वा मित्रावसुं स तम् ।
केषाम् एते ऽस्थिसंघाताः प्राणिनाम् इति पृष्टवान् ॥ १२,२३.९५ ॥

ततो मित्रावसुः श्यालस् तं कारुणिकम् अब्रवीत् ।
शृणु वृत्तान्तम् अत्रेमं संक्षेपाद् वर्णयामि ते ॥ १२,२३.९६ ॥

नागमाता पुरा कद्रूर् विनतां तार्क्ष्यमातरम् ।
निनाय किल दासत्वं सव्याजपणनिर्जिताम् ॥ १२,२३.९७ ॥

तेन वैरेण गरुडस् ताम् उन्मोच्यापि मातरम् ।
बली भक्षयितुं नागान् कद्रूपुत्रान् प्रचक्रमे ॥ १२,२३.९८ ॥

सदा प्रविश्य पातालं सो ऽथ कांश्चिज् जघास तान् ।
कांश्चिन् ममर्द केचित् तु स्वयं त्रासाद् विपेदिरे ॥ १२,२३.९९ ॥

तद् दृष्ट्वैकपदे सर्वक्षयम् आशङ्क्य नागराट् ।
वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधात् ॥ १२,२३.१०० ॥

एकम् एकम् अहं नागम् आहारार्थं खगेन्द्र ते ।
प्रत्यहं प्रेषयाम्य् अत्र पुलिने दक्षिणोदधेः ॥ १२,२३.१०१ ॥

त्वया तु न प्रवेष्टव्यं पाताले ऽस्मिन् कथंचन ।
को हि स्वार्थो विनष्टेषु नागेष्व् एकपदे तव ॥ १२,२३.१०२ ॥

इत्य् उक्ते नागराजेन समयं प्रत्यपद्यत ।
स्वार्थदर्शी तथेत्य् एव गरुडो गुरुविक्रमः ॥ १२,२३.१०३ ॥

तदाप्रभृति चैकैकं नागं भुङ्क्ते दिने दिने ।
वासुकिप्रेषितं सो ऽत्र खगेन्द्रः पुलिने ऽम्बुधेः ॥ १२,२३.१०४ ॥

अतस् तद्भक्ष्यमाणानां नागनाम् अस्थिसंचयाः ।
एते ऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद् गताः ॥ १२,२३.१०५ ॥

इति मित्रावसोर् वक्त्रात् सान्तर्दुःखो निशम्य सः ।
निजगाद दयाधैर्यनिधिर् जीमूतवाहनः ॥ १२,२३.१०६ ॥

शोच्यः स वासुकी राजा यः स्वहस्तेन विद्विषे ।
उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ॥ १२,२३.१०७ ॥

धृताननसहस्रः सन्न् एकेनाप्य् आननेन सः ।
माम् आदौ भुङ्क्ष्व तार्क्ष्येति भाषितुं नाशकत् कथम् ॥ १२,२३.१०८ ॥

कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् ।
तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिर्घृणः ॥ १२,२३.१०९ ॥

तार्क्ष्यो ऽपि काश्यपिर् वीरः कृष्णाधिष्ठानपावनः ।
ईदृशं कुरुते पापम् अहो मोहस्य गाढता ॥ १२,२३.११० ॥

इत्य् उक्त्वा स महासत्त्वो हृदि चक्रे मनोरथम् ।
अप्य् असारेण देहेन सारम् अत्राप्नुयाम् अहम् ॥ १२,२३.१११ ॥

एकस्याप्य् अद्य नागस्य कुर्यां जीवितरक्षणम् ।
अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते ॥ १२,२३.११२ ॥

इति संचिन्तयत्य् एव तस्मिञ् जीमूतवाहने ।
मित्रावसोः पितुः पार्श्वात् क्षत्ताह्वानार्थम् आययौ ॥ १२,२३.११३ ॥

व्रज त्वम् अहम् एष्यामि पश्चाद् इति ततश् च तम् ।
मित्रावसुं स जीमूतवाहनो व्यसृजद् गृहम् ॥ १२,२३.११४ ॥

गते तस्मिन् स चात्रैको वाञ्छितार्थोन्मुखो भ्रमन् ।
कृपालुर् अशृनोद् दूरात् करुणं रुदितध्वनिम् ॥ १२,२३.११५ ॥

गत्वा ददर्श चोत्तुङ्गशिलातलसमीपगम् ।
युवानम् एकं पुरुषं दुःखितं सुन्दराकृतिम् ॥ १२,२३.११६ ॥

पुंसा राजभटेनेव त्यक्तम् आनीय तत् क्षणम् ।
निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥ १२,२३.११७ ॥

को ऽयं स्याद् इति यावच् च जिज्ञासुः सो ऽत्र तिष्ठति ।
करुणाकुलितश् छन्नः शृण्वञ् जीमूतवाहनः ॥ १२,२३.११८ ॥

तावत् सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।
प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥ १२,२३.११९ ॥

हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन् ।
कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्य् अहं पुनः ॥ १२,२३.१२० ॥

वत्स त्वन्मुखचन्द्रे ऽस्मिन् गते ऽस्तं स पिता तव ।
सोकान्धकारपतितः कथं वृद्धो भविष्यति ॥ १२,२३.१२१ ॥

अथार्ककरसंस्पर्शाद् अङ्गं दूयेत यत् तव ।
कथं शक्ष्यति तत् सोढुं तार्क्ष्यभक्षणजां रुजम् ॥ १२,२३.१२२ ॥

विस्तीर्णे नागलोके ऽपि धात्रा नागाधिपेन च ।
लब्धस् त्वं किम् अभव्याया विचित्यैकसुतो मम ॥ १२,२३.१२३ ॥

इति तां विलपन्तीं च स युवा तनयो ऽब्रवीत् ।
दुःखार्तम् अपि माम् अम्ब किं दुःखयसि हा भृशम् ॥ १२,२३.१२४ ॥

निवर्तस्व गृहान् एष प्रणामः पश्चिमस् तव ।
इहागमनवेला हि भवेज् जातु गरुत्मतः ॥ १२,२३.१२५ ॥

तच् छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् ।
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना ॥ १२,२३.१२६ ॥

तावच् च बोधिसत्त्वांशः स तज् जीमूतवाहनः ।
श्रुत्वा दृष्ट्वा च कृपया गाढाक्रान्तो व्यचिन्तयत् ॥ १२,२३.१२७ ॥

हन्तायं शङ्खचूडाख्यो नागो वासुकिना बत ।
आहारहेतोस् तार्क्ष्यस्य तपस्वी प्रेषितो ऽधुना ॥ १२,२३.१२८ ॥

इयं चैतस्य जननी स्नेहेनेहान्वग् आगता ।
एतदेकसुता वृद्धा दुःखदीनप्रलापिनी ॥ १२,२३.१२९ ॥

तद् एनम् एकम् आर्तं चेद् देहेनैकान्तनाशिना ।
रक्षामि नामुना नागं तन् मे धिग् जन्म निःफलम् ॥ १२,२३.१३० ॥

इत्य् आलोच्योपगम्यैव मुदा जीमूतवाहनः ।
वृद्धाम् उवाच तां मातः पुत्रं रक्षाम्य् अहं तव ॥ १२,२३.१३१ ॥

तच् छ्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी ।
संत्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ॥ १२,२३.१३२ ॥

शङ्खचूडस् ततो ऽवादीन् नैषस् तार्क्ष्यो ऽम्ब मा त्रसीः ।
क्वायं चन्द्र इवाह्लादी क्व स तार्क्ष्यो भयंकरः ॥ १२,२३.१३३ ॥

इत्य् उक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।
विद्याधरो ऽहम् आयातो राक्षितुं सुतम् अम्ब ते ॥ १२,२३.१३४ ॥

दास्यामि हि शरीरं स्वं वस्त्रच्छन्नं गरुत्मते ।
क्षुधिताय प्रयाहि त्वम् आदायैनं सुतं गृहम् ॥ १२,२३.१३५ ॥

तच् छ्रुत्वा साब्रवीद् वृद्धा मैवं त्वं ह्य् अधिको मम ।
पुत्रो यस्येदृशे काले कृपास्मास्व् इयम् ईदृशी ॥ १२,२३.१३६ ॥

एतच् छ्रुत्वा स जीमूतवाहनः पुनर् अब्रवीत् ।
न मे मनोरथस्यास्य भङ्गं कर्तुम् इहार्हथ ॥ १२,२३.१३७ ॥

ग्रहाद् एवं ब्रुवाणं च शङ्खचूडो जगाद तम् ।
दर्शितैव महासत्त्व त्वया सत्यं कृपालुता ॥ १२,२३.१३८ ॥

न त्व् अहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् ।
रत्नव्ययेन पाषाणं को हि रक्षितुम् अर्हति ॥ १२,२३.१३९ ॥

मादृशैस् तु जगत् पूर्णं स्वात्ममात्रानुकम्पिभिः ।
अनुकम्प्यं जगद् येषां विरलास् ते भवादृशाः ॥ १२,२३.१४० ॥

न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि ।
कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ॥ १२,२३.१४१ ॥

इति तं प्रतिषिध्यैव शङ्खचूडः स्वमातरम् ।
जगादाम्ब निवर्तस्व कान्ताराद् दुर्गमाद् इतः ॥ १२,२३.१४२ ॥

न पश्यसि किम् अत्रैतन् नागासृक्कर्दमोक्षितम् ।
कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलम् ॥ १२,२३.१४३ ॥

अहं चाब्धितटे गत्वा नत्वा गोकर्णम् ईश्वरम् ।
आगच्छामि द्रुतं यावन् नायाति गरुडो ऽत्र सः ॥ १२,२३.१४४ ॥

इत्य् उक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छ्य मातरम् ।
स गोकर्णप्रणामार्थं शङ्खचूडो ययौ ततः ॥ १२,२३.१४५ ॥

अस्मिंश् चेद् अन्तरे प्राप्तस् तार्क्ष्यः सिद्धो ममेप्सितः ।
परार्थ इति जीमूतवाहनो ऽप्य् अकरोद् धृदि ॥ १२,२३.१४६ ॥

तावच् चासन्नपक्षीन्द्रपक्षानिलचलांस् तरून् ।
विलोक्यात्र स मा मेति निवारणपरान् इव ॥ १२,२३.१४७ ॥

मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः ।
परार्थप्राणदो वध्यशिलाम् अध्यारुरोह ताम् ॥ १२,२३.१४८ ॥

पवनाघूर्णिते चाब्धौ स्फुरद्रत्नप्रभादृशा ।
तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयम् ॥ १२,२३.१४९ ॥

आगत्याच्छादितनभा निपत्यैतच्छिलातलात् ।
चञ्च्वा गरुत्मान् आहत्य महासत्त्वं जहार तम् ॥ १२,२३.१५० ॥

स्रुतासृग्धारम् उत्खातशिरोरत्नं च तं जवात् ।
नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे ॥ १२,२३.१५१ ॥

एवम् एव परार्थाय देहः स्यात् प्रतिजन्म मे ।
मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ॥ १२,२३.१५२ ॥

इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस् तदा ।
विद्याधरेन्दोर् अपतत् पुष्पवृष्टिर् नभोतलात् ॥ १२,२३.१५३ ॥

अत्रान्तरे स तद् रक्तधारास्रवशिरोमणिः ।
तस्या मलयवत्याश् च तत्पत्न्याः प्रापतत् पुरः ॥ १२,२३.१५४ ॥

सा तद् दृष्ट्वा परिज्ञाय चूडारत्नं सुविह्वला ।
अन्तिकस्था श्वशुरयोस् ताभ्यां साश्रुर् अदर्शयत् ॥ १२,२३.१५५ ॥

तौ च जायापती सूनोः शिरोरत्नं विलोक्य तम् ।
किम् एतद् इति संभ्रान्तौ सहसैव बभूवतुः ॥ १२,२३.१५६ ॥

ततः स्वविद्यानुध्यानाद् यथावृत्तम् अवेत्य तत् ।
राजा जीमूतकेतुः सा राज्ञी कनकवत्य् अपि ॥ १२,२३.१५७ ॥

वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतम् ।
गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ ॥ १२,२३.१५८ ॥

तावत् स शङ्खचूडो ऽत्र नत्वा गोकर्णम् आगतः ।
ददर्श रुधिरार्द्रं तद् विग्नो वध्यशिलातलम् ॥ १२,२३.१५९ ॥

हा हतो ऽस्मि महापापो ध्रुवं तेन महात्मना ।
आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥ १२,२३.१६० ॥

तद् अन्विष्यामि नीतः स क्षणे ऽस्मिन् क्वाहिवैरिणा ।
मज्जेयं नायशःपङ्के जीवन्तं चेत् तम् आप्नुयाम् ॥ १२,२३.१६१ ॥

इत्य् उदश्रुर् वदन् सो ऽथ साधुर् दृष्ट्वा निरन्तराम् ।
पतितां भुवि तद्रक्तधाराम् अनुसरन् ययौ ॥ १२,२३.१६२ ॥

अत्रान्तरे भक्षयंस् तं दृष्ट्वा जीमूतवाहनम् ।
हृष्टं विरम्य गरुडश् चिन्तयामास तत् क्षणम् ॥ १२,२३.१६३ ॥

अहो अपूर्वः को ऽप्य् एष भक्ष्यमानो ऽपि यो मया ।
प्रहृष्यति महासत्त्वो न तु प्राणैर् वियुज्यते ॥ १२,२३.१६४ ॥

बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम् ।
किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति ॥ १२,२३.१६५ ॥

तन् नैष नागः कोऽप्य् एष साधुः पृच्छामि नाद्म्य् अमुम् ।
इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः ॥ १२,२३.१६६ ॥

पक्षीन्द्र किं निवृत्तो ऽसि न हि मे मांसशोणितम् ।
देहे नास्ति न चाद्यापि परितृप्तो ऽसि बुङ्क्ष्व तत् ॥ १२,२३.१६७ ॥

एतच् छ्रुत्वातिसाश्चर्यस् तं पप्रच्छ स पक्षिराट् ।
नागो नैवासि तद् ब्रूहि महात्मन् को भवान् इति ॥ १२,२३.१६८ ॥

नाग एवास्मि को ऽयं ते प्रश्नः प्रकृतम् आचर ।
प्रस्तुतार्थविरुद्धं हि को ऽभिदध्याद् अबालिशः ॥ १२,२३.१६९ ॥

एवं प्रतिवदत्य् एव तार्क्ष्यं जीमूतवाहने ।
प्राप्तः स शङ्खचूडो ऽत्र दूराद् एवाभ्यभाषत ॥ १२,२३.१७० ॥

मा मा कृथा महापापं साहसं विनतात्मज ।
को ऽयं भ्रमस् ते न ह्य् एष नागो नागो ऽहम् एष ते ॥ १२,२३.१७१ ॥

इत्य् उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोर् द्वयोः ।
दृष्ट्वा च तार्क्ष्यं विभ्रान्तं शङ्खचूडो ऽब्रवीत् पुनः ॥ १२,२३.१७२ ॥

किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि ।
विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥ १२,२३.१७३ ॥

शङ्खचूडे वदत्य् एवं भार्या च पितरौ च तौ ।
जीमूतवाहनस्यात्र सर्वे सत्वरम् आययुः ॥ १२,२३.१७४ ॥

विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत् क्षणम् ।
चक्रन्दतुस् तौ हा पुत्र हा हा जीमूतवाहन ॥ १२,२३.१७५ ॥

हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।
हा कथं वैनतेयेदम् अविमृश्य कृतं त्वया ॥ १२,२३.१७६ ॥

एतच् छ्रुत्वैव तार्क्ष्यो ऽत्र सो ऽनुतप्तो व्यचिन्तयत् ।
हा कथं बोधिसत्त्वांशः संमोहाद् भक्षितो मया ॥ १२,२३.१७७ ॥

जीमूतवाहनः सो ऽयं परार्थप्राणदायकः ।
यस्य भ्रमति कृत्स्ने ऽस्मिंस् त्रैलोक्ये कीर्तिघोषणा ॥ १२,२३.१७८ ॥

तन् मे मृते ऽस्मिन् पापस्य प्राप्तम् अग्निप्रवेशनम् ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥ १२,२३.१७९ ॥

इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः ।
व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥ १२,२३.१८० ॥

ततो विलपतोस् तत्र तत्पित्रोः शोकदीनयोः ।
उत्क्रुश्य मुहुर् आत्मानं शङ्खचूडे च निन्दति ॥ १२,२३.१८१ ॥

भार्या मलयवत्य् अस्य नभो दृष्ट्वाश्रुगद्गदम् ।
पूर्वप्रसन्नां वरदाम् इत्य् उपालभताम्बिकाम् ॥ १२,२३.१८२ ॥

विद्याधराधिपो भाविचक्रवर्ती पतिस् तव ।
भवितेत्य् अहम् आदिष्टा देवि गौरी तदा त्वया ॥ १२,२३.१८३ ॥

तन् मिथ्यावादिनी जाता त्वम् अप्य् असि कथं मयि ।
इत्य् उक्तवत्यां तस्यां सा गौरी प्रत्यक्षताम् अगात् ॥ १२,२३.१८४ ॥

न मे मिथ्या वचः पुत्रीत्य् उक्त्वा सा स्वकमण्डलोः ।
अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तम् ॥ १२,२३.१८५ ॥

तेन सो ऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः ।
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥ १२,२३.१८६ ॥

उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा ।
उवाच देवी तुष्टास्मि देहदानेन ते ऽमुना ॥ १२,२३.१८७ ॥

तद् एषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना ।
विद्याधराणाम् आकल्पं चक्रवर्तिपदे ऽधुना ॥ १२,२३.१८८ ॥

एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः ।
तम् अभ्यषिञ्चच् छर्वानी पूजिता च तिरोदधे ॥ १२,२३.१८९ ॥

निपेतुश् चात्र तत् कालं दिव्याः कुसुमवृष्टयः ।
नदन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ॥ १२,२३.१९० ॥

अथोवाच स तं प्रह्वस् तार्क्ष्यो जीमूतवाहनम् ।
चक्रवर्तिन्न् अहं प्रीतः पुरुषातिशये त्वयि ॥ १२,२३.१९१ ॥

अपूर्वोदारमतिना त्रिजगत्कौतुकावहम् ।
ब्रह्माण्डभित्तिलिखितं येन चित्रम् इदं कृतम् ॥ १२,२३.१९२ ॥

तन् मां प्रशाधि मत्तश् च वृणुष्वाभीप्सितं वरम् ।
इत्य् उक्तवन्तं गरुडं महासत्त्वो जगाद सः ॥ १२,२३.१९३ ॥

न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस् त्वया ।
ते ऽप्य् अस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः ॥ १२,२३.१९४ ॥

एवम् अस्तु न भोक्ष्ये ऽहं नागाञ् शान्तमतः परम् ।
प्राग् ये च भुक्तास् ते जीवन्त्व् इति तार्क्ष्यो ऽप्य् उवाच सः ॥ १२,२३.१९५ ॥

ततो ऽस्तिशेषा ये ऽप्य् आसन् नागास् तत्पूर्वभक्षिताः ।
ते ऽपि सर्वे समुत्तस्थुस् तद्वरामृतजीविताः ॥ १२,२३.१९६ ॥

सुरैर् नगैर् मुनिगनैः सानन्दैर् मिलितैर् अथ ।
स लोकत्रितयाभिख्याम् उवाह मलयाचलः ॥ १२,२३.१९७ ॥

तत् कालं तं च जीमूतवाहनोदन्तम् अद्भुतम् ।
गौर्याः प्रसादाद् विविदुः सर्वे विद्याधरेश्वराः ॥ १२,२३.१९८ ॥

आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान् मुदितबन्धुसुहृत्समेतम् ।
तं पार्वतीस्वकरकॢप्तमहाभिषेकं सच्चक्रवर्तिनम् अथ प्रतिमुक्ततार्क्ष्यम् ॥ १२,२३.१९९ ॥

तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
निजगृहगतागतेन च संयुक्तः शङ्खचूडेन ॥ १२,२३.२०० ॥

लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ॥ १२,२३.२०१ ॥

इत्य् अत्युदारसरसाम् आख्याय कथां तदा स वेतालः ।
पुन एव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥ १२,२३.२०२ ॥

तद् ब्रूहि शङ्खचूडः किं वा जीमूतवाहनो ऽभ्यधिकः ।
सत्त्वेन तयोर् उभयोः पूर्वोक्तश् चात्र समयस् ते ॥ १२,२३.२०३ ॥

इत्य् अस्माद् वेतालाच् छ्रुत्वा मौनं विहाय शापभयात् ।
तम् उवाच स त्रिविक्रमसेनो नृपतिर् निरुद्वेगः ॥ १२,२३.२०४ ॥

बहुजन्मसिद्धम् एतच् चित्रं जीमूतवाहनस्य कियत् ।
श्लाघ्यः स शङ्खचूडो मरणोत्तीर्णो ऽपि यो रिपवे ॥ १२,२३.२०५ ॥

अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय ।
पश्चाद् धावन् गत्वा स्वं देहम् उपानयत् प्रसभम् ॥ १२,२३.२०६ ॥

एतन् निशम्यैव नृपस्य तस्य
वाक्यं स वेतालवरो जगाम ।
पुनः स्वधामैव तदंसपृष्ठान्
नृपो ऽपि तं सो ऽनुययौ तथैव ॥ १२,२३.२०७ ॥

चतुर्विंशस् तरङ्गः ।

ततो गत्वा पुनस् तस्मात् स राजा शिंशपातरोः ।
तं त्रिविक्रमसेनो ऽंसे वीरो वेतालम् अग्रहीत् ॥ १२,२४.१ ॥

प्रस्थितं च ततस् तं स वेतालः स्कन्धतो ऽब्रवीत् ।
राजञ् श्रमविनोदाय शृण्व् एतां वच्मि ते कथाम् ॥ १२,२४.२ ॥

अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् ।
कलेर् अगम्यं कनकपुरं नाम्नाभवत् पुरम् ॥ १२,२४.३ ॥

तस्मिन् यशोधनाख्यो ऽभूद् अन्वर्थो वसुधाधिपः ।
ररक्ष विप्लवाम्भोधेर् यो वेलाद्रिर् इव क्षितिम् ॥ १२,२४.४ ॥

जगादाह्लादकश् चण्डप्रतापो ऽखण्डमण्डलः ।
विधिना यश् च चन्द्रार्काव् एकीकृत्येव निर्ममे ॥ १२,२४.५ ॥

मौर्ख्यं परपरीवादे न शास्त्रार्थे दरिद्रता ।
दोषे न कोषदण्डाभ्यां यस्यासीच् च महीपतेः ॥ १२,२४.६ ॥

पापभीरुर् यशोलुब्धः षण्ढः परपुरंध्रिषु ।
यः शौर्यौदार्यशृङ्गारमयो जनतया जगे ॥ १२,२४.७ ॥

तस्य राज्ञः पुरे तस्मिन्न् अभूद् एको महावणिक् ।
उन्मादिनीति ख्याता च कन्या तस्याभवत् सुता ॥ १२,२४.८ ॥

यो यस् तां हि ददर्शात्र स स तद्रूपसंपदा ।
उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥ १२,२४.९ ॥

तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् ।
यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥ १२,२४.१० ॥

त्रैलोक्यरत्नभूता मे प्रदेयास्ति सुता प्रभो ।
ताम् अनावेद्य देवस्य नान्यस्मै दातुम् उत्सहे ॥ १२,२४.११ ॥

देवो ऽपि सर्वरत्नानां प्रभुः कृत्स्ने ऽपि भूतले ।
तत्स्वीकृत्यानुगृह्णातु देवस् तां प्रतिमुच्य वा ॥ १२,२४.१२ ॥

इत्य् आकर्ण्य वणिग्वाक्यं स राजा ब्राह्मणान् निजान् ।
सादरं व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम् ॥ १२,२४.१३ ॥

ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् ।
सद्यः क्षोभं ययुः क्षिप्राल् लब्ध्वा धैर्यम् अचिन्तयन् ॥ १२,२४.१४ ॥

इमां प्राप्नोति चेद् राजा तद् राष्ट्रम् अवसीदति ।
एतन्मोहितचित्तो हि किं स राज्यम् अवेक्षते ॥ १२,२४.१५ ॥

तस्मात् सुलक्षणेत्य् एषा नाख्येया क्षितिपाय नः ।
इत्य् एव मन्त्रं संमन्त्र्य राज्ञस् ते जग्मुर् अन्तिकम् ॥ १२,२४.१६ ॥

कुलक्षणा सा देवेति तम् ऊचुश् चात्र ते मृषा ।
तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥ १२,२४.१७ ॥

ततस् तदाज्ञया तां स कन्याम् उन्मादिनीं पिता ।
वणिग् बलधराख्याय तत् सेनापतये ददौ ॥ १२,२४.१८ ॥

अथ सा तद्गृहे तस्थौ भर्त्रा तेन समं सुखम् ।
कुलक्षणेत्य् अहं रज्ञा त्यक्तेत्य् आत्तविमानना ॥ १२,२४.१९ ॥

याति काले च जात्व् अत्र हत्वा हेमन्तहस्तिनम् ।
फुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनम् ॥ १२,२४.२० ॥

आजगाम लसत्पुष्पमञ्जरीकेसरावलिः ।
चूताङ्कुरनखः क्रीदन् कानने मधुकेसरी ॥ १२,२४.२१ ॥

तत् कालं चात्र नगरे तं वसन्तमहोत्सवम् ।
स राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः ॥ १२,२४.२२ ॥

तद्रूपालोकसंभाव्यविप्लवाः कुलयोषितः ।
अपसारयितुं दत्तं तदा चोद्घोषडिण्डिमम् ॥ १२,२४.२३ ॥

सा श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः ।
आत्मानं दर्शयामास परित्यागावमानतः ॥ १२,२४.२४ ॥

स च तां चक्षुभे दृष्ट्वा राजा ज्वालाम् इवोद्गताम् ।
संधुक्षितस्य कामाग्नेर् मधुना मलयानिलैः ॥ १२,२४.२५ ॥

निर्वर्णयंश् च तद्रूपं जैत्रम् अस्त्रं मनोभुवः ।
गाढं प्रविष्टं हृदये क्षणान् मोहम् उपाययौ ॥ १२,२४.२६ ॥

भृत्यैर् आश्वासितश् चात्र राजधानीं प्रविश्य सः ।
पृष्टेभ्यो बुबुधे तेभ्यस् तां प्रागुपनतोज्झिताम् ॥ १२,२४.२७ ॥

ततो निर्वास्य देशात् तांस् तत्कुलक्षणवादिनः ।
विप्रान् अनुदिनं दध्यौ ताम् एवोत्कः स भूपतिः ॥ १२,२४.२८ ॥

अहो जडात्मा निर्लज्जश् चन्द्रो नित्यम् उदेति यत् ।
जगन्नेत्रोत्सवे तस्या निःकलङ्के मुखे सति ॥ १२,२४.२९ ॥

कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ ।
लभेते नोपमाम् अस्याः स्तनयोः पीनतुङ्गयोः ॥ १२,२४.३० ॥

काञ्चीनक्षत्रमालाङ्कं तत् तस्या जघनस्थलम् ।
कं न कंदर्पमातङ्गमस्तकाभं विलोभयेत् ॥ १२,२४.३१ ॥

इति तां चिन्तयन्न् अन्तः क्षीयते स्म दिने दिने ।
कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥ १२,२४.३२ ॥

ह्रिया निगूहमानश् च पृच्छद्भ्यो बाह्यलक्षणैः ।
कृच्छ्राच् छशंस चाप्तेभ्यः स्वपीडाकारणं स तत् ॥ १२,२४.३३ ॥

अलं संतप्य भजसे स्वाधीनां तर्हि किं न ताम् ।
इत्य् उक्तस् तैश् च नैवैतद् अनुमेने स धार्मिकः ॥ १२,२४.३४ ॥

ततो बलधरो बुद्ध्वा स सेनापतिर् एत्य तम् ।
प्रभुम् अभ्यर्थयामास सद्भक्तश् चरणानतः ॥ १२,२४.३५ ॥

दासस्त्री तव दास्य् एव सा देव न पराङ्गना ।
स्वयं चाहं प्रयच्छामि तद् भार्यां स्वीकुरुष्व मे ॥ १२,२४.३६ ॥

अथवा तां त्यजामीह देव देवकुले ततः ।
न दोषो ग्रहणे तस्यास् तव देवकुलस्त्रियः ॥ १२,२४.३७ ॥

इति स्वसेनापतिना निर्बन्धेन स पार्थिवः ।
तेनानुनाथ्यमानो ऽपि सान्तःकोपम् उवाच तम् ॥ १२,२४.३८ ॥

राजा भूत्वा कथं कुर्याम् अधर्मम् अहम् ईदृशम् ।
मय्य् उल्लङ्घितमर्यादे को हि तिष्ठेत् स्ववर्त्मनि ॥ १२,२४.३९ ॥

भक्तो ऽपि च भवान् पापे नियोजयति मां कथम् ।
परलोकमहादुःखहेतौ क्षणसुखावहे ॥ १२,२४.४० ॥

न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि ।
सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ १२,२४.४१ ॥

तद् वरं मृत्युर् इत्य् उक्त्वा स राजा निषिषेध तम् ।
त्यजन्त्य् उत्तमसत्त्वा हि प्राणान् अपि न सत्पथम् ॥ १२,२४.४२ ॥

तथैवार्थयमानांश् च पौरजानपदान् अपि ।
मिलितान् स निराचक्रे राजा सुदृढनिश्चयः ॥ १२,२४.४३ ॥

ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा ।
प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ १२,२४.४४ ॥

सेनापतिश् चासहिष्णुस् तं तथा प्रमयं प्रभोः ।
सो ऽग्निं विवेश भक्तानाम् अनिर्वाच्यं हि चेष्टितम् ॥ १२,२४.४५ ॥

इत्य् आख्यातकथाश्चर्यो वेतालो ऽंसस्थितस् तदा ।
स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ १२,२४.४६ ॥

तद् एतयोः को नृपतेः सेनापतिमहीभृतोः ।
सत्त्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश् च ते ॥ १२,२४.४७ ॥

इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः ।
प्रत्युवाच द्वयोर् राजा सत्त्ववान् अधिकस् तयोः ॥ १२,२४.४८ ॥

तद् आकर्ण्यैव वेतालः साक्षेपस् तम् अभाषत ।
सेनापतिः कथं नात्र राजन्न् अभ्यधिको वद ॥ १२,२४.४९ ॥

यस् तथा स्वामिने भक्त्या स्वभार्यां तां तथाविधाम् ।
सुचिरज्ञाततद्भोगसुखास्वादो ऽप्य् उपानयत् ॥ १२,२४.५० ॥

आत्मानं चाग्निसाच् चक्रे तस्मिन् पञ्चत्वम् आगते ।
अनास्वादिततद्भोगस् तत्कान्तां तु जहौ नृपः ॥ १२,२४.५१ ॥

वेतालेनैवम् उक्तस् तु विहस्य स नृपो ऽब्रवीत् ।
यद्य् अप्य् एवं तथाप्य् एतत् किं चित्रं कुलपुत्रकः ॥ १२,२४.५२ ॥

सेनापतिः स भक्त्या यत् स्वाम्यर्थे तत् तथाकरोत् ।
प्राणैर् अपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ १२,२४.५३ ॥

राजानस् तु मदाध्माता गजा इव निरङ्कुशाः ।
छिन्दन्ति धर्ममर्यादाशृङ्खलां विषयोन्मुखाः ॥ १२,२४.५४ ॥

तेषां ह्य् उद्रिक्तचित्तानाम् अभिषेकाम्बुभिः समम् ।
विवेको विगलत्य् ओघेनोह्यमान इवाखिलः ॥ १२,२४.५५ ॥

क्षिप्यन्त इव चोद्धूय चलच्चामरमारुतैः ।
वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ १२,२४.५६ ॥

आतपत्रेण सत्यं च सूर्यालोको निवार्यते ।
विभूतिवात्योपहता दृष्टिर् मार्गं च नेक्षते ॥ १२,२४.५७ ॥

ते ते च विपदं प्राप्ता मारमोहितचेतसः ।
जगद्विजयिनो ऽपीह राजानो नहुषादयः ॥ १२,२४.५८ ॥

एषो राजा पुनः पृथ्व्याम् एकच्छत्रो ऽपि यत् तया ।
उन्मदिन्या चपलया लक्ष्म्येव न विमोहितः ॥ १२,२४.५९ ॥

प्राणान् अपि स धर्मात्मा तत्याज न पुनः पदम् ।
अमार्गे निदधे धीरस् तेनासौ मे ऽधिको मतः ॥ १२,२४.६० ॥

इत्य् आकर्ण्य नृपस्य तस्य वचनं भूयस् तदंसस्थलाद्
वेतालः सहसा स्वम् एव स पदं मायाप्रभावाद् ययौ ।
राजाप्य् अन्वसरत् तथैव स पुनः संप्राप्तुम् एतं जवाद्
आरब्धे हि सुदुःकरे ऽपि महतां मध्ये विरामः कुतः ॥ १२,२४.६१ ॥

पञ्चविंशस् तरङ्गः ।

ततः पितृवने तस्मिन् क्रव्यभक्षिभिर् आवृते ।
ज्वालाविलोलरसनैर् भूतैर् इव चिताग्निभिः ॥ १२,२५.१ ॥

गत्वैव तस्याम् अक्षोभ्यः क्षपायां शिंशपातरुम् ।
स त्रिविक्रमसेनस् तम् आससाद पुनर् नृपः ॥ १२,२५.२ ॥

तत्रापश्यच् च वेतालविकृतान् सदृशाकृतीन् ।
उल्लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितम् ॥ १२,२५.३ ॥

अहो किम् एतत् किं वान्यन् मायी कालं क्षिपत्य् अयम् ।
वेतालो मे न वेद्म्य् एषां ग्राह्यं येनेह भूयषाम् ॥ १२,२५.४ ॥

असिद्धार्थस्य चेद् रात्रिर् इयं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ १२,२५.५ ॥

इति चिन्तयतस् तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥ १२,२५.६ ॥

ततो दृष्ट्वैकम् एवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर् नृपः ॥ १२,२५.७ ॥

प्रक्रामन्तं च तं भूयः स वेतालो ऽभ्यभाषत ।
राजन् नोद्विजसे चित्रं तद् इमां मे कथां सृणु ॥ १२,२५.८ ॥

अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ १२,२५.९ ॥

भोगवत्यमरावत्योस् तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ॥ १२,२५.१० ॥

यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासाम् एव भ्रुवोर् भङ्गो लोचनेषु च चापलम् ॥ १२,२५.११ ॥

तमो निशासु वक्रत्वं यस्यां कविवरोक्तिषु ।
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥ १२,२५.१२ ॥

तस्यां चन्द्रप्रभाख्यस्य राज्ञो ऽमात्यो बहुश्रुतः ।
देवस्वामीत्य् अभूद् विप्रो भूरियज्ञो महाधनः ॥ १२,२५.१३ ॥

तस्य कालेन तनयश् चन्द्रस्वामीत्य् अजायत ।
सो ऽधीतविद्यो ऽपि युवा द्यूतैकव्यसनो ऽभवत् ॥ १२,२५.१४ ॥

एकदा च द्विजसुतश् चन्द्रस्वामी स कांचन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ॥ १२,२५.१५ ॥

आश्लिष्यामः कम् अत्रेति विपद्भिर् इव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैर् नेत्रैर् अक्षैर् निरन्तराम् ॥ १२,२५.१६ ॥

कः सो ऽस्ति न श्रियं यस्य हराम्य् अप्य् अलकापतेः ।
इतीव तन्वतीं नादान् द्यूतकृत्कलहस्वनैः ॥ १२,२५.१७ ॥

तां प्रविश्य क्रमाद् दीव्यन्न् अक्षैः स कितवैः सह ।
वस्त्रादि हारयित्वापि धनम् अन्यद् अहारयत् ॥ १२,२५.१८ ॥

मृग्यमाणं च यन् नादात् स तद् धनम् असंभवि ।
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥ १२,२५.१९ ॥

लगुडाहतसर्वाङ्गः पाषाणम् इव निश्चलम् ।
कृत्वा मृतम् इवात्मानं तस्थौ विप्रसुतो ऽथ सः ॥ १२,२५.२० ॥

तथैव दिवसान् द्वित्रांस् तत्र तस्मिन्न् अवस्थिते ।
क्रुद्धः स सभ्यष् ठिण्ठायां कितवान् स्वान् अभाषत ॥ १२,२५.२१ ॥

श्रितानेनाश्मता तावत् तद् एतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्य् अहं तु वः ॥ १२,२५.२२ ॥

इत्य् उक्तास् तेन कितवास् तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युर् उत्क्षिप्य दूरं कूपगवेषिणः ॥ १२,२५.२३ ॥

तत्रैको वृद्धकितवस् तान् अन्यान् एवम् अभ्यधात् ।
मृतो ऽयं प्रायशस् तत् किं कूपे क्षिप्तेन नो ऽमुना ॥ १२,२५.२४ ॥

तद् इहैवैनम् उज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ १२,२५.२५ ॥

ततस् त्यक्त्वा गतेष्व् एषु कितवेषु स उत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यम् एकं शिवालयम् ॥ १२,२५.२६ ॥

तत्र किंचित् समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैर् अहम् ॥ १२,२५.२७ ॥

तद् ईदृशः क्व गच्छामि नाग्नोपहतपांशुलः ।
पिता बन्धुः सुहृद् वापि दृष्ट्वा किं हि वदेन् मम ॥ १२,२५.२८ ॥

तत् संप्रति स्थितो ऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥ १२,२५.२९ ॥

इत्य् आलोचयतस् तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपो ऽस्ताद्रिं रविस् त्यक्ताम्बरो ययौ ॥ १२,२५.३० ॥

तावच् च भूतिदिग्धाङ्गस् तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरो हर इवापरः ॥ १२,२५.३१ ॥

स चन्द्रस्वामिनं दृष्ट्वा को ऽसीति परिपृच्छ्य च ।
स्रुत्वा तस्माच् च वृत्तान्तं प्रह्वं तं तापसो ऽब्रवीत् ॥ १२,२५.३२ ॥

त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तो ऽचिन्तितो ऽतिथिः ।
तद् उत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥ १२,२५.३३ ॥

इत्य् उक्तो व्रतिना सो ऽथ चन्द्रस्वामी जगाद तम् ।
विप्रो ऽहं भगवन् भोक्ष्ये भिक्षाभागं कथं तव ॥ १२,२५.३४ ॥

तच् छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ १२,२५.३५ ॥

संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यम् अतिथेः कुरुष्वेति शशास ताम् ॥ १२,२५.३६ ॥

तथेत्य् उक्ते तया तत्र सोद्यानं साङ्गनाजनम् ।
पुरं सौवर्णम् उत्पन्नं चन्द्रस्वामी ददर्श सः ॥ १२,२५.३७ ॥

विस्मितं च तम् अभ्येत्य तस्माद् वाराङ्गनाः पुरात् ।
ऊचुर् उत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥ १२,२५.३८ ॥

इत्य् उक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः स दत्तसद्वस्त्रो निन्ये ऽन्यद् वासकोत्तमम् ॥ १२,२५.३९ ॥

तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकाद् इव निर्मिताम् ॥ १२,२५.४० ॥

तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।
बुभुजे दिव्यम् आहारं तयैवात्र समं ततः ॥ १२,२५.४१ ॥

भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ १२,२५.४२ ॥

प्रातः प्रबुद्धश् चापश्यत् तद् एवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन् न परिच्छदम् ॥ १२,२५.४३ ॥

ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस् तापसं तं व्यजिज्ञपत् ॥ १२,२५.४४ ॥

तत्प्रसादाद् अहं रात्राव् उषितो भगवन् सुखम् ।
किं तु यास्यन्ति मे प्राणास् तया दिव्यस्त्रिया विना ॥ १२,२५.४५ ॥

तच् छ्रुत्वा स तपस्वी तं हसन् कारुणिको ऽब्रवीत् ।
इहैवास्स्व पुनर् नक्तं भविष्यति तथैव ते ॥ १२,२५.४६ ॥

इत्य् उक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्य् अत्र सो ऽभुङ्क्त भोगांस् तांस् तत्प्रसादतः ॥ १२,२५.४७ ॥

बुद्ध्वा च तं शनैर् विद्याप्रभावं विधिचोदितः ।
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥ १२,२५.४८ ॥

सत्यं कृपा चेद् भगवन् मयि ते शरणागते ।
तद् एतां देहि मे विद्यां यत्प्रभावो ऽयम् ईदृशः ॥ १२,२५.४९ ॥

इति ब्रुवाणं निर्बन्धात् तं प्रत्याह स तापसः ।
असाध्या तव विद्येयं साध्यते ऽन्तर्जले ह्य् असौ ॥ १२,२५.५० ॥

तत्र चैषा सृजत्य् आशु जपतः साधकस्य तत् ।
मायाजालं विमोहाय येन सिद्धिं न सो ऽश्नुते ॥ १२,२५.५१ ॥

स हि तत्र पुनर् जातं बालम् आत्मानम् ईक्षते ।
ततो युवानम् उद्व्यूढदारं जातात्मजं तथा ॥ १२,२५.५२ ॥

सुहृन् मे ऽयम् अयं शत्रुर् इति मिथ्या स मुह्यति ।
न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ॥ १२,२५.५३ ॥

यस् तु त्रिरष्टवर्षः सन् गुरुविद्याप्रबोधितः ।
जन्म स्मृत्वा विदित्वा तद् धीरो मायाविजृम्भितम् ॥ १२,२५.५४ ॥

तद्वशो ऽप्य् अत्र कुरुते तथैवाग्निप्रवेशनम् ।
परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ॥ १२,२५.५५ ॥

अन्यस्य न परं विद्या शिष्यस्यैषा हि सिध्यति ।
अस्थानार्पणतो यावद् गुरोर् अपि विनश्यति ॥ १२,२५.५६ ॥

मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।
मत्सिद्धिहान्या मा जातु तवैतद् अपि नङ्क्ष्यति ॥ १२,२५.५७ ॥

एवं तपस्विनोक्ते ऽपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वं मा भूद् वश् चिन्तात्रेति तम् अब्रवीत् ॥ १२,२५.५८ ॥

ततो ऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ॥ १२,२५.५९ ॥

ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ।
वत्स विद्यां जपन् मायां यदि द्रक्ष्यसि तां तदा ॥ १२,२५.६० ॥

मायाग्निम् एव प्रविशेर् विध्यया बोधितो मया ।
अहं च तावत् स्थास्यामि तवेहैव नदीतटे ॥ १२,२५.६१ ॥

इत्य् उक्त्वाध्यापयामास तम् आचान्तं शुचिं शुचिः ।
स चन्द्रस्वामिनं विद्यां सम्यक् तां व्रतिनां वरः ॥ १२,२५.६२ ॥

ततस् तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी स रभसान् नदीम् अवततार ताम् ॥ १२,२५.६३ ॥

तस्याम् अन्तर्जले विद्यां तां जपन् सहसैव सः ।
तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ॥ १२,२५.६४ ॥

वीक्षते यावद् अन्यस्याम् उत्पन्नः स्वात्मना पुरि ।
पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर् गतः ॥ १२,२५.६५ ॥

कृतोपनयनो ऽधीतविद्यो दारान् अवाप्य च ।
तद्दुःखसुखसंमूढः संपूर्णो ऽपत्यवान् क्रमात् ॥ १२,२५.६६ ॥

ततश् चात्र सुतस्नेहस्वीकृतस् तत् तद् आचरत् ।
स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस् तथा ॥ १२,२५.६७ ॥

एवं जन्मान्तरं मिथ्या तस्यानुभवतो ऽत्र सः ।
काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ॥ १२,२५.६८ ॥

स तद्विद्याप्रयोगेण सद्यस् तेन प्रबोधितः ।
स्मृत्वात्मानं गुरुं तं च मायाजालम् अवेत्य तत् ॥ १२,२५.६९ ॥

उद्यतो ऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।
पर्यवारि निषेधद्भिर् वृद्धाप्तगुरुबन्धुभिः ॥ १२,२५.७० ॥

बहुधा बोध्यमानो ऽपि तैर् दिव्यसुखलोलुपः ।
स सज्जितचितं प्रायान् नदीतीरं सबान्धवः ॥ १२,२५.७१ ॥

दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यताम् ।
क्रन्दन्ति बालापत्यानि सो ऽथ मोहाद् अचिन्तयत् ॥ १२,२५.७२ ॥

कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतो ऽनलम् ।
न च जानामि किं सत्यं गुरोस् तद् वचनं न वा ॥ १२,२५.७३ ॥

तत् किं नु प्रविशाम्य् अग्निम् उत न प्रविशामि किम् ।
अथवा तत् कथं मिथ्या स्यात् संवादि गुरोर् वचः ॥ १२,२५.७४ ॥

तद् विशाम्य् अनलं कामम् इत्य् अन्तः प्रविमृश्य सः ।
अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ॥ १२,२५.७५ ॥

अनुभूतहिमस्पर्शो वह्नेश् च स सविस्मयः ।
शान्तमायो नदीतीराद् उत्थायोपययौ तटम् ॥ १२,२५.७६ ॥

तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।
पृच्छन्तं चाग्निशैत्यान्तं स्वम् उदन्तम् अबोधयत् ॥ १२,२५.७७ ॥

ततस् तं स गुरुः प्राह वत्स शङ्के कृतस् त्वया ।
अपचारो ऽत्र शीतस् ते कथं जातो ऽग्निर् अन्यथा ॥ १२,२५.७८ ॥

अदृष्टम् एतद् एतस्या विद्यायाः साधने यतः ।
एतद् गुरोर् वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥ १२,२५.७९ ॥

नापचारो मया कश्चिद् विहितो भगवन्न् इति ।
ततः स तद्गुरुर् विद्यां जिज्ञासुस् तां समस्मरत् ॥ १२,२५.८० ॥

न च साविरभूत् तस्य न तच्छिष्यस्य तस्य वा ।
नष्टविद्याव् अथोभौ तौ विषण्णौ जग्मतुस् ततः ॥ १२,२५.८१ ॥

इत्य् आख्याय कथाम् अथ वेतालः पृष्टवान् स तं भूयः ।
पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ॥ १२,२५.८२ ॥

राजन् संशयम् एतं छिन्द्धि मम ब्रूहि हेतुना केन ।
विहिते ऽपि यथोद्दिष्टे कर्मणि विद्योभयोस् तयोर् नष्टा ॥ १२,२५.८३ ॥

एतत् स वेतालवचो निशम्य
तं प्रत्यवोचन् मनुजेन्द्रवीरः ।
जाने भवान् मे क्षिपतीह कालं
योगेश्वरैवं तद् अपि ब्रवीमि ॥ १२,२५.८४ ॥

न दुष्करेणापि हि कर्मणैव
शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावन् न निष्क्रम्य विकल्पशुद्धं
धीरं मनो निर्मलसत्त्ववृत्ति ॥ १२,२५.८५ ॥

तस्यात्र मन्दस्य तु विप्रयूनश्
चित्तं प्रबुध्यापि विकल्पते स्म ।
विद्या न सा तेन गतास्य सिद्धिर्
अस्थानदानाच् च गुरोर् विनष्टा ॥ १२,२५.८६ ॥

इति तस्य नृपस्य सृष्टवाचो बत वेतालवरो ऽंसतः स भूयः ।
निजम् एव पदं ययाव् अलक्ष्यो नृपतिस् तं च तथैव सो ऽन्वयासीत् ॥ १२,२५.८७ ॥


षड्विंशस् तरङ्गः ।

अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस् तं गृहीत्वोदचलन् नृपः ॥ १२,२६.१ ॥

आगच्छन्तं च तं भूयो वेतालः सो ऽभ्यभाषत ।
राजञ् शृणु कथम् एकां हृद्यां ते कथयाम्य् अहम् ॥ १२,२६.२ ॥

अस्ति वक्रोलकं नाम पुरं सुरपुरोपमम् ।
तस्मिन् सूर्यप्रभाख्यो ऽभूद् राजा जम्भारिसंनिभः ॥ १२,२६.३ ॥

सौकर्योद्यतया मूर्त्या दत्तानन्दो वसुंधराम् ।
इमां हरिर् इवोद्धृत्य यो बभार चिरं भुजे ॥ १२,२६.४ ॥

धूमासङ्गे ऽश्रुसंपातः शृङ्गारे मारसंकथाः ।
द्वाःस्थेषु हेमदण्डाश् च राष्ट्रे यस्याभवन् प्रभोः ॥ १२,२६.५ ॥

सर्वसंपत्समृद्धस्य तस्यैकाभूद् अनिर्वृतिः ।
नोदपद्यत यत् पुत्रो बहुष्व् अन्तःपुरेष्व् अपि ॥ १२,२६.६ ॥

एतस्मिंश् च कथासंधौ ताम्रलिप्त्यां महापुरि ।
बभूव धनपालाख्यो धुर्यो धनवतां वनिक् ॥ १२,२६.७ ॥

तस्य चाजायतैकैव नाम्ना धनवती सुता ।
विद्याधरी च्युता शापात् सौन्दर्येणैव सूचिता ॥ १२,२६.८ ॥

तस्यां च यौवनस्थायां स वणिक् पञ्चतां ययौ ।
तद्धनं राजसानाथ्याद् आक्रान्तम् अथ गोत्रजैः ॥ १२,२६.९ ॥

ततो हिरण्यवत्याख्या वणिजस् तस्य गेहिनी ।
आदाय रत्नभरणं निजम् अप्रकटस्थितम् ॥ १२,२६.१० ॥

धनवत्या तया साकं स्वदुहित्रा निशामुखे ।
पलाय्य दायादभयाद् गृहाद् गुप्तं विनिर्ययौ ॥ १२,२६.११ ॥

ध्वान्तेन बहिर् अन्तश् च सा दुःखेनान्धकारिता ।
कृच्छ्राद् बहिःपुरं प्रायात् सुताहस्तावलम्बिनी ॥ १२,२६.१२ ॥

तत्र संतमसे यान्ती विधियोगाद् अलक्षितम् ।
अंसेनाताडयच् चौरं शूलाग्रारोपितस्थितम् ॥ १२,२६.१३ ॥

स सजीवस् तदंसाग्रघट्टनाधिकपीडितः ।
आः क्षते क्षारम् एतन् मे क्षिप्तं केनेत्य् अभाषत ॥ १२,२६.१४ ॥

ततस् तत्रैव सा को ऽसीत्य् अपृच्छत् तं वणिग्वधूः ।
प्रत्युवाच ततश् चौरश् चौरो ऽहम् इह सूचितः ॥ १२,२६.१५ ॥

शूले पापस्य चाद्यापि नोत्क्रामन्ति ममासवः ।
तद् आर्ये त्वं मम ब्रूहि कासिक्वैवं प्रयासि च ॥ १२,२६.१६ ॥

तच् छ्रुत्वा तं वणिग्भार्या यावत् स्वोदन्तम् आह सा ।
तावत् तिलकितं प्राच्या मुखम् उद्भासितेन्दुना ॥ १२,२६.१७ ॥

ततो दिक्षु प्रकाशासु स चौरस् तां वणिक्सुताम् ।
दृष्ट्वा धनवतीं कन्यां तन्मातरम् उवाच ताम् ॥ १२,२६.१८ ॥

शृणु मे प्रार्थनाम् एकां सहस्रं काञ्चनस्य ते ।
ददामि तद् इमां मह्यं स्वसुतां देहि कन्यकाम् ॥ १२,२६.१९ ॥

किम् एतया तवेत्य् उक्तो हसन्त्याथ तयात्र सः ।
पुनश् चौरो ऽब्रवीन् नास्ति पुत्रो मम गतायुषः ॥ १२,२६.२० ॥

न चापुत्रो ऽश्नते लोकांस् तद् एषा यं मदाज्ञया ।
कुत्रचिज् जनयेत् पुत्रं क्षेत्रजः स भवेन् मम ॥ १२,२६.२१ ॥

इत्य् एतां प्रार्थये त्वं तु तद् विधत्स्व ममेप्सितम् ।
तच् छ्रुत्वा सा वणिग्योषिल् लोभात् तत् प्रत्यपद्यत ॥ १२,२६.२२ ॥

आनीय च कुतो ऽप्य् अम्बु पाणौ चौरस्य तस्य सा ।
एषा सुता मया तुभ्यं कन्या दत्तेत्य् अपातयत् ॥ १२,२६.२३ ॥

सो ऽपि तद्दुहितुर् दत्तयथोक्ताज्ञो जगाद ताम् ।
गच्छामुष्य वटस्याधः खात्वा स्वर्णं गृहाण तत् ॥ १२,२६.२४ ॥

गतासोर् दाहयित्वा मे देहं युक्त्या विसृज्य च ।
अस्थीनि तीर्थे ससुता गच्छेर् वक्रोलकं पुरम् ॥ १२,२६.२५ ॥

तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने ।
निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥ १२,२६.२६ ॥

इत्य् उक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् ।
शूलव्यधव्यथोत्क्रान्तजीवश् चौरो बभूव सः ॥ १२,२६.२७ ॥

ततो गत्वा वणिक्स्त्री सा स्वर्णं वटतरोस् तलात् ।
गृहीत्वा ससुता गुप्तम् अगाद् भर्तृसुहृद्गृहम् ॥ १२,२६.२८ ॥

तत्र स्थित्वा च युक्त्या तद् दाहयित्वा कलेवरम् ।
चौरस्य तस्य तीर्थे ऽस्थिक्षेपादिकम् अकारयत् ॥ १२,२६.२९ ॥

अन्येद्युश् चात्तगुप्तार्था ततो निर्गत्य सात्मजा ।
प्रयान्ती क्रमशः प्राप सा तद् वक्रोलकं पुरम् ॥ १२,२६.३० ॥

तत्रैकं वसुदत्ताख्याद् गृहं क्रीत्वा वणिग्वरात् ।
तस्मिन्न् उवास सुतया धनवत्या तया सह ॥ १२,२६.३१ ॥

तदा च तत्रोपाध्यायो विष्णुस्वामीत्य् अभूत् पुरे ।
मनःस्वामीति तस्यासीच् छिष्यो विप्रो ऽतिरूपवान् ॥ १२,२६.३२ ॥

विध्याभिजनयुक्तो ऽपि स यौवनवशीकृतः ।
तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीम् ॥ १२,२६.३३ ॥

सा च सौवर्णदीनारशतपञ्चकम् अग्रहीत् ।
भाटिं तस्य च तन् नाभूद् व्यषीदत् तेन सो ऽन्वहम् ॥ १२,२६.३४ ॥

एकदा च तम् अद्राक्षीत् तादृशं सा वणिक्सुता ।
क्षामाभिरामवपुषं धनवत्य् अत्र हर्म्यतः ॥ १२,२६.३५ ॥

तद्रूपहृतचित्ता च भर्तुश् चौरस्य तस्य सा ।
स्मृत्वानुज्ञां समीपस्थां युक्त्यावोचत् स्वमातरम् ॥ १२,२६.३६ ॥

अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने ।
कीदृशे बत विश्वस्य नयनामृतवर्षिणी ॥ १२,२६.३७ ॥

एतच् छ्रुत्वैव तस्मिंस् तां बद्धभावाम् अवेत्य च ।
तन् माता सा वणिग्भार्या मनस्य् एवम् अचिन्तयत् ॥ १२,२६.३८ ॥

मद्दुहित्रानया तावद् वरणीयः सुताप्तये ।
कश्चिद् भर्त्राज्ञया तस्माद् एष एवार्थ्यते न किम् ॥ १२,२६.३९ ॥

इत्य् आकलय्य व्यसृजत् तत् संदिश्य मनीषितम् ।
रहस्यधारिणीं चेटीं तम् आनेतुं सुताकृते ॥ १२,२६.४० ॥

सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् ।
स च श्रुत्वा द्विजयुवा व्यसनी ताम् अभाषत ॥ १२,२६.४१ ॥

यदि हंसावलीहेतोर् दीनारशतपञ्चकम् ।
सौवर्णं दीयते सह्यं तद् एकाम् एमि यामिनीम् ॥ १२,२६.४२ ॥

इति तेनोक्तया चेट्या तया गत्वा तथैव सा ।
उक्ता वणिक्स्त्री तस्मै तत् तद्धस्ते प्राहिणोद् धनम् ॥ १२,२६.४३ ॥

तद् गृहीत्वा मनःस्वामी तत्पुत्र्या वासकं ययौ ।
तस्याः स तन्निसृष्टाया धनवत्यः सचेटिकः ॥ १२,२६.४४ ॥

तत्र तां विततोत्कण्ठां कान्तां भूषितभूतलाम् ।
स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च ॥ १२,२६.४५ ॥

तया समं च नीत्वा तां रात्रिं संभोगलीलया ।
निर्गत्य स ततो गुप्तं ययौ प्रातर् यथागतम् ॥ १२,२६.४६ ॥

सापि तस्माद् धनवती सगर्भाभूद् वणिक्सुता ।
काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥ १२,२६.४७ ॥

परितुष्टां तदा तां च सुतोत्पत्त्या समातृकाम् ।
आदिदेश हरः स्वप्ने दर्शितस्ववपुर् निशि ॥ १२,२६.४८ ॥

युक्तं हेमसहस्रेण नीत्वा बालम् उषस्य् अमुम् ।
सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥ १२,२६.४९ ॥

एवं स्यात् क्षेमम् इत्य् उक्ता शूलिना सा वणिक्सुता ।
तन्माता च प्रबुध्यैतं स्वप्नन्न् अन्योनम् ऊचतुः ॥ १२,२६.५० ॥

नीत्वा च तं तत्यजतुर् भगवत्प्रत्ययाच् छिशुम् ।
राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥ १२,२६.५१ ॥

तावच् च तम् अपि स्वप्ने सुतचिन्तातुरं सदा ।
तत्र सूर्यप्रभं भूपम् आदिदेश वृषध्वजः ॥ १२,२६.५२ ॥

उत्तिष्ठ राजन् बालस् ते सिंहद्वारे सकाञ्चनः ।
केनापि स्थापितो भव्यो मञ्चकस्थं गृहाण तम् ॥ १२,२६.५३ ॥

इत्य् उक्तः शंभुना प्रातः प्रबुद्धो ऽपि तथैव सः ।
द्वाःस्थैः प्रविश्य विज्ञप्तो निर्ययौ नृपतिः स्वयम् ॥ १२,२६.५४ ॥

दृष्ट्वा च सिंहद्वारे तं बालं सकनकोत्करम् ।
रेखाच्छत्त्रध्वजाद्यङ्कपाणिपादं शुभाकृतिम् ॥ १२,२६.५५ ॥

दत्तो ममोचितः पुत्रः शंभुनायम् इति ब्रुवन् ।
स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥ १२,२६.५६ ॥

चकार चोत्सवं तावद् असंख्यातं ददद् वसु ।
दरिद्रशब्दस्यैकस्य यावद् आसीन् निरर्थता ॥ १२,२६.५७ ॥

नृत्तवाद्यादिभिर् नीत्वा द्वादशाहं ततः स तम् ।
पुत्रं चन्द्रप्रभं नाम्ना चक्रे सुर्यप्रभो नृपः ॥ १२,२६.५८ ॥

ववृधे राजपुत्रो ऽत्र सो ऽथ चन्द्रप्रभः क्रमात् ।
वपुषेव गुणौघेनाप्य् आश्रितानन्ददायिना ॥ १२,२६.५९ ॥

शनैर् युवा च संजञ्जे शौर्यौदार्यश्रुतादिभिः ।
आवर्जितप्रकृतिकः क्ष्माभारोद्वहनक्षमः ॥ १२,२६.६० ॥

तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता ।
राज्ये ऽभिषिच्यैव कृती वृद्धो वाराणसीं ययौ ॥ १२,२६.६१ ॥

पृथ्वीं शासति तस्मिंश् च तनये नयशालिन ।
स राजा तत्र तत्याज चरंस् तीव्रतपस् तनुम् ॥ १२,२६.६२ ॥

बुद्ध्वा पितृविपत्तिं ताम् अनुशोच्य कृतक्रियः ।
सो ऽथ चन्द्रप्रभो राजा सचिवान् धार्मिको ऽब्रवीत् ॥ १२,२६.६३ ॥

तातस्य तावत् केनाहम् अनृणो भवितुं क्षमः ।
तथाप्य् एकां स्वहस्तेन ददाम्य् एतस्य निष्कृतिम् ॥ १२,२६.६४ ॥

नीत्वा क्षिपामि गङ्गायाम् अस्थीन्य् अस्य यथाविधि ।
गत्वा सर्वपितृह्यश् च गयां पिण्डं ददाम्य् अहम् ॥ १२,२६.६५ ॥

प्रसङ्गात् तीर्थयात्रां च करोम्य् आपूर्वसागरम् ।
इत्य् उक्तवन्तं राजानं मन्त्रिणस् तं व्यजिज्ञपन् ॥ १२,२६.६६ ॥

न देव युज्यते कर्तुम् एतद् राज्ञः कथंचन ।
न हि राज्यं बहुछिद्रं क्षणं तिष्ठत्य् अरक्षितम् ॥ १२,२६.६७ ॥

तद् एषा परहस्तेन कार्या ते पित्रुपक्रिया ।
स्वधर्मपालनाद् अन्या तीर्थयात्रा च का तव ॥ १२,२६.६८ ॥

बह्वपायं क्व पान्थत्वां नित्यगुप्ताः क्व पार्थिवाः ।
इति मन्त्रिवचः श्रुत्वा राजा चन्द्रप्रभो ऽब्रवीत् ॥ १२,२६.६९ ॥

अलं विकल्पैः पित्रर्थे गन्तव्यं निश्चितं मया ।
द्रष्टव्यानि च तीर्थानि यावन् मे क्षमते वयः ॥ १२,२६.७० ॥

पश्चा को वेत्ति किं भावि शरिरे क्षणनश्वरे ।
राज्यं चागमनं यावद् रक्ष्यं युष्माभिर् एव मे ॥ १२,२६.७१ ॥

श्रुत्वैतं निश्चयं राज्ञस् तूष्णीम् आसत मन्त्रिणः ।
ततः प्रयणसंभारं सज्जीचक्रे स भूपतिः ॥ १२,२६.७२ ॥

अथाह्नि स शुभे स्नातो हुताग्निः पूजितद्विजः ।
सुयुक्तं रथम् आस्थाय प्रयतः शान्तवेषभृत् ॥ १२,२६.७३ ॥

सामन्तान् रजपुत्रांश् च पौराञ् जनपदान् अपि ।
निवर्त्यानिच्छतः कृच्छ्राद् आसीमान्तानुयायिनः ॥ १२,२६.७४ ॥

ब्राह्मणैर् वाहनारूढैः समं स सपुरोहितः ।
प्रतस्थे सचिवन्यस्तराज्यश् चन्द्रप्रभो नृपः ॥ १२,२६.७५ ॥

विचित्रवेषभाषादिविलोकनविनोदितः ।
पश्यन् नानाविधान् देशान् क्रमात् प्राप च जाह्नवीम् ॥ १२,२६.७६ ॥

ददर्श ता च जन्तूनां जलकल्लोलपङ्क्तिभिः ।
त्रिदिवारोहसोपानपद्धतिं सृजतीम् इव ॥ १२,२६.७७ ॥

हिमवत्प्रभवां शंभोः कृतक्रीडाकचग्रहाम् ।
बिभ्रतीं चाम्बिकालीलां देवर्षिगणवन्दिताम् ॥ १२,२६.७८ ॥

रथावतीर्णस् तस्यां च कृतस्नानो यथाविधि ।
चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥ १२,२६.७९ ॥

दत्तदानः कृतश्राद्धो रथारूढस् ततो ऽपि च ।
प्रस्थितः क्रमशः प्राप प्रयागम् ऋषिसंस्तुतम् ॥ १२,२६.८० ॥

यत्रार्चिराद्यधूमादिम् आग्राव् इव समागतौ ।
गङ्गायमुनयोर् वाहौ भातः सुगतये नृणाम् ॥ १२,२६.८१ ॥

तत्रोपोष्य कृतस्नानदानश्राद्धादिसत्क्रियः ।
वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः ॥ १२,२६.८२ ॥

एत मोक्षं प्रयातेति वदन्ताम् इव दूरतः ।
वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥ १२,२६.८३ ॥

तस्यां दिनान्य् उपोष्य त्रीण्य् अभ्यर्च्याथ वृषध्वजम् ।
भोगैर् निजोचितैस् तैस् तैः प्रययौ स गयां प्रति ॥ १२,२६.८४ ॥

ततः फलौघनमितैर् मञ्जुगुञ्जद्विहंगमैः ।
पदे पदे सप्रणामं स्तूयमान इवाङ्घ्रिपैः ॥ १२,२६.८५ ॥

विक्षिप्तवन्यकुसुमैर् अर्च्यमान इवानिलैः ।
नानारण्यान्य् अतिक्रम्य पुण्यं प्राप गयाशिरः ॥ १२,२६.८६ ॥

विधाय तत्र च श्राद्धं विधिवद् भूरिदक्षिणम् ।
चन्द्रप्रभः स राजात्र धर्मारण्यम् उपेयिवान् ॥ १२,२६.८७ ॥

गयाकूपे ऽस्य ददतः पितुः पिण्डं तदन्तरात् ।
समुत्तस्थुस् तम् आदातुं त्रयो मानुषपाणयः ॥ १२,२६.८८ ॥

तद् दृष्ट्वैव स विभ्रान्तः किम् एतद् इति पार्थवः ।
कस्मिन् हस्ते क्षिपे पिण्डम् इत्य् अपृच्छन् निजान् द्विजान् ॥ १२,२६.८९ ॥

ते तम् ऊचुर् अयं तावद् एकश् चौरस्य निश्चतम् ।
हस्तो लोहमयः शङ्कुर् यस्मिन् देवैष दृश्यते ॥ १२,२६.९० ॥

द्वितीयो ब्राह्मणस्यायं करो धृतपवित्रकः ।
राज्ञः पाणिस् तृतीयो ऽयं साङ्गुलीयः सुलक्षणः ॥ १२,२६.९१ ॥

तन् न विद्मः क्व पिण्डो ऽयं निक्षेप्यः किम् इदं भवेत् ।
इत्य् उक्तस् तैर् द्विजैः सो ऽत्र राजा लेभे न निश्चयम् ॥ १२,२६.९२ ॥

इत्य् आख्याय कथाश्चर्यं वेतालो ऽंसस्थितस् तदा ।
स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः ॥ १२,२६.९३ ॥

तत् कस्य हस्ते देयः स्यात् स पिण्ड इति वक्तु मे ।
भवांस् तावत् स एवात्र प्राक्तनः समयश् च ते ॥ १२,२६.९४ ॥

इति वेतालतः श्रुत्वा मुक्तमौनः स भूपतिः ।
तं त्रिविक्रमसेनो ऽत्र धर्मज्ञः प्रत्यभाषत ॥ १२,२६.९५ ॥

चौरस्य हस्ते दातव्यः स पिण्डः क्षेत्रजो यतः ।
चन्द्रप्रबः स नृपतिः पुत्रस् तस्यैव नान्ययोः ॥ १२,२६.९६ ॥

विप्रस्य जनकस्यापि स हि पुत्रो न बुध्यते ।
विक्रीतो हि धनेनात्मा ताम् एकां तेन यामिनीम् ॥ १२,२६.९७ ॥

राज्ञः सूरप्रबस्यापि संस्कारादानवर्धनैः ।
भवेत् स पुत्रो न स्याच् चेत् स्वधनं तस्य तत्कृते ॥ १२,२६.९८ ॥

शिशोस् तस्य हि शीर्षान्ते मञ्चस्थस्यैव हेम यत् ।
न्यस्तम् आसीत् तद् एवास्य मूल्यं संवर्धनादिके ॥ १२,२६.९९ ॥

तस्माद् धस्तोदकप्राप्ता तन्माता यस्य येन सा ।
अज्ञा तज्जनने दत्ता यस्य तन् निखिलं धनम् ॥ १२,२६.१०० ॥

तस्य स क्षेत्रजः पुत्रश् चौरस्यैव महीपतिः ।
पिण्डस् तस्यैव हस्ते च देयस् तेनेति मे मतिः ॥ १२,२६.१०१ ॥

इत्य् उक्तवतो नृपतेस् तस्यांसात् स्वपदम् एव वेतालः ।
प्रययौ स च त्रिविक्रमसेनो राजा तम् अन्वयाद् भूयः ॥ १२,२६.१०२ ॥

सप्तविंशस् तरङ्गः ।

ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः ।
स त्रिविक्रमसेनस् तम् उच्चचाल पुनर् नृपः ॥ १२,२७.१ ॥

मौनेन प्रस्थितं तं च वेतालो ऽंसाद् उवाच सः ।
राजन् कस् ते ऽनुबन्धो ऽयं गच्छ रात्रिसुखं भज ॥ १२,२७.२ ॥

न युक्तं तव नेतुं मां कुभिक्षोस् तस्य गोचरम् ।
ग्रहो वा तत्र चेद् अस्तु कथाम् एकाम् इमां शृणु ॥ १२,२७.३ ॥

अस्ति स्वरेखानुत्क्रान्तवर्णभेदव्यवस्थिति ।
नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥ १२,२७.४ ॥

तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् ।
चन्द्रावलोक इत्य् आसीद् राजा राजशिखामणिः ॥ १२,२७.५ ॥

आलानं शौर्यकरिणस् त्यागस्योत्पत्तिकेतनम् ।
विलासवेश्म रूपस्य शशंसुर् यं विचक्षणाः ॥ १२,२७.६ ॥

सतीषु सर्वसंपत्सु यन् न प्राप निजोचिताम् ।
भार्यां सैका परं चिन्ता यूनस् तस्याभवद् धृदि ॥ १२,२७.७ ॥

एकदा च तदुद्वेगविनोदाय महाटवीम् ।
जगामाश्वीयसहितो मृगयायै स भूपतिः ॥ १२,२७.८ ॥

तत्र सूकरवृन्दानि भिन्दन् बाणैर् निरन्तरैः ।
श्यामलाम्बररोचिष्णुस् तमांसीव रविः करैः ॥ १२,२७.९ ॥

शाययञ् शरशय्यासु सिंहान् समरदुर्मदान् ।
मूर्धजैर् धवलैर् भीष्मान् अर्जुनाधिकविक्रमः ॥ १२,२७.१० ॥

विपक्षीकृत्य शरभान् पातयन् पर्वतोपमान् ।
दम्भोलिकर्कशप्रासपातैर् जम्भारिविक्रमः ॥ १२,२७.११ ॥

रसाद् विविक्षुः स नृपो वनाभ्यन्तरम् एककः ।
तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम् ॥ १२,२७.१२ ॥

स वाजी तेन च कशाघातेनोत्तेजितो भृशम् ।
पार्ष्णिघातेन विषमं समं चागणयन् क्षणात् ॥ १२,२७.१३ ॥

वनान्तरं ततो ऽनैषीद् वाताधिकजवो नृपम् ।
मोहितेन्द्रियवृत्तिं तं व्यतीत्य दशयोजनीम् ॥ १२,२७.१४ ॥

तत्र तस्मिन् स्थिते वाहे राजा दिङ्मोहम् एत्य सः ।
भ्रमञ् श्रान्तो ददर्शैकम् आरात् सुविपुलं सरः ॥ १२,२७.१५ ॥

मारुतेनाभिमुख्येन नमितोन्नमितैर् मुहुः ।
इत एहीति हस्ताभैः संज्ञां कुर्वद् इवाम्बुजैः ॥ १२,२७.१६ ॥

तत्र गत्वा च तुरगं विपर्याणोपवर्तितम् ।
स्नातपीतं तरुच्छायाबद्धं दत्ततृणोत्करम् ॥ १२,२७.१७ ॥

कृत्वा स्वयं कृतस्नानः पीताम्बुर् गलितश्रमः ।
रम्येषु तत्प्रदेशेषु ददौ दृष्टिम् इतस् ततः ॥ १२,२७.१८ ॥

एकत्र चाशोकतरोर् अधस्तान् मुनिकन्यकाम् ।
आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीम् ॥ १२,२७.१९ ॥

मुग्धबद्धजटाजूटसविशेषमनोरमाम् ।
सखीद्वितीयाम् आश्चर्यरूपां राजा ददर्श सः ॥ १२,२७.२० ॥

अचिन्तयच् च पुष्पेषोः पतितः शरगोचरे ।
केयं स्यात् सरसि स्नातुं सावित्री किं स्विद् आगता ॥ १२,२७.२१ ॥

किं हरस्याङ्कविभ्रष्टा गौरी भूयः श्रिता तपः ।
अहन्य् अस्तंगतस्येन्दोः कान्तिः किं वा धृतव्रता ॥ १२,२७.२२ ॥

तद् एताम् उपसृत्येह शनैर् उपलभे वरम् ।
इत्य् आलोच्य ययौ तस्याः कन्यायाः सो ऽन्तिकं नृपः ॥ १२,२७.२३ ॥

सापि दृष्ट्वा तम् आयान्तं तद्रूपाकुलितेक्षणा ।
पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥ १२,२७.२४ ॥

को ऽयम् ईदृग् अरण्ये ऽस्मिन् सिद्धो विद्याधरो नु किम् ।
बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥ १२,२७.२५ ॥

एवं वितर्क्य पश्यन्ती तिर्यक् तं त्रपया ततः ।
उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥ १२,२७.२६ ॥

अथोपेत्य स राजा ताम् एवं नागरिको ऽब्रवीत् ।
आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥ १२,२७.२७ ॥

जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् ।
को ऽयं न्व् आश्रमिणां धर्मो यद् एतस्मात् पलाय्यते ॥ १२,२७.२८ ॥

इत्य् उक्ते भूभुजा तस्याः सखी तद्वद् विचक्षणा ।
तत्रोपवेश्य नृपतेश् चकारातिथ्यसत्क्रियाम् ॥ १२,२७.२९ ॥

अथ सप्रणयं राजा तां स पप्रच्छ सोत्सुकः ।
भद्रे कः पुण्यवान् वंशस् त्वत्सख्यालंकृतो ऽनया ॥ १२,२७.३० ॥

कानि श्रोत्रामृतस्यन्दीन्य् अस्या नामाक्षराणि च ।
किं चैवम् अनया पुष्पसुकुमारम् इदं वपुः ॥ १२,२७.३१ ॥

तापसोचितया वृत्त्या विजने ऽस्मिन् कदर्थ्यते ।
इति राज्ञो वचः श्रुत्वा तत्सखी प्रत्युवाच सा ॥ १२,२७.३२ ॥

एषा महर्षेः कण्वस्य दुहिता वर्धिताश्रमे ।
मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा ॥ १२,२७.३३ ॥

इहास्मिन् सरसि स्नातुम् आगतानुज्ञया पितुः ।
इतो ऽत्र नातिदूरे ऽस्ति तस्यैतत् पितुर् आश्रमः ॥ १२,२७.३४ ॥

इत्य् उक्तः स तया हृष्टो राजारुह्य तुरङ्गमम् ।
याचितुं तां सुतां तस्य कण्वर्षेर् आश्रमं ययौ ॥ १२,२७.३५ ॥

विवेश च विनीतस् तं बहिः स्थापितवाहनः ।
जटावल्कलिभिः पूर्णं पादपैर् इव तापसैः ॥ १२,२७.३६ ॥

तन्मध्ये च तम् अद्राक्षीद् ऋषिभिः परिवारितम् ।
तेजसाह्लादनं कण्वमुनिं चन्द्रम् इव ग्रहैः ॥ १२,२७.३७ ॥

उपेत्य पादयोस् तं च ववन्दे सो ऽपि तं मुनिः ।
कल्पितातिथ्यविश्रान्तं ज्ञानी क्षिप्राद् अभाषत ॥ १२,२७.३८ ॥

वत्स चन्द्रवलोकैतच् छृणु यद् वच्मि ते हितम् ।
जानासि यादृक् संसारे प्राणिनां मृत्युतो भयम् ॥ १२,२७.३९ ॥

तन् निःकारणम् एवैतान् वराकान् हंसि किं मृगान् ।
शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥ १२,२७.४० ॥

तत् प्रजा रक्ष धर्मेण समुन् मूलय कण्टकान् ।
हस्त्यश्वास्त्रादियोग्याभिश् चललक्ष्म्यादि साधय ॥ १२,२७.४१ ॥

भुङ्क्ष्व राज्यसुखं देहि धनं दिक्षु यशः किर ।
कृतान्तक्रीडितं हिंस्रं मृगयाव्यसनं त्यज ॥ १२,२७.४२ ॥

हन्तुर् वध्यस्य चान्यस्य यत्र तुल्या प्रमादिता ।
किं तेन बह्वनर्थेन पाण्डोर् वृत्तं न किं श्रुतम् ॥ १२,२७.४३ ॥

एतत् कण्वमुनेर् वाक्यं श्रुत्वा समभिनन्द्य च ।
राजा चन्द्रावलोकस् तम् अर्थज्ञः प्रत्यभाषत ॥ १२,२७.४४ ॥

अनुशिष्टो ऽस्मि भगवन् कृतो मे ऽनुग्रहः परः ।
मृगयाया निवृत्तो ऽहं प्राणिनः सन्तु निर्भयाः ॥ १२,२७.४५ ॥

तच् छ्रुत्वोवाच स मुनिस् तुष्टो ऽहम् अमुना तव ।
प्राणिष्व् अभयदानेन तद् वृणीष्वेप्सितं वरम् ॥ १२,२७.४६ ॥

इत्य् उक्तस् तेन मुनिना कालज्ञः स नृपो ऽभ्यधात् ।
तुष्टो ऽसि चेत् सुतां देहि मह्यम् इन्दीवरप्रभाम् ॥ १२,२७.४७ ॥

इत्य् अर्थितवते सो ऽस्मै राज्ञे स्नानगतां मुनिः ।
अप्सरःसंभवां कन्यां तां ददाव् अनुरूपिकाम् ॥ १२,२७.४८ ॥

ततः कृतविवाहस् तां मुनिभार्याप्रसाधिताम् ।
कृतानुयात्राम् उद्बाष्पैस् तापसैर् आ निजाश्रमात् ॥ १२,२७.४९ ॥

इन्दीवरप्रभां भार्याम् आदायारुह्य वाजिनम् ।
चन्द्रावलोकस् तरसा प्रतस्थे स ततो नृपः ॥ १२,२७.५० ॥

गच्छतश् चास्य विततं दृष्ट्वा तद्दिनचेष्टितम् ।
रविः खिन्न इवास्ताद्रिम् अस्तके समुपाविशत् ॥ १२,२७.५१ ॥

ददृशे मृगनेत्रा च क्रमाद् उद्रिक्तमन्मथा ।
ध्वान्तनीलपटच्छन्नरूपा रात्र्यभिसारिका ॥ १२,२७.५२ ॥

तस्मिन् काले पथि प्राप स राजाश्वत्थपादपम् ।
सज्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥ १२,२७.५३ ॥

शाखापत्त्रौघसंछन्नशाद्वलश्यामलस्थलम् ।
दृष्ट्वा च तं वसामीह रात्रिम् इत्य् अकरोद् धृदि ॥ १२,२७.५४ ॥

ततो ऽवतीर्य तुरगाद् दत्त्वा तस्मै तृणोदकम् ।
विश्रम्य पुलिने वाप्या उपयुक्ताम्बुमारुतः ॥ १२,२७.५५ ॥

मुनिपुत्रिकया सार्धं तया तस्य तरोस् तले ।
प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥ १२,२७.५६ ॥

तत्क्षणं च समाक्रम्य तिमिरांशुकहारिणा ।
सरागम् आननं प्राच्याश् चुचुम्बे शशलक्ष्मणा ॥ १२,२७.५७ ॥

विरेजुश् चन्द्रकिरणैः समाश्लिष्य प्रसारिताः ।
वीतमानावकाशाश् चाशेषा वितमसो दिशः ॥ १२,२७.५८ ॥

अत्रान्तरे लतागुल्मविवरप्रसृतैः करैः ।
ऐन्दवै रत्नदीपाभैस् तरुमूले विभासिते ॥ १२,२७.५९ ॥

सो ऽपि राजा सिषेवे ताम् आश्लिष्येन्दीवरप्रभाम् ।
नवसंगमसोत्कण्ठसरसं सुरतोत्सवम् ॥ १२,२७.६० ॥

विस्रंसयामास शनैर् नीवीं तस्यास् त्रपाम् इव ।
अखण्डयच् च दशनैर् मुग्धभावम् इवाधरम् ॥ १२,२७.६१ ॥

रचयामास कुचयोर् यौवनद्विपकुम्भयोः ।
करजक्षतसद्रत्ननवनक्षत्रमालिकाम् ॥ १२,२७.६२ ॥

मुखं कपोलौ नयने मुहुः परिचुचुम्ब च ।
लावण्यामृतनिःष्यन्दम् आपिबन्न् इव सर्वतः ॥ १२,२७.६३ ॥

इत्थन् निधुवनक्रीडासुखेन स तया सह ।
निनाय कान्तया तत्र राजा क्षणम् इव क्षपाम् ॥ १२,२७.६४ ॥

प्रातश् च मुक्तशयनः सांध्यस्यानन्तरं विधेः ।
स्वसैन्यावाप्तये यातुम् उन्मुखो ऽभूद् वधूसखः ॥ १२,२७.६५ ॥

तावच् च नक्तं लुप्ताब्जखण्डशोभं निशापतिम् ।
भियेवास्ताद्रिकुहरप्रलीनं ध्वस्ततेजसम् ॥ १२,२७.६६ ॥

हन्तुकाम इव क्रोधाद् आताम्रतररोचिषि ।
प्रसारितकरोत्क्षिप्तमण्डलाग्रे विवस्वति ॥ १२,२७.६७ ॥

अकस्माद् आजगामात्र विद्युत्पिङ्गशिरोरुहः ।
कज्जलश्यामलः कालमेघाभो ब्रह्मराक्षसः ॥ १२,२७.६८ ॥

अन्त्रमालाकृतोत्तंसः केशयज्ञोपवीतभृत् ।
खादन् नरशिरोमांसं कपालेन पिबन्न् असृक् ॥ १२,२७.६९ ॥

सो ऽट्टहासं विमुच्योग्रं मुखेनाग्निं वमन् क्रुधा ।
दंष्ट्राकरालो राजानं भर्त्सयन् निजगाद तम् ॥ १२,२७.७० ॥

पाप ज्वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् ।
निवासश् चैष मे ऽश्वत्थो देवैर् अपि न लङ्घ्यते ॥ १२,२७.७१ ॥

सो ऽयं त्वया समाक्रम्य परिभुक्तः स्त्रिया सह ।
रात्रिचर्यागतस्याद्य तद् भुङ्क्ष्वाविनयात् फलम् ॥ १२,२७.७२ ॥

एषो ऽहं ते दुराचार कामोपहतचेतसः ।
उत्पाट्य हृदयं भोक्ष्ये पास्याम्य् एव च शोणितम् ॥ १२,२७.७३ ॥

तच् छ्रुत्वैव तथा घोरं तम् अवध्यम् अवेक्ष्य च ।
त्रस्ताङ्गनः सविनयं भयात् प्रत्यब्रवीन् नृपः ॥ १२,२७.७४ ॥

अजानतापराद्धं यन् मया ते तत् क्षमस्व मे ।
तवाहम् आश्रमे ह्य् अस्मिन्न् अतिथिः शरणाश्रितः ॥ १२,२७.७५ ॥

दास्यामि चेप्सितं तुभ्यम् आनीय पुरुषं पशुम् ।
येन ते भविता तृप्तिस् तत् प्रसीद क्रुधं त्यज ॥ १२,२७.७६ ॥

इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्ससः ।
अस्तु को दोष इत्य् अन्तो विचिन्त्यैवम् अभाषत ॥ १२,२७.७७ ॥

यः सप्तवर्षदेश्यो ऽपि महासत्त्वो विवेकवान् ।
त्वदर्थे स्वेच्छयात्मानं दद्याद् ब्राह्मणपुत्रकः ॥ १२,२७.७८ ॥

हन्यमानं च यं माता हस्तयोः पादयोः पिता ।
अवष्टभ्यातिसुदृढं संनिवेश्य महीतले ॥ १२,२७.७९ ॥

तादृशं पुरुषं मह्यम् उपहारीकरोषि चेत् ।
स्वयं खड्गप्रहारेण हत्वा सप्तदिनान्तरे ॥ १२,२७.८० ॥

तत् ते क्षमिष्ये न्यक्कारम् अन्यथा तु महीपते ।
सद्यो विनाशयिष्यामि त्वाम् अहं सपरिच्छदम् ॥ १२,२७.८१ ॥

श्रुत्वैतत् स भयाद् राजा प्रतिपेदे तथेति तत् ।
तिरोबभूव च ब्रह्मराक्षसः सो ऽपि तत् क्षणम् ॥ १२,२७.८२ ॥

अथ चन्द्रावलोको ऽसौ राजा सेन्दीवरप्रभः ।
हयारूढस् ततः प्रायात् सैन्यं चिन्वन् सुदुर्मनाः ॥ १२,२७.८३ ॥

अहो अहं मृगयया मदनेन च मोहितः ।
गतः पाण्डुर् इवाकाण्डे विनाशं बत बालिशः ॥ १२,२७.८४ ॥

प्राप्यते ह्य् उपहारो ऽस्य राक्षसस् तादृशः कुतः ।
तन् निजं नगरं तावद् यामि पश्यामि भावि किम् ॥ १२,२७.८५ ॥

इति ध्यायन् स च प्राप स्वसैन्यं चिन्वद् आगतम् ।
तद्युक्तश् च सदारः स्वं चित्रकूटम् अगात् पुरम् ॥ १२,२७.८६ ॥

तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे ।
राष्ट्रे ऽन्तर्गतदुःखस्य दिनशेषो जगाम सः ॥ १२,२७.८७ ॥

द्वितीये ऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः ।
मन्त्रिभ्यस् तेषु चैकस् तं मन्त्री सुमतिर् अब्रवीत् ॥ १२,२७.८८ ॥

विषादो देव ते मा भूद् उपहारं हि तादृशम् ।
आनेष्याम्य् अहम् अन्विष्य बह्वाश्चर्या हि मेदिनी ॥ १२,२७.८९ ॥

एवम् आश्वास्य राजानं स सौवर्णीम् अकारयत् ।
मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥ १२,२७.९० ॥

रत्नैर् अलंकृतां तां च कृत्वा कर्णिरथार्पिताम् ।
भ्रामयामास नगरग्रामघोषेष्व् इतस् ततः ॥ १२,२७.९१ ॥

यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः ।
ददाति सर्वसत्त्वार्थम् आत्मानं ब्रह्मरक्षसे ॥ १२,२७.९२ ॥

उपहाराय सत्त्वस्थो मातापित्रोर् अनुज्ञया ।
हन्यमानश् च यस् ताभ्यां हस्तपादे प्रगृह्यते ॥ १२,२७.९३ ॥

तस्मै ग्रामशतोपेतां हेमरत्नमयीम् इमाम् ।
ददाति प्रतिमां राजा पित्रोर् उपचिकीर्षवे ॥ १२,२७.९४ ॥

इति च भ्राम्यमानायास् तस्याः प्रतिकृतेः शिशोः ।
पटहोद्घोषणां मन्त्री सो ऽग्रे ऽजस्रम् अदापयत् ॥ १२,२७.९५ ॥

तावच् छ्रुत्वा तद् एकस्मिन्न् अग्रहारे द्विजार्भकः ।
कोऽपि सप्ताब्ददेशीयो ऽप्य् अतिधीरो ऽद्भुताकृतिः ॥ १२,२७.९६ ॥

पूर्वाभ्यासेन बाल्ये ऽपि सदा परहिते रतः ।
प्रजापुण्यपरीपाक इव साकारतां गतः ॥ १२,२७.९७ ॥

उवाचोद्घोषकान् एत्य युष्मदर्थे ददाम्य् अहम् ।
आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥ १२,२७.९८ ॥

इत्य् ऊचिवांस् तान् मुदितान् स बालो ऽनुमतश् च तैः ।
गत्वा गृहं जगाद स्वौ पितरौ रचिताञ्जलिः ॥ १२,२७.९९ ॥

ददामि सर्वसत्त्वार्थं देहम् एतं विनश्वरम् ।
तन् माम् अभ्यनुजानीतं हतां चापदम् आत्मनः ॥ १२,२७.१०० ॥

आत्मप्रतिकृतिं ह्य् एतां गृहीत्वा वितरामि वाम् ।
हेमरत्नमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥ १२,२७.१०१ ॥

एवं मे युष्मदानृण्यं परार्थश् चैव सिध्यति ।
युवां च ध्वस्तदारिद्र्यौ बहून् पुत्रान् अवाप्स्यथः ॥ १२,२७.१०२ ॥

इत्य् उक्तवन्तं सहसा पितरौ तौ तम् ऊचतुः ।
किम् एतद् भाषसे पुत्र वातेन क्षुभितो ऽसि किम् ॥ १२,२७.१०३ ॥

किं वा ग्रहगृहीतो ऽसि प्रलपस्य् अन्यथा कथम् ।
को ह्य् अर्थैर् घातयेत् पुत्रं देहं दद्याच् च कः शिशुः ॥ १२,२७.१०४ ॥

एतत् पित्रोर् वचः श्रुत्वा बालः पुन उवाच सः ।
न बुद्धिमोहाज् जल्पामि शृणुतं मे ऽर्थवद् वचः ॥ १२,२७.१०५ ॥

अवाच्याशुचिसंपूर्णम् उत्पत्त्यैव सुगुप्सितम् ।
दुःखक्षेत्रं विनाश्य् एव शरीरम् अचिराद् इदम् ॥ १२,२७.१०६ ॥

तद् एतेनात्यसारेण सुकृतं यद् उपार्ज्यते ।
तद् एव सारं संसारे कृतबुद्धिभिर् उच्यते ॥ १२,२७.१०७ ॥

सर्वभूतोपकाराच् च किम् अन्यत् सुकृतं परम् ।
तत्रापि पित्रोर् भक्तिश् चेत् किं देहाद् दृश्यते फलम् ॥ १२,२७.१०८ ॥

इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः ।
ताव् अङ्गीकारयामास पितरौ स्वमनीषितम् ॥ १२,२७.१०९ ॥

गत्वा च राजभृत्येभ्यः प्रतिमां तं हिरण्मयीम् ।
आनीय प्रददौ ताभ्यां सग्रामशतशासनाम् ॥ १२,२७.११० ॥

ततः कृत्वाग्रतो राजभृत्यांस् तान् एव स द्रुतम् ।
पितृभ्याम् अन्वितः प्रायाच् चित्रकूटं नृपान्तिकम् ॥ १२,२७.१११ ॥

तत्र चन्द्रावलोकस् तं वीक्ष्याखण्डिततेजसम् ।
रक्षारत्नम् इव प्राप्तं बालं राजा ननन्द सः ॥ १२,२७.११२ ॥

आरोप्य गजपृष्टं च रचितस्रग्विलेपनम् ।
नीनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥ १२,२७.११३ ॥

तत्र मण्डलम् आलिख्य तस्याश्वत्थस्य पार्श्वतः ।
विहितोचितपूजेन हुते वह्नौ पुरोधसा ॥ १२,२७.११४ ॥

आविर्बभूव मुक्ताट्टहासः सो ऽध्ययनं पठन् ।
घूर्णन् रक्तासवक्षीबो जृम्भमाणो मुहुः श्वसन् ॥ १२,२७.११५ ॥

ज्वलन्नेत्रो दिशः कुर्वन् देहच्छायान्धकारिताः ।
ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः ॥ १२,२७.११६ ॥

ततश् चन्द्रावलोकस् तं दृष्ट्वा प्रह्वो ऽब्रवीन् नृपः ।
नरोपहारो भगवन्न् आनीतः स मया तव ॥ १२,२७.११७ ॥

सप्तमो दिवसश् चाद्य प्रतिज्ञातस्य सो ऽस्य ते ।
तत् प्रसीद गृहाणैतम् उपहारं यथाविधि ॥ १२,२७.११८ ॥

इति राञ्जार्थितो विप्रकुमारं ब्रह्मराक्षसः ।
स तम् आलोकयामास जिह्वया सृक्किणी लिहन् ॥ १२,२७.११९ ॥

तत् क्षणं स महासत्त्वो बालो हृष्यन्न् अचिन्तयत् ।
स्वदेहदानेनानेन सुकृतं यन् मयार्जितम् ॥ १२,२७.१२० ॥

तेन मा भून् मम स्वर्गो मोक्षो वा निरुपक्रियः ।
भूयात् तु मे परार्थाय देहो जन्मनि जन्मनि ॥ १२,२७.१२१ ॥

इति संकल्पयत्य् एव तस्मिन्न् आपूर्यत क्षणात् ।
विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः ॥ १२,२७.१२२ ॥

अथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः ।
माता जग्राह करयोः पिता चरणयोस् तथा ॥ १२,२७.१२३ ॥

ततो यावत् तम् आकृष्टखड्गो राजा जिघांसति ।
तावज् जहास स शिशुस् तथा सर्वे ऽत्र ते यथा ॥ १२,२७.१२४ ॥

सब्रह्मराक्षसास् त्यक्त्वा स्वं स्वं कर्म सविस्मयाः ।
रचिताञ्जलयः प्रह्वास् तन्मुखप्रेक्षिणो ऽभवन् ॥ १२,२७.१२५ ॥

इति व्याख्याय वेतालो विचित्रसरसां कथाम् ।
तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥ १२,२७.१२६ ॥

तद् ब्रूहि राजन् को हेतुर् यत् तेन हसितं तदा ।
बालेनैतादृशे ऽप्य् अस्मिन् प्राणान्तसमये ऽप्य् अहो ॥ १२,२७.१२७ ॥

कौतुकं च महन् मे ऽत्र तद् एतच् चेन् न वक्ष्यसि ।
जानानो ऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥ १२,२७.१२८ ॥

इति वेतालतः श्रुत्वा स राजा प्रत्युवाच तम् ।
शृणु यो ऽभूद् अभिप्रायो हासे तस्य शिशोस् तदा ॥ १२,२७.१२९ ॥

यो नाम दुर्बलो जन्तुः स भये प्रत्युपस्थिते ।
क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥ १२,२७.१३० ॥

तद्व्यपाये च राजानम् आर्तत्राणाय निर्मितम् ।
तदलाभे ऽपि यद्य् अत्र यथासंभवि दैवतम् ॥ १२,२७.१३१ ॥

तस्य त्व् एकस्थम् अप्य् एतत् सर्वं संजातम् अन्यथा ।
पितृभ्यां हस्तपादं हि रुद्धं तस्यार्थतृष्णया ॥ १२,२७.१३२ ॥

राजा च त्रातुम् आत्मानं स्वयं तं हन्तुम् उद्यतः ।
दैवतं तत्र यद् ब्रह्मरक्षस् तत् तस्य भक्षकम् ॥ १२,२७.१३३ ॥

अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च ।
देहस्यार्थे विमूढानां तेषाम् ईदृग् विडम्बना ॥ १२,२७.१३४ ॥

ब्रह्मेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः ।
तत्रैषाम् ईदृशी कापि शरीरस्थैर्यवासना ॥ १२,२७.१३५ ॥

एतत् तन् मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितम् ।
सिद्धम् आश्चर्यहर्षाभ्यां स जहास द्विजार्भकः ॥ १२,२७.१३६ ॥

इत्य् उक्त्वा विरतस्य तस्य नृपतेर् अंसात् स भूयो ऽपि तद्
वेतालो झगिति स्वकं पदम् अगाद् अन्तर्हितो मायया ।
राजा सो ऽप्य् अविकल्पम् एव पुनर् अप्य् अन्वग् ययौ तं जवाद्
अक्षोभ्यं हृदयं बतेह महताम् अम्भोनिधीनाम् इव ॥ १२,२७.१३७ ॥

अष्टाविंशस् तरङ्गः ।

अथ गत्वा पुनः प्राप्य शिंशपातस् ततो ऽग्रहीत् ।
स त्रिविक्रमसेनो ऽंसे वेतालं तं नराधिपः ॥ १२,२८.१ ॥

आगच्छन्तं च तं भूयः स वेतालो ऽब्रवीन् नृपम् ।
राजन्न् उद्गाढकन्दर्पां शृण्व् एकां वच्मि ते कथाम् ॥ १२,२८.२ ॥

अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां कृते ।
दिवश् च्युतानां विहिता विशालाख्या पुरी भुवि ॥ १२,२८.३ ॥

तस्यां बभूव नृपतिः पद्मनाभ इति श्रुतः ।
सच्चक्रनन्दकः स्रीमान् आक्रान्तबलिराजकः ॥ १२,२८.४ ॥

तस्मिन् पृथ्वीपतौ तस्यां नगर्यां सुमहावणिक् ।
अर्थदत्ताभिधानो ऽभूद् धनैर् विजितवित्तपः ॥ १२,२८.५ ॥

तस्यैका च सुतानङ्गमञ्जरीत्य् उदपद्यत ।
स्वःसुन्दरीप्रतिकृतिर् भुवि धात्रेव दर्शिता ॥ १२,२८.६ ॥

दत्ता च तेन वणिजा वणिग्वरसुताय सा ।
मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने ॥ १२,२८.७ ॥

एकापत्यतया चातिवत्सलः स न तां वणिक् ।
भर्तृयुक्तां सुतां गेहात् तत्याजानङ्गमञ्जरीम् ॥ १२,२८.८ ॥

तस्याश् चानङ्गमञ्जर्याः पतिर् द्वेष्यो बभूव सः ।
मणिवर्मा सरोगस्य कटुतिक्तम् इवौषधम् ॥ १२,२८.९ ॥

पत्युस् तु सास्य सुमुखी जीविताद् अप्य् अभूत् प्रिया ।
धनर्द्धिः कृपणस्येव कृच्छ्रात् सुचिरसंचिता ॥ १२,२८.१० ॥

एकदा चान्तिकं पित्रोस् ताम्रलिप्तीं निजं गृहम् ।
उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥ १२,२८.११ ॥

ततो दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः ।
प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगात् ॥ १२,२८.१२ ॥

वसन्तविरहाद् उष्णा निःश्वासाः ककुभाम् इव ।
मल्लिकापाटलामोदमेदुरा मरुतो ववुः ॥ १२,२८.१३ ॥

उत्पेतुः पवनोद्धूता गगने रेणुराजयः ।
दूत्यो घनागमायेव प्रहितास् तप्तया भुवा ॥ १२,२८.१४ ॥

आकाङ्क्षिततरुच्छायाः कठोरातपतापिताः ।
पथिका इव यान्ति स्म चिरेण दिवसा अपि ॥ १२,२८.१५ ॥

चन्द्रांशुपाण्डुरुचयो गाढाश्लेषसुखप्रदम् ।
विना हेमन्तम् अगमन्न् अतिदुर्बलतां निशाः ॥ १२,२८.१६ ॥

तत्कालं चन्दनालेपधवला सा वणिक्सुता ।
संवीततनुकौशेयशोभितानङ्गमञ्जरी ॥ १२,२८.१७ ॥

ददर्श स्वगृहोत्तुङ्गवातायनगतैकदा ।
आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥ १२,२८.१८ ॥

संचरन्तं रतिप्राप्त्यै नवोत्पन्नम् इव स्मरम् ।
कमलाकरनामानं पुत्रं राजपुरोधसः ॥ १२,२८.१९ ॥

सो ऽपीन्दोर् इव मूर्तिं तां कान्तां दृष्ट्वोपरि स्थिताम् ।
कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥ १२,२८.२० ॥

तयोर् अभूद् अमूल्यं तन् मनःसंवननं तदा ।
स्मरगुर्वाज्ञया यूनोर् अन्योन्यस्यावलोकनम् ॥ १२,२८.२१ ॥

उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा ।
रजोभिभूतौ जह्राते मन्मथावेगवात्यया ॥ १२,२८.२२ ॥

दृष्ट्वा च मदनाविष्टः सख्या स कमलाकरः ।
सहस्थितेन नीतो ऽभूत् कथंचिद् भवनं निजम् ॥ १२,२८.२३ ॥

सापि तं नामतो ऽन्विष्य विवशानङ्गमञ्जरी ।
तया स्वया समं सख्या प्राविशद् वासकं शनैः ॥ १२,२८.२४ ॥

तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा ।
नापश्यन् नाशृणोत् किंचिल् लुठन्ती शयनीयके ॥ १२,२८.२५ ॥

गतेष्व् अहःसु द्वित्रेषु सत्रपा सभया च सा ।
असहा विरहोन्मादं विसोढुं कृशपाण्डुरा ॥ १२,२८.२६ ॥

दुष्प्रापप्रियसंयोगनिरास्था नक्तम् एकदा ।
गवाक्षप्रेरितकरेणाकृष्टेव हिमांशुना ॥ १२,२८.२७ ॥

सुप्ते परिजने स्वैरं निर्गत्य मरणोन्मुखी ।
जगाम स्वगृहोद्यानवापीं तरुलतावृताम् ॥ १२,२८.२८ ॥

तत्र पित्रा कृतोदारप्रतिष्ठां कुलदेवताम् ।
उपेत्य चण्डिकां देवीं नत्वा स्तुत्वा व्यजिज्ञपत् ॥ १२,२८.२९ ॥

अस्मिञ् जन्मनि चेद् भर्ता न मया कमलाकरः ।
प्राप्तस् तद् देवि भूयान् मे सो ऽन्यस्मिन्न् अपि जन्मनि ॥ १२,२८.३० ॥

इत्य् उक्त्वा पुरतस् तस्या देव्याः साशोकपादपे ।
पाशं विरचयामास स्वोत्तरीयेण रागिणी ॥ १२,२८.३१ ॥

तावद् आप्ता सखी तस्याः सा प्रबुध्यात्र वासके ।
ताम् अदृष्ट्वा तद् उद्यानं दैवाद् आगाद् विचिन्वती ॥ १२,२८.३२ ॥

तत्र दृष्ट्वा च तां पाशम् अर्पयन्तीं तथा गले ।
मा मेत्य् उक्त्वा प्रधाव्यैव पाशं तस्यास् तम् अच्छिनत् ॥ १२,२८.३३ ॥

सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीम् ।
अनङ्गमञ्जरी भूमौ पपाताधिकदुःखिता ॥ १२,२८.३४ ॥

आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् ।
दुःखहेतुं समाख्याय पुन एनाम् अभाषत ॥ १२,२८.३५ ॥

सखि मालतिके तन् मे दुर्लभे प्रियसंगमे ।
गुर्वादिपरतन्त्राया न सुखं मरणात् परम् ॥ १२,२८.३६ ॥

इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् ।
सानङ्गमञ्जरी मोहं ययौ नैराश्यनिःसहा ॥ १२,२८.३७ ॥

कष्टं स्मराज्ञा दुर्लङ्घ्या यया नीता दशाम् इमाम् ।
अन्याविनीतवनिताहासिनीयं सखी मम ॥ १२,२८.३८ ॥

इत्यादिविलपन्ती च तां सा मालतिका सखी ।
शनैर् आश्वासयामास शीताम्बुपवनादिभिः ॥ १२,२८.३९ ॥

तापोपशान्तये चास्याश् चकार नलिनीदलैः ।
शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥ १२,२८.४० ॥

ततः साश्रुर् उवाचैतां सखीं सानङ्गमञ्जरी ।
सखि हारादिभिर् नायं दाहो ऽन्तो मम शाम्यति ॥ १२,२८.४१ ॥

येन प्रशाम्यति पुनः स्वबुद्ध्यैव विधत्स्व तत् ।
मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥ १२,२८.४२ ॥

एवम् उक्तवतीं तां सा स्नेहान् मालतिकाब्रवीत् ।
सखि भूयिष्टयाताद्य रात्रिः प्रातर् अहं पुनः ॥ १२,२८.४३ ॥

इहैव कृतसंकेतम् आनेष्यामि प्रियं तव ।
तद् आलम्ब्य धृतिं तावन् निजं प्रविश मन्दिरम् ॥ १२,२८.४४ ॥

इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी ।
हारं स्वकण्ठाद् आकृष्य प्रददौ पारितोषिकम् ॥ १२,२८.४५ ॥

गच्छाधुनैव स्वगृहं प्रातः सिद्ध्यै ततो व्रज ।
इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥ १२,२८.४६ ॥

प्रातश् च सा मालतिका केनाप्य् अनुपलक्षिता ।
तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥ १२,२८.४७ ॥

चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् ।
चन्दनार्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम् ॥ १२,२८.४८ ॥

रहस्यधारिणैकेन कदलीदलमारुतैः ।
आश्वास्यमानं सुहृदा दह्यमानं स्मराग्निना ॥ १२,२८.४९ ॥

तस्या विनेयम् अस्य स्यात् कामावस्थेदृशीति सा ।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥ १२,२८.५० ॥

तावच् च सुहृदा तेन स ऊचे कमलाकरः ।
क्षणम् एकम् इहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ १२,२८.५१ ॥

विनोदय मनो मित्र मात्र विक्लवताम् अगाः ।
तच् छ्रुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ १२,२८.५२ ॥

यन् ममानङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम् ।
विनोदयामि तद् इदं कुतः शून्याशयो मनः ॥ १२,२८.५३ ॥

स्मरेण शून्यहृदयो बाणतूणीकृतो ह्य् अहम् ।
तत् प्राप्स्यामि मनश्चौरीं तां यथा कुरु मे तथा ॥ १२,२८.५४ ॥

इत्य् उक्ते विप्रपुत्रेण तेनात्मानं प्रदर्श्य सा ।
हृष्टा मालतिकाभ्येत्य तम् उवाचास्तसंशया ॥ १२,२८.५५ ॥

तवास्म्य् अनङ्गमञ्जर्या सुभग प्रहितान्तिकम् ।
संदेशं चाहम् एवैषा विस्पष्टार्थं ब्रवीमि ते ॥ १२,२८.५६ ॥

एष कः शिष्टधर्मो यत् प्रविश्य हृदयं हठात् ।
मनो मुषित्वा मुग्धाया गम्यते स्थगितात्मना ॥ १२,२८.५७ ॥

चित्रं च यद् वामदृशा तुभ्यम् एव तयाधुना ।
मनोहराय देहो ऽपि दातुं प्राणैः सहेष्यते ॥ १२,२८.५८ ॥

निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवानिशम् ।
ज्वलतो हृदि कन्दर्पवह्नेर् धूमोद्गमान् इव ॥ १२,२८.५९ ॥

संपतन्ति मुहुश् चास्याः साञ्जना बाष्पबिन्दवः ।
वदनाम्भोजसौगन्ध्यलुब्धा मधुकरा इव ॥ १२,२८.६० ॥

तद् यदीच्छसि तद् वच्मि शिवं वाम् उभयोर् अहम् ।
इत्य् उक्तो मालतिकया सो ऽब्रवीत् कमलाकरः ॥ १२,२८.६१ ॥

भद्रे भयं करोत्य् एषा वाक् तवाश्वासयत्य् अपि ।
वदन्ती विधुरावस्थां बद्धभावां च मे प्रियाम् ॥ १२,२८.६२ ॥

तद् एका गतिर् अत्र त्वं यथा वेत्सि तथा कुरु ।
इत्युक्तवाक्ये कमलाकरे मालतिकाब्रवीत् ॥ १२,२८.६३ ॥

अनङ्गमञ्जरीम् अद्य गुप्तं तां प्रापयाम्य् अहम् ।
नक्तं स्वभवनोद्यानं त्वं तिष्ठेस् तत्र बाह्यतः ॥ १२,२८.६४ ॥

ततः प्रवेशयिष्यामि त्वाम् अत्रान्तः स्वयुक्तितः ।
एवं यथेष्टो युवयोर् भविष्यति समागमः ॥ १२,२८.६५ ॥

इत्य् उक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः ।
गत्वा कृतार्था सानङ्गमञ्जरीम् अप्य् अनन्दयत् ॥ १२,२८.६६ ॥

अथाह्ना सह याते ऽर्के क्वापि संध्यानुरागिणि ।
ऐन्द्र्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥ १२,२८.६७ ॥

त्यक्तपद्माकरा प्राप्ता श्रीर् मयेतीव हर्षतः ।
हसत्य् उफुल्लवदने विशदे कुमुदाकरे ॥ १२,२८.६८ ॥

कृतप्रसाधनः सोत्कः स्वैरं स कमलाकरः ।
कामी कान्तागृहोद्यानद्वारबाह्यम् उपागमत् ॥ १२,२८.६९ ॥

तावच् च सा मालतिका तां युक्त्यानङ्गमञ्जरीम् ।
आनिनाय तद् उद्यानं कृच्छ्राद् गमितवासराम् ॥ १२,२८.७० ॥

उपवेश्य च तां मध्ये गुल्मके चूतशाखिनाम् ।
प्रावेशयत् तं निर्गत्य तत्रैव कमलाकरम् ॥ १२,२८.७१ ॥

स च प्रविश्य पत्त्रौघघनपादपमध्यगाम् ।
ताम् अध्वग इव छायां ददर्शानङ्गमञ्जरीम् ॥ १२,२८.७२ ॥

उपैति यावच् च स तां तावद् दृष्ट्वा प्रधाव्य सा ।
कामवेगहृतव्रीडा कण्ठे तं सहसाग्रहीत् ॥ १२,२८.७३ ॥

क्व यासि लब्धो ऽसि ममेत्य् आलपन्ती च तत् क्षणम् ।
सातिहर्षभरस्तब्धनिःश्वासा पञ्चताम् अगात् ॥ १२,२८.७४ ॥

पपात च महीपृष्ठे वातरुग्णा लतेव सा ।
विचित्रो बत कामस्य विपाकविषमः क्रमः ॥ १२,२८.७५ ॥

तद् दृष्ट्वाशनिपातोग्रं सद्यः स कमलाकरः ।
हा हा किम् एतद् इत्य् उक्त्वा मूर्च्छितो न्यपतद् भुवि ॥ १२,२८.७६ ॥

लब्धसंज्ञः क्षणेनाथ ताम् अङ्कारोपितां प्रियाम् ।
आलिङ्गन् परिचुम्बंश् च तत् तच् च विलपन् बहु ॥ १२,२८.७७ ॥

तथा दुखातिभारेण स प्रसह्य निपीडितः ।
यथा तस्य टसत्कृत्य क्षणाद् धृदयम् अस्फुटत् ॥ १२,२८.७८ ॥

अथ तौ मालतिकया शोच्यमानाव् उभाव् अपि ।
दृष्ट्वा प्राप्तक्षयौ शोकाद् इव क्षीणाभवत् क्षपा ॥ १२,२८.७९ ॥

प्रात उद्यानपालेभ्यो ज्ञात्वा बन्धुजनस् तयोः ।
तत्राययौ त्रपाश्चर्यदुःखमोहाकुलीकृतः ॥ १२,२८.८० ॥

आसीत् कर्तव्यतामूढश् चिरं खेदाद् अवाङ्मुखः ।
कष्टाः कुलखलीकारहेतवो बत कुस्त्रियः ॥ १२,२८.८१ ॥

तावच् च ताम्रलिप्तीतः स तस्याः पतिर् आगमत् ।
सोत्कण्ठो ऽनङ्गमञ्जर्या मणिवर्मा पितुर् गृहात् ॥ १२,२८.८२ ॥

स श्वाशुरं गृहं प्राप्य यथातत्त्वम् अवेत्य तत् ।
बाष्पान्धलोचनो ध्यायंस् तद् एवोद्यानम् आययौ ॥ १२,२८.८३ ॥

तत्र भार्यां गतासुं तां दृष्ट्वान्यसहिताम् अपि ।
शोकाग्निज्वलितो रागी सद्यः सो ऽपि जहाव् असून् ॥ १२,२८.८४ ॥

ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलाः ।
आययुर् ज्ञातवृत्तान्ताः पौराः सर्वे ऽत्र विस्मिताः ॥ १२,२८.८५ ॥

अथात्रानङ्गमञ्जर्याः पित्रा पूर्वावतारिता ।
देवी संनिहिता चण्डी विज्ञप्ताभून् निजैर् गणैः ॥ १२,२८.८६ ॥

त्वदाकारप्रतिष्ठाकृद् अर्थदत्तः सदैष ते ।
भक्तो वणिक् तद् अस्यास्मिन् दुःखे देवि दयां कुरु ॥ १२,२८.८७ ॥

एतद् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया ।
शान्तानङ्गास् त्रयो ऽप्य् एते जीवन्त्व् इति समादिशत् ॥ १२,२८.८८ ॥

अथ सर्वे ऽपि ते सुप्तप्रतिबुद्धा इव क्षणात् ।
तत्प्रसादात् समुत्तस्थुर् जीवन्तो वीतमन्मथाः ॥ १२,२८.८९ ॥

ततो दृष्ट्वा तद् आश्चर्यं सानन्दे सकले जने ।
लज्जानतमुखः प्रायात् स्वगृहं कमलाकरः ॥ १२,२८.९० ॥

अर्थदत्तो ऽपि तां ह्रीताम् आदायानङ्गमञ्जरीम् ।
सुतां स्वभर्तृसहितां ययौ बद्धोत्सवो गृहान् ॥ १२,२८.९१ ॥

इति कथयित्वा तस्यां रात्रौ मार्गे कथां स वेतालः ।
निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥ १२,२८.९२ ॥

राजन् कस्य वदैतेष्व् अधिको मोहो ऽनुरागमूढेषु ।
सो ऽत्र च पूर्वोक्तस् ते शापो जानन् न चेद् वदसि ॥ १२,२८.९३ ॥

इत्य् एतद् वेतालाच् छ्रुत्वा स प्रत्युवाच तं नृपतिः ।
एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा ॥ १२,२८.९४ ॥

इतरौ हि ताव् उभाव् अपि कालक्रमपक्वमन्मथावस्थौ ।
अन्योनसानुरागौ यदि जीवितम् उज्झतः स्म तद् भवतु ॥ १२,२८.९५ ॥

मणिवर्मा त्व् अतिमूढो यो भार्याम् अन्यपुरुषसक्तमृताम् ।
दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचामुचत् प्राणान् ॥ १२,२८.९६ ॥

इति गदितवतः स तस्य राज्ञो
बत वेतालपतिः पुनर् जगाम ।
निजम् एव पदं तद् अंसपीठाद्
अथ राजापि तम् अन्वगात् स भूयः ॥ १२,२८.९७ ॥

नवविंशस् तरङ्गः ।

ततो राजा पुनर् गत्वा वेतालं शिंशपाग्रतः ।
स त्रिविक्रमसेनस् तं प्राप्यांसारोपितं व्यधात् ॥ १२,२९.१ ॥

आयान्तं तं च राजानं स वेतालो ऽब्रवीत् पथि ।
राजन् साधुः सुसत्त्वस् त्वं तद् अपूर्वां कथां शृणु ॥ १२,२९.२ ॥

बभूव पूर्वं कुसुमपुराख्यनगरेश्वरः ।
पृथ्वीतले ऽस्मिन् धरणीवराहो नाम भूपतिः ॥ १२,२९.३ ॥

तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः ।
अग्रहारो ऽभवत् तत्र विष्णुस्वामीत्य् अभूद् द्विजः ॥ १२,२९.४ ॥

तस्यानुरूपा भार्याभूद् यथा स्वाहा हविर् भुजः ।
तस्यां च तस्य चत्वारः क्रमाद् उत्पेदिरे सुताः ॥ १२,२९.५ ॥

अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः ।
विष्णुस्वामी दिवं प्रायाद् भार्ययानुगतस् तया ॥ १२,२९.६ ॥

ततस् ते तत्र तत्पुत्राः सर्वे ऽप्य् आनाय्य दुःस्थिताः ।
गोत्रजैर् हृतसर्वस्वा मन्त्रयांचक्रिरे मिथः ॥ १२,२९.७ ॥

नास्तीह गतिर् अस्माकं तद् व्रजामो वयं न किम् ।
इतो मातामहगृहं ग्रामं यञ्जस्थलाभिधम् ॥ १२,२९.८ ॥

एतद् एव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः ।
मातामहगृहं प्रापुस् ते ऽथ तद् बहुभिर् दिनैः ॥ १२,२९.९ ॥

तत्र मातामहाभावान् मातुलैर् दत्तसंश्रयाः ।
भुञ्जानास् तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥ १२,२९.१० ॥

कालक्रमाच् च तेषां ते मातुलानाम् अकिंचनाः ।
अवज्ञापात्रतां जग्मुर् भोजनाच्छादनादिषु ॥ १२,२९.११ ॥

ततः स्वजनसंस्फूर्जदवमानहतात्मनाम् ।
तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीद् इदम् ॥ १२,२९.१२ ॥

भो भ्रातरः किं क्रियते सर्वम् आचेष्टते विधिः ।
न शक्यं पुरुषस्येह क्वचित् किंचित् कदाचन ॥ १२,२९.१३ ॥

अहं ह्य् उद्वेगतो भ्राम्यन् प्राप्तो ऽद्य पितृकानने ।
विपन्नस्थितम् अद्राक्षं त्रस्ताङ्गं पुरुषं भुवि ॥ १२,२९.१४ ॥

अचिन्तयं च दृष्ट्वा तम् अहं तां स्पृहयन् गतिम् ।
धन्यो ऽयम् एवं विश्रान्तो दुःखभारं विमुच्य यः ॥ १२,२९.१५ ॥

इति संचिन्त्य तत् कालं कृत्वा मरणनिश्चयम् ।
वृक्षाग्रसङ्गिना पाशेनात्मानम् उदलम्बयम् ॥ १२,२९.१६ ॥

यावच् च मे विसंज्ञस्य तदा निर्यान्ति नासवः ।
तावत् त्रुटितपाशो ऽत्र पतितो ऽस्मि महीतले ॥ १२,२९.१७ ॥

लब्धसंज्ञश् च केनापि पुंसा क्षिप्रात् कृपालुना ।
आश्वास्यमानम् आत्मानम् अपश्यं पटमारुतैः ॥ १२,२९.१८ ॥

सखे कथय विद्वान् अप्य् एवं कं प्रति खिद्यसे ।
सुखं हि सुकृताद् दुःखं दुःकृताद् एति नान्यतः ॥ १२,२९.१९ ॥

दुःखाद् यदि तवोद्वेगः सुकृतं तत् समाचर ।
कथं तु नारकं दुःखम् आत्मत्यागेन वाञ्छसि ॥ १२,२९.२० ॥

इत्य् उक्त्वा मां समाश्वास्य स च क्वापि गतः पुमान् ।
अहं चेहागतस् त्यक्त्वा तादृशं मरणोद्यमम् ॥ १२,२९.२१ ॥

तद् एवं नेच्छति विधौ न मर्तुम् अपि लभ्यते ।
इदानीं च तनुं तीर्थे तपसा दाहयाम्य् अहम् ॥ १२,२९.२२ ॥

येन निर्धनतादुःखभागी न स्याम् अहं पुनः ।
इत्य् उक्तवन्तं ज्येष्ठं तं कनिष्ठा भ्रातरो ऽब्रुवन् ॥ १२,२९.२३ ॥

अर्थैर् विना कथं प्राज्ञो ऽप्य् आर्य दुःकेन बाध्यसे ।
किं न वेत्सि यद् अर्थानां शरदभ्रचला गतिः ॥ १२,२९.२४ ॥

आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी ।
असन्मैत्री च वेश्या च श्रीश् च कस्य कदा स्थिरा ॥ १२,२९.२५ ॥

तद् उद्योगेन स गुणः को ऽप्य् उपार्ज्यो मनस्विना ।
आनीयन्ते हटाद् बद्ध्वा येनार्थहरिणा मुहुः ॥ १२,२९.२६ ॥

इत्य् उक्तो भ्रातृभिर् धैर्यं क्षणाज् ज्येष्ठो ऽवलम्ब्य सः ।
उवाच को गुणस् तादृगर्जनीयो भवेद् इति ॥ १२,२९.२७ ॥

ततो विचित्य सर्वे ते वदन्ति स्म परस्परम् ।
विचिन्त्य पृथ्वीं विज्ञानं किंचिच् छिक्षामहे वयम् ॥ १२,२९.२८ ॥

निश्चित्यैतच् च संकेतस्थानम् उक्त्वा समागमे ।
एकैकशस् ते चत्वारश् चतस्रः प्रययुर् दिशः ॥ १२,२९.२९ ॥

याति काले च मिलितास् ते संकेतनिकेतने ।
किं केन शिक्षितम् इति भ्रातरो ऽन्योन्यम् अब्रुवन् ॥ १२,२९.३० ॥

अथात्रैको ऽब्रवीद् ईदृग् विज्ञानं शिक्षितं मया ।
येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ १२,२९.३१ ॥

उत्पादयाम्य् अहं तस्मिन् मांसं तदुचितं क्षणात् ।
एतत् तस्य वचः श्रुत्वा द्वितीयस् तेष्व् अभाषत ॥ १२,२९.३२ ॥

अहं तत्रैव संजातमांसे ऽस्थिशकले किल ।
जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि ॥ १२,२९.३३ ॥

ततस् तृतीयो ऽप्य् अवदज् जाने तत्रैव चास्म्य् अहम् ।
तत्प्रान्यवयवान् स्रष्टुं जातत्वङ्मांसलोमनि ॥ १२,२९.३४ ॥

चतुर्थश् च ततो ऽवादीद् उत्पन्नावयवाकृतिम् ।
तम् एव प्राणिनं प्रानैर् युक्तं कर्तुम् अवैम्य् अहम् ॥ १२,२९.३५ ॥

एवम् उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते ।
चत्वारो ऽप्य् अस्थिखण्डाय प्रययुर् भ्रातरो ऽटवीम् ॥ १२,२९.३६ ॥

तत्र सिंहस्य ते प्रापुर् अस्थिखण्डं विधेर् वशात् ।
अविज्ञातविशेषाश् च गृह्नन्ति स्म तथैव तत् ॥ १२,२९.३७ ॥

एकश् च तत् समुचितैस् ततो मांसैर् अयोजयत् ।
द्वितीयो ऽजनयत् तस्य तद्वत् त्वग्लोमसंहतीः ॥ १२,२९.३८ ॥

तृतीयश् चाखिलैर् अङ्गैस् तद्योग्यैस् तद् अपूरयत् ।
चतुर्थश् च ददौ तस्य सिंहीभूतस्य जीवितम् ॥ १२,२९.३९ ॥

उदतिष्ठद् अथोद्धूतसटाभारो ऽतिभैरवः ।
स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः ॥ १२,२९.४० ॥

धावित्वा च स्वनिर्मातॄंस् तान् एव चतुरो ऽपि सः ।
अवधीत् केसरी तृप्तो विवेश च वनं ततः ॥ १२,२९.४१ ॥

एवं ते सिंहनिर्माणदोषान् नष्टा द्विजातयः ।
दुष्टं हि जन्तुम् उत्थाप्य कस्यात्मनि सुखं भवेत् ॥ १२,२९.४२ ॥

इत्थं चोपार्जितो यत्नाद् गुणो ऽपि विधुरे विधौ ।
संपत्तये न न परं जायते तु विपत्तये ॥ १२,२९.४३ ॥

मूले ह्य् अविकृते दैवे सिक्ते प्रज्ञानवारिणा ।
नयालवालः फलति प्रायः पौरुषपादपः ॥ १२,२९.४४ ॥

इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।
आख्याय स त्रिविक्रमसेनो राजा पुनर् जगदे ॥ १२,२९.४५ ॥

राजंस् तेष्व् अपराध्यति चतुर्षु कस् तत्र सिंहनिर्माणे ।
यन् न्यवधीत् तत्कॢप्तो वद समयः सो ऽत्र पूर्वस् ते ॥ १२,२९.४६ ॥

इति वेतालाच् छ्रुत्वा राजा सो ऽचिन्तयद् विमौनस्य ।
इच्छति गन्तुम् अयं मे यात्व् आनेष्याम्य् अमुं भूयः ॥ १२,२९.४७ ॥

इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालम् ।
यस् तस्य जीवदायी सिंहस्य स पापभाक् तेषु ॥ १२,२९.४८ ॥

प्राणिविशेषम् अबुद्ध्वा मांसत्वग्लोमगात्रनिर्माणम् ।
युक्तिबलात् तु कृतं यैस् तेषां दोषो ऽस्ति नाज्ञानात् ॥ १२,२९.४९ ॥

येन तु सिंहाकारं दृष्ट्वा विद्याप्रकाशनोत्केन ।
प्राणास् तस्य वितीर्णास् तेन कृता ब्रह्महत्यास् ताः ॥ १२,२९.५० ॥

एतत् स राज्ञो वचनं निशम्य
स्वधाम वेतालवरो जगाम ।
तस्यांसतस् तत् पुन एव मायी
राजापि तं सो ऽनुससार भूयः ॥ १२,२९.५१ ॥

त्रिंशस् तरङ्गः ।

ततो गत्वा पुनः प्राप शिंशपापादपात् ततः ।
स त्रिविक्रमसेनस् तं वेतालं राजसत्तमः ॥ १२,३०.१ ॥

स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् ।
यावत् प्रतिष्ठते तावत् स वेतालस् तम् अब्रवीत् ॥ १२,३०.२ ॥

राजन्न् अकार्ये ऽप्य् एतस्मिन् दुर्वारो ऽयं ग्रहस् तव ।
तत् ते श्रमविनोदाय कथयामि कथां शृणु ॥ १२,३०.३ ॥

आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी ।
दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥ १२,३०.४ ॥

यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः ।
प्रद्युम्ननामा नृपतिः शशासोर्जितशासनः ॥ १२,३०.५ ॥

गुणापकर्षश् चापेषु मुरजेषु कराहतिः ।
युगेष्व् अश्रूयत कलिर् यस्यां प्रज्ञासु तीक्ष्णता ॥ १२,३०.६ ॥

एकदेशे पुरस् तस्या नृपेण प्रतिपादितः ।
यज्ञस्थलाभिधानो ऽभूद् अग्रहारो बहुद्विजः ॥ १२,३०.७ ॥

तत्रासीद् यज्ञसोमाख्यो ब्राह्मणो वेदपारगः ।
महाधनो ऽग्निहोत्री च पूजितातिथिदेवतः ॥ १२,३०.८ ॥

तस्य व्यतीते तारुण्ये मनोरथशतैः सुतः ।
भार्यायाम् अनुरूपायाम् एक एवोदपद्यत ॥ १२,३०.९ ॥

ववृधे च पितुः सो ऽस्य गृहे बालः सुलक्षणः ।
कृताभिधानो विधिवद् देवसोम इति द्विजैः ॥ १२,३०.१० ॥

प्राप्तषोडशवर्षश् च स विद्याविनयादिभिः ।
आवर्जितजनो ऽकस्माज् ज्वरेण प्राप पञ्चताम् ॥ १२,३०.११ ॥

ततः परासुं स्नेहात् तम् आश्लिष्य सह भार्यया ।
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम् ॥ १२,३०.१२ ॥

ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम् ।
परावरज्ञो ऽपि गतिं वारिबुद्बुदभङ्गुराम् ॥ १२,३०.१३ ॥

ये सैन्यैः पूरितधरा हर्म्यपृष्ठेषु हारिषु ।
लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः ॥ १२,३०.१४ ॥

श्रीखण्डद्रवलिप्ताङ्गा वरस्त्रीपरिवारिताः ।
व्यलसन्न् अमरंमन्या भूलोके ऽस्मिन् नराधिपाः ॥ १२,३०.१५ ॥

ते ऽप्य् एककाः श्मशानेषु रुदत्प्रेतानुयायिषु ।
चिताधिशयिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥ १२,३०.१६ ॥

शिवाभिर् वलितोपान्ताः कालेन कवलीकृताः ।
न रोद्धुं शकिताः कैश्चित् तत्रान्येषां कथैव का ॥ १२,३०.१७ ॥

तद् एतं प्रेतम् आश्लिष्य विद्वन् वद करोषि किम् ।
इत्याद्य् अबोधयन् वृद्धा मिलितास् तं द्विजं ततः ॥ १२,३०.१८ ॥

ततस् तेन कथंचित् तं मुक्तम् आरोप्य तत्सुतम् ।
शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥ १२,३०.१९ ॥

बान्धवा वैशसोदश्रुमिलद्बन्धुजनान्विताः ।
श्मशानं प्रापयामासुः कोलाहलसमाकुलाः ॥ १२,३०.२० ॥

अत्रान्तरे च तत्रासीच् छ्मशाने कोऽपि तापसः ।
वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥ १२,३०.२१ ॥

वयसा तपसा चातिभूयसा सुकृशां तनुम् ।
बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥ १२,३०.२२ ॥

नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः ।
विद्युत्पिङ्गजटाजूटो महेश्वर इवापरः ॥ १२,३०.२३ ॥

स तापसो ऽत्र तत् कालं दत्तोपालम्भखेदितम् ।
मूर्खं शठं ध्यानयोगाद्यवलिप्तम् अहंकृतम् ॥ १२,३०.२४ ॥

भिक्षाफलव्रतधरं शिष्यम् अन्तिकवासिनम् ।
जगाद दूराच् छ्रुत्वा तं जनकोलाहलं बहिः ॥ १२,३०.२५ ॥

उत्तिष्ठ गत्वात्र बहिर् विज्ञायागच्छ सत्वरम् ।
कुतो ऽत्राश्रुतपूर्वो ऽयं श्मशाने तुमुलारवः ॥ १२,३०.२६ ॥

इत्य् उक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम् ।
नाहं यामि स्वयं याहि भिक्षावेला ह्य् अपैति मे ॥ १२,३०.२७ ॥

तच् छ्रुत्वोवाच स गुरुर् धिङ् मूर्खोदरतत्पर ।
अह्नो ऽर्धप्रहरे याते भिक्षावेलात्र का तव ॥ १२,३०.२८ ॥

श्रुत्वैवैतत् स तं क्रुद्धः कुशिष्यः प्राह तापसम् ।
धिग् जराजीर्ण नाहं ते शिष्यो न त्वं गुरुर् मम ॥ १२,३०.२९ ॥

अहम् अन्यत्र यास्यामि वह पात्रीम् इमां स्वयम् ।
इत्य् उक्त्वोत्थाय स प्रायात् त्यक्त्वाग्रे दण्डकुण्डिकाम् ॥ १२,३०.३० ॥

विहसन्न् अथ निर्गत्य मठिकायाः स तापसः ।
तत्रागाद् यत्र दाहार्थम् आनीतः स द्विजार्भकः ॥ १२,३०.३१ ॥

दृष्ट्वा च तं जनतया शोच्यमानाग्र्ययौवनम् ।
योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥ १२,३०.३२ ॥

गत्वा च द्रुतम् एकान्ते मुक्तकण्ठं प्ररुद्य च ।
ननर्त स ततः क्षिप्रम् अङ्गहारैर् यथोचितैः ॥ १२,३०.३३ ॥

ततो विवेश योगात् तद् द्विजपुत्रकलेवरम् ।
क्षणात् स स्वतनुं त्यक्त्वा तपस्वी यौवनेच्छया ॥ १२,३०.३४ ॥

तत् क्षणं रचितायां च चितायां सहसैव सः ।
लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः ॥ १२,३०.३५ ॥

तद् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति ।
इत्य् उद्बभूव नादो ऽत्र निखिलस्य जनस्य च ॥ १२,३०.३६ ॥

अथामोक्ष्यन् व्रतं सर्वान् मृषा योगेस्वरः स तान् ।
विप्रपुत्रशरीरान्तःप्रविष्टस् तापसो ऽब्रवीत् ॥ १२,३०.३७ ॥

लोकान्तरगतस्याद्य महापाशुपतव्रतम् ।
ग्राह्यं साक्षान् ममाभाष्य दत्तं शर्वेण जीवितम् ॥ १२,३०.३८ ॥

अधुनैव च धार्यं तद् गत्वैकान्ते व्रतं मया ।
जीवितं मे ऽन्यथा नास्ति तद् यूयं यात याम्य् अहम् ॥ १२,३०.३९ ॥

इति सर्वान् स तत्रस्थान् संबोध्य दृढनिश्चयः ।
स्वगृहान् प्रेषयामास हर्षशोकाकुलान् व्रती ॥ १२,३०.४० ॥

स्वयं च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम् ।
आत्तव्रतो महायोगी युवीभूतो ऽन्यतो ययौ ॥ १२,३०.४१ ॥

इति व्याख्याय वेतालः कथां निशि तदा पथि ।
तं त्रिविक्रमसेनं स राजानं पुनर् अब्रवीत् ॥ १२,३०.४२ ॥

राजन् ब्रूहि स योगीन्द्रः कस्मात् परपुरे वसन् ।
प्ररुरोद ननर्ताथ कौतुकं महद् अत्र मे ॥ १२,३०.४३ ॥

इति वेतालतः श्रुत्वा शापशङ्की स भूपतिः ।
विमुच्य मौनम् एवं तम् अवादीद् धीमतां वरः ॥ १२,३०.४४ ॥

शृणु तत्र बभूवास्य यो ऽभिप्रायस् तपस्विनः ।
सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥ १२,३०.४५ ॥

पितृभ्यां लालितं बाल्ये त्यजाम्य् अद्येति दुःखितः ।
स जरत् तापसो ऽरोदीद् देहस्नेहो हि दुस्त्यजः ॥ १२,३०.४६ ॥

नवं देहं प्रवेक्ष्यामि साधयिष्याम्य् अतो ऽधिकम् ।
इति हर्षाद् अनृत्यच् च कस्य नेष्टं हि यौवनम् ॥ १२,३०.४७ ॥

एतत् तस्य वचो निशम्य नृपतेर् अंसत् स भूयो ऽप्य् अगाद्
वेतालो मृतपूरुषान्तरगतस् तं शिंशपापादपम् ।
राजा सो ऽपि तम् अन्वधावद् अधिकोत्साहः पुनः प्रेप्सया
कल्पान्ते ऽप्य् अचलं कुलाद्रिविजयि स्थैर्यं हि धीरात्मनाम् ॥ १२,३०.४८ ॥

एकत्रिंशस् तरङ्गः ।

ततस् तां तिमिरश्यामां चिताग्निज्वलितेक्षणाम् ।
स्मशाने भीषणे तस्मिन् वीरो रजनिराक्षसीम् ॥ १२,३१.१ ॥

घोराम् अगणयन् राजा गत्वा तां शिंशपां पुनः ।
स त्रिविक्रमसेनस् तं तस्या वेतालम् आददे ॥ १२,३१.२ ॥

स्कन्धे कृत्वा च तं यावत् प्रक्रामति स पूर्ववत् ।
तावद् भूयः स वेतालो नरदेवम् उवाच तम् ॥ १२,३१.३ ॥

भो राजन्न् अहम् उद्विग्नो न पुनस् त्वं गतागतैः ।
तद् एकं मे महाप्रश्नम् इमं कथयतः शृणु ॥ १२,३१.४ ॥

आसीन् माण्डलिकः कोऽपि नृपतिर् दक्षिणापथे ।
धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः ॥ १२,३१.५ ॥

तस्य चन्द्रवतीनाम भार्या मालवदेशजा ।
अभून् महाकुलोत्पन्ना वरस्त्रीमौलिमालिका ॥ १२,३१.६ ॥

तस्यां च तस्य भार्यायां भूपतेर् उदपद्यत ।
एकैव लावण्यवती नामान्वर्थाभिधा सुता ॥ १२,३१.७ ॥

प्रदेयायां च तस्यां स सुतायां धर्मभूपतिः ।
उन्मूलितो ऽभून् मिलितैर् दायादै राष्ट्रभेदिभिः ॥ १२,३१.८ ॥

ततः पलाय्य निरगात् स देशाद् भार्यया सह ।
दुहित्रा च तया रात्रव् आत्तसद्रत्नसंचयः ॥ १२,३१.९ ॥

मालवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् ।
विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥ १२,३१.१० ॥

तस्यां प्रविष्टस्योदश्रुर् इवावश्यायशीकरैः ।
निशानुयात्रां दत्त्वेव ययौ तस्य महीक्षितः ॥ १२,३१.११ ॥

आरुरोहाथ पूर्वाद्रिम् उत्क्षिप्ताग्रकरो रविः ।
मा गाश् चौराटवीम् एताम् इति तं वारयन्न् इव ॥ १२,३१.१२ ॥

ततो ऽत्र ससुताजानिः क्षताङ्घ्रिः कुशकण्टकैः ।
पदातिः स नृपो गच्छन् भिल्लानां प्राप पल्लिकाम् ॥ १२,३१.१३ ॥

परेषां प्राणसर्वस्वहारिभिः पुंभिर् आवृताम् ।
वर्जितां धार्मिकैर् दुर्गां कृतान्तनगरीम् इव ॥ १२,३१.१४ ॥

तत्र दृष्ट्वैव तं दूरात् सवस्त्राभरणं नृपम् ।
मोषितुं बहवो ऽधावञ् शबरा विविधायुधाः ॥ १२,३१.१५ ॥

तान् विलोक्य सुताभार्ये राजा धर्मो जगाद सः ।
पुरा स्पृशन्ति वां म्लेच्छास् तद् इतो विशतं वनम् ॥ १२,३१.१६ ॥

इति राज्ञोदिता रज्ञी वनमध्यं विवेश सा ।
लावण्यवत्या सुतया सार्धं चन्द्रवती भयात् ॥ १२,३१.१७ ॥

राजाप्य् अभिमुखायातान् खड्गचर्मधरो ऽत्र सः ।
अवधीत् तान् बहूञ् शूरः शबराञ् शरवर्तिणः ॥ १२,३१.१८ ॥

ततस् तेनाखिला पल्ली पत्याज्ञप्ता निपत्य तम् ।
प्रहारक्षतचर्माणम् अवधीन् नृपम् एककम् ॥ १२,३१.१९ ॥

गृहीताभरणे याते दस्युसैन्ये विलोक्य तम् ।
भर्तारं निहतं दूराद् वनगुल्मान्तरस्थिता ॥ १२,३१.२० ॥

राज्ञी चन्द्रवती सात्र दुहित्रा सह विह्वला ।
पलायमाना गहनं दूरम् अन्वग् अगाद् वनम् ॥ १२,३१.२१ ॥

तत्र मध्याह्नतापार्तास्व् इव मूलानि शाखिनाम् ।
छायास्व् अपि प्रविष्टासु शिशिराणि सहाध्वगैः ॥ १२,३१.२२ ॥

एकदेशे ऽब्जसरसस् तीरे ऽशोकतरोस् तले ।
शोकार्ता रुदती श्रान्ता ससुता समुपाविशत् ॥ १२,३१.२३ ॥

तावत् तद् वनम् अभ्यर्णनिवासी मृगयाकृते ।
महामनुष्यः को ऽप्य् आगाद् अश्वारूढः सपुत्रकः ॥ १२,३१.२४ ॥

स चण्डसिंहनामा तं पुत्रं सिंहपराक्रमम् ।
उवाच दृष्ट्वात्र तयोः पांसूत्थे पदपद्धती ॥ १२,३१.२५ ॥

एते सुरेखे सुभगे अनुसृत्याप्नुवो यदि ।
स्त्रीयौ ते तत् तयोर् एकां स्वीकुरुष्व यथारुचि ॥ १२,३१.२६ ॥

इत्य् उक्तवन्तं तं स्माह पुत्रः सिंहपराक्रमः ।
यस्याः सूक्ष्माव् इमौ पादौ सा भार्या प्रतिभाति मे ॥ १२,३१.२७ ॥

सा हि स्वल्पवया नूनं जाने समुचिता मम ।
बृहत्पादा तु योग्येयम् एतज्ज्येष्ठवयास् तव ॥ १२,३१.२८ ॥

इति सूनोर् वचः श्रुत्वा चण्डसिंहो जगाद तम् ।
कैषा कथा भवन्माता प्रत्यग्रं हि गता दिवम् ॥ १२,३१.२९ ॥

तादृशे सुकलत्रे च गते कान्यत्र वासना ।
तच् छ्रुत्वा सो ऽपि पुत्रस् तं चण्डसिंहम् अभाषत ॥ १२,३१.३० ॥

तात मैवम् अभार्यं हि शून्यं गृहपतेर् गृहम् ।
अन्यच् च मूलदेवोक्ता गाथा किं न श्रुता त्वया ॥ १२,३१.३१ ॥

यत्र घनस्तनजघना नास्ते मार्गावलोकिनी कान्ता ।
अजडः कस् तद् अनिगडं प्रविशति गृहसंज्ञकं दुर्गम् ॥ १२,३१.३२ ॥

तज् जीवितेन मे तात शापितो ऽसि न तां यदि ।
द्वितीयां मदभीष्टायां भार्यार्थे स्वीकरीष्यसि ॥ १२,३१.३३ ॥

एतत् पुत्रवचः श्रुत्वा प्रतिपद्य च तत्सखः ।
स चण्डसिंहो ऽनुसरन् पदपङ्क्तिं शनैर् ययौ ॥ १२,३१.३४ ॥

प्राप्य तच् च सरःस्थानं मुक्तातारौघमण्डिताम् ।
श्यामां चन्द्रवतीं राज्ञीं तां ददर्शावभासिताम् ॥ १२,३१.३५ ॥

लावण्यवत्या सुतया ज्योत्स्नयेवावदातया ।
नैशीं द्याम् इव मध्याह्ने तरुच्छायाम् उपाश्रिताम् ॥ १२,३१.३६ ॥

उपाययौ च पुत्रेण साकं तां स सकौतुकः ।
सापि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौरशङ्किनी ॥ १२,३१.३७ ॥

अलं त्रासेन नाम्बैतौ चौरौ सौम्याकृती इमौ ।
सुवेषौ कौचिद् आखेटकृते नूनम् इहागतौ ॥ १२,३१.३८ ॥

इत्य् उक्ता सुतया राज्ञी यावद् दोलायते ऽत्र सा ।
तावद् अश्वावतीर्णस् ते चण्डसिंहो ऽब्रवीद् उभे ॥ १२,३१.३९ ॥

किं संभ्रमेण वाम् आवां प्रणयाद् द्रष्टुम् आगतौ ।
तद् विस्वस्य निरातङ्के वदतं के युवाम् इति ॥ १२,३१.४० ॥

हरनेत्रानलज्वालादग्धमन्मथदुःस्थिते ।
रतिप्रीती इवारण्यम् इदम् एवम् उपागते ॥ १२,३१.४१ ॥

प्रविष्टे स्थः कथं चेह बत निर्मानुषे वने ।
रत्नप्रासादवासार्हम् इदं हि युवयोर् वपुः ॥ १२,३१.४२ ॥

कथं वराङ्गनोत्सङ्गयोग्यौ कण्टकिनीम् इमाम् ।
भुवं वां चरणौ भ्रान्ताव् इति नौ मनसि व्यथा ॥ १२,३१.४३ ॥

एषा च चित्रं युवयोः पतन्ती धूलिर् आनने ।
वातोद्धूता हतच्छायम् आवयोः कुरुते मुखम् ॥ १२,३१.४४ ॥

भवत्योर् एष चाङ्गे ऽस्मिन् निपतन् पुष्पपेशले ।
किरणोष्मा दहत्य् अस्मान् उच्चण्डश् चण्डदीधितेः ॥ १२,३१.४५ ॥

तद् ब्रूतम् आत्मवृत्तान्तं दूयते हृदयं हि नः ।
द्रष्टुं न शक्नुमो ऽरण्ये स्थितिं वां स्वापदावृते ॥ १२,३१.४६ ॥

इत्य् उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः ।
लज्जाशोकाकुला तस्मै स्वं वृत्तान्तम् अवर्णयत् ॥ १२,३१.४७ ॥

ततो निःस्वामिकां मत्वा ताम् आश्वास्य च सात्मजाम् ।
स्वीचक्रे मधुरैर् वाक्यैश् चण्डसिंहो ऽनुरञ्जयन् ॥ १२,३१.४८ ॥

आरोप्य चास्वयोः पृष्ठं सपुत्रस् तां सपुत्रिकाम् ।
निनाय वित्तपपुरीसमृद्धां वसतिं निजाम् ॥ १२,३१.४९ ॥

सापि जन्मान्तरगतेवावशाङ्गीचकार तम् ।
अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् ॥ १२,३१.५० ॥

ततस् तां सूक्ष्मपादत्वाद् राज्ञीं सिंहपराक्रमः ।
चण्डसिंहसुतस् तत्र भार्यां चन्द्रवतीं व्यधात् ॥ १२,३१.५१ ॥

तत्सुतां तां च लावण्यवतीं नृपतिकन्यकाम् ।
बृहत्त्वात् पादयोर् भार्यां चण्डसिंहश् चकार सः ॥ १२,३१.५२ ॥

प्राग् घि सूक्ष्मबृहत्पादमुद्रापङ्क्तिद्वयेक्षणात् ।
प्रतिपन्नं तथा ताभ्यां सत्यं कश् चातिवर्तते ॥ १२,३१.५३ ॥

एवं पादविपर्यासात् ते पितापुत्रयोस् तयोः ।
दुहितामातरौ भार्ये जाते श्वश्रूस्नुषे तदा ॥ १२,३१.५४ ॥

कालेन च तयोस् ताभ्यां भर्तृभ्यां जज्ञिरे द्वयोः ।
पुत्रा दुहितरश् चैव तेषाम् अन्ये ऽप्य् अथ क्रमात् ॥ १२,३१.५५ ॥

इत्थं संप्राप्य तौ चण्डसिंहसिंहपराक्रमौ ।
तस्थतुस् तत्र लावण्यवतीं चन्द्रवतीं च ते ॥ १२,३१.५६ ॥

इति व्यावर्ण्य वेतालस् तदा पथि कथां निशि ।
स त्रिविक्रमसेनं तं पप्रच्छ नृपतिं पुनः ॥ १२,३१.५७ ॥

तयोर् मातादुहित्रोर् ये पुत्रपित्रोस् तयोर् नृप ।
सकाशाज् जन्तवो जाताः क्रमाद् उभयपक्षयोः ॥ १२,३१.५८ ॥

ज्ञात्वेदं ब्रूहि मे तेषाम् अन्योनं के भवन्ति ते ।
पूर्वोक्तः सो ऽत्र शापस् ते जानानश् चेन् न वक्ष्यसि ॥ १२,३१.५९ ॥

एतद् वेतालतः श्रुत्वा विमृशन् बहुधापि सः ।
नाज्ञासीत् तद् यदा राजा तूष्णीकः प्रययौ तदा ॥ १२,३१.६० ॥

ततस् तदंसकूटस्थो वेतालो विहसन् हृदि ।
मृतपूरुषदेहान्तो निविष्टः समचिन्तयत् ॥ १२,३१.६१ ॥

नायं राजा महाप्रश्ने वेत्त्य् अस्मिन् दातुम् उत्तरम् ।
तेन तूष्णीं व्रजत्य् एष हृष्टो ऽतिचतुरैः पदैः ॥ १२,३१.६२ ॥

न च वञ्चयितुं शक्यः सत्त्वराशिर् अयं परम् ।
क्रीडन् भिक्षुः स चास्माभिर् इयतैव न शाम्यति ॥ १२,३१.६३ ॥

तद् अद्य वञ्चयित्वा तं दुरात्मानम् उपायतः ।
तत्सिद्धिं भाविकल्याणे राजन्य् अस्मिन् निवेशये ॥ १२,३१.६४ ॥

इत्य् आलोच्य स वेतालो नृपं तम् अवदत् तदा ।
राजन् कृष्णनिशाघोरे स्मशाने ऽस्मिन् गतागतैः ॥ १२,३१.६५ ॥

एतैः क्लिष्टः सुखार्हस् त्वं न विकल्पश् च कोऽपि ते ।
तद् आश्चर्येण धैर्येण तुष्टो ऽहम् अमुना तव ॥ १२,३१.६६ ॥

शवम् एतं नयेदानीं निर्गच्छाम्य् अमुतो ह्य् अहम् ।
इदं तु शृणु यद् वच्मि हितं तव कुरुष्व च ॥ १२,३१.६७ ॥

आनीतम् एतद् भवता यस्यार्थे नृकलेवरम् ।
कुभिक्षुः सो ऽद्य माम् अस्मिन् समाहूयार्चयिष्यति ॥ १२,३१.६८ ॥

उपहारीचिकीर्षुश् च त्वाम् एव स शठस् ततः ।
भूमौ प्रणामम् अष्टाभिर् अङ्गैः कुर्व् इति वक्ष्यति ॥ १२,३१.६९ ॥

त्वं प्राग् दर्शय तावन् मे करिष्ये ऽहं तथैव तत् ।
इति सो ऽपि महाराज वक्तव्यः श्रमणस् त्वया ॥ १२,३१.७० ॥

ततो निपत्य भूतौ स प्रणामं यावद् एव ते ।
दर्शयिष्यति तावत् त्वं छिन्द्यास् तस्यासिना शिरः ॥ १२,३१.७१ ॥

ततो विद्याधरैश्वर्यसिद्धिर् या तस्य वाञ्छिता ।
तां त्वं प्राप्स्यसि भुङ्क्ष्वेमं भुवं तदुपहारतः ॥ १२,३१.७२ ॥

अन्यथा तु स भिक्षुस् त्वाम् उपहारीकरिष्यति ।
एतदर्थं कृतो विघ्नस् तवात्रेयच् चिरं मया ॥ १२,३१.७३ ॥

तत् सिद्धिर् अस्तु ते गच्छेत्य् उक्त्वा तस्यांसपृष्ठगात् ।
निर्गत्य स ययौ तस्माद् वेतालः प्रेतकायतः ॥ १२,३१.७४ ॥

अथ स नरपतिस् तं प्रीतवेतालवाक्याच्
छ्रमणम् अहितम् एव क्षान्तिशीलं विचिन्त्य ।
वटविटपितलं तत् तस्य पार्श्वं प्रतस्थे
मृतपुरुषशरीरं तद् गृहीत्वा प्रहृष्टः ॥ १२,३१.७५ ॥

द्वात्रिंशस् तरङ्गः ।

ततस् तस्यान्तिकं भिक्षोः क्षान्तिशीलस्य भूपतिः ।
स त्रिविक्रमसेनो ऽत्र प्राप स्कन्धे शवं वहन् ॥ १२,३२.१ ॥

ददर्श तं च श्रमणं मार्गाभिमुखम् एककम् ।
कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम् ॥ १२,३२.२ ॥

असृग्लिप्तस्थले गौरेणास्थिचूर्णेन निर्मिते ।
मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके ॥ १२,३२.३ ॥

महातैलप्रदीपाढ्ये हुतपार्श्वस्थवह्निनि ।
संभृतोचितसंभारे स्वेष्टदैवतपूजने ॥ १२,३२.४ ॥

उपागाच् च स तं राजा सो ऽपि भिक्षुर् विलोक्य तम् ।
आनीतमटकं हर्षाद् उत्थायोवाच संस्तुवन् ॥ १२,३२.५ ॥

दुःकरो मे महाराज विहितो ऽनुग्रहस् त्वया ।
त्वा दृशाः क्व क्व चेष्टेयं देशकालौ क्व चेदृशौ ॥ १२,३२.६ ॥

निःकम्पं सत्यम् एवाहुर् मुख्यं त्वां कुलभूभृताम् ।
एवम् आत्मानपेक्षेण परार्थो येन साध्यते ॥ १२,३२.७ ॥

एतद् एव महत्त्वं च महताम् उच्यते बुधैः ।
प्रतिपन्नाद् अचलनं प्राणानाम् अत्यये ऽपि यत् ॥ १२,३२.८ ॥

इति ब्रुवन् स सिद्धार्थमानी भिक्षुर् महीपतेः ।
तस्यावतारयामास स्कन्धात् तं मटकं तदा ॥ १२,३२.९ ॥

स्नपयित्वा समालभ्य बद्धमाल्यं विधाय च ।
मटकं मण्डलस्यान्तः स्थापयामास तस्य तत् ॥ १२,३२.१० ॥

भस्मोद्धूलितगात्रश् च केशयज्ञोपवीतभृत् ।
प्रावृतप्रेतवसनो भूत्वा ध्यानस्थितः क्षणम् ॥ १२,३२.११ ॥

तस्मिन् मन्त्रबलाहूतं प्रवेश्य नृकलेवरे ।
तं वेतालवरं भिक्षुः पूजयामास स क्रमात् ॥ १२,३२.१२ ॥

ददौ तस्मै कपालार्घपात्रेणार्घ्यं सुनिर्मलैः ।
नरदन्तैस् ततः पुष्पं सुगान्धि च विलेपनम् ॥ १२,३२.१३ ॥

दत्त्वा मानुषनेत्रैश् च धूपं मांसैर् बलिं तथा ।
समाप्य पूजां राजानं तम् उवाच स पार्श्वगम् ॥ १२,३२.१४ ॥

राजन्न् इहास्य मन्त्राधिराजस्य कृतसंविधेः ।
प्रणामम् अङ्गैर् अष्टाभिर् निपत्य कुरु भूतले ॥ १२,३२.१५ ॥

येनाभिप्रेतसिद्धिं ते दास्यत्य् एष वरप्रदः ।
श्रुत्वैतत् स्मृतवेतालवचा राजाब्रवीत् स तम् ॥ १२,३२.१६ ॥

नाहं जानामि तत् पूर्वं प्रदर्शयतु मे भवान् ।
ततस् तथैव तद् अहं करिष्ये भगवन्न् इति ॥ १२,३२.१७ ॥

ततो दर्शयितुं यावत् स भिक्षुः पतितो भुवि ।
तावत् खड्गप्रहारेण स राजास्य शिरो ऽच्छिनत् ॥ १२,३२.१८ ॥

आचकर्ष च हृत्पद्मम् उदराद् अस्य पाटितम् ।
वेतालाय च तस्मै तच्छिरोहृत्कमलं ददौ ॥ १२,३२.१९ ॥

साधुवादे ततो दत्ते प्रीतैर् भूतगणैस् ततः ।
तुष्टो ऽब्रवीत् स वेतालो नृपं तं नृकलेवरात् ॥ १२,३२.२० ॥

राजन् विद्याधरेन्द्रत्वं भिक्षोर् आसीद् यद् ईप्सितम् ।
तत् तावद् भूमिसाम्राज्यभोगान्ते ते भविष्यति ॥ १२,३२.२१ ॥

क्लेशितो ऽसि मया यत् त्वं तद् अभीष्टं वरं वृणु ।
इत्य् उक्तवन्तं वेतालं स राजा तम् अभाषत ॥ १२,३२.२२ ॥

त्वं चेत् प्रसन्नः को नाम न सिद्धो ऽभिमतो वरः ।
तथाप्य् अमोघवचनाद् इदं त्वत्तो ऽहम् अर्थये ॥ १२,३२.२३ ॥

आद्याः प्रश्नकथा एता नानाख्यानमनोरमाः ।
चतुर्विंशतिर् एषा च पञ्चविंशी समाप्तिगा ॥ १२,३२.२४ ॥

सर्वाः ख्याता भवन्त्व् एताः पूजनीयाश् च भूतले ।
इति तेनार्थितो राज्ञा वेतालो निजगाद सः ॥ १२,३२.२५ ॥

एवम् अस्तु विशेषं च शृणु वच्म्य् अत्र भूतले ।
याश् चतुर्विंशतिः पूर्वा यैषा चैका समापिनी ॥ १२,३२.२६ ॥

कथावलीयं वेतालपञ्चविंशतिकाख्यया ।
ख्याता जगति पूज्या च शिवा चैव भविष्यति ॥ १२,३२.२७ ॥

यः श्लोकमात्रम् अप्य् अस्याः कथयिष्यति सादरः ।
यो वा श्रोष्यति तौ सद्यो मुक्तपापौ भविष्यतः ॥ १२,३२.२८ ॥

यक्षवेतालकूष्माण्डडाकिनीराक्षसादयः ।
न तत्र प्रभविष्यन्ति यत्रैषा कीर्तयिष्यते ॥ १२,३२.२९ ॥

इत्य् उक्त्वा स ययौ तस्मान् निर्गत्य नृकलेवरात् ।
यथाभिरुचितं धाम वेतालो योगमायया ॥ १२,३२.३० ॥

ततस् तत्र सुरैः सार्धं राज्ञस् तस्य महेश्वरः ।
साक्षाद् आविरभूत् तुष्टः प्रणतं चादिदेश तम् ॥ १२,३२.३१ ॥

साधु वत्स हतो ऽद्यायं यत् त्वया कूटतापसः ।
विद्याधरमहाचक्रवर्तिताहठकामुकः ॥ १२,३२.३२ ॥

त्वम् आदौ विक्रमादित्यः सृष्टो ऽभूः स्वांशतो मया ।
म्लेच्छरूपावतीर्णानाम् असुराणां प्रशान्तये ॥ १२,३२.३३ ॥

अद्य चोद्दामदुर्वृत्तदमनाय मया पुनः ।
त्वं त्रिविक्रमसेनाख्यो हीरः सृष्टो ऽत्र भूपतिः ॥ १२,३२.३४ ॥

अतः सद्वीपपातालां स्थापयित्वा महीं वशे ।
विद्याधराणम् अचिराद् अधिराजो भविष्यसि ॥ १२,३२.३५ ॥

भुक्त्वा दिव्यांश् चिरं भोगान् उद्विग्नः स्वेच्छयैव तान् ।
त्यक्त्वा ममैव सायुज्यम् अन्ते यास्यस्य् असंशयम् ॥ १२,३२.३६ ॥

अपराजितनामानं खड्गं चैतं गृहाण मे ।
यस्य प्रसादात् सर्वं त्वं प्राप्स्यस्य् एतद् यथोदितम् ॥ १२,३२.३७ ॥

इत्य् उक्त्वा खड्गरत्नं तद् दत्त्वा तस्मै महीभृते ।
वाक्पुष्पाभ्यर्चितस् तेन देवः शंभुस् तिरोदधे ॥ १२,३२.३८ ॥

अथ दृष्ट्वैव समाप्तं कार्यम् अशेषं निशि प्रभातायाम् ।
प्रविवेश स त्रिविक्रमसेनः स्वपुरं नृपः प्रतिष्ठानम् ॥ १२,३२.३९ ॥

तत्र क्रमावगतरात्रिविचेष्टिताभिर् अभ्यर्चितः प्रकृतिभिर् विततोत्सवाभिः ।
स्नानप्रदानगिरिशार्चननृत्तगीतवाद्यादिभिस् तद् अखिलं स दिनं निनाय ॥ १२,३२.४० ॥

अल्पैर् एव च वासरैः स नृपतिः शार्वस्य वीर्याद् असेः
सद्वीपां सरसा तलां च बुभुजे निःकण्टकां मेदिनीम् ।
संप्राप्याथ हराज्ञया सुमहतीं विद्याधराधीशतां
भुक्त्वा तां सुचिरं जगाम भगवत्सायुज्यम् अन्ते कृती ॥ १२,३२.४१ ॥