वेदान्तपरिभाषा/अर्थापत्तिपरिच्छेदः

अथार्थापत्तिपरिच्छेदः

इदानीमर्थापत्तिर्निरूप्यते। तत्रोपपाद्यज्ञानेनोपपादकल्पनमर्थापत्तिः। तत्रोपपाद्यज्ञानं करणम्। उपपादकज्ञानं फलम्। येन विना यदनुपपन्नं तत्तत्रोपपाद्यम्। यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपादकम्। यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशपीनत्वमुपपत्तिरिति रात्रिभोजनमुपपादकम्।
रात्रिभोजनकल्पनारूपायां प्रमितौ ’अर्थस्यापत्तिः कल्पना’ इति षष्ठीसमासेनार्थापत्तिशब्दो वर्त्तते। कल्पना-करणपीनत्वादिज्ञाने ‘अर्थस्य आपत्तिः कल्पना यस्मात्’ इति बहुव्रीहिसमासेन वर्तत इति फलकरणयोरुभयोस्तत्पदप्रयोगः।
सा चार्थापत्तिर्द्विविधा—दृष्टार्थापत्तिः, श्रुतार्थापत्तिश्चेति।
तत्र दृष्टार्थापत्तिर्यथा-- इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं रजतमिति तत्रैव निषिद्ध्यमानत्वं सत्यत्वेऽनुपपन्नमिति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं मिथ्यात्वं कल्पयतीति। श्रुतार्थापत्तिर्यथा- श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनं, यथा तरति शोकमात्मवित् इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यानुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यत इति। यथा वा शतवर्षजीवी देवदत्तो गेहे नेति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयतीति।
श्रुतार्थापत्तिश्च द्विविधा—अभिधानानुपपत्तिः, अभिहितानुपपत्तिश्च। तत्र यत्र वाक्यैकदेश-श्रवणेऽन्वयाभिधानानुपपत्त्याऽन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः। यथा द्वारमित्यत्र पिधेहीत्यध्याहारः। यथा वा विश्वजिता यजेतेत्यत्र स्वर्गकामपदाध्याहारः। ननु द्वारमित्यादौ अन्वयाभिधानात्पूर्वमिदमन्वयाभिधानं पिधानोपस्थापकपदं विना अनुपपन्नमिति कथं ज्ञानमिति चेत्— न। अभिधानपदेन करणव्युत्पत्त्या तात्पर्य्यस्य विवक्षितत्वात्। तथा च “द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं विना अनुपपन्नम्” इति ज्ञानं तत्रापि सम्भाव्यते।
अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या। यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र स्वर्गसाधनत्वस्य क्षणिकज्योतिष्टोमयागगततया अवगतस्यानुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते।
न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति, अन्वयव्याप्त्यज्ञानेनान्वयिन्यनन्तर्भावात्, व्यतिरेकिणश्चानु-मानत्वं प्रागेव निरस्तम्। अत एवार्थापत्तिस्थलेऽनुमिनोमीति नानुव्यवसायः, किन्त्वनेनेदं कल्पयामीति।
नन्वर्थापत्तिस्थले इदमनेन विनाऽनुपपन्नमिति ज्ञानं करणमित्युक्तम्, तत्र किमिदं तेन विनाऽनुपपन्नत्वं ? तदभावव्यापकीभूताभावप्रतियोगित्वमिति ब्रूमः।
एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम्। पृथिवीतरेभ्यो भिद्यत इत्यादौ गन्धवत्त्वमितरभेदं विनानुपपन्नमित्यादिज्ञानस्य कारणत्वात्। अत एवानुव्यवसायः पृथिव्यामितरभेदं कल्पयामीति।
।।इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः।।५।।