वेदान्तपरिभाषा/प्रयोजनपरिच्छेदः

← विषयपरिच्छेदः वेदान्तपरिभाषा
प्रयोजनपरिच्छेदः
धर्मराजाध्वरीन्द्रः

अथ प्रयोजनपरिच्छेदः

इदानीं प्रयोजनं निरूप्यते। यदवगतं सत् स्ववृत्तितयेष्यते तत्प्रयोजनम्। तच्च द्विविधं-- मुख्यं गौणं चेति। तत्र सुखदुःखाभावौ मुख्ये प्रयोजने। तदन्यतरसाधनं गौणं प्रयोजनम्। सुखं च द्विविधं-- सतिशयं निरतिशयं चेति। तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः। “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति श्रुतेः।
निरतिशयं सुखं च ब्रह्मैव। “आनन्दो ब्रह्मेति व्यजानात्” “विज्ञानमानन्दं ब्रह्म” इत्यादिश्रुतेः। आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च। “ब्रह्मविद्ब्रह्मैव भवति” “तरति शोकमात्मवित्” इत्यादिश्रुतेः। न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा मोक्षः। तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः।
ननु त्वन्मतेप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यदोषः, अनादित्वे मोक्षमद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति चेत्-- न। सिद्धस्यैव ब्रह्मरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेरनर्थ-निवृत्ति-रप्यधिष्ठानभूतब्रह्मस्वरूपतया सिद्धैव। लोकेऽपि प्राप्तप्राप्ति-परिहृतपरिहारयोः प्रयोजनत्वं दृष्टमेव। यथा हस्तगत-विस्मृतसुवर्णादौ, तव हस्ते सुवर्णमित्याप्तोपदेशादप्राप्तमिव प्राप्नोति। यथा वलयितचरणायां स्रजि सर्पत्वभ्रमवतः पुंसो नायं सर्प इत्याप्तवाक्यात्परिहृतस्यैव सर्पस्य परिहारः प्रसिद्धः। एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः, परिहृतस्यैव सर्पस्य परिहारः प्रसिद्धः। एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः, परिहृतस्यानर्थस्य च निवृत्तिर्मोक्षः प्रयोजनम्। स च ज्ञानैकसाध्यः। “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेः, अज्ञाननिवृत्तेर्ज्ञानैकसाध्यत्वनियमाच्च। तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् “अभयं वै जनक प्राप्तोऽसि तदात्मानमेवावेदहं ब्रह्मास्मि” इति श्रुतेश्च, “तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्” इति नारदीयवचनाच्च। तच्च ज्ञानमपरोक्षरूपं, परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः।
तच्च अपरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित्। मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्यपरे। तत्र पूर्वाचार्य्याणामयमाशयः— संविदापरोक्ष्यं न करणविशेषोत्पत्तिनिबन्धनं, किन्तु प्रमेयविशेषनिबन्धनमित्युप-पादितम्। तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यं ज्ञानमप्यपरोक्षम्। अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति “प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व” इतीन्द्रप्रोक्तवाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते सति “मामुपास्व” इत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते “ शास्त्रदृष्ट्या तूपदेशो वामदेववत्” इत्यत्र सूत्रे ‘शास्त्रीया दृष्टिः शास्त्रदृष्टिः’ इति तत्त्वमस्यादिवाक्यजन्यम् ‘अहं ब्रह्म’ इति ज्ञानं शास्त्रदृष्टिशब्देनोक्तमिति।
अनेषां त्वेवमाशयः— करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वं, न विषयविशेषनिबन्धनम्, एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षत्व-अप्रत्यक्षत्वव्यवहारदर्शनात्। तथा च संवित्साक्षात्त्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया, न शब्दजन्यज्ञानस्यापरोक्षत्वम्। ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासन-संस्कृतं मन एव करण्म्। “मनसैवानुद्रष्टव्यम्” इत्यादिश्रुतेः। मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया। न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात्। वेदानुपजीविमानान्तरगम्यत्वस्यैव वेदगम्यत्वविरोधात्। शास्त्रदृष्टिसूत्रमपि ब्रह्मविषयमानसप्रत्यक्षस्य शास्त्रप्रयोज्यत्वादुपपद्यते। तदुक्तम्-
अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा।
            शास्त्रदृष्टिर्मता, तां तु वेत्ति वाचस्पतिः परम्।। इति।
तच्च ज्ञानं पापक्षयाद्भवति, स च कर्मानुष्ठानादिति परम्परया कर्मणां विनियोगः। अत एव “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इत्यादिश्रुतिः “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते” इत्यादिस्मृतिश्च सङ्गच्छते। एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि, मैत्रेयीब्राह्मणे “आत्मा वा अरे दृष्टव्यः” इति दर्शनमनूद्य तत्साधनत्वेन “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रवणमनननिदिध्यासनानां विधानात्। श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्य्यावधारणानुकूलमानसी क्रिया। मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः। निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योपकृष्य आत्मविषयकस्थैर्य्यानुकूलो मानसो व्यापारः।
तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणम्, “ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्” इत्यादिश्रुतेः। निदिध्यासने च मननं हेतुः, अकृतमननस्यार्थदार्ढ्याभावेन तद्विषयनिदिध्यास-नायोगात्। मनने च श्रवणं हेतुः, श्रवणाभावे तात्पर्य्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थविषययुक्तत्वायुक्तत्व-निश्चयानुकूलमननायोगात्। एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीतिकेचिदाचार्य्या ऊचिरे।
अपरे तु श्रवणं प्रधानं, मनननिदिध्यासनयोस्तु श्रवणात्पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्त्तकतया आरादुपकारकतया अङ्गत्वमित्याहुः। तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम्। तस्य श्रुत्याद्यन्यतमप्रमाणगमस्य प्रकृते श्रुत्याद्य-भावेऽसम्भवात्। तथा हि— व्रीहिभिर्यजेत इति, दध्ना जुहोति इत्यादाविव मनननिदिध्यासनयोरङ्गत्वे न काचित्तृतीयाश्रुतिरस्ति। नापि बर्हिर्देवसदनं दामि इत्यादिमन्त्राणां वर्हिःखण्डनप्रकाशनसामर्थ्यवत् किञ्चिल्लिङ्गमस्ति। नापि प्रदेशान्तरपठितप्रवर्ग्यस्य अग्निष्टोमे प्रवृणक्तीति वाक्यवत् श्रवणानुवादेन मनन-निदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति। नापि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यावगतफलसाधनताकदर्शपौर्णमासप्रकरणे प्रयाजादीनामिव फलसाधनत्वेनावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम्।
ननु द्रष्टव्य इति दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत्— न। “ते ध्यानयोगानुगता अपश्यन्” इत्यादिश्रुत्यन्तरे ध्यानस्य दर्शनसाधनत्वेनावगतस्य अङ्गाकाङ्क्षायां प्रयाजन्यायेन श्रवणमननयोरेवाङ्गत्वापत्तेः। क्रमसमाख्ये च दूरनिरस्ते। किञ्च प्रयाजादिषु अङ्गत्वविचारः सप्रयोजनः, पूर्वपक्षे विकृतिषु न प्रयाजानुष्ठानं, सिद्धान्ते तु तत्रापि तदनुष्ठानमिति। प्रकृते तु श्रवणं न कस्यचित्प्रकृतिः, येन मनननिदिध्यासनयोस्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत्। तस्मान्न तार्त्तीयशेषत्वं मननिदिध्यासनयोः। किन्तु यथा घटादिकार्य्ये मृत्पिण्डादीनां प्रधानकारणता, चक्रादीनां सहकारिकारणतेति प्राधान्याप्राधान्यव्यपदेशः, तथा श्रवणमनननिदिध्यासनानामपीति मन्तव्यम्। सूचितं चैतद्विवरणाचार्य्यैः “शक्तितात्पर्य्यविशिष्टशब्दाव-धारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणतासंस्कारपरिनिष्पन्नतदेकाग्रवृतिकार्य्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य तात्पर्य्यविशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियेते” इति।
श्रवणादिषु च मुमुक्षूणामधिकारः। काम्ये कर्मणि फलकामस्याधिकारित्वात्। मुमुक्षायां च नित्यानित्यविवेकस्येहामुत्रार्थफलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां विनियोगः। अन्त-रिन्द्रियपरिग्रहः शमः। बहिरिन्द्रियनिग्रहो दमः। विक्षेपाभाव उपरतिः। शीतोष्णादिद्वन्द्वसहनं तितिक्षा। चित्तैकाग्र्यं समाधानम्। गुरुवेदान्तवाक्यविश्वासः श्रद्धा। अत्रोपरमशब्देन संन्यासोऽभिधीयते। तथा च संन्यासिनामेव श्रवणेऽधिकार इति केचित्। अन्ये तूपरशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवाज्जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात्, सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः।
सगुणोपासनमपि चित्तैकाग्य्रद्वारा निर्विशेषब्रह्मसाक्षात्कारहेतुः। तदुक्तम्-
निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः।
            ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः।।
            वशीकृते मनस्येषां सगुणब्रह्मशीलनात्।
तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम्।। इति।
सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणादुत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः।
कर्मवतां धूममार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः। तथा च श्रुतिः “रमणीयचरणाः रमणीयां योनिमापद्यन्ते कुपूयचरणाः कुपूयां योनिम्” इति।
प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोपचितं तीब्रदुःखमनुभूय सूकरादिषु तिर्यग्योनिषु स्थावरादिषु चोत्पत्तिरित्यलं प्रसङ्गादागतप्रपञ्चेनेति।
निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम्, “न तस्य प्राणा उत्क्रामन्ति” इति श्रुतेः। किन्तु यावत्प्रारब्धक्षयं सुखदुःखे ह्यनुभूय पश्चादपवृज्यते।
ननु “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यादिश्रुत्या “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा“ इति स्मृत्या च ज्ञानस्य सकलकर्मनाशहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत्— न। “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इत्यादिश्रुत्या “नाभुक्तं क्षीयते कर्म” इत्यादिस्मृत्या चोत्पादितकार्य्यकर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात्।
सञ्चितं द्विविधं-- सुकृतं दुष्कृतं चेति। तथा च श्रुतिः “तस्य पुत्रा दायमुपयान्ति सुहृदः साधुकृत्यं द्विषन्तः पापकृत्यम्” इति।
ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्य्यप्रारब्धकर्मणोऽपि निवृत्तेः कथं ज्ञानिनो देहधारणमुपपद्यत इति चेत्— न। अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूपप्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गी-कारात्।
नन्वेवमपि तत्त्वज्ञानादेकस्य मुक्तौ सर्वमुक्तिः स्यात्, अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत्— न। इष्टापत्तेरित्येके।
अपरे त्वेतद्दोषपरिहारायैव इन्द्रो मायाभिः इति बहुचनश्रुत्यनुगृहीतम् अविद्यानानात्वम् अङ्गीकर्तव्यमित्याहुः।
अन्ये त्वेकैवाविद्या, तस्या एवाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना। तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः, न त्वन्यं प्रति ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाश इत्यभ्युपगमात् न एकमुक्तौ सर्वमुक्तिः। अत एव च “यावदधिकारमवस्थितिराधिकारिकाणाम्” इत्यस्मिन्नधिकरणे अधिकारिपुरुषाणाम् उत्पन्नतत्त्वज्ञानानाम् इन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य अधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम्। तदुक्तमाचार्य्यवाचस्पतिमिश्रैः---
उपासनादिसंसिद्धितोषितेश्वरचोदितम्।
अधिकारं समाप्ता ये प्रविशन्ति परं पदम्।। इति।
एतच्चैकमुक्तौ सर्वमुक्तिरिति पक्षे नोपपद्यते। तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया। तदेवं ब्रह्मज्ञानान्मोक्षः स चानर्थनिवृत्तिर्निरतिशयब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम्।
।। इति श्रीधर्मराजदीक्षितविरचितायां वेदान्तपरिभाषायामष्टमः परिच्छेदः।।