अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । वेदेषु निहिताः केचन विज्ञानसम्बन्धिनः विषयाः अत्र उपस्थाप्यन्ते ।


संस्कृते विज्ञानसम्बन्धिन: विषया: बहव: सन्ति । केचन विषया: अद्यतनविज्ञानस्य प्रगतिदृष्ट्या अतीव सामान्या: भवितुमर्हन्ति, परन्तु पूर्वजानां चिन्तनम् उत्तमम् आसीत् इत्यत्र तादृशा: एव विषया: प्रमाणम् । केषुचित् विषयेषु इदानीमपि शोध: अपेक्ष्यते । आधुनिकदृष्ट्या गणितशास्त्रस्य उपेक्षा अस्माभि: कृता । तेन पाश्चात्त्यदेशे गणितशास्त्रं प्रगतिपथं नीतम् । भूमे: आकर्षणशक्ते: विषये अस्माकम् ऋषीणाम् आविष्कारस्य, उपेक्षया अप्रचारेण वा तत् श्रेय: अन्यत्र गतम् । एष: एव समुचित: काल: । इत:परं वेदविज्ञानस्य शास्त्रेषु निहितस्य विज्ञानस्य च उपेक्षा न करणीया । एतदेव मनसि निधाय वेदेषु निहिता: केचन विज्ञानसम्बन्धिन: विषया: अत्र उपस्थाप्यन्ते ।

व्याकरणमहाभाष्ये भगवान् पतञ्जलि: प्रसङ्गवशात् उदाहरणमेकं प्रस्तौति - ‘लोष्ट: क्षिप्त: बाहुवेगं गत्वा नैव तिर्यग् गच्छति नोर्ध्वमारोहति, पृथिवीविकार: पृथिवीमेव गच्छति आन्तर्यत:’ इति । अत्र भूमे: गुरुत्वशक्ति: स्पष्टम् उपवर्णिताऽस्ति । अपि च उक्ते पतञ्जलिवाक्ये इदमपि स्पष्टं भवति - पृथिवीविकार: एव पृथिव्या: गुरुत्वशक्ते: प्रभावित: भवति इति । यत: अग्ने: ज्वाला सर्वदा ऊर्ध्वमुखेनैव भवति । पृथिव्या: गुरुत्वशक्त्या प्रभाविता भूत्वा अधोमुखं न ज्वलति । वायुना ज्वाला विचलिता भवति, न तु पृथिव्या: गुरुत्वशक्त्या । तथैव वायु:, न सर्वदा अधिमुखं वाति, पृथिव्या: गुरुत्वशक्त्या वायु: प्रभावित: न भवति । गुरुत्वाकर्षणशक्ति: पृथिव्या: विकारान् एव प्रभावयति इति महाभाष्यकारस्य आशय: । विषयेऽस्मिन् बहुधा चिन्तनम् अपेक्ष्यते ।

कृष्णयजुर्वेदे तैत्तिरीयसंहितायाम् अग्निष्टोमप्रकरणे कश्चित् वैज्ञानिक: विषय: उपस्थाप्यते । अग्निष्टोमेन यागेन प्रजापति: प्रजा: सृष्टवान् । यागेन प्राप्तशक्त्या एव ता: प्रजा: स्ववशे स्थापित- वान् । तत्र सृष्टासु प्रजासु अश्वतर: प्रजापते: नियन्त्रणे न आसीत् । महता वेगेन धावति स्म स: । अश्वतरे रेत: (प्रजोत्पादनशक्ति:) अधिकम् आसीत् । अत एव स: वेगेन धावति स्म । प्रजापति: तम् अश्वतरम् अनुधावन् तस्मात् रेत: निष्कासितवान् । अश्वतरात् निष्कासितं रेत: गर्दभे स्थापितवान् । अत: गर्दभ: द्विरेता: सञ्जात: । अर्थात् गर्दभे स्वभावेन विद्यमाना गर्दभोत्पादनशक्ति: (गर्दभरेत:), प्रजापतिना स्थापिता अश्वतरोत्पादनशक्ति: (अश्वतररेत:) चेति शक्तिद्वयं सञ्जातम् । तत्रैव प्रकरणे प्रजापति: अश्वतररेत: बडवायाम् (अश्वजातौ स्त्री) स्थापितवान् इत्यपि वदति वेद: । अस्मिन् पक्षे बडवा द्विरेता: सम्पन्ना । वेदवाक्यानां सार: इत्थम् - अश्वतरात् रेत: निष्कासितमिति कारणात् अश्वतर: प्रजोत्पादनशक्तिहीन:, गर्दभे बडवायां वा रेत: स्थापितवान् इति कारणात् गर्दभ: गर्दभ्या साकं निषेचनेन गर्दभं, बडवया साकं निषेचनेन अश्वतरं च जनयति । बडवाया: अश्वेन साकं निषेचनेन अश्व:, गर्दभेन साकं निषेचनेन अश्वतर: च जायते इति । अत्र अनुसन्धानस्य अयं विषय: - किं वस्तुत: अश्वतर: प्रजोत्पत्तिशक्तिहीन: ? किं वस्तुत: गर्दभे उभयविधप्रजोत्पत्तिसामर्थ्यम् अस्ति ? तथैव किं बडवायाम् उभयविधप्रजोत्पत्तिसामर्थ्यम् अस्ति ?

एतत्सम्बन्धिन: मन्त्रा: - अग्निष्टोमेन वै प्रजापति: प्रजा असृजत् । ता अग्निष्टोमेनैव पर्यगृह्णात् । तासां अप्रगृहीतानाम् अश्वतरोत्यप्रवत... तस्यानुहास रेत आदत्त । ... तद्गर्दभे न्यमाटर् । तस्माद् गर्दभो द्विरेता: । ... अथो आहुर्बडवायां न्यमार्डिति । तस्मात् बडवा द्विरेता: । तस्माद् अश्वतरो न प्रजायत आत्तरेता हि... । (तै.सं. - 7.1.1.2) अन्यदिदं पश्यत । भूमे: चन्द्र: स्वर्णमय: दृश्यते । सूर्यात् प्रकाशं प्राप्य चन्द्र: तथा दृश्यते इति विज्ञानिन: । एवमेव भूमि: अपि अन्तरिक्षात् रजतमिव भासते इति । भूमौ वसन्त: वयं भूमिं किंरूपेण पश्याम: ? यथा दृश्यते तथा पश्याम: । परन्तु पक्षिण: भूमिं किंरूपेण पश्यन्ति ? पक्षिण: किमर्थं रात्रौ न चरन्ति, नीडं प्रति गच्छन्ति ? एतस्य उत्तरं वयं न जानीम: । वेदे अस्मिन् विषये एका कथा श्रूयते ।

आदिकाले भूमि: जलमयी आसीत् । प्रजापति: सृष्टिकर्ता एकस्मिन् पद्मपत्रे वायुरूपेण आसीत् । जले स: कुलायम् अपश्यत् । तस्मिन् कुलाये स: अग्निचयनम् अकरोत् । (संस्कृतायाम् उत्तरवेद्याम् इष्टकाभि: पञ्चसु सोपानेषु चिति: निर्मीयते । इयं चिति: अग्ने: स्थानं भवति । इष्टकानां मन्त्रै: परस्पर-संयोजनम् उपधानमिति उच्यते । एतस्य कार्यजातस्य अग्नि-चयनमिति नाम ।) कुलाये अग्निचयनावसरे प्रजापति: अग्रभागे एकाम् इष्टकां स्थापितवान् । सा शिर: अभवत् । सा एव भूमे: प्राची दिशा जाता । दक्षिणत: अपराम् इष्टकां स्थापितवान् । सा दक्षिणपक्ष: अभवत् । सा एव दक्षिणा दिग् जाता । पृष्ठत: एकाम् इष्टकां स्थापितवान् । सा भूमे: पुच्छम् अभवत् । सा एव प्रतीची दिशा जाता । वामत: एकाम् इष्टकां स्थापितवान् । सा वामपक्ष: अभवत् । सा एव उत्तरा दिग् जाता । सर्वोपरि एकाम् इष्टकां स्थापितवान् । सा एव भूमे: पृष्ठम् अभवत् । सा एव ऊर्ध्वा दिग् जाता ।

अनया कथया इदं ज्ञायते - भूमि: पञ्चभि: इष्टकाभि: सृष्टा । सा भूमि: पक्षिरूपेण एव सृष्टा । एवम् अग्निचयनप्रक्रियया इयं भूमि: अग्निरूपेण एव सृष्टा इति । अर्थात् पक्षिरूपेण सृष्टा भूमि: अग्निरूपेण वर्तते इति कारणात् पक्षिणाम् अग्ने: च सम्बन्ध: विशिष्ट: । अत एव पक्षिण: रात्रौ न चरन्ति, एवं रात्रौ भूमिम् अग्निरूपेण पश्यन्ति इति वेद: वदति - सर्वो वा इयं वयोभ्यो नक्तं दृशे दीप्यते, तस्मादिमां वयांसि नक्तं नाध्यासते इति । किं वस्तुत: पक्षिण: भूमिं रात्रौ अग्निरूपेण पश्यन्ति ? तैत्तिरीयसंहितायां (5.6.4.2) वर्णितम् इमं विषयं विज्ञानिन: अनुसन्दधीरन् । गणितविषये आपस्तम्बेन उक्तं कञ्चन विषयं परिशीलयाम । आपस्तम्ब: प्रसङ्गवशात् /2 इत्यस्य वर्गमूलं 1.4142156 इति वदति । प्रमाणं तृतीयेन वर्धयेत्, तच्च चतुर्थेन, आत्मचतुस्त्रिंशेन, स विशेष: इति तदुक्तं सूत्रम् ।

तदनुसारेण /2 = 1+1/3+1/3+4 -1/3+4+34 = 1.4142156 इति मूल्यं दृष्टम् । आधुनिकगणितरीत्या तस्य मूल्यं भवति 1.4142135 इति । इदं तु वास्तविकं मूल्यं गणितप्रक्रियया प्रमाणितञ्च । परन्तु आपस्तम्बेन किमर्थं तादृशं मूल्यं दृष्टमिति, किं गणितीयं तत्त्वम् आपस्तम्बगणनाप्रकारे विशिष्टमस्ति इति च अनु-सन्धानस्य विषय: ।

इदमपरं परिशीलयत । प्रश्नोपनिषदि एवं वर्णितमस्ति - ‘हृदि ह्येष आत्मा । अत्रैतत् एकशतं नाडीनां, तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्तति: प्रतिशाखा नाडीसहस्राणि भवन्ति, असु व्यान: चरन्ति’ इति । एतदनुसारेण कियन्त: नाडीविशेषा: शरीरे चरन्ति इति गणयाम: चेत् (100+100+100+72=) 7,20, 00,000 इति संख्यामिता: नाड्य: भवन्तीति उत्तरं प्राप्यते । आधुनिककाले केन्द्रीयनाडीमण्डलस्य (ॐठत्दज्ञञण् कठज्ञतिथि ग्ीथदठण) विषये विज्ञानम् अपरिमितं विकासं प्राप्नोत् । नाडीनां गणनं, पृथक्करणमिति सर्वम् अनायासेन साध्यते । साधनानाम् अभावेऽपि तस्मिन् काले कथं नाडीनामियं संख्या स्पष्टमुक्ता ? किमियं संख्या सर्वथा आधुनिकै: विज्ञानिभि: परिगणितया संख्यया समानतां भजते ? यदि आम्, आश्चर्यस्य विषय: - प्रागेव इयं संख्या दृष्टा ऋषिभि: इति । यदि न, अस्या: संख्याया: किं मूलमिति एष: नूनम् अनुसन्धानस्य विषय: ।

इत्थं समुचित: एष: काल: संस्कृते विशिष्य वेदेषु निहितस्य विज्ञानसम्बन्धिन: तत्त्वस्य आविष्कारार्थम् । अपि च संस्कृतज्ञानां विज्ञानिनां च समवेत: कश्चित् प्रयास: अपेक्ष्यते । तादृशसमवेत-प्रयासेनैव एतादृशविषयेषु स्पष्टता अग्रे अनुसन्धानं वा भवितुम् अर्हति ।

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - एप्रिल् २००९
लेखकः – डा. रामानुजदेवनाथः
"https://sa.wikisource.org/w/index.php?title=वेदेषु_विज्ञानम्&oldid=41179" इत्यस्माद् पुनः प्राप्तिः