वैयाकरणभूषणसारः/अभेदैकत्वसङ्ख्यानिर्णयः (कारिका ५६)

<11-0>
।। अथाभेदैकत्वसङ्‌ख्यानिर्णयः ।।
<11-0>अभेदैकत्वसङ्ख्या वृत्तौ भासते इति सिद्धान्तप्रतिपादनम्
वृत्तिप्रसङ्गात् तत्राभेदैकत्वसङ्खया प्रतीयते इति सिद्धान्तं दृष्टान्तेनोपपादयति--

अभेदैकत्वसङ्खयाया वृत्तौ भानमिति स्थितिः।
कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ।। 56 ।।
<11-1>तत्र सङ्ख्याविशेषाणामविभागेनावस्थानमिति प्रथमः पक्षः
सङ्खयाविशेषाणामविभागेन सत्त्वम्=अभेदैकत्वसङ्खया। उक्तञ्च वाक्यपदीये-

यथौषधिरसाः सर्वे मधुन्याहितशक्तयः।
अविभागेन वर्त्तन्ते सङ्खयां तां तादृशीं विदुः ।। इति ।।
</11-1>
<11-2> परित्यक्तविशेषं सङ्ख्यासामान्यमिति द्वितीयः पक्षः

परित्यक्तविशेषं वा सङ्खयासामान्यं तत्। उक्तञ्च--

भेदानां वा परित्यागात् सङ्खयात्मा स तथाविधः।
व्यापाराज्जतिभागस्य भेदापोहे (हो) न वर्त्तते।।
अगृहीतविशेषेण यथा रूपेण रूपवान्।
प्रख्यायते न शुक्लादिर्भेदापोहस्तु गम्यते ।। इति ।।

अस्या वृत्तौ=समासादौ भानं न्यायसिद्धमिति शेषः। इति मतस्थितिर्वैयाकरणानाम्।

अयं भावः-`राजपुरुषः' इत्यादौ राज्ञः, राज्ञोः, राज्ञां वाऽयं पुरुष इति जिज्ञासा जायते। विशेषजिज्ञासा च सामान्यज्ञानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादावश्यकी। अतस्तस्यां शक्तिरिति। तस्या एकत्वत्वेन प्रतीतौ न्यायमाह-कपिञ्जलेति-बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः।
</11-2>
<11-3>सङ्ख्याप्रतीतिरेव नेति तृतीयः पक्षः

वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा। तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ।। 56 ।।

<11-3>सङ्ख्याप्रतीतिरेव नेति तृतीयः पक्षः
इति वैयाकरणभूषणसारे अभेदैकत्वसङ्खयानिरूपणम् ।। 11 ।।
</11-0>