वैयाकरणभूषणसारः/देवताप्रत्ययार्थनिर्णयः (कारिका ५२-५५)

।। अथ देवताप्रत्ययार्थनिर्णयः ।।

<10-1> देवताविशिष्टं देयं प्रत्ययार्थः
"सास्य देवता" (पाo सूo 4-2-4) इत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः। `ऐन्द्री' `वैश्वदेवी' इत्यादौ इन्द्रादेर्देवतात्वोपस्थापकान्तराभावात्, तेन रूपेणोपस्थितये शक्तिकल्पनाऽऽवश्यकत्वात्। अत एव--

आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः।
आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ।। इति ।।

केवलाद्देवतावाची तद्धितोऽग्नेः समुच्चरन्।
नान्ययुक्तोऽग्निदैवत्यं प्रतिपादयितं क्षमः ।। इति च
मीमांसकैरप्युक्तमित्याशयेनाह-

प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ।। 52 ।।
अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः।
देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ।। 53 ।।

एकदेशे=देवतारूपे। तच्च विशेषणमभेदेनेत्याह-अभेदश्चेति। ननु देवतायाः प्रत्ययार्थोकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाह-देवतायामिति-तथाच पदार्थैकदेशतैव नास्तीति भावः ।। 53 ।।
</10-1> देवताविशिष्टं देयं प्रत्ययार्थः
<10-2> देये शक्तिः देवतायां लक्षणा इत्यादिपक्षाः

नन्वग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या। नच देवतात्वेन रूपेणोपस्थितये सा कल्प्यते। प्रकृतेर्लक्षणयैव तथोपस्थितिसम्भवात्। उपसर्गाणां द्योतकत्वनये `प्रजयति' इत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याह-

प्रदेय एव वा शक्तिः प्रकृतेर्वास्तु लक्षणा।
देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः ।। 54 ।।

नच `ऐन्द्रं दधि' इत्यादौ द्रव्यस्य पदान्तराल्लाभात् कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम्, पदान्तराश्रवणोऽपि तत्प्रतीतेः, `ऐन्द्रं दधि' इति सामानाधिकारण्याच्च।

अन्यथाऽऽख्यातस्यापि कर्त्तृकर्मवाचित्वं न स्यात्। मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु। द्रव्यं पदान्तराल्लभ्यत एवेति आख्यातस्य कर्त्तृवद्वाच्यत्वं माऽस्त्विति कुतो न शक्यते वक्तुमिति दिक्।

देवतायां देवतात्वेन रूपेण निरूढेति-अनुपपत्तिज्ञानापूर्वकत्वम्, अनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः
।। 54 ।।
</10-2>
<10-3>अन्यतद्धितार्थनिरूपणम्

अनयैव रीत्याऽन्यत्राप्यवधेयमित्याह-

क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता।
वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ।। 55 ।।

"तदस्यां प्रहरणमिति क्रीडायां णः" (पाo सूo 4-2-57) इत्यत्र प्रहरणविशिष्टा क्रीडा, प्रहरणक्रीडे, क्रीडामात्रं बाऽर्थः। आदिना "सोऽस्य निवासः" (पाo सूo 4-3-89) "साऽस्मिन् पौर्णमासीति" (पा सू 4-2-21) "तदस्यास्त्यरिमन्निति मतुप्" (पाo सूo 5-2-14) इत्यादिकं संगृह्यते।

वृत्तिमात्रेऽतिरिक्तशक्तेः, "समर्थः पदविधिः" (पाo सूo 2-1-1) इति सूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः। आरोपितप्रकृतिप्रत्ययार्थमादाय वा। वस्तुतो विशष्टशक्तयैवार्थोपस्थितिरित्याह-वस्तुत इति ।। 55 ।।
</10-3>

इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ।। 10 ।।
</10-0>