वैयाकरणभूषणसारः/धात्वर्थनिर्णयः (कारिका १-२१)

<मङ्गलम्>
           वैयाकरणसिद्धान्तभूषणसारः

श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्।
स्फोटरूपं यतः सर्वं जगदेतद् विवर्त्तते ।। 1 ।।

अशेषफलदातारं भवाब्धितरणे तरिम्।
शेषाशेषार्थलाभार्थ प्रार्थये शेषभूषणम् ।। 2।।

पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टभिधं
द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम्।
ढुण्ढिं गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान्
सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये ।। 3।।

नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम्।
श्रीकौण्डभट्टः कुर्वेऽहं वैयाकरणभूषणम्।।*
<ग्रन्थारम्भः>
प्रारिप्सितप्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थं निबध्नन् चिकीर्षितं प्रतिजानीते-

फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्‌धृतः।
तत्र निर्णीत एवाऽर्थः सङ्‌क्षेपेणेह कथ्यते ।। 1।।

उद्‌धृत इति। अत्र `अस्माभिः' इति शेषः। `भाष्याब्धेः शब्दकौस्तुभ उद्‌धृतः' इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामाधुनिकोत्प्रेक्षितत्वनिरासाय। अन्यथा तन्मूलकस्याऽस्य ग्रन्थस्याप्याधुनिकोत्प्रेक्षितासारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः।`तत्र निर्णित' इत्युक्तिरितोऽप्यधिकं जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ।। 1।।
</ग्रन्थारम्भः>
<1-0>
                अथ धात्वर्थनिर्णयः

<1-1>धात्वाख्यातार्थविषये वैयाकरणमतम्
प्रतिज्ञातमाह-
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ।। 2 ।।

धातुरित्यत्र स्मृत इति वचनविपरिणामेनाऽन्वयः।

<1-1-1>धात्वर्थः

फलम्=विक्लित्त्यादि।
व्यापारस्तु भावनाभिधा=साध्यत्वेनाऽभिधीयमाना क्रिया।
उक्तञ्च वाक्यपदीये-
`यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते।
आश्रितक्रमरूपत्वात् सा क्रियेत्यऽभिधीयते।। इति ।।

न च साध्यत्वेनाऽभिधाने मानाभावः, `पचति, पाकः, करोति, कृतिः' इत्यादौ धात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्‌क्षानाकाङ्‌क्षयोर्दर्शनस्यैव मानत्वात्। तथा च क्रियान्तराकाङ्‌क्षाऽनुत्थापकतावच्छेदकरूपं साध्यत्वम्। तद्रूपवत्त्वमसत्त्वभूतत्वम्। एतदेवाऽऽदाय
`असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते।'
इति वाक्यपदीयमिति द्रष्टव्यम्।

अयञ्च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः, पचतीत्यादौ तत्तत्प्रकारकबोधस्याऽनुभवसिद्धत्वात्। न च नानार्थतापत्तिः, `तदादि'न्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानामनुगमकस्य सत्त्वात्। आख्याते क्रियैकत्वव्यवस्थाऽपि अवच्छेदकबुद्धिविशेषैक्यमादायैव। उक्तञ्च वाक्यपदीये-

`गुणभूतैरवयवैः समूहः क्रमजन्मनाम्।
बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते।।' इति ।
</1-1-1>

<1-1-2> तिङर्थः
धात्वर्थं निरूप्य तिङ्‌र्थमाह-

आश्रये त्विति-फलाश्रये, व्यापाराश्रये चेत्यर्थः। फलाश्रयः कर्म्म, व्यापाराश्रयः कर्त्ता। तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिः, अन्यलभ्यत्वात्। शक्ततावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते।

<1-1-2-1>कर्तृकर्मणोः आख्यातार्थत्वे प्रमाणम्

नन्वनयोराख्यातार्थत्वे किं मानम्। प्रतीते र्लक्षणया आक्षेपात् प्रथमान्तपदाद्वा सम्भवादिति चेत्-

अत्रोच्यते-`लः कर्म्मणि च भावे चाऽकर्म्मकेभ्यः'(पाo सूo 3-4-69) इति सूत्रमेव मानम्। अत्र हि चकारात् 'कर्त्तरि कृत्'(पाo सूo 3-4-68) इति सूत्रोक्तं कर्त्तरीत्यनुकृष्यते। बोधकतारूपां तिबादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्मणि कर्त्तरि चानेन विधीयन्ते, नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकताशक्तिमादाय शसादिविधानवत्।

न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे। तथाच कर्तृत्वम्-कृतिः, कर्म्मत्वञ्च फलमेवार्थोऽस्त्विति शङ्‌क्‌यम्, फलव्यापारयोर्धातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात्।

अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति चेत्, तर्हि कृतामपि कर्तृकर्म्मादिवाचित्वं न सिद्धयेत्, `कर्त्तरि कृत्' इति च`लः कर्म्मणि' इत्यनेन तुल्ययोगक्षेमम्।

अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भवे वाच्यत्वं माऽस्तु।

तथा सति प्राधान्यं तस्या न स्यादिति चेन्न, `घटमानय' इत्यादावाक्षिप्तव्यक्तेरपि प्राधान्यवदुपपत्तेः। पचतीत्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेन्न, पाकाऽनुकूलव्यापारवतः कर्त्तुरपि विवरणविषयत्वाऽविशेषात्।

न च कर्त्तुर्विवरणं तात्पर्याऽर्थविवरणम्‌,पाकं करोतीत्यशब्दाऽर्थकर्मत्वविवरणवत्, इतरेतरयोगद्वन्द्वे
समुच्चयांऽशविवरणवद्वा न तदर्थनिर्णाकमिति वाच्यम्, भावनायामपि तुल्यत्वात्।

किञ्च, `पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कर्त्तुर्वाच्यत्वमावश्यकम् `पक्ता देवदत्तः' इतिवत्। नचाऽभेदबोधे समानविभक्तिकत्वं नियामकम्, तच्चात्र नास्तीति वाच्यम्, `सोमेन यजेत' `स्तोकं पचति' `राजपुरुषः' इत्यादावप्यभेदबोधाऽनापत्तेः।

नच लक्षणया कर्त्तुरुक्तत्वात् सामानाधिकरण्यम्, पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वाऽनापत्तेः। एवं वैश्वदेवीत्यादितद्धितानामपि, `अनेकमन्यपदार्थे' `साऽस्य देवता' इत्यनुशासनेन पिङ्गे अक्षिणी यस्याः, विश्वे देवा देवता अस्या इति विग्रहदर्शनात् प्रधानषष्ठयर्थे एव अनुशासनलाभात्।

तथाच `अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्ये एवाऽन्वयप्रतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः, द्रव्यवाचकत्वसाधकमूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपाञ्चितं विस्तरेण बृहद्‌वैयाकरणभूषणे।
 तिङः इति। बोधकतारूपा शक्तिस्तिङ्‌क्ष्वेवेत्यभिप्रेत्येदम्।
</1-1-2-1>
</1-1-2>
<1-1-3>वाक्ये भावनायाः एव मुख्यविशेष्यत्वम्


पदार्थं निरूप्य वाक्यार्थं निरूपयति-पले इत्यादि। विक्लित्त्यादि फलं प्रति।

<1-1-3-1>तिङर्थानाम् विशेषणत्वेन अन्वयप्रतिपादनम्

 तिङर्थः-कर्त्तृकर्मसंख्याकालाः। तत्र कर्त्तृकर्मणी फलव्यापारयोर्विशेषणे।

<1-1-3-1-1>तिङर्थसंख्यायाः कुत्रान्वय इति निर्धारणम्

 संख्या कर्त्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात्।

तथाच `आख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्त्तृकर्मोपस्थिर्हेतुः' इति कार्यकारणभावः फलितः।

<1-1-3-1-1-1>तत्र नैयायिकमतनिरासः

नैयायिकादीनामाख्यातार्थसङ्ख्यायाः प्रथमान्तार्थे एवाऽन्वयात् `आख्यातार्थसंख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुः' इति कार्यकरणभावो वाच्यः। सोऽपि `चन्द्र इव मुखं दृश्यते' `देवदत्तो भुक्त्वा व्रजति'इत्यादौ चन्द्रक्त्वार्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम्। इदमपि कर्तृकर्मणोराख्यातार्थत्वे मानमिति स्पष्टं भूषणे।

</1-1-3-1-1-1>
</1-1-3-1-1>
<1-1-3-1-2>तिङर्थकालस्य व्पापारविशेषणत्वम्

कालस्तु व्यापारे विशेषणम्, तथाहि -`वर्त्तमाने लट्' (पाo सूo 3-2-123) इत्यत्राऽधिकाराद् धातोरिति लब्धम्। तच्च धात्वर्थं वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः। नच सङ्‌ख्यावत् कर्त्तृकर्मणोरेवान्वयः शङ्‌क्यः,अतीतभावनाके कर्त्तरि पचतीत्यापत्तेः,अपाक्षीदित्यनापत्तेश्च। पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च। नापि फले तदन्वयः,फलाऽनुत्पत्तिदशायां व्यापारसत्त्वे, पचतीत्यनापत्तेः, पक्ष्यतीत्यापत्तेश्चेत्यवधेयम्।

नचाऽऽमवातजडीकृतकलेबरस्योत्थानाऽनुकूलयत्नसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात्। किञ्चिच्चेष्टादिना तदवगतौ च, अयमुत्तिष्ठति, शक्त्यभावात् फलन्तु न जायते इति लोकप्रतीतेरिष्टत्वात्।
</1-1-3-1-2>

 एवञ्च तिङर्थो विशेषणमेव,
</1-1-3-1>
भावनैव प्रधानम्।
यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टम्, तथाऽपि `भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति (निo अo 2 ख 2) निरुक्तात्, भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याच्च धात्वर्थभावनाप्राधान्यमध्यवसीयते।
<1-1-3-2>आख्यातार्थकर्तृकर्मणोः प्राधान्यवादिविशिष्टाद्वैतिमतखण्डनम्

अपिच, आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात् प्रथामान्तस्य प्राधान्यापत्तिः। तथाच, `पश्य मृगो धावति' इत्यत्र भाष्यसिद्धैकवाक्यता न स्यात्, प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्म्मत्वापत्तौ द्वितीयापत्तेः।

नचैवमप्रथमासामानाधिकरण्याच्छतृप्रसङ्गः, एवमपि द्वितीयाया दुर्वारत्वेन `पश्य मृगः' इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः।

न च पश्येत्यत्र तमिति कर्माध्याहार्य्यम्,वाक्यभेदप्रसङ्गात्, उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वात्, अध्याहारेऽनन्वयापत्तेश्च।
</1-1-3-2>
<1-1-3-3> प्रथमान्तमुख्यविशेष्यत्ववादिनैयायिकमतखण्डनम्

एवञ्च, `भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणम्' इति नैयायिकोक्तं नादरणीयम्। किन्तु `आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणम्' इति कार्यकारणभावो द्रष्टव्यः। भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः, `पस्य मृगो धावति', `पचति भवति' इत्याद्यनुरोधादिति दिक्।
</1-1-3-3>
इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूला भावना। पच्यते इत्यत्रैकाऽऽश्रया या विक्लित्तिस्तदनुकूला
भावनेति बोधः।
</1-1-3>
देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याऽभेदाऽन्वयः। `घटो नश्यति'इत्यत्र घटाऽभिन्नाऽऽश्रयको नाशाऽनुकूलो व्यापार इति बोधः। स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम्। अत एव तस्यां सत्यां नश्यति, तदत्यये 'नष्टः' तद्भावित्वे नङ्क्ष्यतीति प्रयोगः। `देवदत्तो जानाति', इच्छती'त्यादौ च देवदत्ताऽभिन्नाऽऽश्रयको ज्ञानेच्छाद्यनुकूलो वर्त्तमानो व्यापार इति बोधः। स चान्तत आश्रयतैवेतिरीत्योह्यम् ।। 2 ।।
</1-1>
<1-2> आख्यातार्थकर्तृकर्मणोः तात्पर्यग्राहकाः
नन्वाख्यातस्य कर्तृकर्मशक्तत्वे `पचति' इत्यत्रोभयबोधापत्तिः। कर्तृमात्रबोधवत् कर्ममात्रस्यापि बोधापत्तिरित्यतस्तात्पर्यग्राहकमाह-

फलव्यापारयोस्तत्र फले तङ्‌यक्‌चिणादयः।
व्यापारे शप्‌श्नमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् ।। 3 ।।

तङादयः फले आश्रयाऽन्वयं द्योतयन्ति, फलाऽन्वय्याश्रयस्य कर्मत्वात्। तद्द्योतकाः=कर्मद्योतकाः। व्यापाराऽन्वय्याश्रयस्य कर्तृत्वात्। तद्‌द्योतकाः=कर्तृद्योतका इति समुदायार्थः। द्योतयन्ति=तात्पर्य्यं ग्राहयन्ति ।। 3 ।।

नन्वेवं `क्रमादमुं नारद इत्यबोधि स' इत्यादौ, पच्यते ओदनः स्वयमेव' इत्यादौ च व्यभिचारः, कर्मणः कर्त्तृत्वविवक्षायां कर्त्तरि लकारे सति, `कर्मवत्‌ कर्मणा तुल्यक्रियः' (पाo सूo 3-1-87) इत्यतिदेशेन यगात्मनेपदचिण्‌चिण्वदिटामतिदेशाद्यगादिसत्त्वेऽपि कर्त्तुरेव बोधात्, व्यापारे एवाश्रयान्वयाच्च। अबोधीत्यत्रापि बुध्यतेः कर्त्तरि लुङ्‌, तस्य "दीपजन" (पाo सूo 3-1-61) इति चिण्, `चिणो लुक्' (पाo सूo 6-4-104) इति तस्य लुग् इति साधनादित्याशङ्कायामाह-

उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्य्ययात्।
तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ।। 4 ।।


कर्मकर्तृविषयादौ=पच्यते ओदनः स्वयमेव, इत्यादौ। अत्र ह्येकौदनाभिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः।

`क्रमात्' इति आदिपदग्रह्यम्। अत्र `सामान्यविशेषज्ञानपूर्वक एकनारदविषयकज्ञानाऽनुकूलः कृष्णाभिन्नाश्रयकोऽतीतो व्यापारः' इति बोधः। यथोचितमिति=सकर्मकधातुसमभिव्याहृतभावसाधारणविधिवेधेयचिण्यगादि कर्मद्योतकमिति भावः ।। 4 ।।
</1-2>
<1-3>लिङतिरिक्तलडाद्यन्ते भावनायाः अवाच्यत्ववादिप्राभाकरमतखण्डनम्

एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य `फलव्यापारयोः' इति प्रतिज्ञातं धातोर्व्यापारवाचित्वम्, लडाद्यन्ते भावनाया अवाच्यत्वं वदतः प्राभाकरादीन् प्रति व्यवस्थापयति-
<1-3-1> भावना-क्रिया-व्यापारः-उत्पादना इत्येतेषाम् पर्यायता

व्यापारो भावना सैवोत्पादना सैव च क्रिया।
कृञोऽकर्म्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते ।। 5 ।।

पचति=पाकमुत्पादयति, पाकानुकूला भावना, तादृश्युत्पादना इति विवरणाद् विव्रियमाणस्यापि तद्वाचकतेति भावः। व्यापारपदं च फूत्कारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनयितुमुक्तम्। अत एव पचतीत्यत्र अधःसन्तापनत्व-फूत्कारत्व-चुल्ल्युपरिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः।

<1-3-2> कृतित्वस्य शक्यतावच्छेदकत्वनिरासः

नचैवमेषां शक्यताऽवच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्धेदकं वाच्यम्, `रथो गच्छति' जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधो लक्षणयेति नैयायिकरीतिः साध्वी, शक्यताऽवच्छेदकत्वस्यापि लक्ष्यताऽवच्छेदकत्ववद् गुरुणि सम्भवात्,
तयोर्वैषम्ये बीजाभावात्।

<1-3-2-1> करोतिनाविवरणात् आख्यातस्य यत्नार्थत्वमिति मतस्य खण्डनम्

नच पचति=पाकं करोतीति यत्नार्थककरोतिना विवरणाद् यत्न एवाऽऽख्यातार्थ इति वाच्यम्।
`रथो गमनं करोति'बीजादिना अङ्कुरः कृतः' इति दर्शनात् कृञो यत्नार्थकताया असिद्धेः।
</1-3-2-1>
</1-3-2>
<1-3-3> भावनायाः अवाच्यत्वे दोषप्रदर्शनम्
<1-3-3-1> भावनायाः अवाच्यत्वे घटो भवतीत्यत्र घटपदात-द्वितीयापत्तिः

 किञ्च, भावनाया अवाच्यत्वे घटं भावयतीत्यत्रेव घटो भवतीत्यत्रापि द्वितीया स्यात्।

नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्म्मसंज्ञाया बाधान्न द्वितीयेति वाच्यम्, अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात्। कृत्याश्रयत्वस्य, कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात्, धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात्।
</1-3-3-1>
<1-3-3-2> भावनायाः अवाच्यत्वे सकर्मकत्वाकर्मकत्वव्यवस्थानापत्तिः

अपिच भावनाया अवाच्यत्वे धातूनां सकर्म्मकत्वाकर्म्मकत्वविभाग उच्छिन्नः स्यात्। `स्वार्थफलव्यधिकरणव्यापारवाचकत्वम्', `स्वार्थव्यापारव्यधिकरणफलवाचकत्वम्' वा सकर्म्मकत्वं भावनाया वाच्यत्वमन्तरेणासम्भवि।

`अन्यतमत्वं तत्त्वम्' इति चेन्न, एकस्यैवार्थभेदेनाकर्म्मकत्व-सकर्म्मकत्वदर्शनात्। तदेतदभिसन्धायाह-कृञ इति।
</1-3-3-2>
<1-3-3-3> व्यापारस्य अवाच्यत्वे फलमात्रस्य धात्वर्थत्वे दोषप्रदर्शनम्

अयं भावः-व्यापाराऽवाच्यत्वपक्षे फलमात्रमर्थ इति फलितम्। तथाच करोतीत्यादौ यत्नप्रतीतेस्तन्मात्रं वाच्यमभ्युपेयम्। तथाच `यती प्रयत्ने' इतिवत् फलस्थानीययत्नवाचकत्वाविशेषादकर्म्मकतापत्तिरुक्तरीत्या दुर्व्वारेति।

तथाच `न हि यत्नः' इत्यत्र फलस्थानीयत्वेनेति शेषः। कृञ इति-धातुमात्रोपलक्षणम्, सर्वेषामप्यकर्म्मकता, सकर्म्मकता वा स्यादिति भावः।
</1-3-3-3>
<1-3-4>धातोः केवलव्यापारवाचित्वनिरासः

अथवा, `व्यापारो भावना' इत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत् साधयन् नैयायिकाभ्युपगतं जानाति-करोत्यादेः केवलज्ञान-यत्नादिक्रियामात्रवाचित्वं दूषयति-कृञ इति।

अयं भावः-फलांशस्यावाच्यत्वे व्यापार एव धात्वर्थः स्यात्। तथाच स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसकर्म्मत्वोच्छेदापत्तिः। नच कृञादौ सकर्मकत्वव्यवहारो भाक्त इति नैयायिकोक्तं युक्तम्, व्यावहारस्य भाक्तत्वेऽपि कर्म्मणि लकारासम्भवात्।
नहि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन स्नानादिकार्य्यं कर्त्तुं शक्यम्। एवञ्च `नहि यत्नः' इत्यत्र यत्नमात्रमित्यर्थः ।। 5 ।।
<1-3-4-1> फलस्यावाच्यत्वे कृञः कर्मकर्तरि कर्मवद्भावानापत्तिः
अत एवाह-

किन्तूत्पादनमेवातः कर्म्मवत् स्याद् यगाद्यपि।
कर्म्मकर्त्तर्य्यन्यथा तु न भवेत् तद् दृशेरिव ।। 6 ।।

उत्पादनम्=उत्पत्तिरूपफलसहितं यत्नादि कृञर्थ इत्यर्थः।

फलस्य वाच्यत्वे युक्त्यन्तरमाह-अत इत्यादि। यतः कृञो यत्नमात्रमर्थो नेष्यते, अतः। `कर्मवत् स्यात्' इतिपदेन `कर्म्मवत् कर्म्मणा तुल्यक्रियः' (पाo सूo 3-1-87) इति सूत्रं लक्ष्यते। अयमर्थः-यत एवास्योत्पादनार्थकता, अतः पच्यते ओदनः स्वयमेवेतिवत्, क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते। अन्यथा यत्नस्य कर्म्मनिष्ठत्वाभावात् तन्न स्यात्, दृशिवत्। यथा दृश्यते घटः स्वयमेवेति न दर्शनस्य घटावृत्तित्वात्, तथा यत्नस्यापि, इति तथा प्रयोगानापत्तेरिति ।। 6 ।।
<1-3-4-1-1>जानातीत्यादावपि कर्मकर्तरि कर्मवद्भावापत्तिशङ्का-तत्परिहारश्च

नन्वेवं कृञादेरिव जानातीत्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचित्वमावश्यकम्, अन्यथा सकर्म्मकतानापत्तेः। तथाच ज्ञायते घटः स्वयमेवेति किन्न स्यात्।
एवं ग्रामो गम्यते स्वयमेवेत्याद्यपीत्याशङ्कां मनसि कृत्वाह-

निर्वर्त्त्ये च विकार्य्ये च कर्म्मवद्भाव इष्यते।
न तु प्राप्ये कर्म्मणीति सिद्धान्तोऽत्र व्यवस्थितः ।। 7 ।।

ईप्सितं कर्म्म त्रिविधम्-निर्वर्त्त्यम्,विकार्य्यम्, प्राप्यञ्च। तत्राद्ययोः कर्म्मवद्भावः,नान्त्ये। प्राप्यत्वञ्च-क्रियाकृतविशेषानुपलभ्यमानत्वमिति सुबर्थनिर्णये वक्ष्यते। नह्ययं घटः केनचिद् दृष्टो ग्रामोऽयं केनचिद् गत इति शक्यं कर्म्मदर्शनेनाऽवगन्तुम्।

घटं करोतीति निर्वर्त्त्ये, सोमं सुनोतीति विकार्य्ये च तज्ज्ञातुं शक्यमिति न तत् प्राप्यम्। तथाच घटादेर्दृश्यादौ प्राप्यकर्म्मत्वान्नोक्तातिप्रसङ्ग इति भावः।
</1-3-4-1-1>
</1-3-4-1>
<1-3-4-2>धातूनाम् फलावाचकत्वे त्यजिगम्योः पर्यायतापत्तिः

धातूनां फलावाचकत्वे त्यजिगम्योः पर्य्यायतापत्तिः, क्रियावाचकत्वाविशेषात्। फलस्योपलक्षणत्वेऽप्येकक्रियाया एव पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति। तस्मादावश्यकं सकर्म्मकाणां फलवाचकत्वम्।

अकर्म्मकाणां तु तन्निर्विवादमेव, "भू सत्तायाम्" इत्याद्यनुशासनाच्च । अत एव `द्व्यर्थः पचिः' इति भाष्यं सङ्गच्छते इति दिक् ।। 7 ।।
</1-3-4-2>
</1-3-4>
<1-4> फलमात्रं धात्वर्थः भावना तिङर्थः इति भाट्ट(मण्डनमिश्र)मतखण्डनम्
<1-4-1> भाट्ट(मण्डनमिश्र)मतम्
एवं सिद्ध्यतु फलव्यापारयोर्वाच्यत्वम्, किन्तु आख्यातवाच्यैव सा भावना, न धातोः, प्राधान्येन प्रतीयमानस्य व्यापारस्य धात्वर्थतायाः 'प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम्' इतिन्यायविरुद्धत्वात् `तदागमे हि दृश्यते' इति न्यायविरुद्धत्वाच्च।

एवञ्च `स्वायुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्म्मकत्वम्, आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यम्' इत्यादि वदन्तं मीमांसकम्मन्यं प्रत्याह-
<1-4-2> भाट्टमतखण्डनम्

तस्मात् करोतिर्धातोः स्याद् व्याख्यानं नत्वसौ तिङाम्।
पक्वान् कृतवान् पाकं किं कृतं पक्वमित्यपि ।। 8 ।।

तस्मात्=अभिप्रायस्थहेतोः।
    स चेत्थम्-फलमात्रस्य धात्वर्थत्वे `ग्रामो गमनवान्' इति प्रयोगापत्तिः, संयोगाश्रयत्वात्। फलानुत्पाददशायां व्यापारसत्त्वे `पाको भवति' इत्यनापत्तिः, व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च।
<1-4-2-1> घञादेः अनुकूलव्यापारवाचित्वखण्डनम्

यत्तु, भावप्रत्ययस्य घञादेरनुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति, तन्न, कर्त्राख्यातवत् `कर्त्तरि कृत्' इत्यत एव तद्विधानलाभे भावे विधायकाऽनुशासनवैयर्थ्यापत्तेः, तद्विरोधापत्तेश्च। अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेयमिति चेत्तर्हि धातुत एव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथक्‌शक्तिकल्पने गौरवमिति।
</1-4-2-1>
<1-4-2-2>विवरणात्मा करोतिः धातोरेव व्याख्यानम्,न तिङां व्याख्यानम्

 पचतीत्यस्य पाकं करोतीति विवरणात्मा करोतिर्धातोरेव व्याख्यानम्=विवरणम्, अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः। मीमांसकोक्तं बाधकमुद्धरंस्तन्मतं दूषयति-नत्वित्यादिना।

नाऽसौ तिङां व्याख्यानम्, `पक्ववान्' इत्यादावनन्वयापत्तेः।

अयं भावः-"प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्" इत्यत्र हि `विशेष्यतया प्रकृत्यर्थप्रकारकबोधे(बोधम्प्रति)तदुत्तरप्रत्ययजन्योपस्थितिर्हेतुः' इति कार्य्यकारणभावः फलितः। तथाच पक्ववानित्यत्र पाकः कर्म्मकारकम्, क्तवतुप्रत्ययार्थः कर्तृकारकम्। तयोश्चारुणाधिकरणोक्तरीत्या, वक्ष्यमाणाऽस्मद्रीत्या चान्वयासम्भव इति प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यौवाऽभावे क्व प्राधान्यबोधक उक्तकार्य्यकारणभावः। नच
</1-4-2-2>
<1-4-2-3>संबन्धसामान्येन कारकाणामन्वय इत्यस्य खण्डनम्

सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः।
तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते।।

इति भट्टपादोक्तरीत्या सम्बन्धसामान्येन कारकाणामन्वयः शङ्क्यः, योग्यताविरहात् अन्वयप्रयोजकरूपवत्त्वस्यैव तथात्वात्।

क्रियात्वमेव हि कारकान्वयिताऽऽवच्छेदकमिति वक्ष्यते। तदेतदाविष्कर्त्तुंविवरणेन धात्वर्थक्तवत्वर्थयोः कर्म्मत्व-कर्तृत्वे दर्शयति-`कृतवान् पाकम्' इति।
</1-4-2-3>
<1-4-2-4> प्रत्ययार्थप्राधान्यनियमस्य औत्सर्गिकत्वम्
 
वस्तुतस्तु `प्रत्ययार्थः प्रधानम्'इत्यस्य, यः प्रधानं स प्रत्ययार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमेवेति वा नार्थः, `अजा' `अश्वा' छागीत्यत्र स्त्रीप्रत्ययार्थे स्त्रीत्वस्यैव प्राधान्यापत्तेः, छाग्यादेरनापत्तेश्च। किन्तूत्सर्गोयम्।
विशेष्यत्वादिना बोधस्तु तथा व्युत्पत्त्यनुरोधात्। अत एव नैयायिकानां प्रथमान्तविशेष्यक एव बोधः। लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एव बोधः, न नैयायिकादीनाम्। घटः, कर्म्मत्वम्, आनयनं कृतिरित्यादौ विपर्य्ययेणापि व्युत्पन्नानां नैयायिकनव्यादीनां बोधः, न तु तद्‌व्युत्पत्तिरहितानाम्। अन्येषां तन्निराकाङ्क्षमेवेत्यादिकं सङ्गच्छते।
 
अत एव " प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" (पाo सूo 1-2-56) इत्याह भगवान् पाणिनिः।

`प्रधानं प्रत्ययार्थः' इति वचनम् (`न'इत्यनुवर्त्य) न कार्य्यम्, अर्थस्य=तथाबोधस्य, अन्यप्रमाणत्वात्=व्युत्पत्त्यनुसारित्वादिति हि तदर्थः। एवं सत्यपि नियामकापेक्षणे च "भावप्रधानमाख्यातम्" इति वचनमेव गृह्यतामिति सुधीभिरूह्यम्।
</1-4-2-4>
<1-4-2-5> तदागमेहीति न्यायो विवरणं च अतिव्याप्तम्

`तदागमे हि' इति न्यायो विवरणञ्चऽतिव्याप्तमित्याह-किं कृतं पक्वमिति।
कृञा विवरणं प्रतीतिश्च पक्वमित्यत्रापि, इति तत्रापि भावना वाच्या स्यादिति भावः।
</1-4-2-5>
<1-4-2-6> कृतामपि भावनावाचित्वखण्डनम्
नन्वस्तु तिङ इव कृतामपि भावना वाच्येत्यत आह-अपीति-तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचक इति भावः। भवद्रीत्या प्रत्ययार्थत्वात् प्राधान्यापत्तिश्चेति द्रष्टव्यम् ।। 8 ।।
</1-4-2-6>
<1-4-2-7>धातोः व्यापारावाचकत्वे कर्तरि कर्मणि च विहितानां कृताम् अन्वयासंभवः
साधकान्तरमाह-
                 किं कार्य्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि।
                 किञ्च क्रियावाचकतां विना धातुत्वमेव न ।। 9 ।।

`कार्य्यम्'इत्यत्र `ऋहलोर्ण्यत्' (पाo सूo 3-1-184) इति कर्मणि ण्यत्। `पचनीयम्' इत्यादौ चानीयर्। आदिना 'ज्योतिष्टोमयाजी' इत्यादौ करणे उपपदे कर्त्तरि णिनिः। एते च क्रिययोगमन्तरेणासन्तस्तद्‌वाच्यतां बोधयन्ति, विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यऽसम्भवात्। नच `गम्यमानक्रियामादाय कारकयोगः' इति भाट्टरीतिर्युक्ता, आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासिद्धयापत्तेः।
</1-4-2-7>
<1-4-2-8> भावनायाः आक्षेप इत्यस्य निरासः

अथ लिङ्गसंख्यान्वयानुरोधात् कर्त्तुर्वाच्यत्वमावश्यकमिति तेनाऽक्षेपाद् भावनाप्रत्ययः स्यादिति मतम्, तर्हि संख्यान्वयोपपत्तये आख्यातेऽपि कर्त्ता वाच्यः स्यात्। `पक्ववान्' इत्यादौ कालकारकान्वयानुरोधाद् भावनाया अपि वाच्यत्वस्याऽऽवश्यकत्वाच्चेति भावः।
</1-4-2-8>
<1-4-2-9> नखभिन्न इत्यादौ समासो न स्यात्

अपिना हेत्वन्तरसमुच्चयः। तथाहि-नखैर्भिन्नः `नखभिन्नः',हरिणा त्रातः `हरित्रातः' इत्यादौ, "कर्तृकरणे कृता बहुलम्" (पाo सूo 2-1-32) इति समासो न स्यात्, `पुरुषो राज्ञो भार्य्या देवदत्तस्य' इतिवद्, असामर्थ्यात्।
<1-4-2-9-1> नखभिन्न इत्यादौ अध्याहृतक्रियामादाय न सामर्थ्यम्
 
नचाध्याहृतक्रियामादाय सामर्थ्यं वाच्यम्, `दध्योदनः' `गुडधानाः' इत्यादिवत्। अन्यथा तत्रापि "अन्नेन व्यञ्जनम्" (पाo सूo 2-1-34) "भक्ष्येण मिश्रीकरणम्" (पाo सूo 2-1-35) इति समासो न स्यादिति वाच्यम्, तत्र विध्यानर्थक्यादगत्या तथा स्वीकारेऽपि `हरिकृतम्' इत्यादौ साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य, "कर्तृकरणे" इत्यस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्ययोगात्।
</1-4-2-9-1>
<1-4-2-9-2> एकक्रियान्वयित्वम् न सामर्थ्यम्
नचैकक्रियान्वयित्वमेव सामर्थ्यमिति शङ्कयम्, `असूर्यम्पश्याः' इत्यादेरसमर्थसमासत्वानापत्तेः। इष्टापत्तौ कृतः सर्वो मृत्तिकयेत्यत्र 'कृतसर्वमृत्तिकः' इत्यापत्तेः। नचाऽत्र समासविधायकाभावः, "सह सुपा" (पाo सूo 2-1-4) इत्यस्य सत्त्वात्। अन्यथा असमर्थसमासोऽपि विधायकाभावान्न स्यादिति।
</1-4-2-9-2>
<1-4-2-10> भावनायाः तिङर्थत्वे दोषप्रदर्शनम्
<1-4-2-10-1> भावयति घटमितिवत् भवति घटमिति प्रयोगापत्तिः
किञ्च, भावनायास्तिङर्थत्वे `भावयति घटम्' इतिवद्‌ `भवति घटम्' इत्यपि स्यात्, धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात्। नचाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञाया बाधान्न द्वितीयेति वाच्यम्,
</1-4-2-10-1>
<1-4-2-10-2>'पाचयति देवदत्तो विष्णुमित्रेण' - विष्णुमित्रात् तृतीयानापत्तिः
            'ग्रामं गमयति देवदत्तो विष्णुमित्रम्' - ग्रामस्य गमिकर्मत्वानापत्तिः

आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे `पाचयति देवदत्तो विष्णुमित्रेण' इत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः, `ग्रामं गमयति देवदत्तो विष्णुमित्रम्' इत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ ग्रामस्य गमिकर्मत्वानापत्तेश्च। तथाच ग्रामाय गमयति देवदत्तो विष्णुमित्रम्, इत्यपि न स्यात्, "गत्यर्थकर्माणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि" (पाo सूo 2-3-12) इति गत्यर्थकर्मण्येव चतुर्थोविधानात्। एतेन णिजन्ते आख्यातार्थ उभयम्,तदाश्रयत्वाद्देवदत्त-यज्ञदत्तयोः कर्तृतेत्यपास्तम्।
</1-4-2-10-2>
<1-4-2-10-3> आख्यातशून्ये देवदत्तः पक्तेत्यादौ देवदत्तस्य कर्तृत्वं न स्यात्

किञ्च, `तस्मिन् प्रयोगे य आख्यातार्थः' इत्यस्यावश्यकत्वेनाऽऽख्यातशून्ये-`देवदत्तः पक्ता' इत्यादौ देवदत्तस्याऽकर्तृतापत्तेरिति दिक्।
</1-4-2-10-3>
<1-4-2-11> क्रियावाचित्वाभावे धातुत्वानापत्तिः

सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयन्नुक्तार्थस्य स्वोत्प्रेक्षितत्वं निरस्यति-किञ्चेति।
<1-4-2-11-1> "भूवादयो धातवः" - सूत्रव्याख्या, धातुत्वपरिष्कारः

 धातुसंज्ञाविधायकम्-"भूवादयो धातवः" (पाo सूo 1-3-1) इति सूत्रम्। तत्र भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्थाप्रकारकवाचिनोरेकशेषः। आदिश्च आदिश्च आदी, ततो भूवौ आदी येषां ते भूवादयः। तथाच भूप्रभृतयो वासदृशा धातव इत्यर्थः।तच्च क्रियावाचकत्वेन। तथाच 'क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वम्' पर्य्यवसन्नम्। अत्र क्रियावाचित्वमात्रोक्तौ वर्ज्जनादिरूपक्रियावाचके `हिरुक्' `नाना' इत्यादावतिव्याप्तिरिति `भ्वादिगणपठितत्वम्' उक्तम् ।। 9 ।।

तावन्मात्रोक्तौ चाऽह-
सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः।
नहि तत्पाठमात्रेण युक्तमित्याकरे स्पुटम् ।। 10 ।।

गणपठितत्वमात्रोक्तौ सर्वनामाव्ययानामपि धातुत्वं स्यात्। तथाच- `याः पश्यसि' इत्यादौ " आतो धातोः" (पाo सूo 6-4-240) इत्याकारलोपापत्तिः। ननु लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्न सर्वनाम्नो ग्रहणम्, तस्य लाक्षणिकत्वादित्यत आह-वेत्यादि।
अव्यये=`वा' इत्यादावतिप्रसङ्गः तादृशस्यैव गणे पाठेन निर्णयासम्भवात्। तथाच विकल्पार्थकः
`वाति'इति प्रयोगः स्यादिति भावः। न च गतिगन्धनाद्यर्थनिर्द्देशो नियामकः, तस्य "अर्थानादेशनात्" इति भाष्यपर्य्यालोचनया आधुनिकत्वलाभात् ।। 10 ।।
</1-4-2-11-1>
<1-4-2-11-2> क्रिया नाम धात्वर्थः इति चेद् अन्योन्याश्रयः

नन्वस्तु `क्रियावाचकत्वे सति गणपठितत्वं धातुत्वम्', क्रिया च धात्वर्थ एव, न व्यापार इत्याशङ्कां समाधत्ते-

  धात्वर्थत्वं क्रियात्वञ्चेद्धातुत्वं च क्रियार्थता।
अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाऽऽकरम् ।। 11 ।।

यदि क्रियात्वं धात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः, क्रियात्वग्रहे च तदवच्छिन्नवाचकत्वघटितधातुत्वग्रह इत्यन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम्। यथाश्रुते चान्योन्याश्रयस्योत्पत्तौ ज्ञप्तौ वा प्रतिबन्धकत्वाभ्युपगमेनासङ्गत्यापत्तेः।

न च `अन्यतमत्वं धातुत्वम्', "भूवादयः" इत्यस्य वैयर्थ्यापत्तेरित्यभिप्रेत्याह-अस्त्विति। व्यापारसन्तानः क्रिया, तद्वाचकत्वे सति गणपठितत्वमित्यर्थः। ननु सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति सणपठितत्वं लक्षणमुच्यताम्। धात्वर्थत्वात् तेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यत इति चेन्न, अन्यतममध्ये विकल्पस्यापि `विकल्पयति'इति प्रयोगानुसारात् प्रवेशावश्यकत्वेन तदर्थके `वा
' इत्यव्यये उक्तरीत्या गणपठितत्वसत्त्वेनाऽतिव्याप्तेरिति ।। 11 ।।
</1-4-2-11-2>
<1-4-2-11-3>अस्त्यादावपि क्रियाप्रतीतिप्रतिपादनम्
नन्वस्यैव धातुत्वे `अस्ति' इत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदवाचकानामधातुत्वप्रसङ्ग इत्यत आह-

अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना।
अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ।। 12 ।।

अस्त्यादौ=`अस् भुवि' इत्यादौ, धर्म्यंशे=धर्म्मिभागे, भाव्ये=भाव्यत्वेन विवक्षिते, अस्त्येव=प्रतीयत एव। अयमर्थः-`स ततो गतो न वा' इति प्रश्ने, महता यत्नेन`अस्ति' इति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव।
     उत्पत्त्यादिबोधने तु सुतराम्। रोहितो लोहितादासीद् धुन्धुस्तस्य सुतोऽभवत्। ( रामायणम् )। इत्यादिदर्शनात्।
      किञ्च, अत्र भावनाविरहे लडादिव्यवस्था न स्यात्, तस्या एव वर्त्तमानत्वादिविवक्षायां तद्विधानात्।
"क्रियाभेदाय कालस्तु सङ्खया सर्वस्य भेदिका" इति वाक्यपदीयादिति।
नन्वेवम् अस्ति इत्यत्र स्पष्टं कुतो न बुद्ध्यत इत्यत आह-अन्यत्रेति।
अशेषभावात्=भावनायाः फलसमानाधिकरणत्वात्। तथाच भावनायाः फलसामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः।

नन्वेवम् `किं करोति' इति प्रश्ने, `पचति' इत्युत्तरस्येव `अस्ती'त्युत्तरमपि स्यादिति चेत्, इष्टापत्तेः,
आसन्नविनाशं कञ्चिदुद्दिश्य `किं करोति' इति प्रश्रे, पचतीत्युत्तरस्येव, `अस्ति' इत्युत्तरस्य सर्वसम्मतत्वात्। इतरत्र तु सुस्थतया निश्चिते `किं करोति' इति प्रश्नः, पाकादिविशेषगोचर एवेत्यवधारणात् `अस्ति' इति नोत्तरमिति ।। 12 ।।

</1-4-2-11-3>
</1-4-2>
<1-4-3> धातोः फलव्यापारोभयवाचकत्वे सर्वस्य सकर्मकत्वापत्तिशङ्कापरिहारौ

नन्वेवं भावनायाः फलनियतत्वात्, पलाश्रयस्य च कर्मत्वात्, सर्वेषां क्रियावाचकत्वे सकर्म्मकतापत्तिरित्यत आह-
<1-4-3-1> धातोः अकर्मकत्व-सकर्मकत्वनिर्वचनम्

फलव्यापारयोरेकनिष्ठतायामकर्म्मकः।
धातुस्तयोर्धर्म्मिभेदे सकर्म्मक उदाहृतः ।। 13 ।।



एकनिष्ठतायाम्=एकमात्रनिष्ठतायां भिन्नाधिकरणावृत्तितायामिति यावत्। तेन गम्यादौ फलस्य कर्त्तृनिष्ठत्वेऽपि नातिव्याप्तिः। अकर्म्मको यथा-भ्वादिः। तयोः= फलव्यापारयोः आश्रयभेदे सकर्मक इत्यर्थः। उक्तञ्च वाक्यपदीये-
आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते।

अन्तर्भावाच्च तेनासौ कर्म्मणा न सकर्म्मकः।। इति ।
बिभ्रदिति-तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः। तेन=कर्म्मणा सकर्म्मकत्वन्तु न, अन्तर्भावात्=फलांशेन सामानाधिकरण्यसत्त्वादित्यर्थः। `आत्मानं जानाति' `इच्छति' इत्यादौ च द्वावात्मनौ=शरीरात्मा, अन्तरात्मा च। तत्रान्तरात्मा तत्कर्म्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति "कर्म्मवत्कर्मणा" (पाo सूo 3-1-87) इति सूत्रीयभाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्म्मकत्वमित्यवधेयम् ।। 13 ।।
</1-4-3-1>
</1-4-3>
<1-4-4>"पाक" इत्यादिभावकृदन्ते प्रकृतिप्रत्ययभागाभ्यां क्रियायाः साध्यसिद्धावस्थयोः प्रतीत्युपपादनम्

नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे `पाकः' इत्यत्रापि तत्प्रत्ययापत्तिः। नचेष्टापत्तिः, " कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति भाष्यविरोधादित्यत आह-

आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता।
प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ।। 14 ।।

आख्यातशब्दे=`पश्य मृगो धावति' इत्यादौ, भागाभ्यम्=तिङन्ताभ्याम्, प्रकृतिप्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्याख्यानम्, पचतीत्यत्राऽपि भागद्वयसत्त्वात्। साध्यसाधनरूपता यथाक्रमं ग्राह्या।
साध्यत्वम्-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वम्। साधनत्त्वम्-कारकत्वेनान्वयित्वम्। स घञादिष्वपीति-प्रकृत्या साध्यावस्था, प्रत्ययेन साधनावस्था। इयान् परं विशेषः-घञाद्युपस्थाप्या लिङ्गसङ्ख्यान्वयिनी, कारकान्वयिनी च। आख्यातान्तोपात्ता तु नैवम्। तथापि कारकत्वेनान्वयित्वमात्रेण दृष्टान्तदार्ष्टान्तिकतेत्यवधेयम्।
<1-4-4-1> घञाद्यन्ते धातुना साध्यक्रियायाः अभिधाने प्रमाणम्
नच घञन्ते धातुना तथाभिधाने मानाभावः, ओदनस्य पाकः' इति कर्म्मषष्ठया मानत्वात्। नचाध्याहृततिङन्तक्रियान्वयात् षष्ठी, "कर्तृकर्म्मणोः कृति" (पाo सूo 2-3-64) इति कृदन्तेन योग एव तद्विधानात्, "न लोकाव्ययनिष्ठाखलर्थतृनाम्" (पाo सूo 2-3-69) इति लादेशयोगे षष्ठीनिषेधाच्च। एवंरीत्या 'काष्ठैः पाकः' इत्याद्यपीष्टमेव।
</1-4-4-1> घञाद्यन्ते धातुना साध्यक्रियायाः अभिधाने प्रमाणम्
<1-4-4-2> घञाद्यन्ते धातुना साध्यरूपफलस्यैव अभिधाने प्रमाणम्

एवं फलांशोऽपि धातुना असत्त्वावस्थापन्न एवोच्यते।
अत एव `स्तोकं पचति' इतिवत् `स्तोकं पाकः' इत्युपपद्यते इति ।। 14 ।।

एतदेव स्पष्टयति-

साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना।
सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ।। 15 ।।
</1-4-4-2>
<1-4-4-3> घञादिभिः सिद्धत्वेनाभिधाने प्रमाणम्

नच घञादिभिः सिद्धत्वेनाभिधाने मानाभावः, `पाकः' इत्युक्ते, भवति नष्टो वेत्याद्याकाङ्क्षोत्थापनस्यैव मानत्वात्,धातूपस्थाप्यायां तदसम्भवस्योक्तत्वात्, 'स्तोकः पाकः' इत्यनापत्तेश्च। तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया। घञर्थान्वये प्रथमा, पुँल्लिङ्गता चेति-तत्सिद्धये घञादेः शक्तिरुपेया। एतेन घञादीनां प्रयोगसाधुतामात्रमिति नैयायिकनव्योक्तमपास्तम्।

नच घञन्तशक्त्युपस्थाप्यान्वये `स्तोकः पाकः' इति भवतीति वाच्यम्, घञन्तानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवादनुशासनाच्च घञादेरेव तथा शक्तिकल्पनादिति दिक्।

एवञ्च घञ्‌शक्तयभिप्रायेण `कृदभिहितः' इति भाष्यम्, अतो न तद्विरोध इति भावः ।। 15 ।।
</1-4-4-3>
</1-4-4>
</1-4>
<1-5>कारकाणां भावनान्वयनियमप्रतिपादनम्
     संबोधनाद्यष्टकस्य क्रिययैव साधुत्वमिति प्रतिपादनं च


ननु कारकाणां भावनान्वयनियम एव `पाकः' इत्यत्रापि कर्म्मषष्ठयनुसारेण भावनाया वाच्यत्वं सिद्ध्‌येत्त। स एव कुत इत्याशङ्कां समाधत्ते-

सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः।
        धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ।। 16 ।।
तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम्।
साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम्।। 17 ।।
<1-5-1> सम्बोधनान्तस्य क्रियायामन्वयः

सम्बोधनान्तस्य क्रियायामन्वयः, `त्वं ब्रूहि देवदत्त' इत्यादौ निघातानुरोधात्, "समानवाक्ये निघातयुष्मदस्मदादेशाः" इत्यनेन समानवाक्ये एव तन्नियमात्। उक्तञ्च वाक्यपदीये-

सम्बोधनपदं यच्च तत् क्रियायां विशेषणम्।
व्रजानि देवदत्तेति निघातोऽत्र तथा सति ।। इति ।।


`पचति भवति देवदत्तः' इत्यादौ तु सूत्रभाष्यादिरीत्यैकवाक्यतासत्त्वात् स्यादेव निघातः, "तिङ्‌ङतिडः (पाo सूo 7-1-88) इति सूत्रयता तिङन्तानामप्येकवाक्यतास्वीकारात्। `एकतिङ्‌वाक्यम्' इति वदतां वार्त्तिककाराणां मते परं न। वस्तुतस्तु `एकतिङ्‌विशेष्यकं वाक्यम्' इति तदभिप्रायस्य हेलाराजीयादौ, वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम्।।
</1-5-1>
<1-5-2>कृत्वोऽर्थाः

         कृत्वोऽर्थाः, "संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्" (पाo सूo 5-4-17) इति क्रियायोगे तत्साधुत्वोक्तेः, क्रियाया अभ्यावृत्तिः=पुनः पुनर्जन्म, तस्मिन् द्योत्ये इति तदर्थात्।
</1-5-2>
<1-5-3>कारकम्

कारकम्, `कारके' इत्यधिकृत्य तेषां व्युत्पादनात्। कारकशब्दो हि क्रियापरः, करोति कर्तृकर्म्मादिव्यपदेशानिति व्युत्पत्तेः। तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियाऽर्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम्।
</1-5-3>
<1-5-4>प्रथमो वतिः

प्रथमो वतिः, "तेन लुल्यं क्रिया चेद्वतिः" (पाo सूo 5-1-114) इति विहितः, तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात्।
</1-5-4>
<1-5-5>धातुसंबन्धाधिकारनिष्पन्नम्

 धातुसम्बन्धाधिकारे, "धातुसम्बन्धे प्रत्ययाः" (पाo सूo 3-4-1) इत्यधिकृत्य तेषां विधानात्।
</1-5-5>
<1-5-6>असमस्तनञ्

असमस्तनञ्-समासायोग्यः प्रसज्यप्रतिषेधीयो नञित्यर्थः, उत्तरपदार्थान्वयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वाद् यथाश्रुतग्रहणायोगात्।

न चासमस्तनञः क्रियान्वये मानाभावः, न त्वं पचसि, न युवां पचथः, चैत्रो न पचति, घटो न जायते इत्यादौ क्रियाया एव निषेधप्रतीतेः। अत एव विद्यमानेऽपि घटे तादृशप्रयोगः।

तथा च `घटो नास्ति' इत्यत्राप्यस्तित्वाभाव एव बोध्यते। नहि घटो न जायते, नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः। तथाच `भूतले न घटः' इत्यत्राप्यस्तीत्यध्याहार्य्यम्, प्रकारतासम्बन्धेन नञर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लृप्तत्वात्। शेषं नञर्थनिर्णये (निरूपणे) वक्ष्यते।। 16 ।।
</1-5-6>
<1-5-7> भावलक्षणसप्तमी
"यस्य च भावेन भावलक्षणम्" (पाo सूo 2-3-37) इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात्।
</1-5-7>
<1-5-8>भावलक्षणषष्ठी
 "षष्ठी चानादरे" ( पाo सूo 2-3-38) इति तदग्रिमसूत्रेऽपि चकाराद्यस्य च भावेनेत्यायातीत्यर्थः।
</1-5-8>
साधुत्वमिति-तत्स्वरूपं तु वक्ष्यते।

क्रिययैवेति-अयं भावः-भूवादिसूत्रादिषु प्रायशः क्रियाशब्देन भावनाव्यपदेशात्, तत्र तस्य साङ्केतिकी शक्तिः। फलांशे क्वाचित्कः क्रियत इति यौगिकः प्रयोगः। तथा च संज्ञाशब्दस्यानपेक्ष्य प्रवृत्तत्वेन बलवत्त्वाद् भावनान्वय एव साधुता लभ्यते। अत एव संज्ञाशब्दप्राबल्यात् `रथन्तरमुत्तराग्रन्थपठितऋक्ष्वेव गेयम्, नतु वेदे तदुत्तरपठ्यमानऋक्षु' इति नवमे निर्णीतम्।

किञ्च फलांशोऽपि भावनायां विशेषणम्, कारकाण्यपि क्वचित्तथाभूतानि, इति "गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्" (जैo सूo 3-1-22) इति न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यन्वियन्ति। 'नहि भिश्रुको भिक्षुकान्तरं याचितुमर्हति सत्यन्यस्मिन्नभिक्षुके' इति न्यायेनापि फलं त्यक्त्वा भावनायामेवान्वियन्तीति मीमांसका अपि मन्वते। एवञ्च `विशेष्यतया कारकादिप्रकारबोधं प्रति धातुजन्यभावनोपस्थितिर्हेतुः' इति कार्य्यकारणभावस्य क्लृप्तत्वात्। यत्रापि `पक्ता' `पाचकः' इत्यादौ भावना गुणभूता, तत्रापि क्लृप्तकार्य्यकारणभावानुरोधात् तस्यामेवान्वय इत्यवसीयते, इत्यादि भूषणे प्रपञ्चितम्। केचितु भूतले घटः देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षनिवृत्त्योरदर्शनान्न तव्द्यतिरेकेण साधुत्वलाभ इत्याहुः ।। 17 ।।
</1-5>
<1-6>वतेः कारकस्य च क्रियाभिन्ने अन्वयमभ्युपगच्छतां नैयायिकानां खण्डनम्

स्वयमुपपत्तिमाह-
        यदि पक्षेऽपि वत्यर्थः कारकञ्च नञादिषु।
        अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ।। 18 ।।

`पर्वतो वह्निमान्, धूमात्, महानसवत्', भूतले न घटः `भूतले घटः' इत्यादिपादात्।
एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयबोधश्चाभ्युपेयते तर्हि चतुर्थ्याः स्पृहिकल्पनाऽपि त्यज्यतामित्यर्थः। अनुशासनानुरोधतौल्ये अर्द्धजरतीयमयुक्तमिति भावः ।। 18 ।।
</1-6>
<1-7> कर्त्रादौ विहितानामिन्यादीनां क्रिययैवान्वयः
 
       एवं कर्त्रादौ विहितानामिन्यादीनां क्रिययैवान्वय इत्याह-

अविग्रहा गतादिस्था यथा ग्रामादिकर्म्मभिः।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ।। 19 ।।

न विविच्य ग्रहः=ग्रहणं यस्याः सा अविग्रहा=गुणीभूतेति यावत्। यथा च `ग्रामं गतः' इत्यत्र क्तप्रत्ययार्थगुणीभूतापि क्रिया ग्रामादिकर्म्मभिः सम्बध्यते, तथा `कृतपूर्वी कटम्' इत्यत्रापि गुणभूता इन्यादिभिरित्यर्थः।







नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वात् तत्रान्तर्गता भावना पदार्थैकदेश इति कथं तत्रान्वय इति वाच्यम्, नित्यसापेक्षेष्वेकदेशेऽपि `देवदत्तस्य गुरुकुलम्', `चैत्रस्य नप्ता' इत्यादाविवान्वयाभ्युपगमात्। एवं भोक्तुं पाकः, भुक्तवा पाक इत्यत्रापि द्रष्टव्यम् ।। 19 ।।








</1-7>
<1-8>कृत्वोर्थेषु अतिप्रसङ्गाशङ्का समाधानं च

अतिप्रसङ्गमाशङ्कय समाधत्ते-

कृत्वोऽर्थाः क्तवातुमुन्‌वत्स्युरिति चेत् सन्ति हि क्वचित्।
अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ।। 20 ।।

`भोक्तुं पाकः' भुक्तवा पाक इत्यादौ, "तुमुन्‌ण्वुलौ क्रियायां क्रियार्थायाम्" (पाo सूo 3-3-10)
"समानकर्त्तृकयोः पूर्वकाले" (पाo सूo 3-4-21) इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमाना अपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते, तथा कृत्वोऽर्था अपि स्युः। `एकः पाकः' इत्यत्र, "एकस्य सकृच्च" ( पाo सूo 5-4-19) द्वौ पाकौ, त्रयः, चत्वार इत्यत्र "द्वित्रिचतुर्भ्यः सुच्" (पाo सूo 5-4-18)। `पञ्च' इत्यत्र कृत्वसुच् स्यात्। तथाच `सकृत् पाकः' द्विस्त्रिश्चतुः पाका इत्याद्यापत्तिरिति चेदिष्टापत्तिः, "द्विर्वचनम्" इत्यादिदर्शनात्।

अतिप्रसङ्गस्त्वनभिधानान्नेत्याह-अतीति। "नहि वचिरन्तिपरः प्रयुज्यते" इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः।

केचित्तु-"सङ्ख्यायाः क्रियाभ्यावृत्तिगणने" इत्यत्र क्रियाग्रहणं व्यर्थम्, तस्या एवाभ्यावृत्तिसम्भवेन सामर्थ्यात्तल्लाभात्। तथाच साध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम्, नच `पाकः', इत्यादौ तादृशीति नातिप्रसङ्गः, द्विर्वचनमिति च `द्विःप्रयोगो द्विर्वचनम्' इति व्युत्पत्त्या, "द्विर्वचनेऽचि" (पाo सूo1-1-59) इति ज्ञापकं वा आश्रित्योपपादनीयमित्याहुः ।। 20 ।।
</1-8>
<1-9>शक्तत्व-साधुत्वयोः व्याप्य-व्यापकभावाभावप्रतिपादनम्

ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादावश्यकी, इति धातोरेव भावना वाच्या, नाऽऽख्यातस्येति कथं निर्णय इत्याशङ्कां समाधत्ते-


भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम्।
साधुत्वं तदभावेऽपि बोधो नेह निवार्य्यते ।। 21 ।।

भेद्यम्=विशेष्यम्, भेदकम्=विशेषणं तयोर्यः सम्बन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वम्। अयमर्थः-व्याकरणस्मृतिः शब्दसाधुत्वपरा तत्रैवावच्छेदकतया कल्प्यमानधर्म्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधुत्वनिर्णये एव शक्तिनिर्णय उच्यते।

अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्यादेव। एवञ्च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धात्वर्थभावनायामाख्यातप्रयोगे, याज्ञे कर्मण्यसाधुशब्दप्रयोगात् `नानृतं वदेत्' इति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादेवेति।

ननु त्वन्मते `नानृतम्' इति निषेधः क्रत्वर्थ एव न सिद्धयेत्, आख्यातेन कर्त्तुरुक्तत्वाच्छ्रुत्या पुरुषार्थतैव स्यात्, प्रकारणाद्धि क्रत्वर्थता, तच्च श्रुतिविरोधे बाध्यते, इति चेन्न, `तिङर्थस्तु विशेषणम्' इत्यनेन परिहृतत्वात्। नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम्। भावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकारणात् क्रत्वर्थतैव। अस्तु वा क्रतुयुक्तपुरुषधर्मः, अनुष्ठाने विशेषाभावात्। "जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति वाक्योक्तमन्त्रविधिवदित्यादि भूषणे प्रपञ्चितम्।

नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तब्दोधो न स्यात्, साधुत्वज्ञानस्य शाब्दबोधहेतुत्वात्, इत्यत आह-बोध इति-असाधुत्वेऽपि साधुत्वभ्रमाद् बोधोऽस्तु नाम, अपभ्रंशवत्। असाधुत्वन्तु स्यादेवेति भावः।

वस्तुतः साधुत्वज्ञानं न हेतुः, तद्‌व्यतिरेकनिर्णयोऽपि न प्रतिबन्धक इति `असाधुरनुमानेन' इत्यत्र वक्ष्यामः ।। 21 ।।
</1-9>
रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निर्म्मिते।
पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः ।। 1 ।।

इति श्रीकोण्डभट्टविरचिते वैयाकरणभूषणसारे धात्वर्थाऽऽख्यातसामान्यार्थयोर्निरूपणम् ।। 1 ।।

</1-0>