वैयाकरणभूषणसारः/नामार्थनिर्णयः (कारिका २५-२७)
।। अथ नामार्थनिर्णयः ।।
<4-1>नामार्थविषयकविविधपक्षोपस्थापनम्
नामार्थमाह--
एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा।
नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ।। 25 ।।
<4-1-1>एकं नामार्थः
<4-1-1-1>जातिः नामार्थः
एकम्=जातिः, लाघवेन तस्या एव वाच्यत्वौचित्यात्, अनेकव्यक्तीनां वाच्यत्वे गौरवात्।
नच व्याक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः, एवं हि एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्ग इति गौरवम्,जात्या तु सहाश्रयत्वमेव संसर्ग इति लाघवम्।
किञ्चैवं विशिष्टवाच्यत्वमपेक्ष्य नागृहीतविशेषणन्यायाज्जातिरेव वाच्येति युक्तम्, व्यक्तिबोधस्तु लक्षणया। एवञ्च तत्र विभक्त्यर्थान्वयोऽप्युपपद्यते इति दिक्।
</4-1-1-1>
<4-1-1-2>व्यक्तिः नामार्थः
यद्वा, केवलव्यक्तिरेव एकशब्दार्थः, केवलव्यक्तिपक्षे एवाण्ग्रहणस्य, एकशेषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात्। युक्तत्र्चैतत्-व्यवहारेण व्यक्तावेव तद्ग्रहणात्। सम्बन्धितावच्छेदकस्य (सम्बन्धितावच्छेदिकायाः) जातेरैक्याच्छक्तिरप्येकैवेति न गौरवमपि।
नचैवं घटत्वमपि वाच्यं स्यात्, शक्यतावच्छेदकत्वात्, तथाच `नागृहीतविशेषण'न्यायात् तदेव वाच्यमस्त्विति शङ्कयम्, अकारणत्वेऽपि कारणतावच्छेदकत्ववत्, अलक्ष्येऽपि लक्ष्यतावच्छेदकत्ववत्तथात्रापि सम्भवात्। उक्तञ्च--
आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम्।
शब्दः सुकरसम्बन्धो नच व्यभिचरिष्यति ।। इति ।
<4-1-1-3>भाष्यकाराशयः,
<4-1-2> द्विकं नामार्थः
वस्तुतस्तु "नह्याकृतिपदार्थतस्य द्रव्यं न पदार्थः" इति।
भाष्याद् विशिष्टं वाच्यम्।
`एकम्' इत्यस्य चायमभिप्रायः-शक्तिज्ञाने च विषयतयाऽवच्छेदिका जातिरेकैव। तथाच घटत्वविशिष्टबोधे घटत्वांशेऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि प्रपञ्चितं भूषणे।
</4-1-1-3>
</4-1-1>
तदेतदभिप्रेत्याह-द्विकमिति-जाति-व्यक्ती इत्यर्थः। पूर्वपक्षाद् विरोधपरिहारः पूर्ववत्।
</4-1-2>
<4-1-3>
त्रिकमिति-जाति-व्यक्ति-लिङ्गानीत्यर्थः।
<4-1-3-1>शब्दशास्त्रीयं लिङ्गम्-तस्य शब्दनिष्ठत्वं च
सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम्। आधिक्यं पुंस्त्वम्। अपचयः स्त्रीत्वम्। तत्तच्छब्दनिष्ठं तत्तच्छब्दवाच्यञ्च, तमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते।
केषाञ्चिदनेकलिङ्गत्वव्यावहारस्तु समानानुपूर्वीकत्वेन शब्दानामभेदारोपात्।
एवञ्च पदार्थपदे पुँस्त्वमेव। व्यक्तिपदे स्त्रीत्वमेव। वस्तुपदे नपुंसकत्वमेव इति सर्वत्रैव `अयं पदार्थः' `इयं व्यक्तिः' `इदं वस्तु' इति व्यवहारः,`तटः' `तटी' 'तटम्' इति चोपपद्यते।
</4-1-3-1>
<4-1-3-2>लिङ्गस्य अर्थपरिच्छेदकत्वेन अन्वयः
तच्च लिङ्गमर्थपरिच्छेदकत्वेन अन्वेति, इति पश्वादिशब्दोक्तम्-`पशुः स्त्रियां नास्ति' इति, `पशुना' इत्यादिविधिर्न छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम्। नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पश्वादिशब्दोक्तस्यापि साधारण्यं शङ्क्यम्, व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथा सम्भवेऽपि पशुशब्दस्य नित्यपुंल्लिङ्गत्वे प्रमाणाभावात्।
`पश्वा न तायुं गुहा चरन्तम्' (ऋo वेo मo 1 अनुo 12 सूo 65)।
"पश्वे नृभ्यो यथा गवे" (ऋo वेo अo 1 अo 3 वo 26) इत्यादि वेदे दर्शनाच्च, मीमांसायां चतुर्थे "पशुना यजेत' इत्यत्रैकत्व-पुँस्त्वयोर्विवक्षितत्वान्नानेकपशुभिः, पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च।
वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुँस्त्वस्य व्याकरणेन निर्णितत्वाद् वेदभाष्येऽपि जसादिषु छन्दसि वा वचनम्' इति नाभावाभाव इत्युक्तेः पशुशब्दस्य नित्यपुँस्त्वनिर्णयात्। प्रकृते "छागो वा मन्त्रवर्णात्" इति न्यायेनैव निर्णयः। मन्त्रवर्णे हि `छागस्य वपाया मेदसः' इति श्रूयते। तत्र छागस्येति छाग्यामसम्भावितम्, इति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपञ्चितं भूषणे।
</4-1-3-2>
</4-1-3>
<4-1-4>चतुष्कं प्रातिपदिकार्थः
चतुष्कम्-सङ्खयासहितं त्रिकमित्यर्थः।
<4-1-5>पञ्चकं प्रातिपदिकार्थः
पञ्चकम्-कारकसहितं चतुष्कमित्यर्थः।
नन्वन्वय-व्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यम्, तत एव लिङ्गादीनामुपस्थितौ प्रकृतिवाच्यत्वे मानाभावाच्चेति चेत्, सत्यम्, प्रत्ययवर्जिते `दधि पश्य' इत्यादौ प्रत्ययमजानतोऽपि बोधात् प्रकृतेरेव वाचकत्वं कल्प्यते, लिङ्गानुशासनस्य प्रकृतेरेव दर्शनाच्च।
अत एवैषु पक्षेषु न निर्बन्धः (प्रत्ययस्यौव वाचकताया युक्तत्वात्)।
`द्योतिका वाचिका वा स्युर्द्धित्वादीनां विभक्तयः'।
इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात्।
शास्त्र इति-बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम्, प्राधान्येन तु सरूपसूत्रादौ व्यक्तम् ।। 25 ।।
</4-1-4>
</4-1-5>
<4-1-6>षट्कं प्रातिपदिकार्थः-शब्दोपि प्रातिपदिकार्थः
शब्दस्तावच्छाब्दबोधे भासते,
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।
इत्याद्यभियुक्तोक्तेः।
`विष्णुमुच्चारय' इत्यादावर्थोच्चारणासम्भवेन, विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थः।
नच लक्षणया निर्वाहः, निरूढलक्षणायाः शक्त्यनतिरेकात्, `जबगडदशमुच्चारय' इत्यादौ शक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अग्रहाच्च।
अज्ञातायाश्च वृत्तेरनुपयोगात्, ` गावमुच्चारय' इति भाषाशब्दानामनुकरणे साधुतासम्प्रतिपत्तेः, तेषां शक्त्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य षोढाऽपि क्वचित् प्रातिपदिकार्थ इत्याह-
शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा।
नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थो व भासते ।। 26 ।।
यद्यनुकार्यानुकरणयोर्भेदविवक्षा तदा शब्दोऽपि प्रातिपदिकार्थः। यदि न भेदविवक्षा, तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद् भासते। अपिर्हेतौ, उपस्थितत्वाद्भासते इत्यर्थः। अयं भावः-अनुकार्यानुकरणयोर्भेदेऽनुकार्यस्य पदानुपस्थितत्वात्, तत्सिद्धये शक्तिरुपेया, अभेदे प्रत्यक्षे विषयस्य हेतुत्वात् स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषयतोपपत्तिरिति।
यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुः, तथाप्यत्राश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नानुपपत्तिः। निरूपकताऽऽश्रयताऽन्यतरसम्बन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यते इत्यनवद्यम्, सम्बन्धस्योभयनिरूप्यत्वात्, पदादर्थस्येव तद्बोधकत्वेन स्वस्यापि ज्ञानसम्भवाच्चेति।
उक्तञ्च वाक्यपदीये--
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा।
तथैव सर्वशब्दानामेते पृथगवस्थिते।। इति,
विषयत्वमनादृत्य शब्दैर्नार्थः प्रकाश्यते। इति चेति।
<4-1-6-1>अनुकार्यानुकरणयोरभेदः
प्रसङ्गादनुकार्य्यानुकरणयोरभेदपक्षे साधकमाह-
अत एव गावित्याह भू सत्तायामितीदृशम्।
न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ।। 27 ।।
`गवित्ययमाह' `भू सत्तायाम्' इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्य्यान्न भिद्यन्ते। अतस्तेषामर्थवत्त्वाभावात् ` अर्थवदधातुः' (पाo सूo 1-4-42) इत्याद्यप्रवृत्तौ न प्रातिपदिकत्वम्, नापि पदत्वम्, अथ च साधुत्वमित्युपपद्यते। अन्यथा `प्रत्ययः' (पाo सूo 3-1-1) `परश्च' (पाo सूo 3-1-2) `अपदं न प्रयुञ्जीत' इति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः ।। 27 ।।
</4-1-6-1>
</4-1-6>
</4-1>
इति श्रीमद्रङ्गोजिभट्टात्मजकौण्डभट्टकृते वैयाकरणभूषणसारे नामार्थनिर्णयः ।। 4 ।।