वैयाकरणभूषणसारः/निपातार्थनिर्णयः (कारिका ४२-४८)

<8-0>

।। अथ निपातार्थनिर्णयः ।।
<8-1> प्रादीनां द्योतकत्वं चादीनां वाचकत्वमिति नैयायिकमतनिराकरणम्
प्रादयो द्योतकाः, चादयो वाचकाः, इति नैयायिकमतमयुक्तम्, बैषम्ये बीजाभावादिति ध्वनयन्निपातानां द्योतकत्बं समर्थयते-

द्योतकाः प्रादयो येन निपाताश्चादयस्तथा।
`उपास्येते हरिहरौ' लकारो दृश्यते यथा ।। 42 ।।

येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयः=निपातास्तथा=द्योतका इत्यर्थः। अयं भावः-`ईश्वरमनुभवति' इत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः, `भवति' इत्यत्राप्यापत्तेः। नोपसर्गार्थः, तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः, प्रत्ययानां प्रकृत्यर्थान्विस्वार्थबोधकत्वव्युत्पत्तेः, `अनुगच्छति' इत्यादौ अनुभवादिप्रत्ययापत्तेश्च। न विशिष्टार्थः, गौरवात्। तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु तक्षणा, उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु। तथाच तात्पर्य्यग्राहकत्वमेव द्योतकत्वमिति।

तच्च चादिष्वपि तुल्यम्। `चैत्रमिव पश्यति' इत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम्, इवशब्दस्तात्पर्य्यग्राहक इत्यस्य सुवचत्वादिति। तत्र स्वयं युक्तयन्तरमाह-`उपास्येते हरिहरौ' इति-अत्र ह्युपासना किमुपसर्गार्थः, विशिष्टस्य, धातुमात्रस्य वा। नाद्यः, तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मत्वस्यास्‌धातोरुपासनारूपफलवाचकत्वाभावात् ततः कर्म्मणि लकारो न स्यात्। न द्वितीयः, गौरवात्। तृतीये त्वागतं द्योतकत्वम्, तात्पर्य्यग्राहकत्वलाभादिति भावः। `दृश्यते' इत्यत्र `कर्मणि' इति शेषः ।। 4 ।।
<8-2> चादिष्वपि द्योतकतैवेति सिद्धान्तप्रतिपादनम्
तच्चादिष्वपि तुल्यमित्याह--

तथान्यत्र निपातेऽपि लकारः कर्मवाचकः।
विशेषणद्ययोगोऽपि प्रादिवच्चादिके समः ।। 43 ।।

अन्यत्र=`साक्षात्क्रियते,' `अलङ्‌क्रियते,' ऊरीक्रियते शिवः,' इत्यादौ। अत्रापि धातोस्तत्तदर्थे कर्मणि लकारसिद्धयर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत्द्योतकत्वममीषामपीत्यर्थः। यद्यपि कृधातोः सकर्म्मकत्वमस्त्येव, तथाप्येष्वर्थेषु सकर्मकता न स्यात्। अन्यथा `वायुर्विकुरुते' सैन्धवा विकुर्वते, इत्यत्रापि स्यादिति भावः।

अथोपासना-साक्षात्कारादिर्निपातार्थोऽस्तु, "साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात्। तदनुकूलो व्यापार एव धात्वर्थोऽस्तु। स्व-स्वयुक्तनिपातान्यतरार्थफलव्यधिरणव्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदार्ष्टान्तिकावयुक्ताविति नेदं साधकमिति चेन्न, नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेन निपातधात्वर्थयोरन्वयासम्भवात्। अन्यथा `तण्डुलः पचति' इत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति। किञ्च प्रादीनां वाचकत्वे `भूयान् प्रकर्षः' `कीदृशो निञ्चयः' इतिवत् `भूयान् प्र' `कीदृशो निः' इत्यपि स्यात्। अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यतो द्योतकता तेषां स्यादिति। साधकान्तरमभिप्रेत्याह-विशिषणेति। `शोभनः समुच्चयो द्रष्टव्यः' इति `शोभनश्च द्रष्टव्यः' इत्यस्यापत्तेस्तुल्यसमाधेयत्वादिति भावः।

अपिच निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः। अन्यथा `राजा पुरुषः' इत्यस्य `राजसम्बन्धी पुरुषः' इत्यर्थापत्तेरित्यभिप्रेत्याह-आदीति-`धवखदिरयोः समुच्चयः' इतिवत्`धवस्य च खदिरस्य च' इत्येव स्यादिति भावः ।। 43 ।।
<8-2-1>नामार्थयोः भेदेनान्वये विरुद्धविभक्तिजन्योपस्थितिः हेतुरिति व्युत्पत्तेः सङ्कोचे प्रमाणाभावप्रतिपादनम्
ननु प्रातिपदिकार्थयोर्भेदान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्याशङ्कयाह-

पदार्थः सदृशान्वेति विभागेन कदापि न।
निपातेतरसङ्कोचे प्रमाणं किं विभावय ।। 44 ।।

सदृशा=सदृशेन, समानाधिकरणेनेति यावत्। अन्वेति, अभेदेनेति शेषः। विभागेन=असदृशेन, असमानाधिकरणेनेति यावत्।

   अयमर्थः-समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिर्निपातातिरिक्तविषयेति कल्पने मानाभावः, गौरवञ्च। अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः। अत एव `घटो नास्ति' इत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमिति नैयायिकाः ।। 44 ।।
</8-2-1>
<8-2-2> निपातानां वाचकत्वे काव्यादावनन्वयः
अपिच निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति साधकान्तरमाह-

शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव।
इत्यादावन्वयो न स्यात् सुपाञ्च श्रवणं ततः ।। 45 ।।

अत्रोस्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः। अयञ्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सत्येव सङ्गच्छते। अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः।

तथाहि-उस्रैरिति करणे तृतीया। नचोस्रोऽत्र करणम्। इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितं शक्यम्। अप्रकृत्यर्थत्वात्। इवशब्दस्य चासत्त्वार्थकतया तदुत्तरतृतीयाया असम्भवात्। सम्भवे वा श्रवणप्रसङ्गात्। उस्रपदोत्तरतृतीयान्वयप्रसङ्गाच्चेत्याह-सुपाञ्चेति। सुपां श्रवणञ्चेत्यर्थः। चकारादुस्रपदोत्तरतृतीयाऽनन्वयः समुच्चीयते।

इत्यादावित्यादिपदात् "वागर्थाविव सम्पृत्तौ" "पार्वतीपरमेश्वरौ वन्दे" इत्यत्र वागर्थयोर्वदिकर्मात्वाभावात्तदुत्तरद्वितीयाया अनन्वयः। इवार्थस्य कर्मत्वान्वयबोधासम्भवश्च संगृह्यते।

यदि च विशेषणविभक्तिरभेदार्था, साधुत्वमात्रार्था वा तदाऽपि इवशब्दस्य वाचकत्वेऽननन्वय एव। उस्रसदृशशराणां समानाधिकरणपदोपस्थाप्यतया भेदेनान्वयायोगात्। बाधादभेदेनापि न सः। नह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थो द्रष्टव्यः ।। 45 ।।
</8-2-2>
<8-2-3>निपातानां द्योतकत्वे तत्पुरुषलक्षणाव्याप्तिशङ्कापरिहारौ
ननु त्वन्मते `अब्राह्मणः' इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः, पूर्वपदस्यानर्थकत्वेनोत्तरपदार्थप्राधान्याभावात्। उपसर्गस्यार्थवत्त्वाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्चु ततो न स्यादित्यत आह-

नञ्‌समासे चापरस्य द्योत्यं प्रत्येव मुख्यता।
द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ।। 46 ।।

नञ्‌समासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायैव। तमेवार्थमादायार्थवत्त्वात् प्रातिपदिकत्वमित्यर्थः।

वस्तुतः "अव्ययादाप्‌ सुपः" (पाo सूo 2-4-82) इति ज्ञापकात् सुबुत्पत्तिः। "निपातस्यानर्थकस्य" इति बार्त्तिकाद्वा प्रातिपदिकत्वम्। "कृत्तद्धितसमासाश्च" (पाo सूo 1-2-46) इत्यनुक्तसमुच्चयार्थकचकारेण निपातानां
संग्रह इति वा बोध्यम्।
</8-2-3>
<8-2-4>निपातानां द्योतकत्वे भाट्टमीमांसकसम्मतिः
तस्माद् युक्तं निपातानां द्योतकत्वम्। उक्तञ्चाकृत्यधिकरणवार्त्तिके-

चतुर्विधे पदे चात्र द्विविधस्यार्थनीर्णयः।
क्रियते संशयोत्पत्तेर्नोपसर्गानिपातयोः।।
तयोरर्थाभिधाने हि व्यापारो नैव विद्‌यते।
यदर्थद्‌योतकौ तौ तु वाचकः स विचार्य्यते।। इति ।।
उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते।
प्रहाराहारसंहारविहारपरिहारवत्।। इति ।।

अत्रोपसर्गपदं निपातोपलक्षणम्। धातुपदं पदान्तररयेति बोध्यम् ।। 46 ।।
</8-2-4>
<8-2-5>निपातानां वाचकत्वपक्षसमर्थनम्

नन्वन्वयव्यतिरेकाभ्यां निपातानां तत्तदर्थवाचकत्वमेव युक्तम्, बोधकतारूपशक्तेरबाधात्। किञ्चोक्तरीत्या `पचति' इत्यादौ धातोरेव कर्तृविशिष्टभावनायां लक्षणाऽस्तु तात्पर्य्यग्राहकत्वमात्रं तिङादेः स्यादित्यरुचेः पक्षान्तरमाह-

निपातानां वाचकत्वमन्वयव्यतिरेकयोः।
युक्तं वा नतु तद्‌युक्तं परेषां मतमेव नः ।। 47 ।।

एवञ्च `धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पन्नः' इति निपातातिरिक्तविषयः। समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्यपि तथेत्यगत्या कल्पनीयमिति भावः। नत्विति। नैयायिकोक्तं प्रादि-चाद्‌योर्वैषम्यमित्यर्थः।
</8-2-5>
<8-2-6>निपातेषु केचित् द्योतकाः केचित् वाचकाः इति पक्षस्य निराकरणम्

यत्तु-सर्वेषां निपातानां वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवात् "निपातस्यानर्थकस्य" इति विधिवैयर्थ्यम्।

सर्वेषां द्‌योतकत्वे "चानर्थकस्य" इति व्यर्थम्। तथाच केचिद् द्‌योतकाः केचिद्वाचका इत्यभ्युपेयमिति, तन्न, एवं हि `चादयो द्‌योतका प्रादयो वाचकाः' इति वैपरीत्यावारणात्। सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहाय वार्त्तिकारम्भस्य कैयटादौ स्पष्टत्वात्, तस्य प्रत्याख्यातत्वाच्च।
</8-2-6>
<8-2-7>वाचकत्वपक्षे लाघवमिति समुच्चयाधिकरणोक्तिनिरासः

`परेषाम्' इति बहुवचनं मीमांसकसंग्रहाय। केवलवृक्षशब्दात् समुच्चयाबोधाच्चकारश्रवणे तद्‌बोधाच्चकार एव तद्वाचकः, न द्योतकः। किञ्च द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारादेर्द्योतकत्वशक्तिश्च कल्प्येति
गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितम्, तदपि न युक्तमिति भावः।

तथाहि-अन्वयव्यतिरेकौ तात्पर्य्यग्राहकत्वेनाप्युपयुक्तौ। घटादिपदानामेव समुच्चिते लक्षणा, तात्पर्य्यग्राहकः प्रकारणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनाऽपि। अस्माकं लक्षणाग्रहदशायां बोधात्तत्तत्कार्य्यकारणभाव आवश्यकः। एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौरवाभावादुभयमपि युक्तमित्यभिमतम्।

अत एव। "स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा"।

इति वाक्यपदीयं सङ्गच्छते। दर्शनान्तररीत्या वाचकत्वमेव द्योतकत्वमेवेति नियमस्तु न युक्त इति ध्वनयन्नाह-`मतमेव नः' इति ।। 47 ।।
</8-2-7>
<8-2-8>निपातत्वपरिष्कारः
पर्य्यवसितमुपसंहरन्नाह-

निपातत्वं परेषां यत्तदस्माकमिति स्थितिः।
व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ।। 48 ।।

परेषां यन्निपातत्वम्-असत्त्वार्थकत्वे सति चादिगणपठितत्वम्, शक्तिसम्बन्धेन निपातपदवत्त्वञ्च जातिर्वा, उपाधिर्वा तदेवास्माकमपि। परन्तु सामान्यधर्म्मे
प्रमाणानां पक्षपाताच्छक्तता, द्योतकता वा तदवच्छेदेनैव कल्‌प्येति नैयायिकोक्तप्रादिचाद्योर्वैषम्यमयुक्तमित्यर्थः। व्यापकत्वात्=सामान्यत्वात्। शक्तताया इत्युपलक्षणम्-द्योतकताया वेत्यपि द्रष्टव्यम् ।। 48 ।।

</8-2-8>
इति वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः ।। 8 ।।
</8-0>

************