वैयाकरणभूषणसारः/भावप्रत्ययार्थनिर्णयः (कारिका ४९-५१)

<9-0>

।। अथ त्वादिभावप्रत्ययार्थनिर्णयः ।।
<9-1> वैयाकरणमतेन भावप्रत्ययार्थः

भावप्रत्ययार्थमाह-

कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम्।
त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ।। 49 ।।

"कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनाऽन्यत्र रूढ्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः" इति वार्त्तिकवचनमिति मीमांसकादीनां भ्रममपाकुर्वन्नाह-टीकायामिति। भर्तृहरिणा महाभाष्यटीकायामित्यर्थः। त्वतलोरिति-भावप्रत्ययमात्रोपलक्षणम्।

अयमर्थः-समासादौ शक्तिः कल्प्यमाना राजादिसम्बन्धविशिष्टे कल्प्यते इत्युक्तम्। तथाच तदुत्तरभावप्रत्ययः सम्बन्धं वदतीत्यर्थः। एतदपि `भेदः' संसर्गः, उभयं वेत्युक्तेषु भेदपक्षे न सम्भवतीत्यत आह-मतभेदेति-पक्षभेदेत्यर्थः।

एवञ्च राजपुरुषत्वम्, औपगवत्वम्, पक्तृत्वमित्यादौ स्वस्वामिभावसम्बन्धः, उपग्वपत्यसम्बन्धः, (अपत्यापत्यवत्सम्बन्धः) क्रियाकारकभावसम्बन्धः, इत्यन्वयबोधः। औपगवादावव्यभिचरितसम्बन्धे तु अर्थान्तरवृत्तिस्तद्धित उदाहार्य्यः।

`दामोदरत्वम्' कृष्णसर्पत्वम्' इत्यादौ जातिविशेषबोधादाह-अन्यत्रेति-रूढेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्रेत्यर्थः। रूढिरुक्ता। द्वितीयं यथा - शुक्लत्वम्। अत्र "तदस्यास्त्यस्मिन्" (पाo सूo 5-2-14) इति मतुपः "गुणवचनेभ्यो मतुपो लुगिष्टः" (पाo वाo) इति लुप्तत्वात् तद्धितान्तत्वेऽपि `घटः शुक्लः' इत्यभेदप्रत्ययाद् गुणस्यैव प्रकारत्वेन भानं जायते। तृतीयम्-सतो भावः सत्तेति। अत्र जातावेव प्रत्यय इति दिक् ।। 49 ।।
</9-1>
<9-2> मीमांसकमतखण्डनम्

दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह-

अत्रार्द्धजरतीयं स्याद् दर्शनान्तरगामिनाम्।
सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छृणु ।। 50 ।।

अत्र=भावप्रत्ययविषये। तथाहि-दामोदरत्वम्, घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्यादिष्वपि तदभिधानं न स्यात्। प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरभावप्रत्ययेनाभिधियते। अन्यथा घटत्वमित्यत्र द्रव्यत्वादेः, दण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः। नच तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः।

यत्तु-यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः।
तदा गत्यन्तराभावात् सम्बन्धो वाच्य आश्रितः ।। इति ।।

तन्न, इनादेः सम्बन्धिवाचकत्वेनोपपत्तौ गत्यभावाभावात्। प्रपञ्चितञ्चैतदादावेव वैयाकरणभूषणे।

ननु तवापीदं वैषम्यं कथमित्यत आह-सिद्धान्ते त्विति। `जायन्ते' इति वक्ष्यमाणविशेषणेऽन्वितम्। सिद्धान्ते प्रकृतिजन्यबोधे प्रकारे त्वादयो जायन्त इत्यर्थः।

प्रकृतिजन्यबोधे प्रकार इत्यत्र पक्षद्वयं स्थितमिति योजना ।। 50 ।।
</9-2>
<9-3> प्रकृतिजन्यबोधे प्रकार इत्यत्र पक्षद्वयम्
तौ पक्षावाह-

प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम्।
धर्म्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी ।। 51 ।।
जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते।

प्रयोगे उपाधिर्निमित्तं प्रकृत्यर्थप्रकारताम्=प्रकारतया भासमानं धर्म्मं वाच्यतया आश्रित्य त्वादयो जायन्ते। प्रकृतिजन्यबोधे प्रकारस्त्वाद्यर्थ इति यावात्।

ननु `घटत्वम्' इत्यत्र प्रकारत्वात् तदुत्तरभावप्रत्ययेन घटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह-धर्ममात्रमिति, नत्वत्र लघुगुरुविचार इत्यभिप्रायः। तत्तद्‌व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्व-घटत्वत्वादिरूपत्वात्।

सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यावस्थिताः।।
तां प्रातिपदिकार्थञ्च धात्वर्थञ्च प्रचक्षते।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः।।

इति वाक्यपदीयात्। उक्तञ्च "तस्य भावस्त्वतलौ" (पाo सूo 5-1-119) इति सूत्रे वार्त्तिककारैः-"यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ" इति।

यस्य गुणस्य=विशेषणतया भासमानस्य, भावात्=आश्रयत्वात्, द्रव्ये=विशेष्ये, शब्दनिवेशः=शब्दप्रवृत्तिः, तस्मिन् वाच्ये त्वतलावित्यर्थः। तथाच रूपादिशब्देभ्यो जातौ, शुक्लाणुदीर्घमहदादिभ्यो गुणे, पाचकादिशब्देभ्यः क्रियायाम्, घटादिशब्देभ्योजातौ प्रत्ययः, रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात्। पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः।

`संसर्गप्रकारकबोधजनकत्वम्' इति मते च संसर्ग इति व्यवस्था सूपपादेति भावः। तत्र जातिवाचकानां व्यक्तय एव शक्यताऽवच्छेदिकाः। तथाच `घटत्वम्' इत्यत्र `घटवृत्तिरसाधारणो धर्म्मः' इति बोध इत्यादि द्रष्टव्यम्।

पक्षान्तरमाह-यद्वेति-"यद्वा सर्वे भावाः स्वेनार्थेन भवन्ति, स तेषां भावः" इति वार्त्तिकोक्तेः। यद्वाशब्दस्तत्सूचनप्रयोजनकोऽपि। भवन्ति=वाचकत्वेन प्रवर्त्तन्ते इति भावाः=शब्दाः। स्वेन=रूपेण=अर्थेन भवन्ति=प्रवर्त्तन्ते। अतः स तेषां भावः=प्रवृत्तिनिमित्तमित्यर्थः। अयं भावः-अर्थवच्छब्दोऽपि द्रव्ये प्रकारः। हरिहरनलेक्षवाकुयुधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दप्रकारकबोधस्य सर्वसिद्धत्वात्, अन्यथा वनौषधिवर्गादेर्नागरिकान् प्रत्यबोधकत्वापत्तेश्च। एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धः, नतु घटादिपदेष्विव तत्तज्जात्यादिभेदेन (रूपेण)। तथाचोभयमवच्छेदकम्। यस्य तथाशक्तिग्रहस्तस्य जात्यादिरूपेणैवोपस्थितिः।

पदाप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः। किन्तु `इदं पदं क्वचिच्छक्तम्, साधुपदत्वात् इत्यादिरूप एवापेक्ष्यते इति विशिष्यागृहीतशक्तिकेभ्यस्तथैव बोधः। तथाच `शब्दोऽपि त्वप्रत्ययार्थः' इति प्रपञ्चितं भूषणे ।। 51 ।।
</9-3>

इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थनिर्णयः ।। 9 ।।
</9-0>
************