वैयाकरणभूषणसारः/लकारार्थनिर्णयः (कारिका २२-२३)

<2-0> लकारार्थनिर्णयः
 ।। अथ लकरार्थनिर्णयः ।।
  
<2-1> टितामर्थविवरणम्

  प्रत्येकं दशलकाराणामर्थं निरूपयति-

वर्त्तमाने परोऽक्षे श्वो भाविन्यर्थे भविष्यति।
विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ।। 22 ।।

लडादयष्टितः षट् क्रमेणैष्वर्थेषु द्रष्टव्याः।
<2-1-1>लडर्थनिरूपणम्

तथाहि-वर्त्तमानेऽर्थे लट् "वर्त्तमाने लट्" (पाo सूo 3-1-183) इति सूत्रात्। प्रारब्धापरिसमाप्तत्वम्, भूतभविष्यद्भिन्नत्वं वा वर्त्तमानत्वम्। `पचति' इत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्‌प्रयोगः।
<2-1-1-1> आत्मास्तीत्यादौ वर्तमानतानिरूपणम्
आत्माऽस्ति पर्वताः सन्तीयादौ तत्तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात्तद्विशिष्टस्योत्पत्त्यादिकमादाय वर्त्तमानत्वमूह्यम्। उक्तं हि भाष्ये-"इह भूतभविष्यद्वर्त्तमानानां राज्ञां क्रियास्तिष्ठतेरधिकारणम्" इति,

परतो भिद्यते सर्वमात्मा तु न विकम्पते।
पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते।।

इति वाक्यपदीये च। एवम्, "तम आसीत्" "तुच्छेनाभ्यपिहितं यदासीत्" "अहमेकः प्रथममासम्, वर्त्तामि च, भविष्यामि च" इत्यादिश्रुतयोऽपि योज्याः।
</2-1-1-1>
<2-1-1-2> वर्तमानत्वस्य द्योत्यत्वं वाच्यत्वं वा

तच्च वर्त्तमानत्वादि लडादिभिर्द्योत्यते, क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लडादेस्तात्पर्य्यग्राहकत्वेनोपयोगात्। अन्वयव्यतिरेकाभ्यां तद्रूपं लडादिवाच्यमेव। अन्यथा प्रत्ययानां
वाचकत्वविलोपापत्तिरित्यपि पक्षान्तरम्।
</2-1-1-2>
</2-1-1>
<2-1-2> लिडर्थः

लिडर्थमाह-परोक्षे इति-"परोक्षे लिट्" (पाo सूo 3-2-115) इति सूत्रात्। कालस्तावदद्यतनानद्यतनभेदेन द्विविधः। द्विविधोऽपि भूतभविष्यद्रूपः। तत्रानद्यतने भूते परोक्षे लिडित्यर्थः। तेनाद्यतने भूते, अनद्यतने भविष्यति, भूतेऽप्‍यपरोक्षे च न लिट्‌प्रयोगः। परोक्षत्वञ्च 'साक्षात्करोमि' इत्येतादृशविषयताशालिज्ञानाविषयत्वम्।

<2-1-2-1> परोक्षे इत्यस्य अव्यावर्तकत्वशङ्का-तन्निरासः

नच "क्रिया नामेयमत्यन्तापर(रि)दृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुम्" इति भाष्यात् तस्या अतीन्द्रियत्वेन `परोक्षे' इत्यव्यावर्त्तकमिति शङ्क्यम्, पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः `साक्षात्करोमि' इति प्रतीतिविषयत्वसम्भवात्। अन्यथा `पश्य मृगो धावति' इत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति।

व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतो नोक्तदोषः। `अयं पपाच' इत्याद्यनुरोधाद्‌ व्यापाराविष्टानामित्यपि वदन्ति।
</2-1-2-1>
<2-1-2-2> स्वक्रियायाः स्वपारोक्ष्याभावशङ्का-तत्समाधानम् च

कथं तर्हि "व्यातेने किरणावलीमुदयनः" इति, स्वक्रियायाः स्वप्रत्यक्षत्वादिति चेत्, असङ्गतमेव, व्यासङ्गादिना स्वव्यापारस्य परोक्षत्वोपपादनेऽपि (बहुतरमनःप्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मके ग्रन्थे) अनद्यतनत्वातीतत्वयोर्विस्तारक्रियायामसत्त्वेन अनद्यतनातीत्वयोरभावेन तदर्थकलिडसम्भवात्।
</2-1-2-2>
</2-1-2>
<2-1-3> लुडर्थः

लुडर्थमाह-श्वो भाविनीति। अनद्यतने भाविनीत्यर्थः, "अनद्यतने लुट्" (पाo सूo 3-3-15) इति सूत्रात्। यथा "श्वो भविता" इत्यादौ।

</2-1-3>
<2-1-4> लृडर्थः

लृडर्थमाह-भविष्यतीति। भविष्यत्सामान्ये इत्यर्थः, "लृट् शेषे च" (पाo सूo 3-3-13) इति सूत्रात्। यथा "घटो भविष्यति" इत्यादौ। तत्त्वञ्च-वर्त्तमानप्रागभावप्रतियोगिसमयोत्पत्तिमत्त्वम्।

</2-1-4>
<2-1-5>
लेडर्थमाह-विध्यादाविति, "लिङर्थे लेट्" (पाo सूo 3-4-7) इति सूत्रात्। लिङर्थश्च विध्यादिरिति वक्ष्यते।
</2-1-5>

<2-1-6>लोडर्थः

लोडर्थमाह-प्रार्थनेति। आदिना विध्याद्याशिषो गृह्यन्ते, "आशिषि लिङ्लोटौ" (पाo सूo 3-3-173) "लोट् च" (पाo सूo 3-3-162) इति सूत्राभ्यां तथाऽवगमात्। यथा-`भवतु ते शिवप्रसादः' इत्यादौ। एतयोरर्थो लिङर्थ एव, त्रयाणां समानार्थत्वादिति तन्निर्णयेनैव निर्णयः ।। 22 ।।
</2-1-6>
</2-1>
<2-2> लङादीनामर्थः
लङादिक्रमेण ङितामर्थमाह-

ह्यो भूते प्रेरणादौ च भृतमात्रे लङादयः।
सत्यां क्रियातिपत्तौ च भूते भाविनि लृङ् स्मृतः ।। 23 ।।
<2-2-1> लङर्थः
लङर्थमाह-ह्यो भूत इति। अनद्यतने भूत इत्यर्थः, "अनद्यतने लङ्" (पाo सूo 3-1-111) इति सूत्रात्। यथा-'अस्य पुत्रोऽभवत्' इत्यादि।
</2-2-1>
<2-2-2>लिङर्थः
लिङर्थमाह-प्रेरणादाविति, "विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्" (पाo सूo 3-3-161) इति सूत्रात्। तत्र विधिः=प्रेरणम्, भृत्यादेर्निकृष्टस्य प्रवर्त्तनम्। निमन्त्रणम्=नियोगकरणम्,आवश्यके (श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम्) प्रेरणेत्यर्थः। आमन्त्रणम्=कामचारानुज्ञा। अधीष्टम्=सत्कारपूर्वको व्यापारः। सम्प्रश्नः=सम्प्रधारणम्।

एवच्चतुष्टयानुगतप्रवर्त्तनात्वेन वाच्यता, लाघवात्। उक्तञ्च--

अस्ति प्रवर्त्तनारूपमनुस्यूतं चतुर्ष्वपि।
तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया।।
न्यायव्युत्पादनार्थं वा प्रपञ्चार्थमथापि वा।
विद्ध्यादीनामुपादानं चतुर्णामादितः कृतम्।। इति।

प्रवर्त्तनात्वञ्च-प्रवृत्तिजनकज्ञानविषयताऽवच्छेदकत्वम्।

तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः।
<2-2-2-1>कृतिसाध्यतादीनाम् लिङर्थतानिराकरणम्
यद्यप्येतत् कृतिसाध्यत्वस्यापि अस्ति, तज्ज्ञानस्यापि प्रवर्त्तकत्वात्, तथाऽपि यागादौ सर्वत्र तल्लोकत एव लभ्यत इत्यन्यलभ्यत्वान्न तच्छक्यम्।

बलवदनिष्टाननुबन्धित्वज्ञानञ्च न हेतुः, द्वेषाभावेनान्यथासिद्धत्वात्, आस्तिककामुकस्य नरकसाधनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च। तस्मादिष्टसाधनत्वमेव प्रवर्त्तना।
उक्तञ्च मण्डनमिश्रैः-

पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः।
प्रवृत्तिहेतुं धर्म्मञ्च प्रवदन्ति प्रवर्त्तनाम् ।। इति।

प्रपञ्चितं चैतद् वैयाकरणभूषणे।
</2-2-2-1>
आदिना "हेतुहेतुमतोर्लिङ्" (पाo सूo 3-3-156) "आशिषि लिङ्‌लोटौ" (पाo सूo 3-3-173) इति सूत्रोक्ता हेतुहेतुमद्भावादयो गृह्यन्ते। "यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्" इति यथा।
</2-2-2>
<2-2-3> लुङर्थः
लुङर्थमाह-भूतमात्र इति-भूतसामान्ये इत्यर्थः, भूते लुङ् (भूते इत्यधिकृत्य "लुङ्" (पाo सूo 3-2-110)) इति सूत्रात्। अत्र `विद्यमानध्वंसप्रतियोगित्वं भूतत्वम्'। तच्च क्रियायां निर्बाधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः। विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापार इति बोधः।
</2-2-3>
<2-2-4> कालविभागः
अयमत्र संग्रहः-कालो द्विविधः, अद्यतनोऽनद्यतनश्च। आद्यस्त्रिविधः, भूतभविष्यद्वर्त्तमानभेदात्। अन्त्यो द्विविधः-भूतो भविष्य(ष्यँ)श्च। तत्र वर्त्तमानत्वे लट्। भूतत्वमात्रे लुङ्। भविष्यत्तामात्रे लृट्। हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामावयोर्लृङ्। अनद्यतने भूतत्वेन विवक्षिते लङ्। तत्रैव परोक्षत्वविवक्षायां लिट्। तत्सदृशे भविष्यति लुट्, इति द्रष्टव्यः।
</2-2-4>
<2-2-5> लृङर्थः
लृङर्थमाह-सत्यामिति-क्रियाया अतिपत्तिः=अनिष्पत्तिस्तस्यां गम्यमानायाम्, भूते भाविनि हेतुहेतुमद्भावे सति लृङित्यर्थः। "लिङ्‌निमित्ते लृङ्‌ क्रियाऽतिपत्तौ" (पाo सूo 3-3-138) इति सूत्रात्। लिङो निमित्तं हेतुहेतुमद्भावादि। यथा-`सुवृष्टिश्चेदभविष्यत् सूभिक्षमभविष्यत्'। `वह्निश्चेत् प्राज्वलिष्यद् ओदनमपक्ष्यत्' इत्यादौ। अत्र वह्नयभिन्नाऽऽश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयोज्य-ओदनाभिन्नाश्रयकविक्लित्त्यनुकूलव्यापाराभाव इति शाब्दबोधः। एवंरीत्या द्रष्टव्यम्।
</2-2-5>
</2-2>
 अयञ्च अर्थनिर्देश उपलक्षणम्, अर्थान्तरेऽपि बहुशो विधानदर्शनात्। प्रसिद्धत्वादेष्वेवार्थेषु शक्तिरन्यत्र लक्षणेति मतान्तररीत्या वोक्तम्। एतेषां क्रमनियामकश्चानुबन्धक्रम एव। अत एव पञ्चमो लकार इत्यनेन मीमांसकैर्लेट् व्यवह्रियत इति दिक् ।। 23 ।।
इति वैयाकरणभूषणसारे लकारविशेषार्थनिरूपणं समाप्तम् ।। 2 ।।
</2-0>