वैयाकरणभूषणसारः/शक्तिनिर्णयः (कारिका ३७-३९)

<6-0>
।। अथ शक्तिनिर्णयः।।
<6-1> शक्तिस्वरूपम्
शक्तिप्रसङ्गात् तस्याः स्वरूपमाह--

इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा।
अनादिरर्थैः शब्दानां सम्बन्धो योग्यता तथा ।। 37 ।।

इन्द्रियाणाम्=चक्षुरादीनां स्वविषयेषु=चाक्षुषेषु घटादिषु यथाऽनादिर्योग्यता=तदीयचाक्षुषादिकारणता, तथा शब्दानामपि अर्थैः सह तद्‌बोधकारणतैव योग्यता, सैव शक्तिरित्यर्थः।
<6-1-1> सङ्केतस्य बोधकारणत्वनिरासः
ननु न बोधकारणत्वमनादिभूतं शक्तिः, आधुनिकदेवदत्तादिपदे तदभावात्।
अन्यथा पित्रादीनां सङ्केताज्ञानेऽप्यन्वयबोधप्रसङ्गः, लाक्षणिकेऽतिव्याप्तिश्चे-ति सङ्केतज्ञानमपि हेतुर्वाच्यम्। तथाचावश्यकत्वात् स एव शक्तिरस्तु।

स चाधुनिके पित्रादेः, गवादौ चेश्वरस्य चेति चेत्, अत्रोच्यते-सङ्केतो न स्वरूपेण हेतुः, अगृहीतशक्तिकादर्थबोधप्रसङ्गात्।

नापि सामान्यतो ज्ञातः, प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रसङ्गात्। नाऽपि सङ्केतत्वेन तज्ज्ञानं हेतुः, गवादिपदेष्वपीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां लौकिकमीमांसकादीनां तत्तदर्थबोधजनकत्वग्रहवतामेव बोधोदयेन व्यभिचारात्। नचार्थधीजनकतावच्छेदकत्वेन तज्ज्ञानं तथा, ततोऽपि लाघवेनार्थधीजनकत्वेनैव हेतुतायामस्मत्पक्षसिद्धेः। नचाधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः, तत्रापि "इदम्पदम् एनमर्थं बोधयतु" इतीच्छाग्रहे पदे तदर्थबोधकत्वस्यावगाहनेन व्यभिचाराभावात्।

नच स्वातन्त्र्येणार्थबोधकताज्ञानं कारणं बाच्यम्। अन्यथा `नेदं तद्धीजनकम्' इति ज्ञानवतः `अस्माच्छब्दादयमर्थो बुद्धोऽनेन' इति जानतस्तद्‌ग्रहापत्तेरिति वाच्यम्, नेदं तद्धीजनकमिति ग्रहवतो बोधेन पदे
परग्रहं जानतोऽपि तद्‌ग्रहासम्भवात्। अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तेरिति।
इदञ्चार्थधीजनकत्वं पित्रादिसङ्गेतज्ञानादेव गृह्यते, अतस्तज्ज्ञानात् पूर्वं न बोधः।
</6-1-1>
<6-1-2> लक्षणा पृथक् नास्ति
 नापि लाक्षणिकोच्छेदापत्तिः, इष्टत्वात्, शक्तिग्राहकव्यवहारस्य मुख्य-लक्ष्यसाधारण्यात्।
किञ्च प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वाच्छाब्दबोधं प्रति शक्तितजन्योपस्थितेः, लक्षणाजन्योपस्थितेश्च कारणत्वं वाच्यम्, तथाच कार्य्यकारणभावद्वयकल्पने गौरवं स्यात्। अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम्।

अपिच लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभिचारः, शक्तितजन्योपस्थितिं विनाऽपि लक्षणाजन्योपस्थितितः शाब्दबोधात्। नचाव्यवहितोत्तरत्वसम्बन्धेन तत्तदुपस्थितिमत्त्वं कार्य्यतावच्छेदकम्, तत्तदुपस्थितित्वञ्च कारणतावच्छेदकम्, अनन्तकार्य्यकारणभावप्रसङ्गात्। किञ्च पदार्थोपस्थितिं प्रत्यपि शक्तिज्ञानत्वेन, लक्षणाज्ञानत्वेन च हेतुतेति व्यभिचारः, गौरवञ्च प्राग्वदेव द्रष्टव्यम्।
<6-1-3> अनन्तकार्यकारणभावकल्पनागौरवम् समेषां समानम्
 नच `इदं पदमेतदर्थबोधकम्' इति शक्तिज्ञानेन कार्य्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्य्यकारणभावकल्पने गौरवं तवापि समानम्, परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम्, शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्य्यकारणभावानन्त्यस्य तवापि साम्यात्। लक्षणाकार्य्यकारणभावकल्पनागौरवं परं तवातिरिच्यते।
</6-1-3>
<6-1-4> वृत्तिजन्योपस्थितित्वेन शाब्दबोधहेतुतायामपि गौरवम्
 अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता, वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया वाच्यमिति चेन्न, शक्ति-लक्षणान्यतरत्वस्य, शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वाच्छक्तित्वमपेक्ष्य गुरुत्वात्, शाब्दबोधहेतुताऽवच्छेदकपदार्थोपस्थितिहेतुवृत्तेरज्ञाने तद्घटितकार्य्यकारणभावग्रहस्याप्यसम्भवात्।
</6-1-3>
<6-1-4>शक्तिज्ञानत्वेनैव शक्तिलक्षणे प्रति हेतुत्त्वस्यापि असङ्गतत्वम्

अथ ममापि शक्तिज्ञानत्वेनैव हेतुता, शक्यसम्बन्धज्ञानरूपलक्षणायां शक्तेरपि प्रवेशात्, इति चेन्न, शक्तिज्ञान-पदार्थोपस्थित्योः कार्य्यकारणभावे समानविषयत्वस्यावश्यकत्वात्। अन्यथा गङ्गा-तीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोऽपि `गङ्गायां घोषः' इति वाक्यात्तीरबोधप्रसङ्गः, शक्तिज्ञानस्य हेतोः सत्त्वात्। अपिच `घटमानय' इति वाक्यम्, हस्तिनञ्च स्मरतः, घटपदादिभ्यो घटादेः, गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः, समूहालम्बनरूपायां पदार्थोपस्थितौ वृत्ति(पद) जन्यत्वसत्त्वात्।

तथाच `विषयतया शाब्दबोधं प्रति तदंशविषयकवृत्तिजन्योपस्थितिर्हेतुः' इति वाच्यम्, एवञ्च लक्षणाया अपि शक्तितज्ञानत्वेन हेतुत्वमसम्भवदुक्तिकमिति।
</6-1-4>
एतेन शक्तितप्रयोज्यैवोपस्थितिर्हेतुरिति न लक्षणाज्ञाने कार्य्यकारणभावान्तरं ममापीति परास्तम्, प्रयोज्यत्वस्यानतिप्रसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपञ्चितं भूषणे ।। 37 ।।
</6-1-2>
<6-2> अपभ्रंशेषु शक्तिसाधनम्
नन्वेवं भाषादितो बोधदर्शनाद् बोधकतरूपा शक्तिस्तत्रापि स्यात्। तथाच साधुताऽपि स्यात्, शक्तत्वस्यैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्कां द्विधा समाधत्ते-
<6-2-1>साधुस्मरणाद्बोध इति मतोपपादनम्
असाधुरनुमानेन वाचकः कैश्चिदिष्यते।
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ।। 38 ।।

असाधुः=गाव्यादिः, अनुमानेन=साधुशब्दमनुमाय, वाचकः=बोधकः कैश्चिदिष्यते। तथाच लिपिवत्तेषां साधुस्मरणे एवोपयोगः, नतु साक्षात्तद्वाचकत्वम्, अतो न साधुत्वमिति भावः। उक्तं हि वाक्यपदीये-

ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः।
तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः।।
न शिष्टैरनुगम्यन्ते पर्य्याया इव साधवः।
ते (न) यतः स्मृतिशास्त्रेण तस्मात् साक्षादवाचकाः।।
बम्बम्बेति यदा बालः शिक्ष्यमाणः प्रभाषते।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः।।
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ।। इति ।।
<6-2-2> अपभ्रंशानाम् साक्षादवाचकत्वे प्रमाणम्
नन्वपभ्रंशानां साक्षादवाचकत्वे किं मानम्,? शक्तिकल्पकव्यवहारादेस्तुल्यत्वात्, इति चेत् सत्यम्, तत्तद्देशभेदेन भिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात्। नच पर्य्यायतुल्यता शङ्क्या, तेषां सर्वदेशेष्वेकत्वात्, विनिगमनाविरहेण सर्वत्र शक्तिकल्पना, नहि अपभ्रंशे तथा, अन्यथा भाषाणां पर्यायतया गणनापत्तेश्च। एवञ्च `शक्तत्वमेवास्तु साधुत्बम्' इति नैयायिकमीमांसकादीनां मतं तन्मतेनैव द्रष्टव्यम्।
</6-2-2>
</6-2-1>
<6-2-3> अपभ्रंशेष्वपि शक्तिसाधनम्-स्वमतोपस्थापनम्
इदानीं स्वमतमाह-वाचकत्वाविशेषे वेति। अयं भावः-अपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात्। नच साधुस्मरणात् ततो बोधः, तानविदुषां पामराणामपि बोधात्, तेषां साधोरबोधाच्च। नच शक्तिभ्रमात् तेभ्यो बोधः, बोधकत्वस्याबाधेन तद्‌ग्रहस्याभ्रमत्वात्। `ईश्वरेच्छा शक्तिः' इति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात्, शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति।

उक्तञ्च वाक्यपदीये-

पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु।
प्रसिद्धिमागता येषु तेषां साधुरवाचकः।।
दैवी वाग् व्यवकीर्णेयमशक्तैरभिधातृभिः।
अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्य्ययः ।। इति ।।

अवाचकः=अबोधकः, बुद्धिविपर्य्ययः=एते एव वाचका नान्ये इति विपर्य्यय इत्यर्थः। किञ्च विनिगमनाविरहाद् भाषायामपि शक्तिः। नच तासां नानात्वं दोषः, संस्कृतवन्महाराष्ट्रादिभाषायाः सर्वत्रैकत्वेन
प्रत्येकं विनिगमनाविरहतदवस्थ्यात्।

किञ्चानुपूर्वी पदेऽवच्छेदिका। सा च पर्य्यायेष्विव भाषायामप्यन्यान्यैवेति कस्तयोर्विशेष इति विभाव्यं सूरिभिः। तथाच संस्कृतवद्‌ भाषायाः सर्वत्रैकत्वेन प्रत्येकं शब्दाः शक्ता एव। नच पर्य्यायतया भाषाणां गणनाऽऽपत्तिः, साधूनामेव कोशादौ विभागाभिधानात्।
<6-2-4>अपभ्रंशानां वाचकत्वेपि असाधुत्वप्रतिपादनम्
नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति-पुण्यजननबोधनाय साधूनाम्, "साधुभिर्भाषितव्यम्" इति विधिः। पापजननबोधनाय "नासाधुभिः" इति निषेधः। तथाच पुण्यजननयोग्यत्वं साधुत्वम्। पापजननयोग्यत्वमसाधुत्वम्। तत्र जनकताऽवच्छेदिका च जातिः। तज्ज्ञापकञ्च कोशादि, व्याकरणादि च।

एवमेव च राजसूयादेर्ब्राह्मणे फलाजनकत्ववद् गवादिशब्दानां नाश्वादौ साधुत्वमिति सङ्गच्छते।
</6-2-4>
<6-2-5>व्याकरणव्युत्पादितत्वं साधुत्वम्
 आधुनिकदेवदत्तादिनाम्नामपि "द्व्यक्षरम्" इत्यादिभाष्येण व्युत्पादितत्वात् साधुत्वम्। एवञ्च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुरिति पर्यवसितम्।

गौणानां गुणे व्युत्पादनात् तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेव। आधुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव। अत एव `ब्राह्मणाय देहि' इत्यर्थे `ब्राह्मणं देहि' इत्यादिकं लक्षणयाऽपि न साधुरित्यादि विस्तरेण प्रपञ्चितं भूषणे ।। 38 ।।
</6-2-5>
</6-2>
<6-3> अतिरिक्तशक्तिग्रहोपायः
अतिरिक्तशक्तिग्रहोपायमाह-

सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता।।
समयाद् योग्यतासंविन्मातापुत्रादियोगवत् ।। 39 ।।

सम्बन्धो विषयः। योग्यतां प्रति योग्यता-सम्बन्धिशब्दं प्रति योग्यता विषय इति। समयात्-व्यवहारात्, योग्यतासंवित्-शक्तिग्रहः। घटपदमत्र योग्यमेतत्सम्बन्धीति व्यवहारात्, सा ग्राह्येत्यर्थः ।। 39 ।।
</6-3>

इति वैयाकरणभूषणसारे शक्तिनिर्णयः ।। 6 ।।