वैयाकरणभूषणसारः/सङ्ख्याविवक्षादिनिर्णयः (कारिका ५७-५९)

<12-0>
अथ सङ्‌ख्याविवक्षानिर्णयः
<12-1> लक्ष्यानुरोधेनैव उद्देश्यविधेययोः सङ्ख्याविवक्षाविवक्षे
सङ्खयाप्रसङ्गादुद्देश्यविधेययोः सङ्ख्याविवक्षाऽविवक्षे निरूपयति--

लक्ष्यानुरोधात् सङ्ख्यायास्तन्त्रातन्त्रे मते यतः।
पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ।। 57 ।।

"ग्रहं सम्मार्ष्टि" इत्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः, `धातोः' इत्येकत्वस्य विवक्षितत्वात्,

उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि।
तदा सर्वैर्विशिष्येत द्वन्द्वोत्पन्नसुबर्थवत् ।। इति ।।

शब्दान्तराधिकरणे भट्टपादैरभिधानाच्च, "आर्द्धधातुकस्येड्वलादेः" (पाo सूo 7-2-35) इत्यत्रानुवाद्यार्द्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच्च।

एवम्-`पशुना यजेत' इतिवद् विधेयविशेषणं विवक्षितमित्यपि नियमो न, "रदाभ्यांनिष्ठातो नः पूर्वस्य च दः" (8-2-42) इत्यत्र नकारद्वयविधानानापत्तेः। तथाच `भिन्नः' इत्यत्र नकारद्वयलाभो न स्यात्। "आद् गुणः"
(6-1-87) इत्यादावेकत्वविवक्षयैवोपपत्तौ "एकः पूर्वपरयोः" (6-1-84) इत्येकग्रहणवैयर्थ्यापत्तेश्चेति भावः। शब्दार्थस्तु-सङ्ख्याया लक्ष्यानुरोधात्तन्त्राऽतन्त्रे यतो मते, अतः पश्वेकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति। आदिना ग्रहैकत्वसंग्रहः ।। 57 ।।
</12-1>
<12-2>विधेये सङ्ख्यायाः विवक्षा अन्यत्राविवक्षा

ननु विधेयविशेषणविवक्षा आवश्यकी, अन्यथा `सुद्धयुपास्यः' इत्यादावनन्तयकाराद्यापत्तेः। `भिन्नः' इत्यत्र नकारद्वयवदन्येषामप्यापत्तेः। `एकः पूर्वपरयोः' इत्यत्रैकग्रहणञ्च स्थानिभेदादादेशभेदवारणायेत्यभिप्रेत्याह--

विधेये भेदकं तन्त्रमन्यतो नियमो नहि।
ग्रहैकत्वादिहेतूनामाश्रयणमनाकरम् ।। 58 ।।

भेदकम्=विशेषणम्। तन्त्रम्=बिवक्षितम्। विधेयविशेषणं विवक्षितमित्यस्तु, तथाप्यन्यतः- अनुवाद्यस्य नियमो नहि। क्वचित् तन्त्रम्, क्वचिन्नेत्यर्थः। ग्रहैकत्वादौ यो हेतुर्वा?यभेदादिस्तस्यात्राश्रयणमनाकरम्। एकत्वविशिष्टं धातुम्, वलादित्वविशिष्टमार्द्धधातुकञ्चोद्दिश्य प्रत्ययेडागमादेर्विधिसम्भवादिति भावः ।। 58 ।।
</12-2>
<12-3>रदाभ्यामित्यत्र नकारद्वयलाभोपपादनम्

नन्वेवम् `भिन्नः' इत्यत्र नकारद्वयलाभो न स्यादित्यत आह-

रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः।
क्षतिर्नैवास्ति तन्त्रत्वे विधेये भेदकस्य तु ।। 59 ।।

चकारसूचितम्-निष्ठातस्य नः, पूर्वस्य दकारस्य च न इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ।। 59 ।।
</12-3>

इति वैयाकरणभूषणसारे सङ्ख्याविवक्षानिर्णयः ।। 12 ।।
</12-0>