वैयाकरणभूषणसारः/समासशक्तिनिर्णयः (कारिका २८-३६)

अथ समासशक्तिनिर्णयः
<5-1> समासविभागः

सामासान् विभजते--

सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा।
सुबन्तेनेति विज्ञेयः समासः षड्‌विधो बुधैः ।। 28 ।।

सुपां सुपा-पदद्वयमपि सुबन्तम् `राजपुरुषः' इत्यादिः।
सुपां तिङा-पूर्वपदं सुबन्तं उत्तरपदं तिङन्तम् `पर्य्यभूषयत्' `अनुव्यचलत्'। `गतिमतोदात्तवता तिङाऽपि समासः' इति वार्त्तिकात् समासः।
सुपां नाम्ना-`कुम्भकारः' इत्यादिः। `उपपदमतिङ्' (पाo सूo 2-2-19) इति समासः। स च "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति परिभाषया भवति सुबुत्पत्तेः पाक्, अत्रोत्तरपदे सुबुत्पत्तेः प्रागित्यर्थात्। अन्यथा `चर्म्मक्रीती' इत्यादौ नलोपानापत्तेः।
सुपां धातुना-उत्तरपदं धातुमात्रम्, न तिङन्तम्, `कटप्रुः' `आयतस्तूः' "क्विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घश्च" इति वार्त्तिकात्।
तिङां तिङा-`पिबतखादता' `पचतभृज्जता' इत्यादिः, "आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात्।
तिङां सुबन्तेन-पूर्वपदं तिङन्तमुत्तरं सुबन्तम्-`जहिस्तम्बः', "जहि कर्म्मणा बहुलमाभीक्षण्ये कर्त्तारञ्चाभिदधाति' इति मयूरव्यंसकाद्यन्तगणसूत्रात्।

अयं षड्‌विधोऽपि समासः "सह सुपा" (पाo सूo 2-1-4) इत्यत्र योगविभागेन भाष्ये व्युत्पादितः, स्पष्टः शब्दकौस्तुभादौ ।। 28 ।।
<5-2> पूर्वपदार्थप्रधानेत्यादिलक्षणानां प्रायिकत्वम्
स्वयं भाष्यादिसिद्धं तद्भेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यतिव्याप्त्यादिभिस्तल्लक्षणस्य च प्रायिकत्वं दर्शयति--

समासस्तु चतुर्द्धेति प्रायोवादस्तथा परः।
योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ।। 29 ।।
भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः ।। 29 1/2 ।।

चतुर्धा, अव्ययीभाव-तत्पुरुष-द्वन्द्व-बहुव्रीहिभेदात्। अयं प्रायोवादः, `भूतपूर्वः', `दृन्भूः', (`काराभूः') `आयतस्तूः', `वागर्थाविव' इत्याद्यसङ्ग्रहात्।

तथा पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। उभयपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुव्रीहिरित्यादिलक्षणमपि प्रायिकम्, `उन्मत्तगङ्गम्' `सूपप्रति' `अर्द्धपिप्पली' 'द्वित्राः' `शशकुशपलाशम्' इत्यादौ परस्परव्यभिचारात्। तथाहि-`उन्मत्तगङ्गम्' इत्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः, अन्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिश्च, "अन्यपदार्थे च संज्ञायाम्" (पाo सूo 2-1-21) इति समासात्। `सूपप्रति' इत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिः, अव्ययीभावाव्याप्तिश्च। `सुप् प्रतिना मात्रार्थे' (पाo सूo 2-1-9) इति समासात्। `अर्द्धपिप्पली' इति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वाद् अव्ययीमावातिव्याप्तिः, तत्पुरुषाव्याप्तिश्च, " अर्द्धं नपुंसकम्" (पाo सूo 2-2-2) इति समासात्।

एवम् `पूर्वकायः' इत्यादौ द्रष्टव्यम्। `द्वित्राः' इति बहुव्रीहावुभयपदार्थप्राधान्याद्, द्वन्द्वातिव्याप्तिः, बहुव्रीह्यव्याप्तिश्च। ` शशकुशपलाशम्' इत्यादिद्वन्द्वे समाहारान्यपदार्थप्राधान्याद् बहुव्रीह्यतिव्याप्तिः, द्वन्द्वातिव्याप्तिः, स्यादिति भावः।

सिद्धान्ते तु `अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वम्' इत्यादि द्रष्टव्यम्। असम्भवश्चैषामित्याह-भौतपूर्व्यादित्यादि-रेखागवयादिनिष्ठलाङ्‌गूलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्वम्। बोधकता तु तद्वदेव स्यादिति भावः ।। 29 1/2 ।।
<5-3> अजहत्स्वार्थापक्षे पूर्वपदार्थप्राधान्यादिव्यवस्था सम्भविनीति शङ्कायाः उत्तरम्
ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम्। तथाहि-`समर्थः पदविधिः' इति सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु जहत्स्वार्थाऽजहत्स्वार्थपक्षयोरेवैकार्थीभाव-व्यपेक्षारूपयोः पर्य्यवसानं लभ्यते। तत्राजहत्स्वार्थापक्षे उक्तव्यवस्था नासम्भविनीत्याशङ्कां मनसिकृत्य आह--

<5-3-1> जहत्स्वार्थाजहत्स्वार्थयोः निरूपणम्
जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ।। 30 ।।
भेदः संसर्ग उभयं चेति वाच्यब्यवस्थितेः ।। 30 1/2 ।।

जहति पदाति स्वार्थं यस्यां सा जहत्स्वार्था। पदे वर्णवद् वृत्तौ पदानामानर्थक्यमित्यर्थः। अयं भावः-समासशक्त्यैव राजविशिष्टपुरुषभान (बोध) सम्भवे न राजपुरुषपदयोरपि पुनस्तद्‌बोधकत्वं कल्प्यम्, वृषभयावकादिपदेषु वृषादिपदानामिव।

  अन्यथा राजपदेन विग्रहवाक्य इव, राज्ञः स्वातन्त्र्येणोस्थितिसत्त्वात्, `ऋद्धस्य राज्ञः पुरुष' इत्यत्रेव `ऋद्धस्य राजपुरुषः' इत्यस्याप्यापत्तेरिति।

अजहदिति-न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था।
<5-3-2> व्यपेक्षापक्षनिरूपणम्
अयमभिप्रायः-राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः, कल्पकाभावात्, क्लृप्तराजादिपदादेवार्थोपस्थितिसम्भवे लत्कल्पनस्य गौरवपराहतत्त्वाच्च। कलॄप्तशक्तित्यागोऽप्यप्रामाणिकः कल्प्येत। तथाचाऽऽकाङ्‌क्षादिवशात् कलॄप्तशक्त्यैव विशिष्टार्थबोधः।
अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः।
नचात्र मते समासे `ऋद्धस्य' इति विशेषणान्वयापत्तिः, "सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न" इति वार्त्तिकात्। तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वाद् पूर्वपदार्थप्रधान इत्यादिव्यवस्था सूपपदेति भावः।
<5-3-3> एकैकस्यापि वृत्तेः त्रैविध्यम्
प्रसङ्गाद् वृत्तिभेदमपि निरूपयति-ते पुनरिति-द्वे अपि वृत्ती त्रिविधे, वाच्यत्रैविध्यात्। वाच्यमेवाह-भेद इत्यादि। भेदः=अन्योन्याभावः। तथाच `राजपुरुषः' इत्यादावराजकीयभिन्न इति बोधः। अस्यावाच्यत्वे च `राजपुरुषः सुन्दरः' इतिवत्, राजपुरुषो देवदत्तस्य' चेत्यपि स्यात्। वाच्यत्वे तद्‌विरोधान्नैवं प्रयोग इति भावः।

`राजसम्बन्धवान्' इत्येव शाब्दं भानम्, भेदस्तूत्तरकालमुपतिष्ठते इत्याशयेनाह-संसर्ग इति। विनिगमनाविरहम्, अस्वामिकेऽपि `राजपुरुषः' इत्यादिप्रयोगापत्तिञ्च मनसि कृत्वोभयं वाच्यमित्याह-अभयं वेति। तथाच `अराजकीयभिन्नो राजसम्बन्धवाँश्चायम्' इति बोधः ।। 30 1/2 ।।
<5-3-4>व्यपेक्षारूपवाक्यशक्त्यपेक्षया समासशक्तेः वैलक्षण्यप्रतिपादनम्
व्यपेक्षावादस्यैवं युक्तिभाष्यविरुद्धत्वात् तन्मूलकः `पूर्वपदार्थप्रधानः' इत्याद्युत्सर्गोऽप्ययुक्तः। किन्तु `रेखागवय' न्यायेनोऽत्सर्गोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते--

समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ।। 31 ।।
बहूनां वृत्तिधर्म्माणां वचनैरेव साधने।
स्यान्महद् गौरवं तस्मादेकार्थीभाव आश्रितः ।। 32 ।।

समास इति-वृत्तिमात्रोपलक्षणम्, "समर्थः" पदविधिः" (पाo सूo 2-1-1) इत्यत्र पदमुद्दिश्य यो विधीयते-समासादिः स समर्थः-विग्रहवाक्यार्थाभिधाने शक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात्।
<5-3-5> पदोद्देश्कविधित्वस्य पञ्चस्वपि वृत्तिषु प्रतिपादनम्

पदोद्देश्यकविधित्वञ्च-कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव।
<5-3-6> व्यपेक्षावादखण्डनम्
 विशिष्टशक्तयस्वीकर्तॄणां व्यपेक्षावादिनां मते दूषणं शक्तिसाधकमेवेत्याशयेनाह-पङ्कजशब्दवदिति-पङ्कजनिकर्त्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न सिद्धयेत्।
नच पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम्, चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनाऽऽवश्यकत्वात्। लक्षणयैव तथोपस्थितिरिति चेत्, पङ्कजपदेऽपि सा सुवचा। एवं रथकारपदेऽपि। तथाच "वर्षासु रथकारोऽग्निमादधीत" इत्यत्रापि विना लक्षणां क्लृप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्वविद्याकल्पनमयुक्तं स्यादिति भावः।
<5-3-6-1> व्यपेक्षापक्षे गौरवप्रदर्शनम्
<5-3-6-1-1>बहूनां वृत्तिधर्माणां वचनैः साधनीयत्वम्
साधकान्तरमाह-बहूनामिति-वृत्तेर्धर्म्माः विशेषणलिङ्गसङ्ख्याद्ययोगादयस्तेषां वचनैः (एव) साधने गौरवमित्यर्थः।

अयं भावः। विशिष्टशक्तयस्वीकारे `राज्ञः पुरुषः' इत्यत्रेव `राजपुरुषः' इत्यत्रापि स्याद् विशेषणाद्यन्वयः, राजपदेन स्वतन्त्रोपस्थितिसत्त्वात्। विभाषावचनञ्च समासनियमवारणाय कार्य्यमिति।

ननु "सविशेषणानाम्" इति वचनान्न विशेषणाद्यन्वयः, विभाषावचनञ्च कृतमेवेत्याशङ्कां समाधत्ते-वचनैरेवेति। न्यायसिद्धमेव सूत्रम्। व्यापेक्षाविवक्षायां (व्यासस्य) वाक्यस्य, एकार्थीभावे समासस्येति स्वभावादेव प्रयोगनियमसम्भवात्। सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयाऽन्वयासम्भवान्न्यायसिद्धमिति भावः।

अत एव व्यपेक्षापक्षमुद्भाव्य "अथैतस्मिन् व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यः" इति भाष्यकारेण दूषणमप्युक्तम् ।। 32 ।।

तथा `धवखदिरौ' ` निष्कौशाम्बिः' `गोरथः' `घृतघटः' `गुडधानाः' `केशचूडः' `सुवर्णालङ्कारः' `द्विदशाः' `सप्तपर्णाः' इत्यादावितरेतरयोग-निष्क्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-विकार-सुच्प्रत्ययलोप-वीप्साद्यर्थो वाचनिको वाच्य इत्यतिगौरवं स्यादिति दूषणान्तरमाह--

चकारादिनिषेधोऽथ बहुव्युत्त्पत्तिभञ्जनम्।
       कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ।। 33 ।।

आदिना घनश्यामः' `हंसगमनः' इत्यादाविवादीनां पूर्वोक्तानाञ्च संग्रहः।
</5-3-6-1-1>
<5-3-6-1-2> बहूनां व्युत्पत्तीनां भञ्जनम्

 दूषणान्तरमाह-बहुव्युत्त्पत्तिभञ्जनमिति।
अयमाशयः- `चित्रगुः' इत्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा। नच तत्र लक्षणा, `प्राप्तोदको ग्रामः' इत्यादौ तदसम्भवात्, `प्राप्तकर्त्रभिन्नमुदकम्' इत्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामपि `उदककर्तृकप्राप्तिकर्म्म ग्रामः' इत्यर्थालाभात्।
प्राप्तेति क्तप्रत्ययस्यैव कर्त्रर्थकस्य कर्मणि लक्षणेति चेत्तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्त्पत्तेरुदकाभिन्नप्राप्तिकर्म्मेति स्यात्, अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः, प्राप्तेर्धात्वर्थतया कर्त्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च। अन्यथा `देवदत्तः पच्यते' इत्यत्र कर्त्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तेः।

अथोदकाभिन्नकर्त्तृका प्राप्तिरिति बोधोत्तरं तत्सम्बन्धिग्रामो लक्ष्यते इति चेन्न, प्राप्तेर्धात्वर्थतया क्तार्थकर्तारं प्रति विशेष्यताया असम्भवात्, `प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति व्युत्पत्तेः। प्राप्तपदे प्राप्तेर्विशेष्यत्वे तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च।


    एवम् `ऊढरथः' `उपहृतपशुः' ` उद्‌धृतौदना' `बहुपाचिका' इत्यादावपि द्रष्टव्यम्। अत्र हि रथकर्मकवहनकर्त्ता, पशुकर्मकोपहरणोद्देश्यः, ओदनकर्म्मकोद्धरणावधिः, बहुपाककर्त्रधिकरणमिति बोधाभ्युपगमात्। अतिरिक्तवृत्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्त्तृकप्राप्तिकर्मत्वविशिष्टे प्राप्तोदक इत्यादिसमुदायशक्तयैव निर्वाह इति भावः ।। 33 ।।
</5-3-6-1-2>
<5-3-6-1-3> अषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पनागौरवम्
साधकान्तरमाह-
अषष्ठयर्थबहुव्रीहौ व्युत्त्पत्त्यन्तरकल्पना।
क्लृप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः ।। 34 ।।
<5-3-6-1-4> चित्रगुरित्यादिबहुव्रीहौ अन्यपदार्थे लक्षणायाः अनुपपत्तिप्रतिपादनम्

अयं भावः। चित्रगुरित्यादिषु चित्रगवीणां स्वाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते। नच तत्र लक्षणा। सा हि न चित्रपदे,'चित्रस्वामी गौः' इति बोधापत्तेः। नापि गोपदे, गोस्वामी चित्रः इत्यन्वयबोधापत्तेः। चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयायोगात्।

<5-3-6-1-4-1> गोपदे लक्षणानिराकरणम्
नच `चित्राभिन्ना गौः' इति शक्तयुपस्थाप्ययोरन्वयबोधोत्तरं तादृशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम्, गोपदस्य, चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात्।

नच गोपदे साक्षात् सम्बन्ध एव विनिगमक इति वाच्यम्, एवमपि `प्राप्तोदकः' `कृतविश्वः' इत्याद्यषष्ठयर्थबहुव्रीहौ विनिगमकाप्राप्तेः। यौगिकानां कर्त्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात्।
</5-3-6-1-4-1> गोपदे लक्षणानिराकरणम्
<5-3-6-1-4-2> पदद्वये लक्षणानिराकरणम्

नच `पदद्वये लक्षणा' इति नैयायिकोक्तं युक्तम्, बोधावृत्तिप्रसङ्गात्। नच परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा' न द्वयोरिति न बोधावृत्तिरिति वाच्यम्, एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असम्भवात्।
</5-3-6-1-4-2>
<5-3-6-1-4-3> चरमपदे लक्षणानिराकरणम्
नच चरमपदे एव सा, प्रत्ययार्थान्वयानुरोधात्, प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम्, एवं हि वहुव्रीह्यसम्भवापत्तेः। "अनेकमन्यपदार्थे" (पाo सूo 2-2-4)इत्यनेकसुबन्तानामन्यपदार्थप्रतिपादकत्वेन तद्‌विधानात्।

किञ्चैवं सति घटाऽऽदिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात्, पूर्वपूर्ववर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात्। एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेद् अत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः।
</5-3-6-1-4-3>
</5-3-6-1-4>
एवञ्च, अषष्ठयर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना, उक्तयुक्ते, अगत्या शक्त्यन्तरकल्पनेत्यर्थः। क्लृप्तत्याग इत्यस्य क्लृप्तशक्तयोपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति। तत् किं सर्वत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः।

</5-3-6-1-3>
<5-3-6-1-5> नव्यनैयायिकमीमांसकयोः व्यपेक्षावादः
 यत्तु व्यपेक्षावादिनो नैयायिक-मीमांसकादयः। न समासे शक्तिः, 'राजपुरुषः' इत्यादौ राजपदादेः
सम्बन्धिलक्षणयैव `राजसम्बन्ध्यभिन्नः पुरुषः' इति बोधोपपत्तेः।

अत एव राज्ञः पदार्थैकदेशतया न तत्र `शोभनस्य' इत्यादिविशेषणान्वयः। नवा घनश्यामः, `निष्कौशाम्बिः' `गोरथः' इत्यादौ इवादिप्रयोगापत्तिः, उक्तार्थतयैव क्रान्तादिपदप्रयोगासम्भवात्। न वा "विभाषा" (पाo सूo 2-7-11) इति सूत्रावश्यकत्वम्, लक्षणया `राजसम्बन्ध्यभिन्नः पुरुषः' इति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात्। नापि पङ्कजपदप्रतिबन्दी शक्तिसाधिका, तत्रावयवशक्तिमजानतोऽपि बोधात्।

नच शक्तयग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः सम्भवति। अत एव राजादिपदशक्तयग्रहे `राजपुरुषः' `चित्रगुः' इत्यादौ न बोधः। नापि (नच) चित्रगुरित्यादौ लक्षणासंभवेऽप्यषष्ठयर्थबहुव्रीहौ लक्षणाया असम्भवः बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम्, `प्राप्तोदकः' इत्यादावुदकपदे एव लक्षणास्वीकारात्। पूर्वपदस्य यौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात्, प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च।

घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतितत्वात्। बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्त्वात्। प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपदे एव सा कल्प्यत इति विशेषः।

स्वीकृतञ्च घटादिपदेष्वपि चरमवर्णास्यैव वाचकत्वं मीमांसकम्मन्यैरित्याहुः।

</5-3-6-1-5>
<5-3-6-1-6> नव्यनैयायिकमीमांसकयोः व्यपेक्षावादस्य खण्डनम्
<5-3-6-1-6-1>समासे शक्त्यस्वीकारे प्रातिपदिकत्त्वानापत्तिः

अत्रोच्यते-समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात्, अर्थवत्त्वाभावात्, "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (पाo सूo 1-2-45) इत्यस्याप्रवृत्तेः। नच "कृत्तद्धितसमासाश्च" (पाo सूo 1-2-46) इत्यत्र समासग्रहणात् सा, तस्य नियमार्थताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात्।

समासवाक्ये शक्‌त्यभावेन शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसम्भवात्। अथ "तिप्तस्‌झि' इत्यारभ्य "ङयोस्सुप्" इति तिप्प्रत्याहारो भाष्यसिद्धस्तमादाय "अतिप्प्रातिपदिकम्" इत्येव सूत्र्यताम्, कृतमर्थवदादिसूत्रद्वयेन। समासग्रहणञ्च नियमार्थमस्तु। तथाच अतिप्=सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायार्थवत्त्वाऽऽवश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव। तथाच प्रातिपदिकसंज्ञारूपं कार्यमेवार्थवत्त्बमनुमापयति-धूम इव वह्निम्।
</5-3-6-1-6-1>
<5-3-6-1-6-2>चित्रगुरित्यादिषु प्रत्ययार्थकर्मत्वाद्यनापत्तिः

किञ्चैवं `चित्रगुमानय' इत्यादौ कर्मत्वाद्यनन्बयापत्तिः, प्रत्ययानां प्रकृत्यर्थान्बितस्वार्थबोधजनकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात्। यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति, तन्न, `उपकुम्भम्' `अर्द्धपिप्पली' इत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात्।

नच तत्रापि सन्निधानमेव, आनुशासनिकसन्निधेर्विवक्षितत्वात्। तथाच यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं
स्वार्थं बोधयति। समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम्, अर्थवत्सूत्रेण विशिष्टस्यैव प्रातिपदिकत्वेन विशिष्टोत्तरं विभक्त्यनुशासनात्।
</5-3-6-1-6-2>

<5-3-6-1-6-3>प्रकृतित्त्वाश्रये विभक्त्यर्थान्वय इत्यस्यायुक्तत्वम्
अथ `प्रकृतित्वाश्रये विभक्त्यर्थान्वयः' इत्येव कल्प्यत इति चेत्तर्हि, `पङ्कजमानय' `दण्हिनं पश्य' `शूलिनं पूजय' इत्यादौ पङ्क-दण्ड-शूलेष्वानयन-दर्शन-पूजनादेरन्वयप्रसङ्गात्, `अघटमानय' इत्यत्र घटेऽप्यानयनान्वयापत्तेश्च। नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः, `पाकान्नीलः' `धर्मात् सुखी' इत्यादौ पाक-धर्मादिहेतुताया रूप-सुखादावनन्वयप्रसङ्गात्। यच्च-प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रम्, तच्चात्राविरुद्धमिति, तन्न, `घटं पश्य' इत्यत्र घटपदात् समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात्।
</5-3-6-1-6-3>

<5-3-6-1-6-4>प्रत्ययप्राग्वर्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमित्यस्य खण्डनम्
अथ `प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वम्' इति चेन्न, `गामानयति कृष्णो दण्डेन' इत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात्।
</5-3-6-1-6-4>
<5-3-6-1-6-5>समासोत्तरविभक्तेः समस्यमानपदार्थगतस्वार्थबोधकत्त्वकल्पनायां गौरवम्
   अथ समस्यमानपदार्थगतस्वार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेन्न, अक्लृप्तकल्पनां क्लृप्तव्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिक्।
</5-3-6-1-6-5>
<5-3-6-1-6-6>समासे विशिष्टशक्त्यस्वीकारे राजपुरुषादिषु अनन्वयप्रसङ्गः

अपिच समासे विशिष्टशक्त्यस्वीकारे `राजपुरुषः' `चित्रगुः' `नीलोत्पलम्' इत्यादौ सर्वत्रानन्वयप्रसङ्गः, राजपदादेः सम्बन्धिनि लक्षणायामपि, `तण्डुलः पचति' इत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेर्हेतुताया आवश्यकत्वात्, पुरुषादेस्तथात्वाभावात्। `तण्डुलः शुभ्रः' इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेः, तस्य च शुक्ले अभेदेनैवान्वयः।

`शुभ्रेण तण्डुलेन' इत्यादौ च विशेषणविभक्तिरभेदार्थिका, पार्ष्ठिको वाऽन्वय इति नातिप्रसङ्गः। तथाच समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः।
</5-3-6-1-6-6>
<5-3-6-1-6-7>राजपुरुषादौ लक्षणा निरूपयितुमशक्या

किञ्च `राजपुरुषः' इत्यादौ सम्बन्धिनि, सम्बन्धे वा लक्षणा। नाद्यः, `राज्ञः पुरुषः' इति विवरणविरोधात्, समाससमानार्थकवाक्यस्यैव विग्रहत्वात्। अन्यथा तस्माच्छक्तिनिर्णयो न स्यात्। नान्त्यः `राजसम्बन्धरूपः पुरुषः' इति बोधप्रसङ्गात्। विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे।

अत एव "वषट्‌कर्त्तुः प्रथमभक्षः" इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकप्रसरताभङ्गापत्तेरिति तृतीये, "त्र्यङ्गैः स्विष्टकृतं यजति" इत्यत्राङ्गानुवादेन त्रित्वविधानं न युक्तम्, एकप्रसरताभङ्गापत्तेरिति दशमे च
निरूपितं सङगच्छते, सङ्गच्छते चारुणाधिकरणारम्भः।
</5-3-6-1-6-7>
<5-3-6-1-6-8>विशिष्टशक्त्यस्वीकारे अरुणाधिकरणस्यैव असङ्गत्यापत्तिः

अन्यथा "अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यत्रारुण्यपदवदितरयोरपि एकाब्दत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद् भेदशङ्काया असम्भवादिति प्रपञ्चितं भूषणे। तस्मात् समासशक्तिपक्षो जैमिनीयैरवश्याभ्युपेय इत्यास्तां विस्तरः ।। 35 ।।
</5-3-6-1-6-8>
</5-3-6-1-6>
</5-3-6-1>
</5-3-6>
</5-3>
<5-4> लौकिकविग्रहस्वरूपनिर्णयः
<5-4-1> मीमांसकमतनिरूपणम्
`राजपुरुषः' इत्यादौ राजा चासौ पुरुषश्चेत्येव विग्रहः। चित्रगुरित्यादौ चित्राणां गवामयमित्येव, समानार्थत्वानुरोधात्। यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति "शेषो बहुव्रीहिः" (पाo सृo 2-2-23) इति सूत्राल्लभ्यते इति प्रथमान्तम्, पक्षे वाक्यम्-चित्रा गावो यस्येत्येवं सम्भवत्येव। "षष्ठी" (पाo सूo 2-2-8) इति समासविधानात् `राज्ञः पुरुषः' इति च पक्षे वाक्यम्। तथापि तस्य न विग्रहत्वम्, भिन्नार्थत्वात्, किन्तूक्तस्यैवेति मीमांसकाः।
</5-4-1>
<5-4-2> मीमांसकमतनिराकरणम्

 तान्‌ प्रसङ्गान्निरस्यति-

आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम्।
गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ।। 36 ।।

तद्धितकृतोर्यात्किञ्चिदर्थबोधकं विवरणमाख्यातम्, तत्र विपर्य्ययो दृष्टः। तथाहि-`आक्षिकः" "कुम्भकारः" इत्यत्राक्षकरणकव्यापाराश्रयः, कुम्भोत्पत्त्यनुकूलव्यापाराश्रय इति बोधः। `अक्षैर्दीव्यति' `कुम्भं करोति' इत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भोत्पत्त्यनुकूला भावनेति बोधः। कृत्प्रत्यये कारकाणाम्, आख्याते च भावनायाः प्राधान्यं वदतो मीमांसकस्यापि गुणप्रधानभावांशव्यत्यासो न विवरणत्वबाधक इति नात्र पाक्षिकस्य, `चित्रा गावो यस्य' इत्यादेर्विग्रहत्वे बाधकमस्तीति भावः ।। 36 ।।
</5-4-2>
</5-4>
<5-5>विशिष्टशक्तिस्वीकारे निषादस्थपत्यधिकरणविरोधशङ्का

नन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिः, `अस्तु च तथाविग्रहस्तथापि षष्ठीतत्पुरुष-कर्मधारययोः शक्तितमत्त्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यादित्यत आह--

</5-5>विशिष्टशक्तिस्वीकारे निषादस्थपत्यधिकरणविरोधशङ्का
<5-6>विशिष्टशक्तिस्वीकारे निषादस्थपत्यधिकरणविरोधशङ्कापरिहारः
पर्यवस्यच्छाब्दबोधाविदूरप्राक्‌क्षणस्थितेः।
शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ।। 37 ।।

पर्य्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्‌क्षणश्च तदानीन्तनलाघवमादायाधिकरणाविरोध इत्यर्थः। अयं भावः-निषादस्थपतिपदस्य समासशक्तिपक्षे, निषादरूपे, निषादानाञ्च स्थपतौ, निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थत्वम्। तथाच "नानार्थे तात्पर्याद् विशेषावगतिः" इति न्यायेन तत्कल्पनायां पदद्वयेन पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत् कल्प्यत इति। परेषामपि सति तात्पर्य्ये `यष्टीः प्रवेशय' इतिवल्लक्षणाया दुर्वारत्वात्, तात्पर्य्यमेव कल्प्यकोटाववशिष्यत इति दिक् ।। 36 ।।
</5-6>
इति वैयाकरणभूषणसारे समासशक्तिनिरूपणम् ।। 5 ।।
</5-0>