वैयाकरणभूषणसारः/सुबर्थनिर्णयः (कारिका २४)

<3-0>
अथ सुबर्थनिर्णयः
सुबर्थमाह-
आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा।
यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः ।। 24 ।।
<3-1>द्वितीयायाः आश्रयोऽर्थः
द्वितीया-तृतीया-सप्तमीनामाश्रयोऽर्थ। तथाहि-"कर्मणि द्वितीया" (पाo सूo 2-3-2)। तच्च कर्त्तुरीप्सिततमम्-क्रियाजन्यफलाश्रय इत्यर्थः, क्रियाजन्यफलवत्त्वेन कर्मण एव कर्त्तुरीप्सिततमत्वात्।

"तथायुक्तञ्चानीप्सितम्" (पाo सूo 1-4-50) इत्यादिसंग्रहाच्चैवमेव युक्तम्।ईप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगः, नतु वाच्यकोटौ तत्प्रवेशः।
<3-1-1>आश्रयत्वं च अखण्डशक्तिरूपमवच्छेदकम्
तथाच क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः। तत्त्वञ्चाखण्डशक्तिरूपमवच्छेदकम्। `ओदनं पचति' इत्यत्र विक्लित्त्याश्रयत्वात् कर्म्मता।
</3-1-1>
<3-1-2> जानात्यादेरपि मुख्यसकर्मकत्वमेव
`घटं करोती'त्यत्र उत्पत्त्याश्रयत्वात्, उत्पत्तेर्धात्वर्थत्वात्। `जानाति' इत्यत्र आवरणभङ्गरूपधात्वर्थफलाऽऽश्रयत्वात्। अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्याऽऽवश्यकत्वात्। अन्यथा `यथापूर्वं न जानामि' इत्यापत्तेः।
</3-1-2>
<3-1-3> अतीतादेरपि आश्रयत्वम्
अतीतादेराश्रयता च विषयतया ज्ञानाश्रयताया नैयायिकानामिव सत्कार्य्यवादसिद्धान्ताद्वोपपद्यते इति। उक्तञ्च-

तिरोभावाभ्युपगमे भावानां सैव नास्तिता।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते।। इति।
</3-1-3>
<3-1-4> कर्तुरपादानस्य च कर्मसंज्ञापत्तिशङ्का-समाधानम् च
ननु `चैत्रो ग्रामं गच्छति' इत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात् कर्मताऽऽपत्तौ `चैत्रश्चैत्रं गच्छति' इत्यापत्तिः, प्रयागतः काशीं गच्छति चैत्रे `प्रयागं गच्छति' इत्यापत्तिश्च, क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्त्वात्, इति चेन्न, ग्रामस्येव चैत्रस्यापि फलाऽऽश्रयत्वेऽपि तदीयकर्त्तृसंज्ञया कर्म्मसंज्ञाया बाधेन `चैत्रश्चैत्रम्' इति प्रयोगासम्भवात्, द्वितीयोत्पत्तौ संज्ञाया एव नियामकत्वात्। अन्यथा `गमयति कृष्णं गोकुलम्' इत्यत्रेव `पाचयति कृष्णेन' इत्यत्रापि कृष्णपदाद् द्वितीयाऽऽपत्तेः।

शाब्दबोधः `चैत्रश्चैत्रम्' इत्यत्र स्यादिति चेन्न, तथाव्युत्पन्नामिष्टापत्तेः। उच्यतां वा `प्रकारतासम्बन्धेन धात्वर्थफलविशेष्यकबोधं प्रति धात्वर्थव्यापारानधिकरणाऽऽश्रयोपस्थितिर्हेतुः' इति कार्य्यकारणभावान्तरम्। प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान्न दोषः। प्रयागस्य कर्मत्वन्तु सम्भावितमपि न, समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्य उक्तप्रायत्वात्।
<3-1-4-1>अत्र नैयायिकमतम्
नैयायिकास्त्वाद्यदोषवारणाय परसमवेतत्वम्, द्वितीयदोषवारणाय धात्वर्थताऽवच्छेदकत्वं फले विशेषणं द्वितीयावाच्यमित्युपाददते। परसमवेतत्वं धात्वर्थक्रियायामन्वेति, तथैव कार्यकारणभावान्तरकल्पनात्। परत्वञ्च द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते।
 
तथाच `चैत्रस्तण्डुलं पचति' इत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थताऽवच्छेदकविक्लित्तिशालित्वात्
तण्डुलस्य कर्म्मता। शाब्दबोधस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलतण्डुलान्यसमवेतक्रियाजनककृतिमाँश्चैत्र इत्याहुः,
<3-1-4-1-1> नैयायिकमतखण्डनम्
तन्न रोचयामहे, परसमवेतत्वादेर्गौरवेणावाच्यत्वात्। अतिप्रसङ्गः किम् द्वितीयायाः, शाब्दबोधस्य वा? नाद्यः, तावद्वाच्यकथनेऽपि तत्तादवस्थ्यात्, `गमयति कृष्णं गोकुलम्' इतिवत् `पाचयति कृष्णं गोपः' इति द्वितीयाऽऽपत्तेः,`तण्डुलं पचति चैत्रः' इतिवत् `तण्डुलं पच्यते स्वयमेव' इत्यापत्तेश्च, विक्लित्त्यनुकूलतण्डुलान्यसमवेताग्निसंयोगरूपधात्वर्थाऽऽश्रयत्वात्। शाब्दबोधातिप्रसङ्गोऽप्युक्तरीत्यैव निरस्तः, परसमवेतत्वस्य शक्यत्वेऽपि परत्वस्य, परसमवेतत्वस्य च इष्टान्वयलाभायानेकशः कार्य्यकारणभावाभ्युपगमे गौरवान्तरत्वादिति स्पष्टं भूषणे।
</3-1-4-1-1>
</3-1-4-1>
</3-1-4>
<3-1-5> कर्मणः सप्तधा विभागः
एतच्च सप्तविधम्--

निर्वर्त्त्यञ्च विकार्य्यञ्च प्राप्यञ्चेति त्रिधा मतम्।
तच्चेप्सिततमं कर्म्म चतुर्द्धाऽन्यत्तु कल्पितम्।।
औदासीन्येन यत् प्राप्यं यच्च कर्त्तुरनीप्सितम्।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्।।

इति वाक्यपदीयात्।
यदसज्जायते सद्वा जन्मना यत्प्रकाशते।
तन्निर्वर्त्यं विकार्यं तु द्वेधा कर्म्म व्यवस्थितम्।।

प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत्।
किञ्चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्।।

क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते।।

इति च तत्रैवोक्तम्।

`घटं करोति' इत्याद्यम्। `काष्ठं भस्म करोति' इति, `सुवर्णं कुण्डलं करोति' इति च द्वितीयम्। `घटं पश्यति' इति तृतीयम्। `तृणं स्पृशति' इत्युदासीनम्। `विषं भुङ्क्ते' इति द्वेष्यम्। `गां दोग्धि' इति संज्ञान्तरैनाख्यातम्।

`क्रूरमभिक्रुद्धयति' इत्यन्यपुर्वकम्।
</3-1-5>
</3-1>
<3-2> तृतीया
<3-2-1> कर्तृतृतीयाया आश्रयोऽर्थः
कर्तृतृतीयाया आश्रयोऽर्थः। तथाहि- "स्वतन्त्रः कर्त्ता" (पाo सूo 1-4-54) स्वातन्त्र्यञ्चधात्वर्थव्यापाराऽऽश्रयत्वम्।
<3-2-1-1> कर्तृलक्षणम्
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते।

इति वाक्यपदीयात्। अत एव `यदा यदीयो व्यापारो धातुनाऽभिधीयते तदा स कर्ता' इति `स्थाली पचति' `अग्निः पचति' `एधांसि पचन्ति' `तण्डुलः पच्यते स्वयमेव' इत्यादि सङ्गच्छते।
</3-2-1-1>
<3-2-1-2> एकस्य एकदा संज्ञाद्वयस्य अयुक्तताप्रतिपादनम्
नन्वेवम् "कर्म्मकर्तृव्यपदेशाच्च" (ब्रo सूo 1-2-4) इति सूत्रे "मनोमयः प्राणशरीरः" इति वाक्यश्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य "एवमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्तिकर्म्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णोतं कथं सङ्गच्छताम्? उच्यते-जीवस्यैव ज्ञेयत्वे प्राप्तिकर्म्मत्वमपि वाच्यम्, कर्तृत्वञ्च तस्य आख्यातेनोक्तम्। नचैकस्यैकदा संज्ञाद्वयं युक्तम्, कर्तृसंज्ञाया कर्म्मसंज्ञाया बाधात्। तथाच `एतम्' इति द्वितीया न स्यात्। कर्म्मकर्तृतायाञ्च यगाद्यापत्तिरिति शब्दविरोधद्वारा भवति स भेदहेतुः।
</3-2-1-2>
एवञ्च व्यापारंशस्य धातुलभ्यत्वादाश्रयमात्रं तृतीयार्थः।
</3-2-1>
<3-2-1-3> नैयायिककर्तृलक्षणनिरासः
 कारकचक्रप्रयोक्तृत्वम्, कृत्याश्रयत्वं `दण्डः करोति' इत्यत्राव्याप्तम्।
</3-2-1-3>
<3-2-1-4> कर्तृभेदनिरूपणम्
अयञ्च त्रिवधः-सुद्धः, प्रयोजको हेतुः, कर्म्मकर्त्ता च। `मया हरिः सेव्यते' `कार्य्यते हरिणा' `गमयति कृष्णं गोकुलम्' मदभिन्नश्रयको हरिकर्म्मकसेवनानुकूलो व्यापारः, हर्य्यभिन्नश्रयक उत्पादनानुकूलो व्यापारः, गोकुलकर्मकगमनानुकूलकृष्णाश्रयकतादृशव्यापारानुकूलो व्यापार इति शाब्दबोधः।
</3-2-1-4>
</3-2-1>
<3-2-2> करणतृतीयार्थः
 करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ। तथाहि-"साधकतमं कारणम्" (पाo सूo 1-4-49)। तमबर्थः प्रकर्षः। स चाव्यवधानेन फलजनकव्यापारवत्ता।
<3-2-2-1> करणलक्षणम्
तादृशव्यापारवत्कारणञ्च कारणम्। उक्तञ्च वाक्यपदीये-

क्रियायाः परिनिष्पत्तिर्यद्‌व्यापारादनन्तरम्।
विवक्ष्यते यदा यत्र करणं त्तत्तदा स्मृतम्।
वस्तुतस्तदनिर्देशयं न हि वस्तु व्यवस्थितम्।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः।। इति ।।


`विवक्ष्यते' इत्यनेन सकृदनेकेषां तदाभावाद् द्वितीयासप्तम्यादेरवकाशं सूचयति।
</3-2-2-1>
<3-2-2-2> कर्ता शास्त्रार्थेति उत्तरमीमांसाधिकरणविरोधपरिहारः
नचैवम् "कर्त्ता शास्त्रार्थवत्त्वात्" (ब्रo सूo 2-3-33) इत्युत्तरमीमांसाधिकरणे "शक्तिविपर्य्ययात्" इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्य्ययापत्तिरुक्ता न युज्येतेति वाच्यम्, "तदेवैतेषां प्राणानां विज्ञानेन विज्ञानमादाय" इति श्रुत्यन्तरे करणतया क्लृप्तस्य कर्तृतां प्रकल्प्य शक्तिविपर्य्ययापत्तिर्निष्प्रमाणा कल्प्येतेत्यभिप्रायात्।

वस्तुतस्तु अभ्युच्चयमात्रमेतदिति "यथा च तक्षोभयथा" (ब्रo सूo 2-3-40) इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपञ्चितं भूषणे।।
</3-2-2-2>
</3-2-2>
</3-2>
<3-3> सप्तम्यर्थः
सप्तम्या अप्याश्रयोऽर्थः। "सप्तम्यधिकरणे च" (पाo सूo 2-3-36) इत्यधिकरणे सप्तमी। तच्च "आधारोऽधिकरणम्" (पाo सूo 1-4-45) इति सूत्रादाधारः। तत्त्वञ्चाश्रयत्वम्। तत्राश्रयांशः शक्यः, तत्त्वमवच्छेदकम्। नचाश्रयत्वमात्रेण कर्मकर्त्तृकरणानामाधारसंज्ञा स्यात्, स्यादेव, यदि ताभिरस्या न बाधः स्यात्।
<3-3-1>कर्तृकर्मद्वारा क्रियाश्रयस्य सप्तम्यर्थता

"कारके" (पाo सूo 1-4-23) इत्यधिकृत्य विहितसप्तम्याः क्रियाश्रय इत्येव यद्यपि तात्पर्य्यम्, तथाप्यत्र च कर्त्तृकर्म्मद्वारा तदाश्रयत्वमस्त्येव(नचैवमपि साङ्कर्यमेव स्यादिति वाच्यम्, निरूपकभेदेन भेदात्। फलनिरूपिताधारो द्वितीयार्थः, व्यापारनिरूपितस्तु तृतीयार्थः, कर्तृकर्मव्यापारफलनिरूपितः सप्तम्यर्थः)स्थाल्यादेर्भूतलकटादेश्चेति, `स्थाल्यां पचति' `भूतले वसति' ` कटे शेते' इत्याद्युपपद्यते।
 उक्तञ्च वाक्यपदीये-

कर्त्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्।। इति।
</3-3-1>
<3-3-2>आधारस्य त्रैविध्यम्

एतच्च त्रिविधम् औपश्लेषिकम्, वैषयिकम्, अभिव्यापकञ्च। `कटे शेते' ` गुरौ वसति' `मोक्षे इच्छास्ति' `तिलेषु तैलम्' इति। एतच्च "संहितायाम्" (पाo सूo 6-1-72) इति सूत्रे भाष्ये स्पष्टम्।
</3-3-2>
</3-3>
<3-4>पञ्चम्यर्थ:

अवधिः पञ्चम्यर्थः, "अपादाने पञ्चमी" (पाo सूo 2-3-29) इति सूत्रात्। तच्च "ध्रुवमपायेऽपादानम्" (पाo सूo 1-4-24) इति सूत्रात् अपायः=विश्लेषस्तज्जनकक्रिया, तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः।
<3-4-1>वाक्यपदीयदिशा अवधेः लक्षणम्
 
  उक्तञ्च वाक्यपदीये-

अपाये यदुदासीनं चलं वा यदि वाऽचलम्।
ध्रुवमेवातदावेशात्तदपादानमुच्यते।।
पततो ध्रुव एवाश्वो यस्मादश्वात् पतत्यसौ।
तस्याप्यश्वस्य पतने कुडयादि ध्रुवमुच्यते।।
उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्म्मजे (के)।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते (व्यवस्थिते)।।
मेषान्तरक्रियापेक्षमवधित्वं पृथक्‌ पृथक्।
मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक्।। इति।

अस्यार्थः-अपाये=विश्लेषहेतुक्रियायाम्, उदासीनाम्=अनाश्रयः, अतदावेशात्=तत्क्रियानाश्रयत्वात्। एवञ्च ` विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वम्' फलितम्। `वृक्षात् पर्णं पतति' इत्यत्र पर्णस्य तद्वारणाय सत्यन्तम्।

`धावतोऽश्वात्, पतति' इत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहेत्विति। ` कुडयात् पततोऽश्वात् पतति' इत्यत्राश्वस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह-यस्मादश्वादिति। तद्वीश्लेषहेतुक्रियानाश्रयत्वे सतीति विशेषणीयमिति भावः। एवमश्वनिष्ठक्रियानाश्रयत्वात् कुडयादेरपि ध्रुवत्वमित्याह-तस्यापीति।

उभयकर्मजविभागस्थले विभागस्यैक्यात् तद्विश्लेषजनकक्रियानाश्रयत्वाभावात् ` परस्परान्मेषावपसरतः' इति न स्यादित्याशङ्कय समाधत्ते-उभावपीति। मेषान्तरेति-यथा निश्चलमेषादपसरद्‌द्वितीयमेषस्थले निश्चलमेषस्यापसरन्मेषक्रियामादाय ध्रुवत्वम्, तथात्रापि विभागैक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति। तथाच ` विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तत्क्रियायामपादानत्वम्' वाच्यम्। क्रिया चात्र धात्वर्थः नतु स्पन्दः। तेन वृक्षकर्म्मजविभागवति वस्त्रे, `वृक्षाद् वस्त्रं पतति' इति सङ्गच्छते।
</3-4-1>
<3-4-2>पूर्वोक्तलक्षणस्य विभक्तिवाच्यत्वाभावबोधनम्
वस्तुतो नैतावत् पञ्चम्या वाच्यम्,किन्तु अवधेर्लक्षणमात्रम्, द्वितीयार्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासम्भवेन वाच्यकोटौ प्रवेशस्य गौरवेणासम्भवाद् इति तु प्रतीभाति। नचैवमपि `वृक्षात् स्यान्दते' इति स्यादिति शङ्कयम्, `आसनाच्चलितः' `राज्याच्चलितः' इतिवद् इष्टत्वात्। एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेर्हेतुत्वमिति समाधानाभासोऽप्यपास्तः।

नचैवमपि `वृक्षात् त्यजति' इति दुर्वारम्, कर्मसंज्ञया अपादानसंज्ञायाः बाधेन पञ्चम्यसम्भवात्। भ्रमात् कृते तथा प्रयोगे यदि बोधाभावोऽनुभवसिद्धस्तर्हि पञ्चमीजन्यापादानत्वबोधे त्यजादिभिन्नधातुजन्यबुद्धेर्हेतुत्वं वाच्यम्। `बलाहकाद् विद्योतते' इत्यादौ निःसृत्येत्यध्याहार्य्यम्। `रूपं रसात् पृथक्' इत्यत्र तु
बुद्धिपरिकल्पितमपादानत्वं द्रष्टव्यम्, पृथग्विनेति पञ्चमी वा ।
</3-4-2>
<3-4-3>अपादानत्रैविध्यम्
 इदञ्च-
निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।
अपेक्षितक्रियञ्चेति त्रिधाऽपादानमुच्यते।।

इति वाक्यपदीयात् त्रिविधम्। `यत्र साक्षाद्धातुना गतिर्निर्दिश्यते तन्निर्दिष्टविषयम्'। यथा `अश्वात् पतति'। `यत्र धात्वन्तरार्थाङ्गं स्वार्थं धातुराह तदुपात्तविषयम्'। यथा-`बलाहकाद् विद्योतते'। निःसरणाङ्गे विद्योतने द्युतिर्वर्त्तते। अपेक्षिता क्रिया यत्र तदन्त्यम्। यथा-`कुतो भवान्' `पाटलिपुत्रात्'। अत्रगमनमर्थमध्याहृत्यान्वयः कार्य्यः।
</3-4-3>
</3-4>
<3-5>चतुर्थ्यर्थः

उद्देश्यश्चतुर्थ्यर्थः। तथाहि-`सम्प्रदाने चतुर्थी'(पा सू 2-3-13) तच्च "कर्मणा यमभिप्रैति स सम्प्रदानम्" (पाo सूo 1-4-32) इति सूत्रात् कर्मणा=करणभूतेन यमभिप्रैति=ईप्सति तत् कारकं सम्प्रदानमित्यर्थकादुद्देश्यम्।

  इदमेव शेषित्वम्। तदुद्देश्यकेच्छाविषयत्वं च शेषत्वमित्येव पूर्वतन्त्रे निरूपितम्। अत एव "प्रासनवन्मैत्रावरुणाय दण्डप्रदानम्" (अo 4 पाo 2 अo 6)इत्यधिकरणे 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति' इति विहितं दण्डदानं न प्रतिपत्तिः, किन्तु चतुर्थीश्रुत्यार्थकर्मेति तत्र निर्णीतम्। `रजकाय वस्त्रं ददाति' इत्यपि `खण्डिको पाध्यायः शिष्याय चपेटां ददाति' इति भाष्योदाहरणादिष्टमेव।

वृत्तिकारास्तु-सम्यक् प्रदीयते यस्मै तत् सम्प्रदानमित्यन्वर्थसंज्ञया स्वस्वत्वनिवृत्तिपर्यन्तमर्थं वर्णयन्तः `रजकस्य वस्त्रम्' इत्येवाहुः।
<3-5-1>सम्प्रदानत्रैविध्यम्
इदञ्च-

अनिराकरणात् कर्त्तुस्त्यागङ्गं कर्मणेप्सितम्।
प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम्।।

इति वाक्यपदीयात् त्रिविधम्। "सूर्यायार्ध्यं ददाति" इत्याद्यम्। नात्र सूर्यः प्रार्थयते, नानुमन्यते, न निराकरोति। प्रेरकम्-"विप्राय गां ददाति"। अनुमन्तृ-"उपाध्यायाय गां ददाति"।
</3-5-1>
</3-5>
<3-6>विभक्तीनाम् धर्मिवाचकत्वव्यवस्थापनम्
अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः, विभक्तीनां धर्मिवाचकत्वात्, धर्ममात्रवाचकत्वे "कर्मणि द्वितीया" (पाo सूo 2-3-2) इति सूत्रस्वारसभङ्गापत्तेः, कर्मार्थककृत्तद्धितादौ तथादर्शनाच्च, द्वितीयाद्यर्थकबहुव्रीहौ `प्राप्तोदकः' इत्यादौ धर्मिवाचकत्वलाभाच्च।

सुपां कर्मादयोऽप्यर्थाः सङ्खया चैव तथा तिङाम्।

इति भाष्याच्चेति दिक्।
</3-6>
<3-7>विभक्तीनाम् धर्मवाचकत्वपक्षः
आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यता, किन्त्वाश्रयत्वमात्रं वाच्यम्। तदेव च
तादात्म्येनावच्छेदकम्। करणतृतीयायाश्च व्यापारोऽपि, पञ्चम्या विभागमात्रम्, चतुर्थ्या उद्देश्यत्वमात्रम्।

अत एवाकृत्यधिकरणमपि न विरुद्धयत इत्यभिप्रेत्याह- शक्तिरेव वेति। षण्णामपीति शेषः। "शेषे पष्ठी" (पाo सूo 2-3-50) इति सूत्रात् तस्याः सम्बन्धमात्रं वाच्यम्। कारकषष्ठयास्तु शक्तिरेवेत्यलम्।

"सप्तमीपञ्चम्यौ कारकमध्ये" (पाo सूo 2-3-7) इति सूत्रे `शक्तिः कारकम्' इति पक्षस्य भाष्ये दर्शनात्। एवञ्च `देवदत्तस्य गौर्ब्राह्नणाय गेहाद् गङ्गायां हस्तेन मया दीयते' इत्यत्र देवदत्तसम्बन्धिनी या गौस्तदभिन्नाश्रयकत्यागानुकूलो ब्राह्नणोद्देस्यको गेहनिष्ठविभागजनको गङ्गाधिकरणको हस्तकरणको मन्निष्ठो व्यापार इति बोधः।यथायथम्=उक्तप्रकारेण।
</3-7>
<3-8>विभक्तौ लक्षणायाः अनौचित्यम्
अत्र मानमुपदर्शयन् `घटं जानाति' इत्यादौ द्वितीयाया विषयतायां लक्षणेति बह्वाकुलं वदतो नैयायिकादीन् प्रत्याह-सूपां कर्मेति।

अयं भावः--

सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ।।

वार्त्तिकतद्भाष्याभ्यां कर्मादेर्वाच्यतायास्तन्नियमस्य च लाभः।

तथाहि-"स्वौजसमौट्" (पाo सूo 4-1-2) "कर्मणि द्वितीया" (पाo सूo 2-3-2) इति "द्वयोकयोर्द्विवचनैकवचने" (पाo सूo 1-4-22) इत्यादेः; (लः कर्मणिच) "लस्य" (पाo सूo 3-4-77) "तिप्‌तस्‌झि" (पाo सूo 3-4-79) "तान्येकवचनद्विवचन" (पाo सूo 1-4-101) इत्यादेरेकवाक्यतया कर्मादेस्तत्सङ्ख्यायाश्च वाच्यता लभ्यते। तथा तन्नियमश्च द्विविधो लभ्यते-द्वितीया कर्मण्येव, तृतीया करण एवेत्येवमादिः शब्दनियमः। कर्मणि द्वितीयैव, करणे तृतीयैवेत्येवमर्थनियमश्च। उभयथापि सिद्धनियमविरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति याज्ञे कर्मणि "नानृतं वदेत्" इति निषेधविषयो भवत्येवेति स्वेच्छया लक्षणाऽपि विभक्तावप्रयोजिकैव। अत एव विभक्तौ न लक्षणा' इत्यादिर्नैयायिकवृद्धानां व्यवहार इति दिक् ।। 24 ।।
</3-8>
इति श्रीवैयाकरणभूषणसारे सुबर्थनिर्णयः ।। 3 ।।
</3-0>
************