वैयाकरणभूषणसारः/स्फोटनिर्णयः (कारिका ६१-७४)

<14.0>

।। अथ स्फोटनिरूपणम् ।।
<14.1>वाक्यस्फोटस्यैव मुख्यत्त्वमिति सिद्धान्तः
सिद्धान्तनिष्कर्षमाह-

वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः।


यद्यपि वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटौ, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकम्, दुरर्थकञ्च, तथाऽपि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम्। एतदेव ध्वनयति-अतिनिष्कर्ष इति- इति मतस्थितिर्वैयाकरणानाम्=महाभाष्यकारादीनाम्।
</14.1>
<14.2> वर्णस्फोटनिरूपणम्
 तत्र क्रमेण सर्वांस्तान् निरूपयन् वर्णस्फोटं प्रथममाह-सादुशब्द इति-साधुशब्दान्तर्गता वाचका नवेति विप्रतिपत्तिः।
      साधुशब्दान्तर्गता वाचकाः नतु तैः स्मृताः ।। 61 ।।
2 विधिकोटिरन्येषाम्, नेति वैयाकरणानाम्। साधुशब्दे `पचति' `रामः' इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्विसर्गादय एव बोधकाः=वाचकाः, तस्यैव शक्तत्वस्य प्राग्व्यवस्थापितत्वात्। नतुतैः स्मृताः लादयः, स्वादयश्चेत्यर्थः । 61 ।
<14.2.1>प्रयोगान्तर्गतानां न वाचकत्वमिति पूर्वपक्षः
ये तु प्रयोगान्तर्गतास्तिब्विसर्गादयो न वाचकाः, तेषां बहुत्वेन शक्तयानन्त्यापत्तेः, `एधाञ्चक्रे' `ब्रह्म' इत्यादावादेशलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च। किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः, लत्वस्य जातिरूपतया शक्तताऽवच्छेदकत्वौचित्यात्, अव्यभिचाराच्च। आदेशानां भिन्नतया परस्परव्यभिचरितत्वात्। लः कर्मणीत्याद्यनुशासनानुगुण्याच्च। नह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः।
</14.2.1>
<14.2.2>प्रयोगान्तर्गतानां वाचकत्वसमर्थनम्
 तान् स्वसाधकयुक्तिभिर्निराचष्टे-
 
व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा।
किञ्चाऽख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ।। 62 ।।
कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय।

व्यवस्थानुरोधात् प्रयोगान्तर्गता एव वाचकाः, नतु तैः स्मृता इत्यर्थः। तथाहि-पचतीत्यादौ लकारमविदुषो
बोधान्न तस्य वाचकत्वम्। नच तेषां तिङ्‌क्षु शक्तिभ्रमाद् बोधः, तस्य भ्रमत्वे मानाभावात्, आदेशिनामपि तत्तद्‌वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात्, कः शक्तः को नेति व्यवस्थानापत्तेश्च। सर्वेषां शक्तत्वे गौरवम्, व्यभिचारश्चास्त्येव। आदेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम्। तथाचादेशिस्मरणकल्पना नेति लाघवम्।
 साधकान्तरमाह-व्यवहृतेरिति ।। व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः। स च श्रूयमाणतिङादिष्वेवेति ते एव वाचका इत्यर्थः। किञ्च तद्धेतुन्यायत इति--

लकारस्य बोधकत्वे `भू ल्' इत्यतोऽपि बोधापत्तिः स्यात्। तादृशबोधे भवतीति समभिव्याहारोऽपि कारणमिति चेत्, तर्ह्यावशयकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः।

अन्यथा लकारस्य वाचकत्वम्, समभिव्याहारस्य कारणत्वञ्चेत्युभयं कल्प्यमिति गौरवं स्यात्। तथाच ?तादृशसमभिव्याहृता वर्णावेत्यत्र विनिगमनाविरहात् प्रयोगान्तर्गतावर्णा वाचका इति सिद्धयतीति भावः।

अपिच लकारस्यैव वाचकत्वे कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्था त्वत्सिद्धान्तसिद्धा न स्यादित्याह-किञ्चेति-आदेशानां वाचकत्वे च तिङ्‌त्वेन भावनायाम्, शानचादिना कर्त्तरि शक्तिरित्युपपद्यते विभाग इति भावः। नच शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु, "कर्त्तरि कृत्" इत्यनुशासनादिति शङ्कयम्, स्थान्यर्थेन निराकाङ्‌क्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेः। अन्यथा घञादावपि प्रवर्त्तेत ।। 62 ।।
</14.2.2>
<14.2.3>सामानाधिकरण्यानुरोधात् शानचः कर्त्रर्थकत्वम् इति शङ्कानिरासः
`देवदत्तः पचमानः' इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादित्याशङ्क्याह-

तरबाद्यन्ततिङ्‌क्ष्वस्ति नामता कृत्स्विव स्फुटा ।। 63 ।।
नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्य्यताम्।

`पचतितरां मैत्रः' `पचतिकल्पं मैत्रः' इत्यादिषु नामार्थत्वाभेदान्वययोः सम्भव एवेति कर्तृवाचकता स्यादिति भावः। नच पचतिकल्पमित्यत्र सामानाधिकरण्यानुरोधात् कर्त्तरि लक्षणा, `पचमानः' इत्यत्राप्यापत्तेरिति।

लः कर्मणीत्यनुशासनञ्च लाघवात् कल्पिते लकारे कर्त्रादिवाचित्वं कल्पितमादायेत्युक्तम् ।। 63 ।।
</14.2.3>

 इति वर्णस्फोटनिरूपणम्।।
</14.2>
<14.3>पदस्फोटनिरूपणम्
<14.3>सखण्डपदस्फोटनिरूपणम्(शक्तं पदमिति पारिभाषिकपदस्फोटनिरूपणम्)
अथादेशा वाचकाश्चेत् पदस्फोटस्ततः स्फुटः ।। 64 ।।

एवमादेशानां वाचकत्वे सिद्धे पदस्फोटोऽपि सिद्ध एवेत्याह-अथेत्यादि। आदेशाः=तिब्विसर्गादयः। अयं भावः-समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकता सिद्ध्यति, प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात्, प्रत्येकं वर्णानामर्थवत्त्वे प्रातिपदिकत्वाऽपत्तौ "न लोपः प्रातिपदिकान्तस्य" इत्यादिभिः `धनम्' `वनम्' इत्यादौ नलोपाद्यापत्तेश्च।

एतच्च चरमवर्णे एव वाचकत्वशक्तिः, शक्तेर्व्यासज्यवृत्तित्वे मानाभावात्। पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णास्फोटवादिनां मतान्तरस्य दूषणायोक्तम्। रामोऽस्तीति वक्तव्ये राम् इत्यनन्तरं घटिकोत्तरमोकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूर्व्या एव शक्तताऽवच्छेदकत्वैचित्यादिति दिक् ।। 64 ।।
</14.3>
<14.4>अखण्डपदस्फोटनिरूपणम्(सुप्तिङन्तं पदमिति पारिभाषिकपदस्फोटनिरूपणम्)

`सुप्तिङन्तं पदम्' इति पारिभाषिकपदस्य वाचकत्वस्वीकर्त्तॄणां मतमाह-

घटेनेत्यादिषु नहि प्रकृत्यादिभिदा स्थिता।
वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ।। 65 ।।

घटेनेत्यादौ `घटे' इति प्रकृतिः, `न' इति प्रत्ययः, `घट्' इति प्रकृतिः, `एन' प्रत्यय इति विभागस्य, `सर्वे सर्वपदादेशाः' इति स्वीकारे विशिष्य प्रकृतिप्रत्यययोर्ज्ञानासम्भवान्न वाचकत्वमित्यर्थः। वैयाकरणौर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह-वस्नसादाविति-`बहुवचनस्य वस्नसौ' इति समुदायस्याऽऽदेशविधानान्नात्र तद्विभागः सम्भवतीत्यर्थः ।। 65 ।।
</14.4>
<14.5>सखण्डवाक्यस्फोटनिरूपणम्(सुप्तिङन्तचयरूपवाक्यस्फोटनिरूपणम्)

सुप्तिङन्तचयरूपवाक्यस्यापि तदाह--

हरेऽवेत्यादि दृष्ट्‌वा च वाक्यस्फोटं विनिश्चिनु।
अर्थे विशिष्यसम्बन्धाग्रहणं चेत् समं पदे ।। 66 ।।
लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत् तथा।


`हरेऽव' विष्णोऽव इत्यादौ पदयोः "एङः पदान्तादति" इत्येकादेशे सति न तद्विभागः सुज्ञानः। तथाच प्रत्येकं पदाज्ञानेऽपि समुदायशक्तिज्ञानाच्छाब्दबोधात् समुदायेऽप्यावशियकी शक्तिः। एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या बोधात् तत्राप्यावश्यिकैव शक्तिरिति भावः। वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ। अन्यथा `घटः कर्मत्वमानयनं कृतिः' इत्यादौ तादृशब्युत्पत्तिरहितस्यापि बोधप्रसङ्गः। `घटमानय' इत्यत्रेव पदार्थानामुपस्थितौ सत्यपि तात्पर्य्यज्ञाने बोधाभावाच्च। तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरं कर्म्मत्ववाचकविभक्तेस्ततो धातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्य्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः, घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकार्य्यकारणभावस्येव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात्, अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात्।

युक्तञ्चैतत्-विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धेः। विवेचितञ्चैतद् भूषणे।
</14.5>
<14.6>वाक्यशक्तिसाधनम्
ननु वाक्यार्थस्यापूर्वत्वात् कथं तत्र शक्तिग्रह इत्याशङ्कयाह-अर्थ इति-वाक्यस्येति शेषः। वाक्यस्य वाक्यार्थे विशिष्य शक्तयग्रहणञ्चेत्तर्हि पदेऽप समम्। पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्‌ग्रहासम्भवस्तुल्य इत्यर्थः। यदि च पदशक्तिः पदार्थांशे ज्ञाता, अन्वयांशे चाज्ञातोपयुज्यत इति कुब्जशक्तिवादस्तदा ममापि वाक्यस्य शक्तितरज्ञातैवोपयुज्यत इति वादाभ्युपगमस्तुल्य इति भावः। ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्‌ग्रह इति चेत्, तुल्यमित्याह-लक्षणादिति-लक्ष्यते=तर्क्यतेऽनेनेति लक्षणम्=मनस्तस्मात्। अपिपदं पदपदोत्तरं बोध्यम्। पदेऽपि लक्षणात्तदग्रहश्चेत्तर्ह्यस्तु वाक्येऽपीति शेषः। वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्‌ग्रहः। आपापोद्वापाभ्यां परं प्रत्येकं तद्‌ग्रह इति बोध्यम् ।। 66 ।।
<14.6.1>वाक्यशक्तौ मीमांसकादिसम्मतिः
इयमेव मीमांसकानां वेदान्तैकदेशिनाञ्च गतिरित्याह--

सर्वत्रैव हि[च] वाक्यार्थो लक्ष्य एवेति ये विदुः।
भाट्टास्तेऽपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ।। 67 ।।

भाट्टाइति-इति तदनुयायिनां वाचस्पति-कल्पतरुप्रभृतीनामुपलक्षणम्। ननूक्तपक्षद्वयमनुपपन्नम्, उत्पत्ते रभिव्यक्तेर्वैकदाऽसम्भवेन उत्पन्नानामभिव्यक्तानां वर्णसमूहरूपपदज्ञानासम्भवात्। तथाच सुतरां तत्समूहरूपवाक्यज्ञानासम्भव इति चेन्न, उत्तरवर्णप्रत्यक्षसमये तस्मिन्नव्यवहितोत्तरत्वसम्बन्धेनोपस्थितपूर्ववर्णावत्त्वम्, तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वोघटितपदत्वस्येव वाक्यत्वस्यापि सुग्रहत्वात् ।। 67 ।।

</14.6.1>
</14.6>
<14.7>अखण्डवाक्यस्फोटनिरूपणम्
इदानीमखण्डपक्षमाह-

पदे न वर्णा विद्यन्ते वर्णोष्ववयवा नच।
वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ।। 68 ।।

पदे=पचतीत्यादौ, न वर्णाः, नातो वर्णसमूहः पदमिति शेषः। दृष्टान्तव्याजेनाह-वर्णेष्विति-एकारौकारॠकारादिवर्णोऽष्ववयवाः प्रतीयमाना अपि यथा नेत्यर्थः। क्वचिदिवेत्येव पाठः। एवं वाक्येऽप्याह-वाक्यादिति। पदानामपि वाक्याद्विवेकः=भेदो नास्तीत्यर्थः।
 अयं भावः-वाक्यम्, पदञ्चाखण्डमेव, नतु वर्णसमूहः, अनन्तवर्णकल्पने मानाभावात्। तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकतायाः, व्याञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात्। स्पष्टं हि भामत्याम्-"तारत्वादि वायुनिष्ठं वर्णोष्वारोप्यते" इत्युक्तं देवताधिकरणे। नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम्, प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथाच वाचकत्वान्यथानुपपत्त्या तदेवेदं पदम्, `तदेवेदं वाक्यम्' सोऽयं गकारः, इति प्रतीत्या च स्फोटोऽखण्डः सिद्धयति। एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभवाच्छ्रूयमाणवर्णानामेव वाचकत्वमस्तीत्यपास्तम्। तेषां स्फोटातिरिक्तत्वाभावात्।
<14.7.1>कैयटखण्डनम्
 यत्तु वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः। समुदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव। पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरो-रसः, राज-जरा, नदी-दीनादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभिव्यङ्ग्यो वाचक इति कैयटः, तत्तुच्छम्, पदज्ञानसम्भवस्योपपादितत्वात्। वर्णानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेत्यादिविकल्पग्रासाच्च।
</14.7.1>
<14.7.2>स्वमतसमर्थनम्
ननु त्वन्मतेऽप्येष दोषः। तत्तद्वर्णोपादकत्वेनाभिमतवायुसंयोगानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सद्भावादिति चेत्। उच्यते। प्रत्येकमेव संयोगा अभिव्यञ्जकाः, परन्तु केचिद् गत्वेन, केचिदौत्वेन केचिद्विसर्गत्वेनेत्यनेकैः प्रकारैः। अत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते। एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते। एतादृशपदज्ञानकारणताया अविवादात्। परन्त्वव्यहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम्। अत एव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीत्यादिर्नैयायिकवृद्धानां व्यवहारः। एवञ्च न कश्चिद्दोषः।
</14.7.2>
<14.7.3>परिमलखण्डनम्
            एतेन पर्य्यायस्थलेष्वेक एव स्फोटो नाना वा? नाद्यः, घटपदे एव गृहीतशक्तिकस्य कलशादेर्बोधप्रसङ्गात् । नच तत्पर्य्यायाभिव्यक्ते शक्तिग्रहस्तत्पर्य्यायश्रवणेऽर्थधीहेतुरिति वाच्यम्, एवं सति प्रतिपर्य्यायं शक्तिग्रहावश्यम्भावेन तत्तत्पर्य्यायगतशक्तिग्रहहेतुताया उचितत्वात्। तथा सति शक्तिग्रहत्वेनैव हेतुत्वे लाघवात्। अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिग्रहत्वेन तत्त्वे गौरवात्। न द्वितीयः, अनन्तपदानां तेषां शक्तिकल्पनापेक्षया क्लृप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादिति परिमलोक्तमपास्तम्। पर्य्यायेष्वनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात्, तदवच्छेदकानुपूर्व्याः प्रागुपपादनादिति दिक्।
</14.7.3>
<14.7.4>शब्दकौस्तुभे दीक्षितमतम्
 शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटः। अन्यथा कपालातिरिक्त घटाद्यसिद्धिप्रसङ्गश्चेति प्रतिपादितम् ।। 68 ।।
</14.7.4>
<14.7.5>अखण्डस्फोटपक्षे शास्त्रप्रामाण्यसमर्थनम्

नन्वेवं शास्त्रस्याप्रामाण्यप्रसङ्गः, पदस्याखण्डत्वात्, शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते-

पञ्चकोशादिवत्तस्मात् कल्पनैषा समाश्रिता।
          उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ।। 69 ।।

उपेयप्रतिपत्त्यर्था इत्यन्तेनान्वयः। अयं भावः-यथा भृगुवल्याम् "भृगुर्वै वारुणि र्वरुणं ब्रह्म पृष्टवान्। स उवाच `अन्नम्' इति, तस्योत्पत्त्यादिकं बुद्‌ध्वा पृष्टे-प्राणमनोविज्ञानाऽनन्दात्मकपञ्चकोशोत्तरं " ब्रह्मपुच्छं प्रतिष्ठा" इति ज्ञेयं ब्रह्म प्रतिपादितम्। तत्र कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय। यथा वा आनन्दवल्लीस्थपञ्चकोशव्युत्पादनं वास्तवशुद्धब्रह्मबोधनाय। एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति।
 ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसम्भवात् न शास्त्रं तदुपाय इत्यत आह-उपाया इति-उपायस्योपायान्तरादूषकत्वात्। तथाच व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते। मन्त्रजन्यमिवार्थस्मरणे।
वेदान्तजन्यमिव ब्रह्मज्ञाने। तस्य च ज्ञानस्य यज्ञादीनामन्तःकरणशुद्धाविव शरीरादिशुद्धावुपयोगः, साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वञ्च।
 तदुक्तं वाक्यपदीये-
            तद्‌द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।
            पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते।।
            इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
            इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः।।
            अत्रातीतविपर्यासः केवलामनुपश्यति।। इति।

नचालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः, तस्या अलीकत्वासिद्धेर्वक्ष्यमाणत्वात्। एवम्`रेखागवयन्यायः' आदिपदेन गृह्यते ।। 69 ।।
 
ननु स्फोटस्य वर्णजातीनाञ्च नित्यतया ककार उत्पन्न इति न स्यात्। वायुसंयोगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत आह-
        कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि।
        स्वरदैर्घ्याद्यपि ह्यन्ये वर्णोभ्योऽन्यस्य मन्वते ।। 70 ।।
 
?B स्वीकारस्थलमाह-स्वरदैर्घ्याद्यपीति। आदिनोत्पत्तिविनाशसंग्रहः। उदात्तत्वादि न वर्णनिष्ठम्, तस्यैकत्वात्, नित्यत्वाच्च। तच्च, स एवायमिति प्रत्यभिज्ञानात्। नच गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः। व्यक्तयंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगत्। नचोत्पत्तिप्रतितिर्बाधिका, प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्वर्णोष्वनुभवविरुद्धत्वात्। अत एव वर्णमुच्चारयतीति प्रत्ययः, नतूत्पादयतीति प्रत्ययोव्यवहारश्च। उच्चरितत्वञ्च-ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम्। किञ्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाऽप्युपत्तेर्न साऽतिरिक्तवर्णसाधिका। परम्परया वर्णानिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम्। साक्षात्सम्बन्धाशे भ्रम इत्यविशिष्यते।

तदपि सोऽयमित्यत्र व्यक्तयभेदांशे तव भ्रमत्ववत्तुल्यम्। परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते। नच वर्णस्थले ध्वनिसत्त्वे मानाभावः, तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम्, ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तेर्ध्वन्युत्पत्तेश्च दर्शनात्, जिह्वाभिघातजवायुकण्ठसंयोगादेर्ध्वानिजनकत्वल्पनात्। तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिबन्ध्यप्रतिबन्धकभावकल्पना निष्प्रमाणिकी स्यादिति विपरीतगौपवम्। एवं परस्परविरोधादुदात्तत्वानुदात्तत्वह्वस्वत्वदीर्घत्वादिकमपि न वर्णतिष्ठं युक्तमिति तेषामभिप्रायः। एवञ्चोत्पत्त्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परोषमपि समान इति प्रतिबन्द्यैवोत्तरमिति भावः ।। 70 ।।

इत्थञ्च पञ्चधा व्यक्तिस्फोटाः।
</14.7.5>
<14.8> जातिस्फोटनिरूपणम्
 जातिस्फोटमाह--

शक्यत्व३ इव शक्तत्वे जातेर्लाघवमीक्ष्यताम्।
        औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ।। 71 ।।

अयं भावः-वर्णास्तावदावश्यकाः। उक्तरीत्या च `सोऽयं गकारः' इतिवत्, योऽयं गकारः श्रुतः सोऽयं हकार इत्यपि स्यात्, स्फोटस्यैकत्वात्, गकारोऽयं न हकार इत्यनापत्तेश्च। किञ्च स्फोटे गत्वाद्यभ्युपेयम्, न वा ? आद्ये तदेव गकारोऽस्तु। वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात्। तथाचातिरिक्तस्फोटकल्पने एव गौपवम्। अन्त्ये-गकारादिप्रतीतिविरोधः। वायुसंयोगवृत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न, प्रतीतेर्विना बाधकं भ्रमत्वायोगात। अस्तु वा वायुसंयोग एव गकारोऽपि। तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन। तस्मात् सन्त्येव वर्णाः, परन्तु न वाचकाः, गौरवात्, आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकस्यापि युक्तत्वाच्च।

इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात्। नच वर्णानुपूर्व्यैव प्रतीत्यवच्छेदकत्वयोर्निर्वाहः, घटघटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्धयापत्तेः।

तस्मात् सा जातिरेव वाचिका, तादात्म्येनावच्छेदिका चेति। ननु सरो रस इत्यादौ तयोर्जात्योः सत्त्वादर्थबोधभेदो न स्यादित्यत आह-औपाधिको वेति। वा त्वर्थे । उपाधिरानुपूर्व्वी, सैव जातिविशेषाभिव्यञ्जिकेति भेदः करणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः। उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह-वर्णानामिति ।। 71।।
  ननु जातेः प्रत्येकं वर्णोष्वपि सत्त्वात् प्रत्येकादर्थबोधापत्तिः स्यादित्यत आह
       अनेकव्यक्तयभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
       कैश्चत् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।।72 ।।

अनेकाभिर्वर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता। योगार्थतया बोधिकेति यावत्। एतेन स्फोटस्य नित्यत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम्।
 अयं भावः - यद्यपि वर्णस्फोटपक्षे उक्तदोषोऽस्ति। तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति कैश्चित् व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः। उक्तं हि काव्यप्रकाशे-"बुधैर्वैयाकरणौः प्रधानीभूतस्फोटरूपव्यङ्गयव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः" इति ।। 72 ।।
<14.8.2>जातिनिरूपणम्
ननु का सा जातिस्तत्राह-
        सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ।
        सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ।। 73 ।।
 प्रतिभावम्=प्रतिपदार्थम्। सत्यांशो जातिः, असत्या व्यक्तयः। तत्तद्‌व्यक्तिविशिष्टब्रह्मैव जातिरिति भावः। उक्तञ्च कैयटेन "असत्योपाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्दवाच्यमित्यर्थः" इति। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भाति" इति च । कथं तर्हि, ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्वादनित्यत्वम्, "आत्मैवेदं सर्वम्' इति श्रुतिवचनादिति कैयटः सङ्गच्छताम्। अविद्या आविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्टव्यम् ।। 73 ।।
</14.8.2>
</14.8>
 तमेव सत्यांशे स्पष्टयति-
इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम्।
        ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ।। 74 ।।

अयमर्थः-"नामरूपे व्याकरवाणि" इति श्रुतिसिद्धा द्वयी सृष्टिः। तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम्। प्रक्रियांशस्त्वविद्याविजृम्भणमात्रम्। उक्तञ्च
वाक्यपदीये-
          शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते।
         समारम्भस्तु भावानामनादि ब्रह्म शाश्वतम् ।। इति ।।

ब्रह्मैवेत्यनेन "अत्रायं पुरुषः स्वयञ्ज्योतिः" "तमेव भान्तमनुभाति सर्वम्" " तस्य भासा सर्वमिदं विभाति" इति श्रुतिसिद्धस्वपरप्रकाशत्वं सूचयन् स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति। निर्विघ्नप्रचारायान्ते मङ्गलं स्तुतिनतिरूपमाह-पूर्णात्मने इत्यादिना ।। 74 ।।

अशेषफलदातारमपि सर्वेश्वरं गुरुम्।
           श्रीमद्भूषणसारेण भूषये शेषभूषणम् ।। 1 ।।

भट्टोजीदीक्षितैः श्रेष्ठैर्निर्मिताः कारिकाः शुभाः।
         कौण्डभट्टेन व्याख्याताः कारिकास्ताः सुविस्तरम् ।। 2 ।।

इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणरङ्गोजिभट्टाऽत्मजकौण्डभट्टकृते वैयाकरणभूषणसारे स्फोटवादः ।
</14.0>
समाप्तोऽयं ग्रन्थश्च ।।