वैयाकरणभूषणसारः (काशिकाटीकासहितः)/धात्वर्थनिर्णयः

वैयाकरणभूषणसारः (काशिकाटीकासहितः)
धात्वर्थनिर्णयः
[[लेखकः :|]]

वैयाकरणभूषणसारः ।

  • श्रीहरिभट्टकृता काशिका टीका *

मं,श्लो.1 : वन्दे गणपतिचरणौ विघ्नध्वान्तालिवारणो(णौ)द्योतौ ।
   वन्द्यौ सुरगणसङवैः सर्वाभीष्टप्रदातारौ(फलदातारौ) ।। 1 ।।
भैरवं शंकरीं नत्वा सिद्धेशां लोकमातरम् ।
व्याख्यां भूषणसारस्य काशिकां तनुते हरिः ।। 2 ।।
मुनित्रयं सर्वजनोपकारकं प्रणौमि विद्यार्णवपात्रभूतान् ।
गुरूंश्च तातं विबधेन्द्रवन्द्यं यशःप्रकाशं जननीं च देवीम् ।। 3 ।।

प्रारिप्सितग्रन्थस्य निर्विघ्नसमाप्तये कृतं तावत् सकलजगर्तृंभूतश्रीलक्ष्मीरमणस्तुत्या-
त्मकं मङ्गलं शिष्याशिक्षायै निबघ्नाति,__श्रीलक्ष्मीरणमिति । श्रीर्लोकोत्तरशोभा, तद्युक्ता या (श्री)महा-

लक्ष्मीर्निखिलप्रकृतिस्तस्या रमणं = कयितं विष्णुं, नौमि = स्तौमोत्यर्थः । यद्वा,__श्रीः पूर्वोक्ता, नित्यत्वादिधर्मोपेता विलक्षणा वुद्धिर्वा, तद्युक्तो लक्ष्मीरमण इत्यर्थंः । अथवा ; श्रीः = सरस्वतो, सा च लक्ष्मीश्च, तयो रमण इत्यर्थः, 'श्रीश्च ते लक्ष्मोश्च पत्न्यौ' इति श्रुतेः, तत्र 'श्री' शब्देन सरस्वती, न तु लक्ष्मीः, लक्ष्मीशब्दस्य पृथुगुपादानात्, 'पत्न्यौ' इति द्विवचनासंगत्यापत्तेश्चेति स्पष्टमेव । ननु 'कुर्याद्धरिहरार्चनम्' इति वचनाद्,__'यथा विष्णुस्तथा शिवः ।'
" शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।
विष्णुरुद्रान्तरं यञ्च यो ब्रूते मूढधीस्तु सः ।। "
रौरवादिषु घोरेषु नरकेषु पतत्यधः ।। "
__इत्यादिवचनेभ्यश्चाभेदेनैवोपासनाया विहितत्वाद्विपरीतायाश्च निषेधात्, केवल- विष्णुस्तुतिकरणे च भेदभावना प्रतीयेतेति तदपनुत्तये(तदनुत्पत्तये)__लक्ष्मी- रमणविशेषणमाह,__गौरीति । गौरी = पार्वती, सा च कालिका,__
'तस्यां विनिर्गतार्या तु कृष्णाभूत् सापि पार्वती । कालिकेति समाख्याता '__

__इति मार्कण्डेयपुराणात्,'उमा कात्यायनी गौरी काली' इति कोशाञ्च । इत्थं च महाकाल्यादित्रयस्यापि स्तुतिः कृता भवति । तस्या रमणः शिवस्तस्य रूपं तदस्या-
स्तीत्यर्थः । गौरीरमणेन रूपयति तदभिन्नतया गृह्णातीति वार्थः , कर्मकर्तरि णिनिः । गौरीरमणं स्वाभिन्नतया रूपयति ग्राह्यतीति वार्थः(त्यर्थः) । पूर्वकल्पे(पक्षे) तद्धित इनिः, उत्तरपक्षे ' सुप्यजातौ__'इति णिनिः ।
स कः? एतद् दृश्यमानं सर्व जगत् यतः,=यस्य । अद्वयादित्वात्तसिः(आद्यारित्वा- दिति भवेत् ) । विवर्त्तते = विषयसत्ताकं भवति, अतात्त्विकान्यथाभावाश्रयो भवतीति वार्थः । तदुक्तम्, __'तात्त्विकोऽन्यथाभावः परिणामोऽतात्त्विकोऽन्यथाभावो विवर्तः 'इति । अन्यथाभावश्च भ्रम एव । तदाश्रयत्वं तु विषयतया जगति(विषये जगदिति) बोध्यम् । एतेन__जगतो विवर्ताधिष्ठानत्वरूपं सर्वजगदुपादानकारणत्वमुक्तं, तेन सर्वो- त्कृष्टतया स्तुत्यत्वमावेदितम् । तदुपादानत्वं च __ 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति ' इत्यादिश्रुतिसिद्धम् । एतच्छुतिसिद्धे __ जगत्-
 
स्थितिलयकर्तुत्वेऽपि__बोध्ये । जगतो विशेषणं स्फोटरूपं, स्फुटत्यस्मादिति __ स्फोटः, स च सिद्धान्ते ब्रह्मस्वरूप इति स्पष्टं हर्यादिग्रन्थे । तद्रूपं तदभिन्नभित्यर्थः । 'सर्वं खलु इदं ब्रह्म' इत्यादिश्रुतिसिद्धो ब्रह्माभेदः । लक्ष्मीरमणविशेषणं वैतत्(चैतत्), स्फोटस्य वैयाकरणोपास्यत्वेन समुचितदेवतास्तुतिसंपत्त्यर्थं तदुपादानम् ।। 1 ।।

मं,श्लो : 2
पाणिन्यादिमुनित्रयमध्ये इदानीमतिप्रामाणिकत्वोत्कृष्टत्वादिनाभिमतो यः शेषस्तद्विशिष्ट (तदिष्ट) देवसंकीर्तनात्मकं मङ्गलं निबध्नाति__अशेषफलेति । शेषाशेषार्थलाभाय, __शेषस्य =शेषनागस्य महाभाष्यकृतोऽशेषाः = कृत्स्नाः __वाच्यादयः, स्फुटा अस्फुटाश्च येऽर्था महाभाष्यस्थास्तेषां लाभाय = ज्ञानाय । शेषभूषणं,__शेषो भूषणमलंकारत्वेन, पर्यंकत्वेन *(वा) भूषणं यस्य तं__शिवं, शेषशायिनं विष्णुं च प्रार्थय इति संबन्धः ।

ननु शेषार्थलाभः शेषादेव संभवति, न तु शिवादेः, न हि देवदत्तीयार्थलाभो मित्रदत्तादेः । अतः शेष एव प्रार्थनीयो न तु शिवादिरित्याशंकां * निराचिकीर्षुस्त- द्विशेषणमाह, __ अशेषफलेति । अशेषाण्यैहिकामुष्मिकाण्यपवर्गपर्यन्तानि, फलानि = तत्तत्कर्मफलानि, तेषां दाता इति __ तृन्नन्तेन शेषषष्ठ्यन्तस्य समासः । यद्वा तृजन्तेन शेषषष्ठ्य(..न्तेन तस्य)न्तस्य समासः, एतेन __तृजन्तत्वे ' तृजकाभ्याम्- 'इतिसमास- प्रतिषेधापत्तिस्तृन्नन्तत्वे ' न लोक-- ' इति षष्ठीनिषेधापत्तिरिति दूषणं प्रत्युक्तं , कारकषष्ठ्या
एव 'न लोक__' इति निषेधात् , तस्या एव समासनिषेधाञ्च । फलदातृत्वं चेश्वरस्य__
'यादृगिव वैदेवेभ्यः करोति तादृगिवास्मै दैवाः कुर्वन्ति ',
'यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।।
स तया श्रद्धया युक्तस्तरयाराधनमीहते ।
लभते च ततः कामान् मयैव विहितान् हितान् ।। "
__इत्यादि श्रुतिस्मृतिपुराणेषु प्रसिद्धं__'वैषम्यनैर्घृण्ये न, सापेक्षत्वात्, तथा हि दर्शयति इति व्याससूत्रे द्वितीयाध्यायस्य प्रथमपादस्थे, तृतीयस्य द्वितीयपादस्यान्ते__'पूर्वं तु बादरायणो हेतुव्यपदेशात् 'इति व्याससूत्रे च भगवच्छंकंराचार्यैः शारीरभाष्ये निपुणतरमुपपादितम् । तत्तज्जीवगतधर्माधर्मसापेक्षस्येश्वरस्यैव फलदातृत्वं, न केवल- कर्मणः । तत्र हि प्रथमे,__यथा पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं, व्रीहिय- वादिवैषम्ये तु तत्तद्वीजगतानि सामर्थ्यानि शक्त्यपरपर्यायाणि कारणानि भवन्त्येवमीश्वरो देवादिसृष्टौ साधारणं कारणं भवति,__देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतादृष्टानि विलक्षणानि (असाधारणानि) कारणानि भवन्ति, एवमीश्वरः कर्मसापेक्षत्वा- द्वैषम्यनैर्घृण्याभयां न दुष्यति, यथा सेवानुरूपफलदाता राजा । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमसंसारं निर्मिमीत इति । तथाहि दर्शयति श्रुतिः __'एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लेकेभ्य उन्निनींषते, एष उ एवासाधु कर्म कारयति तं, यमधो निनीषते ' 'पुण्यो वै पुण्येन कर्मणा भवति, पापः पापेन ' इति च । स्मृतिरपि, 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।' __इत्याद्यभिहितं ।
तृतिये तु__'धर्म जैमिनिरत एव' इति जैमिनिसूत्रित(सूत्रमतं) धर्मादेव फलमिति पक्षः 'तु' शब्देन व्यावर्त्यते,__तथा च कर्मसापेक्षादपूर्वसापेक्षाद्वेश्वरादेव फलमिति सिद्धान्तः, कुतः?, 'हेतुव्यपदेशात्' । धर्माधर्मयोरपि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य दातृत्वेनेत्यभिधाय__'एष ह्यवे(ब्रह्मैवेति)'ति पूर्वोक्तश्रुतिः प्रदर्शितेत्याद्यन्यत्र विस्तरः ।
ननु प्रतिबन्धकानेकदुरितसत्त्वे कथं रोषारोषफललाभः, सत्येकस्मिन्नपि बाधके साधकसहस्रत्याप्यकिंचित्करत्वादित्याशंकामपनेतुं विशिनष्टि__भवाब्धीति । भवः = संसारः, स एवाब्धिरिति मयूरव्यंसकादित्वात् समासः, तरण्यामानुगुण्यात्, यद्वा__ 'भवोऽब्धिरिवे 'त्युपमितसमासः , नाशरूपत्य तारणस्य तत्राप्यन्वयसंभवात् , 'भाष्याब्धिः क्वातिगम्भीरः 'इत्यत्रेव प्रकृते साधारणधर्मवाचकोपादनिरूपवाधकाभावाञ्च । भवाब्धे-
स्तरणं तत्र तरिं नौकां(तरिः नौका) साधनमिति यावत्, 'तरति शोकमात्मवित्' इति श्रुतेः । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । तथा चानन्यसाध्यानेकदुःखसमूहसंसार- निवर्तकत्वे प्रतिबन्धकदुरितनिवृत्तिः सुतरां ततो भविष्यति,__कैमुतिकन्यायादिति भावः । शेषालंकारत्वेन तन्नियोजकत्वं, तेन तद्विशिष्टप्रार्थनयावश्यं शेषोक्ताशेषार्थलाभः, विघ्नेशजनकत्वेन विघ्नप्रचयनिवृत्तिरप्यावश्यकीति सूचितम् । एतेन विघ्ननिवारणसंप- त्तये__'आदौ पूज्यो गणाधिपः'* इत्यादिवाक्यनिचयादादौ(वाक्यानिचपादादो) गणेशप्रार्थनैवोचितेति तददूषणं निरस्तम् ।। 2 ।।
मं,श्लो -3
निखिलपण्डितमान्यं स्वगुरुभूतं पितृव्यं तत्कीर्त्यनुवृत्तये तन्नामत निबध्नं(मनि दैवतं) स्तौति, __वाग्देवीति । सिद्धये = प्रारिप्सितग्रन्थसमाप्तये, तत्प्रचाराय च । नरीनर्ति = पुनः पुनरतिशयेन वा नृत्यं करोति, वाग्देव्या जिह्वाग्रे नृत्यं च,__झटित्यनवरतं धारारूपेण प्रकाशरूपम् । एतेन लोकोत्तरं पाण्डित्यं वक्तृत्वं चावेदितम् । 'नृती गात्रविक्षेप' इत्यतो धातोर्यङ्लुगन्ताल्लट्, तिप्, शपो लुक्, 'चर्करीतं च' इति यङ्लुगन्तस्यादादौ पाठात् , 'रीगृदुपधस्य च' इत्यभ्यासस्य रीगागमः । छन्दसोऽपि यङ्लुक्_' हुश्नुवोः सार्वधातुके' इति सूत्रे हुश्नुग्रहणात्, 'बभूथाततन्थ_' इति सूत्रे निगमग्रहणाञ्च ज्ञापकाद् भाषायामपि न विरूद्ध इति भावः । अत्रैतादृशविलक्षण- सामर्थ्यवत्तो(वतो)पन्यासेन दीक्षितस्य देवांशत्वसूचनद्वारा तदीयस्तुतेरमीप्सितार्थसाधकत्वं, समुचितत्वं च सूचितम् । एतादृशस्य देवांशत्वञ्च ,__
'यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा, तत्तेजो मामकं विद्धि '__इति भगवद्गीतायां स्पष्टमुक्तम् ।। 3 ।।
मं,श्लो : 4
व्याकरणप्रवर्तकाचार्यपाणिन्यादिमुनित्रयादिनमस्कारात्मकं चिकीर्षितं मङ्गलं निबध्नन्, प्रेक्षावत्प्रवृत्तयेऽनुबन्धचतुष्टयं बोधयन् शिष्यावधानाय चिकीर्षितं(निरूपणार्थं) प्रतिजानीते, पाणिन्यादीति । पाणिन्यादिमुनीन् , रङ्गोजिभट्टाभिधं पितरं , ढुर्ण्ढि = गणपतिं, प्रणम्य = प्रकृष्टं साष्टाङ्गत्वगुण(साष्टाङ्गत्वेन)विशिष्टनमस्कारं कृत्वा, गौतमजैमिनिवचनव्याख्यातृभिर्दू- षितान् सिद्धान्तान् = वैयाकरण सिद्धान्तान् । उपपत्तिभिः = युक्तिभिः । प्रकटये = प्रकाशये । तेषां = गौतमजैमिनीयवचोव्याख्यातृणामाधुनिकतार्किकमीमांसकानां वचो दूषये इति योजना । 'व्याख्यातृभिर्दूषिता' निति 'व्याख्यातृ'ग्रहणेन-गौतमादिमुनीनां पाणि- न्यादिभिः सहाविरेध इति सूचितं, स च मञ्जूंषायां तत्र तत्र स्पष्टीकृतः, इहापि(इह) क्वचित्
प्रतिपादयिष्यते । पाणिनिरादिर्येषां ते पाणिन्यादयः, ते च ते मुनयश्चेति बहुव्रीहिगर्भः कर्मधारयः । अयं बहुव्रीहिस्तद्गुणसंविज्ञानः, 'सर्वादीनि' इतिवत् । तेन पाणिनेरपि नमस्कारकर्मत्वलाभः । आदिपदग्राह्यौ-कात्यायनि-पतञ्जली । 'रङ्गोजिभट्टे'त्यभिधा नाम यस्येति बहुव्रीहिः । गौतमश्च जैमिनिश्च गौतमजैमिनी = न्यायमीमांसासूत्रप्रणेतारौ, तयोरिमानि-गौतमजैमिनीयानि, इदमर्थे 'वृद्धाच्छः' इति छः, तानि च तानि वचनानि__ न्यासूत्राणि, मीमांसासूत्राणि चेति__कर्मधारयः, तेषां व्याख्यातार इति अशेषफलदातृपदवत् षष्ठीसमासः ।
नमस्कार्यताप्रयोजकं पितृविशेषणमाह__द्धैतध्वान्तेतिं । द्वौ(द्वे) इतः = आश्र- यत्वेन प्राप्तो, द्वीतो = भेदः, तस्येदं ज्ञानं द्वैतम् । यद्वा__' द्वयेकयोः' इतिवद् द्विशब्दो द्वित्वपरः, तथा च द्वित्वविशिष्टौ द्वीतपदप्रतिपाद्यौ, तयोर्भवः द्वैतो__भेदः, तद्रूपं ध्वान्तं__तमो__मोह इति यावत् । तस्य निवारणं तत्__आदि फलं यस्याः सा एतादृशीं-पूंभाववादेवतां, पुमान् पुरुषः तस्य भावः = आकाररूपो यस्याः सा, पुंभावा = पुरुषाकृतिकेत्यर्थ । सा चासौ वाग्देवता = सरस्वती, तद्रूप इत्यर्थः । अजहल्लिङ्गत्वात् ' स्त्री प्राधान ' मितिवत् विभिन्नलिङ्गत्वेऽपि समानाधिकारणविशेषणत्वमविरुद्धम् । अनेन विशेषणेनाद्वैतप्रतिपादकोत्तरमीमांसायामतिशयितनैपुण्यं प्रतिपादितं, तेन विलक्षणोत्कर्षः सूचितः ।। 4 ।।
मं,श्लो : 5
प्रचुरविध्नशंकया पुनरपि गणेशादिनमस्कारात्मकं मङ्गलमाचरन् स्वकीर्त्यनुवृत्तये स्वस्य चिकीर्षितग्रन्थस्य च नाम निबध्नाति, नत्वेति । श्रीकौण्डभट्टः , -श्रीर्नवनवोन्मेषशालिनीस्फूर्त्याख्या मतिस्तद्युक्तः कौण्डभट्टोऽहं,- गणेशपादाम्बुजं,- गणेशस्य-गणानां शिवगणानामीशो नियन्ता तस्येत्यर्थः । अथवा-गणानां शत्रुगणानामीर्लक्ष्मीस्तां श्यति = तनूकरोतीत्यर्थः, शो तनूकरण इति धातोरनैमित्तिक आत्वे कृते ' आतोऽनुपसर्गे कः ' इति कः । यद्वा__गणानामिः = कामस्तं कामोद्वेगं, ' कामे ' त्युपलक्षणं क्रोधादीनामपि, तथा च कामादिषड्वर्गं सदुपदेशादिद्वारा श्यति = खण्डयतीत्यर्थः । एतादृशस्य देवस्य पादाम्बुजं = पादावेवाम्बुजं कमलम्, अतिशयितसंश्लेषविशिष्टत्वेन ध्यातत्वसूचनायाम्बुजमित्येकवचनम् । गुरून् = निगूढमर्थं गृणातीति गुरुः, ' कृग्रोरुञ्च ' इत्युणादिसूत्रेण ' गृ शब्द ' इति क्र्यादेर्गृधातोः कुप्रत्ययः । सरस्वतीं सरोऽमृतसरस्तद्वती सरस्वती, ' सर इत्युदकनाम, सर्तेस्तद्वती ' इति निरुक्तात् , सरोवरविशेषो वा यस्या आश्रयो वर्तत इति वार्थः । वैयाकरणभूषण ' मित्यन्वर्थं
ग्रन्थनाम, तेन वैयाकरणानामवश्योपादेयता ध्वनिता ।। 5 ।।
का.1
प्रारिप्सितेति । प्रारब्धुमिष्टो यो ग्रन्थस्तस्य प्रतिबन्धकानि तेषां व्यूहः = समुहस्तस्योपशमनाय = नाशायेत्यर्थः । एतेन__' समाप्तिं प्रति मङ्गलं न कारणमन्यथासिद्धत्वात् , किं तु विघ्नध्वंसं प्रति, समाप्तिस्तु स्वसामग्रीत ' इत्यादि बोधितमित्याद्यन्यत्र विस्तरः । ननु तथापि ग्रन्थाद्वहिरेव मङ्गलाचरणमस्तु, ग्रन्थमध्ये तन्निबन्धनं निष्प्रयोजनमत आह, __शिष्यशिक्षार्थमिति । ग्रन्थारम्भसमये शिष्यैरपि तादृशनिबद्धश्लोके पठिते सति तेऽपि मङ्गलभाजो भवन्ति तत्प्रयुक्तफलभाजश्वैत्येदर्थमित्यर्थः । चिकीर्षितं = कारिकावलीरुपं ग्रन्थम् । अस्माभिरिति शेष इति । अनेन वाक्येन कारिकावलीरूपग्रन्थकर्तुरतिशायितसामर्थ्यप्रकाशनद्वारा तत्कृतप्रकृतग्रन्थस्यावश्योपादेयता ध्वनिता । आधुनिकोत्प्रेक्षितनिरासप्रयोजनमाह __अन्यथेति । अन्यथा = कौस्तुभोक्तीनामाधुनिकीत्प्रेक्षितत्वनिरासाकरणे । आधुनिकोत्प्रेक्षितेति । आधुनिकैरुत्प्रेक्षितो यः कौस्तुभस्तत्सारत्वापत्तौ = तत्सारत्वनि(तन्नि)श्चयापत्तावित्यर्थः । पाणिनीयानां = पाणिनिना प्रोक्तं शास्त्रमधीयानानाम् । मूले, - देवतान्तरं विहाय फणिन एवोपादानं तु व्याकरणशास्त्रप्रणेतृ. मुनित्रयाभ्यर्हितत्वेनेष्टतमत्वसूचनाय, इतरभाष्यवद् व्याकरणभाष्यं नाधुनिकप्रणीतमपि तु विष्णुरूपिमहामुनिप्रणीतमतस्तदुक्तिष्वप्रमाण्यशंका* नैव विधेयेत्यस्यार्थस्य लाभाय चेत्याहुः(च्चे) मूले प्रथमतो धात्वर्थनिरूपणं तु 'सर्वाण्याख्यातजानि ' इति शाकटायननिरुक्तात् , ' सर्वं नाम धातुजं निरुक्तं व्याकरणे शकटस्य च तोकम् ' इति भाष्यञ्च सकलप्रयोगमूलत्वेन धातोरन्यार्हितत्वेन, प्रायो वाक्यजन्यबोधे धात्वर्थस्य प्राधान्याच्च तस्याभ्यर्हिततमत्वादिति बोध्यम् । 'आख्यातजानी' त्यत्रत्याख्यातशब्दस्तिडन्तसमुदायात्मकाख्यातघटकधातुपरः । ' सर्वं नाम धातुजम् ' इति भाष्यात् , नाम्नस्तिडन्तजत्वासंभवाच्च ।। 2 ।।
का.2
' स्मृता ' इति बहुवचनान्तस्य ' धातु ' रित्यन्त्रान्वयोन संभवति, विशेष्यवाचकपदसमानवचन त्वाभावादित्यत आह__स्मृत इति । वचनविपरिणामेति । अस्य ' वाचकत्वेने'ति शेषः ।
' फलव्यापरयो 'रितिद्विवचनान्तनिर्देशेन__फले, व्यापारे च पृथक् शक्तिर्न तु फलविशिष्टव्यापारे प्राचीनतार्किकाभिमतैका शक्तिः, तथा सति फलस्य पदार्थैकदेशतया द्वितीयादिपदार्थान्तरान्वयो न स्यादिति__सूचितम् । फलव्यापारयोः साध्यसाधन-
भावेनान्वयः, संसर्गस्यापदार्थत्वेऽपि क्षतिविरहात् , सांसर्गिकविषयतातिरिक्तविषयताशा- लिशाब्दबोधं प्रत्येव वृत्या पदजन्यपदार्थेपस्थितेः प्रयोजकत्वात्, तथा च, __जन्यतावच्छेदककोटौ-सांसर्गिकविषयतातिरिक्तविषयतात्वेन विषयताया अनुप्रवेश इति केचित् ।
वस्तुतस्तु__सांसर्गिकविषयतातिरिक्तविषयतात्वेन [न] तदनुप्रवेशः,तथा निवेशेऽपि वृत्या घटपदाद् घटोपस्थितौ सत्यां पटादिविषयक(पटादेर्विषयकार्य)शाब्दबोधापत्तिः, अतस्तद्विशेष्यकतत्प्रकारकाशाब्दत्वावच्छिन्नं प्रति वृत्या तत्तत्पदजत्यतदर्थेपस्थितिर्हेतुरिति विशिष्यैव हेतुहेतुमद्भावो वक्तव्यः, एवं च सांसर्गिकविषयतामन्तर्भाव्य कार्यकारण(करण)भावविरहात् शक्त्यानुपस्थितस्यापि संसर्गस्य भानं निष्प्रत्यूहमेव ।
किं च शक्तया, लक्षणया वोपस्थितस्य तत्तदर्थस्य शाब्दबोधे भानाद् द्विविधोपस्थितेरपि शाब्दबोधप्रयोजकत्वमुपेयं, तत्रानुगतानतिप्रसक्तागुरोः कारणतावच्छेदक- धर्मस्यासंभवात् पृथक् पृथक् हेतुतावश्यं स्वीकार्या, तथा चैकविधोपस्थितिविरहेऽष्यन्य- विधोपस्थित्या तत्तदर्थविषयकशाब्दबोधजननाद् व्याभिचार इत्यतः__' शक्तिप्रयोज्यततदर्थो- पस्थितिविशिष्टतत्तदर्थविषयकशाब्दत्वं ', 'लक्षणाप्रयोज्यतत्तदर्थोपस्थितिविशिष्टतत्तदर्थविषय- कशाब्दत्वं ' च कार्यतावच्छेदकमभ्युपेयम्, उपस्थितिवैशिष्ट्यं च __स्वसामानाधिकरण्य, स्वाव्यवहितोत्तरत्वाभ्याम्, एवं च संसर्गविषयकशाब्दबोधस्य कार्यतावच्छेदकानाक्रान्त- तयाऽशक्यस्यापि तस्य भानं निष्प्रत्यूहमिति परे ।
' संबन्धो वाच्य ' इति वैयाकरणाः,' लक्ष्य ' भट्टा इति दिक् ।
ननु तथापि 'विभिन्नपदोपस्थितयोरेव परस्परान्वयबोध' इति व्युत्पत्तेःकथमेकधातू- पस्थितयो[र्व्यापार-फलयोः परस्परान्वयबोधः, न च तादृशव्युत्पत्तिरसिद्धा, निष्प्रयोजनत्वादिति वाच्यं, हरिपदादिन्द्राश्वयो]रुपस्थितयोराधाराधेयभावा- वगाहिशब्दबोधापत्तेर्कारणस्य, वाशब्दादित उपस्थितयोर्विकल्पाद्योरर्थयोः परस्पपरान्वय- बोधापत्ते(र्धे)र्वारणस्य च प्रयोजनत्वादिति चेन्न । परमते लिङाद्यर्थयोः[कृतीष्टसा- धनत्वयोराख्यातर्थकृतिवर्त्तमानत्वयोश्च] पस्स्परमन्वयबोधदर्शनेन तादृशव्युत्पत्तेः संकोच- नीयतया फलव्यापारयोरपि परस्परमन्वयबोधसंभवात्, नव्यनैयायिकैरपि स्वीकृतत्वाच्च । फलव्यापारयोरेवादावन्तरङ्गत्वादन्वयस्तदन्तरमेवार्थान्तरेणान्वयोऽनुभूयते, अत एव ' गमनं न स्पन्द ' इति वाक्यान्न स्पन्द(भेदा)न्वयानुभवः, विशेष्यभूतव्यापारे तद्बोधात् , फलस्य तद्वी(इतर)शेषणत्वापन्नत्वादिति भावः । अभेदेन स्तोकादेरन्वयो भवत्येव, व्युत्पत्तिवै- चित्र्यात् , एवं कर्मकारकस्य(धारद्यत्य) भेदेनापीति न ' स्तोकं पचती'त्यादेरसंगतिः ।
तत्र भवन्तो मञ्जूषाकारास्तु__"फलविशिष्टव्यापारे, व्यापारविशिष्टफले च शक्तिः, फले व्यापारे च पृथक्शक्तिस्वीकारे व्यापारोद्देश्यकफलविधेयकबोधस्य, फलोद्देश्यकव्या- पाराविधेयकबोधस्य चापत्तिः, तादृशबोधप्रयोजिकायाः पृथगुपस्थितेः सत्त्वात्, विशि- ष्टशक्तिमते तु न तादृशबोधापत्तिः , तत्प्रयोजिकायाः पृथगुपस्थितेरभावात्, न च पृथगुपस्थितेस्तादृशबोधप्रयोजकत्वमसिद्धमिति वाच्यं, घटपटादिजन्यैकोपस्थिति- विषययोर्घटत्वपरत्वाद्यो(घटपटेत्याद्योः)स्तथाबोधाननुभवबलेन [तथाविधो[पस्थितेस्तथात्व- कल्पनात्, न च धातुजन्यव्यापाराद्युपस्थितेस्तथाविधबोधप्रतिबन्धकत्वकल्पनान्न] तथा- विधबोधापत्तिरिति वाच्यं, तादृशप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवात् , कतृंभावाप्रत्ययसमभिव्याहारः फलविशिष्टव्यापारबोधनियामकः, कर्मप्रत्ययसमभिव्याहारो व्यापारविशिष्टफलबोधनियामकः, न च विशिष्टद्वये [शक्तिद्वयं कल्पनीयं,] शक्तिज्ञानद्वयस्य धातुजन्यविशिष्टविषयोपस्थितिद्वयश्य च शाब्दबोधं प्रति हैतुत्वं कल्पनीयमिति गौरवमिति वाच्यं, प्रामाणिकत्वेन तस्यादोषत्वात् , पृथक् शक्तिवादेऽपि भिन्नपदोपस्थितयोरेवा(स्थित्य एवा)न्वयबोध इति व्युत्पत्तेस्त्यागश्य, व्युत्पत्त्यन्तरस्य च कल्पनीयतया गौरवम्, । अपि च कर्तृप्रत्ययसमभिव्याहृतधातुजोपस्थितेः फलप्रकारकव्यापाराविशेष्यकबोधं प्रति, कर्मप्रत्ययसमभिव्याहृतधातुजोपस्थितेर्व्यापारप्रकारकफलविशेष्यकबोधं प्रति हेतुतायाः कल्पनीयतया कार्यकारणभावद्वयकल्पनागौरवं,__धातोरर्थद्वये शक्तिद्वयस्य कल्पनीयतया च । न च भवन्मतेऽपि तादृशाविशिष्टविषयकोपस्थितिद्वयस्य कारणतायास्तथाविधेऽर्थद्वये शक्तिद्वयस्य च कल्पनीयतया साम्यमिति वाच्यं, बोधजनकत्वस्य विषयासंबद्धेऽनुपपत्त्या तत्तत्प्रत्ययसमभिव्याहृतधातौ विशिष्टद्वयनिरूपितसंबन्धद्वयस्य कल्पनीयतय[ऽधिक]गौरवस्य जागरूकत्वात् , अन्यथा शक्तेरुच्छेदः , एवमन्यत्रापि पृथक्शक्तिकल्पना निरसनीये'ति प्रोचुः ।

फलव्यापारयोरि'ति__मूलमपि तदुभयसमुदाये शक्तिरित्येतावन्मात्रतात्पर्य- कं, न तु पृथक्शक्तितात्पर्यकं, एवं च शाब्दबोधे एकविशिष्टस्यैवापरस्य भानादु- क्तविशिष्टद्वयेऽपि शक्तिर्मूललभ्यैवेत्येतदभिप्रायोऽवगन्तव्यः ।
मूलोक्तक्रमानुरोधाद् व्यापारात् प्राकफलांशंव्याचष्टे__फलं विक्लित्या- दीति । विक्लित्तिः = शिथिलीभावोऽवयवविभागविशेषस्तत्संयोगविशेषो वा, तस्य च विक्लित्तित्वाद्यात्मकविशेषरूपेण वाच्यता, न तु फलत्वेन,विशेषरूपेणैव शाब्दबोस्यानुभवात् ।
विक्लित्त्यादिनिष्ठफलत्वं तु__'तद्धात्वर्थजन्यत्वे सति कर्तृप्रत्ययसमभिव्या- हारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वं' ,जन्यत्वमारोपितानारोपितसा- धारणं,तेन 'वारयती'त्यादौ[संयोगानुकूलव्यापाराभावानुकूलव्यापारं प्रति]संयोगानु- कूलव्यापाराभावादेः फलत्वानिर्वाहः,विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे [विभागस्य फलत्ववारणाय सत्यन्तं, जन्यत्वमात्रनिवेशेऽतिप्रसङ्गतादवस्थात तद्धात्वर्थस्य जन्यत्वनिरूपकतयोपादानं,] विभागस्यापि गम्यादिरूपय- त्किञ्चिद्धात्वर्थजन्यत्वात्तदवस्थ एवोक्तदेष इति तत्पदोपादानम् , । न च विभागजन्यसंयोगस्य(जन्यत्वनिरूपकसंयोगस्य) स्वजन्याक्रियाद्वारा विभागजन- कतया तद्दोषतादवस्थ्यमिति वाच्यम् , उपधायकतारूपजनकता- निरूपितजन्यताया, क्रियाद्वारिकाया वा जन्यताया__निवेशनीयत्वात् । तत्रैव संयोगे फलत्ववारणाय 'प्रकारतावत्त्वान्त(त्वस्य)निवेशः । 'पतति भवती'ति वाक्यजन्यबोधीयभवतिक्रियानिष्ठविशेष्यतानिरूपितावत्त्वात्- 'तद्धात्वर्थनिष्ठे'ति विशेष्यताविशेषणं, (।) कर्मप्रत्ययसमभिव्याहारे 'तण्डुलः पच्यते' 'तण्डुलः पक्व' इत्यादौ विक्लित्यादेर्विशेष्यत्वात्तत्र तस्य फलत्वं न स्यादतः__ 'कर्तृप्रत्ययसमभिव्याहारे'ति । यद्वा,__तदनुपादाने शाब्दत्वावच्छेदेन तादृशप्र- कारतावत्त्वं लभ्येत(लभ्यते), तथा चासंभवः स्यादतस्तदुपादानं, तथा च तादृशप्रकारता(प्रकारवतं)वत्त्वमुपलक्षणं, न विशेषणम् ,अतो न कर्मप्रत्ययस्थले विक्लित्त्यादेरतत्त्वापत्तिरिति भावः । अत्र 'यत्किञ्चित्प्रत्ययसमभिव्याहारे' इत्यपहाय तथोक्तिस्तादृशबोधस्थलर्पदर्शनाय ।
व्यापारं निरूपयति__व्यापारस्त्विति । भावनेति । उत्पत्त्यनुकूलो व्या- पार इत्यर्थः, उत्पत्त्यर्थकभवतेर्ण्यन्तात् 'ण्यासश्रन्थ__'इति भावे युच् । अभि- धेति । अभिदधाति = जनयति फलमित्यभिधा, साध्यत्वेन धातुनाभिधीयत
इति वाभिधा, तत्र प्रथमे 'आतश्चोपसर्गे' इति कर्तरि कः । द्वितीये-तेनैव सूत्रेण कर्मण्यङ्प्रत्ययः, तथा च भावनाभिधापरनामिका साध्यत्वेनाभिधीयमाना क्रिया व्यापार इत्यर्थः । 'भावनाभिधे'त्युक्तिस्तु-व्यापारस्य धात्वर्थत्वेऽपि भाव- नादिनामकस्यार्थविशेषस्य आख्यातार्थत्वमेवेति भ्रमनिवारणार्था । 'क्रिये'त्युक्ति- र्ण्यन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वप्रदर्शनार्था च । यावत्सिद्वमिति । 'पचति' 'पक्ष्यती'त्यादावसिद्धम'अपाक्षी'दित्यादौ सिद्धं वा__'साध्यत्वेन' तत्प्रकारेणाभिधीयमानं वस्तु, 'क्रिये'त्यभिधीयते । कुत इत्याकाङ्क्षायां योगस्य(योग्यस्य) हेतुत्वं प्रदर्शयति__आश्रितेत्यादिना । क्रियतेऽवयवानां क्रमेणोत्पत्त्यात एवाश्रितक्रमरूपेत्यर्थः । आश्रितं क्रमरूपं ययासौ__[आश्रित- क्रमरूपेति बहुव्रीहिः, ततस्त्वः, सामान्यविवक्षायां नपुंसकत्वं ।
दर्शनस्यैव मानत्वादिति । यदि साध्यत्वेन प्रतीतिर्नाङ्गीक्रियेत तर्हि] कृतिरित्यादितोऽविलक्षणप्रतीत्या तत्रेवात्रापि क्रियान्तराकाङ्क्षापद्येत, तदभ्युपगमे च सिद्धस्यैव क्रियान्तरनिवर्तकत्वस्य दर्शनात्, __साध्यत्वेन प्रतीतौ क्रियान्तरानाकाङ्क्षानिर्वाहः । अनुत्थापकतावच्छेदकमिति । तदुत्थितिप्रति- बन्धकतावच्छेदकतया सिद्धजातिविशेषरूपमित्यर्थः । तद्रूपमिति । धातूप- स्थितक्रियामात्रवृत्तिवैजात्यसिद्धौ लाघवात्तस्यैवासत्त्वरूपत्वं स्वीकर्तुं युक्तं, न तु लिङ्गाद्यनन्वयित्वादेरिति भावः । परन्तु तद्वैजात्यं लिङ्गाद्यनन्वयित्वसमा- नाधिकरणं पूर्वपरीभूतावयवत्वसमानाधिकरणमेव । 'एतदेवे'-त्यस्योक्त एवाभिप्रायः । तिङ्पदैरिति तिङ्न्तपदैरित्यर्थः । एतत्प्रतिद्वन्द्वितया __क्रियाकाङ्क्षोत्थापकतावच्छेदकजातिविशेषः सिद्धत्वमिति बोध्यम् ।
न चैवं हिरुगाद्यव्ययानां तादृशसाध्यत्वेन रूपेण तत्तदर्थानुपस्थापकतया क्रियाप्रधानत्वव्यवहारो *निरुध्येतेति वाच्यं, तदर्थस्य क्रियामात्र- विशेषण(त्व)निबन्धनत्वात् , अत एव हिरुगाद्यर्थे न कारकाणामन्वयः, कारकान्वययोग्यतावच्छेदकवैजात्येनाभानात् ।
नन्वेवं ' कृष्णं नमेच्चेत्सुखं याय 'दित्यत्र नमनसुखप्राप्तिरूपक्रिययोर्हेतुहे- तुमद्भावेनान्वयो न स्यादिति चेन्न । चेच्छब्दसमभिव्याहारसाचिव्येन क्रियाका- ङ्क्षोत्थाना(त्पादन)दित्याहुः । वस्तुतः साध्यत्वं निष्पाद्यत्वमेव, तेनैव रूपेण बोधस्यानुभवसिद्धत्वात् , स्पष्टं चेदम् 'उपपदमतिङ्,' 'सुट्कात्पूर्वः', ["गतिगतौ"] __इत्यत्र च भाष्ये, तत्र 'उपपदमतिङ्' इति सूत्रे__'धातूपपदयोः
समासमाशङ्क्य,__'पूर्वं धातुः साधनेन युज्यते' इति पूर्वं तिङि विशिष्टोनैव सामर्थ्यं स्यात् , तत्र ' अतिङ् ' इति निषेधान्न तिड्न्तेनैकार्थीभाव इति समाहि- तम् । 'सुट् कात् पूर्वः' 'गतिर्गतौ' इत्यत्र,__धातुपसर्गयोः कार्यं यत्तदन्त- रङ्गमित्याद्युक्त्वा 'नैतत् सारं पूर्वं हि धातुः साधनेन युज्यते पश्चादुपसर्गेण, साधनं हि क्रियांनिर्वर्तयति, तामुपसर्गोविशिनष्टि' इत्युक्तम् । साधनं = तद्बोधकप्रत्ययः,क्रियां निर्वर्तयति = साध्यात्ववैशिष्ट्येन बोधयत्यतस्तत्प्रयुक्त- कार्यं पूर्वमिति वृद्धास्तदर्थमाहुः । 'उपपदमतिङ्' इत्यत्र भाष्येऽप्येतदाशयेनैव पूर्वं साधनसंबन्धाभिधानम् , [एतद्भाष्यप्रामाण्येन साध्यत्वभानमङ्गीकृतम् ।] एतेन शब्दशक्तिस्वभावादेव तिङ्नते क्रियानाकाङ्क्षासिद्धौ न साध्यत्वभानमिति दूषणं प्रत्युक्तमिति बोध्यम् । अनुभवसिद्धत्वादिति । अत एव 'पचती'त्यादितः शाब्द(लक्षणादेव)बोधे सति फूत्कारत्वादिरूपेण न तत्संशयः । नाना- र्थतापत्तिरिति । शक्यतावच्छेदकानां फूत्कारत्वादीनां नानात्वादेका- शक्तेर्वक्तुमशक्यत्वात् , अत एव हर्यादिपदस्य नानार्थत्वाभ्युपगमः । तदा- दीति । तदादिपदस्य यथा__बुद्धिविषयत्वरूप-बुद्धिस्थत्वेन [बुद्धिविशेषेणो- पलक्षणीभूतेन] घटत्वादीननुगमय्य तदवच्छिन्ने शक्तिः स्वीक्रियते, घटत्वादिविशेषरूपेणानुभवसिद्धबोधनिर्वाहार्थं, तथा प्रकृतेऽपि संभवान्न नानार्थत्वापत्तिः, शक्यतावच्छेदकनानात्वेऽपि शक्यतावच्छेदकस्यैकस्यैव संभवादित्यर्थः । तज्जन्यशाब्दबोधे भानं मा भूदित्येतदर्थं 'तस्योपलक्षण- त्वोपगमः । उपलक्षणत्वं च__तत्तत्पदजन्यबोधविषयत्वेन तत्पदशक्तिग्रहाविष- यत्वं । बुद्धिविशेषादेरिति । फूत्कारादिविषयकबुद्धेरित्यर्थः । बुद्धेः शक्यता- वच्छेदकतावच्छेदकत्वं विषयतासंबन्धेन । तस्य वृत्यनियामकतयावच्छेदकता- घटकत्वानङ्गीकारे त्वाह__आदेरिति । आदिना__बुद्धिविशेषविषयत्वतदव- च्छेदकत्वयोः परिग्रहः ।
परे तु-हर्यादिवत् पचादीनां नानार्थत्वे इष्टापत्तिः, तदादिशब्दानां तु बुद्धि- स्थत्वाद्यात्मकसामान्यरूपेणैव बोधकत्वं, तदुक्तं 'शेषे'इति सूत्रभाष्ये__'इदंविशे- षा ह्येतेऽपत्यं, निवासः, समूहः इति वदन्ति । नन्ववयवरूपत्यापाराणां नानात्वा- दाशुतरविनाशिनां क्रमिकाणां तेषां युगपदवस्थानासंभवेन समूहगतैकत्वा (कक्रिया)भिप्रायत्वासंभवाच्च' आख्यातेनैका क्रिया प्रत्याय्यत' इति व्यवस्थानुपपत्तिः, न च तादृशव्यस्थाऽसिद्धैव, मानाभावादि[ति वाच्यं, न वा
तिङ्न्तान्येकशेषारम्भं प्रयोजयन्तीति स्वरूपसूत्रस्थभाष्यस्यैव मानत्वादि]त्या- शङ्कां निराचष्टे__आख्याते इति। व्यवस्थापि = क्रियैकैव प्रत्याय्यत इति नियमोऽपि । अवच्छेदकेति । अवच्छेदकः__शक्यतावच्छेदकतावच्छेदको [यो बुद्धिविशेषस्तदैक्यमादायैवेत्यर्थः,सा च] बुद्धिः[-समूहालम्बनरूपा एकैव, तथा च तादृशबुद्धिगतैक्यारोपनिबन्धना तादृशी] व्यवस्थेति भावः,अथवा तादृशबुद्धिस्थ- समूहैक्यमादायैवेत्यर्थः । उक्तार्थे हरिसंमतिमाह__उक्तं चेत्यादिना ।
गुणभूतैरिति । क्रमजन्मनामेषां व्यापाराणां समूहं प्रति गुणीभूतैस्त- त्तद्रूपेण भासमानैरवयवैर्युक्तः संकलनात्मिकयैकत्वविषयकबुद्धया प्रकल्पिता- भेदः = प्रकल्पितो यो भेदः तद्रूपो यः समूहः स क्रियेति व्यवह्रियत इत्यर्थः । अभेदश्चावयवभूतव्यापाराणाम् । अत्रावयवाश्रयं पौर्वापर्थे, समूहगतमेकत्वं च स्पष्टमेच लभ्यते । एकैकावयवेऽपि समूहत्वरूपारोपादधिश्रयणाद्ये- कावयवदशायामपि 'पचती'त्यादिव्यवहारोपपत्तिः, आरोपे च प्रतीतिरेवाव- लम्बनम् , अध्यासगृहीतयैव क्रियया धातोराख्यातस्य(आत्म) शक्तिरूपसंबन्धग्रहो बोध्यः, तदतिरिक्तमुख्यार्थसद्भावान्न धात्वर्थस्य गौणत्वमेवं सत्याशङ्क्यं, यस्य हि मुख्योऽर्थोऽतिरिक्तोऽस्ति तस्यैव गौणत्वं__यथा 'सिंहो माणवक'इत्यादौ ।
यद्वा-तादृशानेकव्यक्तिगता पचित्वादिजातिरेव क्रिया, स्वतःसाध्यत्वविरहेऽ- पि तस्या व्यक्तिद्वारकं तदबधितमेव, स्फोटवदस्याः क्रभवद्भिरपि क्षणैरभिव्या- क्तिस्तत्साधकश्चानुगतव्यवहारः ।
उक्तं च वाक्यपदीये__
'जातिमन्ये क्रियामाहुरनेकव्याक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ।।' इति ।
फलस्यापि स्वहेतुव्यापारवर्तिपौर्वापर्यारोपेण साध्यत्वेनैव भानम् , अत एव 'पच्यते तण्डुलः स्वयमेवे'त्यादो 'फलमात्रवाचकता पच्यादे'रिति मतेऽपि तस्य धातुसंज्ञानिर्वाहः, कारकाणां भावनयैवान्वय'इति नियमश्च संगच्छते । अन्यथा द्वितीयाद्यर्थकर्मकारकस्य फलेनैवान्वयात्तदसंगतिः स्पष्टैव । अत्र शक्तता- वच्छेदकं पचित्वादिकं तत्तदानुपूर्वीविशेषरूपं,न तु धातुत्वम् , अतिप्रसक्तत्वात् , तदजानतोऽपि बोधाच्च ।
फलाश्रय इति । ननु कारकचक्रप्रवर्तकत्वाद् , व्यापारांशस्य प्राधान्याच्च व्यापाराश्रय इति प्रथमतो वक्तुमुचितं, न तु फलाश्रय इति इति चेन्न ।
शक्तिग्राहक 'लः कर्मणि' इति सूत्रे,मूले च फलाश्रयस्य कर्मणः प्राङ्निर्देशात्तस्यैवादावभिधानस्य युक्ततरत्वात् , व्यापारस्य सर्वप्राधान्यमिति नियमाभावाच्च, कर्मप्रत्ययसमभिव्याहारे व्यभिचारात् । ननु कर्मकर्त्रोः शक्ति- ग्राहकसूत्रसत्त्वेऽपि फलाश्रयव्यापाराश्रययोर्न किंचिदाख्यातस्य शक्तिग्राहकं, कर्मकर्तृपदयोर्लोके स्पन्दकृतिमतोरेव प्रसिद्धेरित्याशङ्क्याह__फलाश्रयः कर्मेति । कृत्रिमाकृत्रिमन्यायेनैतयोरेव कर्मादिपदेन ग्रहणं युक्तमिति भावः । 'स्वतन्त्रः कर्तां' इति सूत्रेण धातूपात्तप्रधानीभूतव्यापाराश्रयस्यैव स्वतन्त्रस्य कर्तृसंज्ञाविधानात् , कृतिमत एव तद्विधाने 'घटो भवति' 'काष्ठानि पचन्ती'त्यादौ धटादेः सा न स्यादिति दिक् ।
ननु फलव्यापारयोरप्याख्यातार्थत्वापत्तिः, न चेष्टापत्तिः, 'देवादत्तः पचती'- त्यादावाख्यातेन, धातुना च फूत्काराद्युपस्थितौ निराकाङ्क्षत्वेनान्वयानुपपत्तेः, फूत्कारादिविशिष्टस्य फूत्कारादावन्वये आकाङ्क्षाविरहात् , अत एव 'कर्म गच्छती'ती न प्रयोगः, एवं 'पच्यते तण्डुल' इत्यादावपीत्याशङ्कां निरसितुमाह __तत्रेत्यादिना । धातुलभ्यत्वादिति । अनन्यलभ्यस्यैव शब्दशक्यत्वादिति भावः । नन्वाश्रये शक्तिस्वीकारे आश्रयत्वं शक्यतावच्छेदकत्वमभ्युपेयम् , आश्र- यत्वं चाधारत्वं, तच्च निरूपकादिभेदाद् भिन्नं, तदानन्त्याच्छतयानन्त्यापत्तिरत आह__तत्तच्छक्तीति । कर्तृत्वादिशक्तिस्वरूपमित्यर्थः । यद्यपि शक्तेरपि निरूपकभेदान्नानात्वमभ्युपेयमन्यथा'ऽद्य भुक्त्वाऽयं द्वयहे द्वयहाद्वा भोक्ते'त्यत्र सप्तमीपञ्चम्यौः 'सप्तमीपञ्चम्यौ कारकमध्ये' इत्यत्र कारकपदस्य शक्तिपरत्वेप्यनुपपर्त्तितादवस्थ्यं स्यात्तथाप्याश्रयतात्वादिनानुगतस्य तस्य शक्यतावच्छेदकत्वे दोषानवकाशादिति भावः, अत एव कृतिविशिष्टवाचितृचः 'कृत्यर्थककृधातुसमभिव्याहारे आश्रयपरत्व'मिति नैयायिका मन्यते । एवं कृत्प्रत्ययस्थले भावानांशस्याक्षेपलभ्यत्वात् 'आश्रयमात्रमर्थ' इति मीमांसकाः ।
नन्वाश्रयस्याख्यातवाच्यत्वे मानाभावः, न च 'पचती'त्युक्ते आश्रय- प्रतीतिर्जायमानाऽऽख्यातस्य शक्तिकल्पनायां मानं__गवाद्यर्थप्रतीतिरिव गवादिपदे तत्तदर्थशक्तिकल्पनायामिति वाच्यम् ,अन्यथानुपपन्नप्रतीतेरेव मानत्वात् अन्यथा गङ्गादिपदस्य तीरादावपि शक्तिकल्पनापत्तेः, तत्र लक्षणयैवोपत्तिरिति चेत् , प्रकृतेऽप्यन्यथोपपत्तेर्वक्ष्यमाणत्वात् । न च 'लः कर्मणि'__इत्यादि सूत्रमेव मानं, तत्रत्य'कर्म'पदस्यानुवृत्त'कर्तृ'पदस्य च लाघवेन धर्ममात्रपरत्वात् ,
तत्सूत्रस्य 'कर्मादिबोधका लकारा' इत्यर्थप्रतिपादकत्वाद्वा, एवं च बोधस्य वक्ष्यमाणरीत्यापि निर्वाहे न तस्य तच्छक्तिग्राहकत्वमित्याशयेन पृच्छति,__नन्व- नयोरित्यादिना ।
प्रतीतेरिति । फलाश्रयव्यापाराश्रयप्रतीतेरित्यर्थः । लक्षणास्वीकारे पद- वृत्तिकल्पनागौरवादाह__आक्षेपादिति । आक्षेपो नामार्थापत्तिर्मीमांसकमते, ता- र्किकमतेऽनुमानं, येन विना यदनुपपन्नं तेन तत् कल्प्यते, यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र भोजनं विनानुपपन्नेन योगभ्यासाद्यजन्यपुष्टत्वेन भोजनं कल्प्यते, तच्च दिने बाधे रात्रिभोजनमादाय पर्यवस्यति, तथा प्रकृते भावनायाः कर्तारं विनानुपपत्त्या कर्तृरूपाश्रयं सा कल्पयति, तथा चानुपपत्तिज्ञानमर्थापत्त्य- परनामाक्षेपः, तज्जन्यं ज्ञानमपि तन्नामकं प्रमित्यन्तरम् । तार्किकमते तु 'भावना क्वच्चिदाश्रिता, गुणत्वात्, सकर्तृका वा कार्यत्वाद्घटत्वव'- दित्यनुमितिजनकं व्याप्तिज्ञानादिकमाक्षेपः । एवं चाक्षेपेण भावनाज्ञानोत्त- रमर्थापत्त्यानुमित्या वा कर्ता विषयीक्रियत इति पर्यवसन्नम् । मीमां- सकैराक्षेपलभ्यस्यापि शाब्दबोधविषयत्वाभ्युपगमादाख्यातजन्यशाब्दबोधे भानमवि- रुद्धम् , एवं फलस्यापि स्वाश्रयं विनानुपपत्त्या तेन साक्षिप्यत इत्यर्थः ।
ननु वृत्त्या पदजन्यपदार्थोपस्थितेः शाब्धबोधहेतुत्वेनाक्षेपलभ्यस्य शाब्दबो- धविषयत्वं न संभवति, किं चानुपपत्त्यादि[ज्ञान]विधुराणामप्यनुभवसिद्धतद्बोधानु- पत्तिः, आक्षिप्ते तत्राख्यातार्थसंख्यान्वयानुपपत्तिश्च, वृत्त्या पदानुपस्थितत्वात् , तथा चोच्यते__'शाब्दी ह्याकाङ्क्ष शब्देनैव प्रपूर्यते' इति । शाब्दी = शाब्दबो- धविषयिणी, आकाङ्क्षा = जिज्ञासा, शब्देनैव प्रपूर्यते = वृत्त्या पदार्थोपस्थिति- द्वारा विषयसिद्धिसंपादनेन निवार्यते'इति तदर्थ इत्यत आह__प्रथमान्तेति । उत्तरयति__अत्रोच्यत इत्यादिना ।
नन्विदं सूत्रं कर्मणि शक्तिग्राहकं, न कर्तरि, तत्र कर्तृपदासत्त्वादित्याशङ्क्याह__अत्र हीति । चकारादिति । भाष्येऽनुकर्षणार्थसर्वचकारप्रत्याख्याने सति कथं तदनुवृत्तिरिति चेत् , स्वपितत्वप्रतिज्ञानादपेक्षावशाच्चान्यस्यान्यत्रेवा- त्रापि तदनुवृत्तिसंभव इत्यवेहि । भावे लकारस्तदनुवादको [न वाचको] नापि द्योतको, धातुत एव तस्य रफुटप्रतीतेः, संख्याकालार्थकश्च सः, तदर्थे संख्याया एकत्वरूपाया क्रियायामन्वयसंभावात् , अत एव भाष्येऽव्ययेभ्य इवैकवचनानुत्प- त्तिर्नाशङ्कितेति स्पष्टं मञ्जूषा-शेखरादौ । नन्वनेन सूत्रेण लकारे कर्मादिबोधकतारूपा शक्तिर्गृह्यते, न तु तिवादौ, न च स्थान्यर्थ [एवादेशार्थ] इति तत्रापि तत्सिद्धिरिति वाच्यं, स्थानिनोऽप्रयोगेण बोधाजनकत्वादित्याशङ्कां निराचिकीर्षु- राह__बोधकतारूपामित्यादिना । अतिरिक्तशक्तिपक्षेऽपि तत्समनैयत्यमेव तस्या इति बोध्यम् ।
तिबादिशक्तिमिति । तन्निष्ठां शक्तिमित्यर्थः, व्यवहारदशायां तत्प्रयोगा- देवार्थबोधात् । तत्स्थानित्वेन = तिबादिस्थानित्वेन । कल्पिते = लाघवेन प्रक्रियानिर्वाहार्थ कल्पिते । ननु'लस्ये'त्यनुत्तवा'तिप्तस्भी'त्यादिना स्वतन्त्राणां तिप्तसादीनामेव विधानमस्तु, एवं 'लः कर्मणि__'इति सूत्रे'तिङ्क- र्मणी'त्यस्तु,'वर्तमाने तिङ्'तिङः शतृशानचारप्रथमासमानाधिकरणे'इत्यादिन्यसै- स्तिवादीननुद्य तत्तत्कालविधिरस्त्विति चेन्न,__'दित आत्मनेपदानाम्__'इत्यादेर- संगतत्वापत्तेः । न च 'वर्तमाने तिङ्ट्' 'अनद्यतने तिङ्ट्' इत्यादिन्यासैस्तत्त- त्कालार्थकतिवादेस्तत्तदनुवन्धासङ्गः क्रियतां, तथा च 'टित आत्मनेपदानाम्__' इत्यादेर्नासंगतिरिति वाच्यं,'लिटस्तभ्योरेशिरेच्' 'लुटः प्रथमस्य डारौरसः' इत्या- देस्तथाप्यसंगतत्वापत्तेः,तत्र तत्र न्यासान्तरकरणे गौरवापत्तेश्चत्यास्तां विस्तरः । प्रकव्प्य = आरोप्य । 'अर्थवत्येव स्थान्यादेशभाव' इति नियमानुरोधात्तदारेप इति भावः । [तत्रानुरूपं दृष्टान्तमाह__नकारेति । 'रामान्' 'घदैः इत्यादौ नकारादित एव तत्तदर्थप्रतीत्या तन्निष्ठैव शक्तिरिति भावः । कर्त्तृत्वकर्मत्वपरे इति । लाववानुरोधात् । धर्मिपरत्वे गुरूभूतधर्मधर्मिणोरूभयत्र शक्तिः कल्पया, अनन्तानां कृतीनां, फलानां च शक्यतावच्छेदकत्वमुपेयं, तथा चातिगौरवम् । रृतेः शक्यत्वे तु,__कृतित्वस्य जातिरूपस्य शक्यतावच्छेदकतया लाघवमिति भावः ।
दर्शनान्तरीयरीत्या = भावार्थाधिकरणोक्तमीमांसकरीत्या । धात्वर्थत्वाभा- वादिति । विक्लित्त्यादिफलमेव धात्वर्थे, न व्यापारः, वहूनां धातूनां तत्र शक्ति-कल्पनापेक्षया तदपेक्षयाऽल्पानां प्रत्ययानां तत्कल्पने लाघवात्, 'पचतोत्य-त्राख्यातस्य भावनार्थककृधातुना विवरणाच्च तस्यैव भावनार्थकत्वं युक्तं, विव्रियमाणविवरणयोः समानार्थकत्वस्य क्लृप्तत्वादिति भावः । तत्फल- स्यापि 'कर्मवत् कर्मणा__'इत्यत्र क्रियाशब्दव्यवहर्तव्यतया दृष्टत्वेन तन्मात्रवाचिनोऽपि धातुसंज्ञासिद्धिः, एवमेव'पच्यते तण्डुलः स्वयमेवे'त्यत्र भवन्म- तेऽपि पच्यादेर्धातुत्वमिति भावः ।
तत्र = व्यापारे,व्यापारत्त्वं फूत्कारत्वादिकं वा शक्यतावच्छेदकं[ण्वुलादीना- म्] एवं 'फलस्य धातुलभ्यत्वेऽपि तदाश्रयत्वरूपे कर्मत्वे एव लकारविधिः स्या"दिति पूरणीयम्, अत एव 'कर्तृकर्मादिवाचित्वं ने'त्युत्तरग्रन्थे कर्मादिग्रहणं संगच्छते, पूर्वपक्षे कर्मवाचकत्वानङ्गीकारे तदसंगतिः स्पष्टैव । कृतामपीति । कर्त्राद्यर्थे विहितानां णवुल्तव्यदादीनामपि । न सिध्येदिति । उक्तयुक्तिसाग्या- दिति भावः । ननु 'कर्तरि कृत्' 'तयोरेव कृत्य__' इत्याद्यनुशासनवलात् कृतां कर्त्रादिवाचित्वसिद्धिः,तत्रत्यकर्त्रादिपदस्य धर्मिपरत्यादित्यत आह__'कर्तरि कृत' इति चेति । चेन 'तयोरेव__'इत्यादीनां परिग्रहः । तुल्ययोगक्षेममिति । तुल्यो योगक्षेमोऽर्थप्रतिपादकता यस्येत्यर्थः । अयं भावः,__'यदि लाघवमात्रपक्षपातेन 'लः कर्मणि__' इति सूत्रस्थकर्मादिपदस्य धर्मपरत्वाङ्गीकारस्तर्हि तत्रापि तथैव स्वीकार उचितो, वैषम्ये बीजाभावात् ।
नु देवदत्तादिनाऽभेदान्वयानुभवबलात् कृतां धर्मिवाचकत्वपुरस्कारः, भाव- नायास्त्वाक्षेपा[ल्लाभः] सेत्स्यतीत्याशङ्क्य प्रकृतेऽपि अभेदान्वयानुभवबलादेव तथात्वमुरीकर्तुमुचितमित्याह__अपि चेति । मीमांसकानामित्यस्य'मते'इति शेषः तथा सति = आक्षेपलभ्यत्वे सति । न स्यादिति । आख्यातावाच्यत्वात्, वाच्य- स्यैव प्राधाभ्यमिति नियमात् । अन्यथा'ग्निमानये'त्यादावाक्षिप्तपात्रादेरपि प्राधा- म्यापत्तेः, कि च 'मयूरः पर्वतेतरस्मिन्न नृत्यति' 'नृत्यति चे'त्यत्र नृत्यस्याधिकरणं विनानुपपत्त्या कल्प्यमानमधिकरणमितरभाधात् पर्मतरूपम धिकरणं सिध्यतीति मीमांसकसिद्धान्तः, तत्र तस्याधिकरणस्य प्राधान्यापत्तेः । अत एव विपरीतं न, तिङज्ञिवव कृत्स्वपि भावनायाः प्रत्ययवाच्यत्वादीक्षिप्तकर्त्रपेक्षया प्राधान्यापत्तेः । [तथा चाऽनुभवविरोधः,] तथा तोक्तं भट्टैः__यदि कर्त्रा धात्वर्थेन वा भावनावग- म्यते,ततः पाचकपाठकादिपदे इव तिरोहितस्वरवरूपावगम्येत, प्राधान्यात्तु शब्दा- र्थत्वाध्यवसानमिति भावः ।
घटमानयेत्यादाविवेति । जातेरानयनकर्मत्वान्वयानुपपत्त्या तदन्वयोपपत्तये जात्याक्षिप्तायाः स्वाश्रयव्यक्तेर्थथा प्राधान्यमनुभवसिद्धं, तद्वदाख्वातवाच्यकर्त्राक्षि- प्तभावनाया अनुभवसिद्धप्राधान्यमुपपादयितुं शक्यमित्यर्थः, उक्तनियमस्य व्याभि- चारादिति भावः । न च प्रत्ययवाच्यत्वात् कर्तुरेव प्राधान्यापत्तिः, प्रत्ययार्थाक्षिप्त- स्याप्राधान्यनियमात्, अत एवाक्षिप्तमात्रस्याप्राधान्यनियमे आकृत्यधिकरणोच्छेद इति दूषणस्यापि नावसर इति वाच्यं, तादृशनियमे मानाभावात्, 'गोमन्तमानये'-
त्यत्र मतुवर्थसंवन्धाक्षिप्तधर्मिणः प्राधान्यनुभवेन व्याभिचाराच्च ।
विवरणदर्शनात् = पाकं करोतीति भावनार्थककृधातुना विवरणदर्शनात् । वाच्यत्वं = प्रत्ययवाच्यत्वम् । विवरणविषयत्वाविशेषादिति । 'करोती'त्याथ्यातेन कर्तुर्विवरणं, ततः कर्तुरपि बोधाद् विव्रियमाणस्यापि तदर्थकत्वमावश्यकमिति भावः । तात्वर्यार्थेति । 'पचिती'त्यतः कर्तुर्बोधो जायतामिति यत्तात्पर्थ तद्वि- षयीभूताक्षेपलभ्यकर्तुर्विवरणं, न शब्दार्थविवरणमित्यर्थः ।
ननु शब्दार्थविवरणस्यैव दृष्टत्वेनेदमशब्दार्थ[विवरणमित्यसङ्कामनुरूपदृ- ष्टा्तप्रदर्शनेन निराकरोति__पाकं करोतीति । द्वितीययाऽशब्दार्थकर्मत्वादि]- विवरणादशब्दार्थस्यापि संसर्गस्य विवरणदर्शनेऽपि तदतिरिक्ताशब्दार्थविवरणम- दृष्टचरमेवेत्यनुशयानो दृष्टन्तान्तरमाह__इतरेतरद्वन्द्व इति । समुञ्चयांशेति । चद्वयेन समुच्चयांशो विव्रियते । तुल्यत्वादिति । भावनायाः शब्दार्थत्व- विरहेऽप्युक्तरीत्या विवरणोपपत्तौ भावनाया अप्याख्यातार्थत्वं न सिध्येदित्यर्थः ।
ननु लाघवाद्भावनैव प्रत्ययवाच्या, न तु कर्ता, गौरवात्, 'तथा सति कृता- मपि तथात्वं स्या'तिति न शङ्कनीयं, 'देवदत्तः पक्ते'त्यादौ देवदत्तादिनाभेदान्व- यबोधस्यानुभवसिद्धत्वादित्यत आह,__किञ्चेति । अभेदान्वयदर्शनात् = अभे- दान्वयस्यानुभवसिद्धत्वात् । समानविभक्तिमत्त्वमिति । ताद्दगन्वयप्रतियोग्य- नुयोगिवाचकविशेषणविशेष्यपदयोः समानविभक्तिमत्त्वं, तच्च विशेषणवाचकपदे विशेष्यवाचकपदोत्तरविभक्तिसजातीयविभक्तिमत्त्वं,[विशेष्यवाचकपदे विशेषणवाच- कपदोत्तरविभक्तिसजातीयविमक्तिमत्त्वं वा] । साजात्यं च विभक्तिविभाजकता- वच्छेदकप्रथमात्वादिना,नातः प्रथमाद्वितीयादीनां सर्वासां विभक्तित्वादिना साजा- त्या'न्नीलो घट'मित्यादिवाक्यादभेदान्वयबोधापत्तिः । नयामकम् = प्रयोजकम् । नास्तीति । प्रथमातिङविभत्तयोरेकरूपेण साजात्याभावात्, एवंचाभेदान्वयबोध- प्रयोजकाभावादभेदान्वयबोधासंभवान्न धर्मिणि शक्तिस्वीकारो युक्त इति भावः ।
व्यभिचारात् समानिवभक्तिमत्त्वस्य नियामकत्वं न संभवतीत्याह__सोमेन यजेतेति । सोमपदस्य सोमवति लक्षणा, सोमवतो यागेनाभेदान्वयः, अभेदान्व- यानुरोधादेव चात्र मत्वर्थलक्षणाभ्युपगम इति न्यायप्रकाशादौ विस्तरः ।
स्तोकं पचतीति । अत्र सोतोकपदार्थस्य धात्वर्थफलेऽभेदेनान्वयः । राज- पुरुष इति। अत्र राजस्वत्ववतो लश्रणया राजपदार्थस्य पुरुषेण तथान्वयः।अत्रा- द्यस्थलद्वये विभक्त्योः सजातीयत्वाभावयुक्तो विशिष्टाभावः,चरमे तु विशेष्याभाव-
प्रयुक्तः स इति विवेकः । अभेदान्वयबोधानापत्तेरिति । अक्तसमानविभक्तिमत्त्व- विरहादिति भावः । तथा चोक्तस्थलेऽभेदान्वयबोधो निष्प्रत्यूहस्तदुपपत्तये कर्त्रादौ शक्तिरावश्यकीति तात्पर्यार्थः ।
शङ्कते__न चेति । सामानाधिकरण्यमेकधर्मिबोधकत्वं, तथा च लक्षणयै- वाभेदान्वयबोधनिर्वाहे तत्र शक्तिस्वीकारो निरर्थक इति भावः । द्रव्यवाचित्वा- नापत्तेरिति । लक्षणयैव द्रव्यबोधनिर्वाहात् । इत्यादितद्धितानामपि । इत्यादि- समुदायघटकतद्धितानामपीत्यर्थः । अत्रामि 'द्रव्यवाचित्वानुपपत्ते'रित्यनुषङ्गेणा- न्वयः । ननु समस्यमानपदार्थसंपन्धिन्येव बहुव्रीहेरनेकमन्यपदार्थेऽनुशासनाद्वि- ग्रहवाक्याद्यदुपसर्जनको वर्तिपदार्थस्थः प्रतीयते स स्वाम्यादिरेवान्यपदार्थः, विग्र- हवाक्यवृत्तिवाक्ययोर्विशेषणविशेष्यभावव्यत्यासरूपमेव वैलक्षण्यमित्यन्यत् । तथा च कुतो यौगिकानां द्रव्यवाचित्वानुशासनेन [इति विग्रहप्रदर्शनात् ] प्रधानषष्ठर्थे एवानुशासनलाभादिति योजना । इत्यनुशासनेन । एतद्रूपेणानुशासनेन = शास्त्रेण । 'अनुशासनेने'ति करणे ल्युट् । इति विग्रहप्रदर्शनात् = एतादृशविग्र- हप्रदर्शनहेतोः, प्रधानीभूतषष्ठ्यर्थे एवानुशासनस्य = साधुत्वान्वाख्यानस्य लाभा- दित्यर्थः । अयमनुशासनशब्दो भावल्युडन्तः । विग्रहात् षष्ठ्यन्तार्थे तल्लाभः । षष्ठ्यन्तेन च प्रकृत्यर्ोपसर्तनको विभत्तयर्थः संबन्ध एव प्रतीयते, अतस्तत्रैव तस्य साधुत्वं लभ्यते इति समुदिततात्पर्यार्थः । उक्तं चारुणाधिकरणवार्तिके__
'बहुव्रीहिः समासोऽयं मतुबर्थे विधीयते ।
अस्यात्रेति च संबन्धे मत्वर्थीयः प्रवर्तते ।।' इति ।

[एवं वैश्वदेवादिशब्देऽपि बोध्यं, न चेष्टापत्तिरित्याह__तथा चेति । द्रव्या- नुक्तेरिति ।] आकृत्याधिकरणन्यायेनारुणादिपदस्यारुण्यादिगुणे एव शक्तिकल्प- नात् ,पिङ्गाक्ष्यादिपदस्योक्तरीत्या संबन्धे एव शक्तिकल्पनाच्चेति भावः । स्ववा- क्येति । स्वं = क्रयणभावना,तत्प्रतिपादकवाक्यघटकपिङ्गाक्ष्यादिपदोपात्तेत्यर्थः। अत्रारुण्यस्यामूर्तत्वात् क्रयणभावनां प्रति करणत्वासंभवात् तामुद्दिश्य तद्विधाना- संभवाद् गुणवाचकस्याप्यस्य लक्षणया द्रव्यबोधकत्वसंभवेन क्रयात्पृथग्भूतः- प्राकरणिकद्रव्याण्युद्दिश्य तत्परिच्छेदकत्वेनारुण्यरूपो गुणो विधीयते,__'येन द्रव्येण किचित् क्रियते तदरुणगुणकेने'ति ।
ननु लक्षितद्रव्यस्य क्रये एव करणत्वसंभवात् किमिति वाक्यभेदमुरीकरो- षीति चेन्न, एकहायन्यवरुद्धक्रये लक्षितद्रव्यान्तरविध्यसंभवात् , [एकहायन्यास्त- दुगुणविशिष्टायाविधानं सुकरमिति चेन्न,स्वशब्देन विधानेन पुनर्विधानाऽसम्भवात्] न चैकहायनीमेवानूद्य गुणविधिरस्तु, नैवं सति वाक्यभेद इति वाच्यम् । तथा सति तस्याः क्रयणं प्रति गुणीभावः स्वार्थत्वं च स्यात्, तच्चैकोच्चारणेन न संभवति, गुणीभूतत्वप्रधानत्वयोविरोधात् , तस्मादावृत्तिप्रसङ्गः, अतो वाक्यभेदं परिकल्प्य प्राकरणिकद्रव्यमात्रे आरुण्यनिवेश इति पूर्वपक्षयित्वा,__तृतोयया गुणस्यैव करणत्वं क्रयं प्रति विश्पष्टं गम्यते, तच्च द्रव्यद्वारेण युज्यत इति सिद्धान्त उक्तः । यद्यपि गुणस्यामूर्तत्वात् क्रयं प्रति साधनत्वं न संभवति,तथापि द्रव्यपरिच्छेदद्वारा संभवत्येव, तथा चायमर्थे भवति__'अरुणपरिच्छिन्नेन द्रव्येण क्रयं कुर्या'तिति। एवं श्रौतस्यैव गुणस्यैकवाक्यत्वे संभवति__लक्षणा,वाक्यभेदश्च न युज्येते, क्रियार्थत्वे च तदीयद्रव्ये एव निवेश इत्यभिहितं पार्थसारथिमि- श्रैरित्यलं विस्तरेण ।
एवं वैश्वदेव्यादिपदघटकतद्धितस्योक्तरीत्या द्रव्यवाचकत्वाभावे,__
'आमिक्षां देवतायुक्तां वदत्यवैष तद्धितः ।
आमिक्षापदसांनिध्यात् स्वस्यैव विषयार्पणम् ।।'__
__इति भाट्टसिद्धान्तविरोधस्तन्मूलकगुणाधिकरणोच्छेदश्च द्रष्टव्यः । तथाहि 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इति चातुर्मास्यान्तर्गतवैश्वदेवपर्वणि श्रूयते, तत्र 'वाजिभ्यो वाजिन'मिति वाक्येन प्रकान्तवैश्वदेवयागे_'वाज आमिक्षारूपमन्नंयेषामस्ती'ति व्युत्पत्या वाजिपदलब्ध- वेश्वेदेवानुद्दिश्य वाजिनरूपो गुणो विधीयते इति पूर्वपक्षमुकत्वोत्पत्तिशिष्टश्रौता-
मिक्षारूपद्रव्यावरुद्धत्वेन निराकाङ्क्षतया प्रकृतयागे वाजिनस्य निवेशासंभवेन तद्गुणकमपूर्वदेवताकं कर्मान्तरं विधीयते, प्रकृतयागे वाजिनसंबन्धो भवनवाक्येन स्यात्,ततः पूर्वमेव तद्धितश्रुत्या प्रबलयामिक्षासंबन्धसंपादनं कृतमिति नैराकाङ्क्ष- यम्, आमिक्षेतिपदांतरापेक्षासत्वेऽपि स्वभिन्नार्थकपदान्तरापेक्षणात् श्रौतस्वमेव विनियोगस्य, यत्र भिन्नार्थकपदान्तरापेक्षा तत्र वाक्यप्रमाणकत्वम्,तथा चोक्तगुण- कर्मान्तरविधानमिति सिद्धान्त उक्तः, उक्तरीत्या तदसंगतिःस्पष्टैवेति । मूलोक्त- युक्तेः सामानाधिकरण्यस्येति । [द्रव्यवाचकत्वसाधिका मूलयुक्तिः, = असाधारण- युक्तिः,] सामानाधिकरण्यं = 'पिङ्गाक्षी गौः' वैश्वदेव्यामिक्षेत्यत्रानुभवसिद्वं सामा- नाधिकरण्यं, तस्योक्तरीत्या = आक्षेपादिनोपपत्तेरित्यर्थः । एवं च यौगिकानां गोमत्पिङ्गाक्ष्यादिपदानां, तद्धटकस्य प्रत्ययस्य च न किचिद् द्रव्यवाचकत्व- साधकं, तत्प्रतीतेराक्षेपादिनोपपत्त'रिति तेषां तद्वाचित्वं न स्यादिति भावः ।
नन्वेवं गोमत्त्वमित्यतः संसर्गप्रत्ययो न स्यात्, पदार्थतावच्छेदकस्यैव त्वा- द्यर्थत्वादिति चेन्न, गोत्वादिपदेभ्यः शक्यजातिभानवतद्भानोपपत्तीः , ननु प्रकृति- जन्यबोधे आक्षिप्तव्यत्तयंशे प्रकारतया तद्भानोपपत्तिरिति चेन्न , प्रकृतेऽपि साम्यत्, । यत्तु मीमांसावार्तिककारैर्मतुबार्द्रव्यवाचकतासाधकयुक्तिरुपन्यस्ता,- "मतुबादेर्न संबन्धसामान्यं वाच्यं, [गोमद्दण्ड्यादिपदानां] पर्यायतापत्तीः, न संब- न्धविशेषः, तत्र संबन्धिरूप एव हि विशेषोऽतःसोऽवस्यं वाच्योऽनभिहितस्य व्यावर्तकत्वासंभवात्, प्रातिपदिकेनैकसंबन्ध्यभिधानेऽपि संबन्धस्योभयनिरूप्यत्वेन द्वितीयाभिधानावश्यकत्वे [उभयवाचकत्वे] प्रत्युत गौरवं स्यात्, अतो लाघवाद् द्रव्यमेव मतुवादिवाच्यं, तेनाक्षेपाल्लाभे न संबन्धे शक्तिः । उक्तं च__
'सर्वत्र यौगिकैः शब्दैर्द्रव्यनेवाभिधीयते ।
न हि संबन्धवाच्यत्वं संभवत्यतिगौरवात् ।।'
कि च__
'संबन्धिनैव संबन्धः प्रत्येतुं यदि शक्यते ।
पुनस्तस्याभिधाशक्ति कः श्रुतेः परिकव्पयेत् ।।' इति
भावर्तत्ययेनैव संबन्धाभिधानं न स्यादिति चेन्न ।
'यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः ।
तदा गन्तन्तराभावात् संबन्धो वाच्य आश्रितः ।।'
__इत्यनेन तदभिधाने युक्तेरुक्तत्वात् । मतुबर्थविशेषणीभूतानां गवां
पुरुषासमवेतत्वात् समवेतगुणाभिधायिना त्वप्रत्ययेन ग्रहणासंभवेनागत्यार्थाक्षिप्तः संबन्धरतदर्थ इत्याश्रीयते इति तदर्थः । यदप्येकं हायनमस्या इति विग्रहदर्शनात् [षष्ठ्यर्थ]संबन्धार्थकता तादृशसमासस्य स्यादिति दूषणं, तदपि न । अनुभूय[मान]मतुबर्थानुसारेण चित्राणां गवामयमित्यादिवाक्ययस्यैव विग्रह- त्वस्वीकारात् । तदुक्तम्__
'अभिधेयो बहुव्रीहेर्यद्यप्यस्येति कथ्यते ।
तथापि प्रथमान्तेन तुल्योऽसौ संप्रतीयते ।।' इति ।
अत्राहुर्बृहद्भूषणकृतः__मतुबादीनां द्रव्यसामान्यवाचित्वे पर्यायतापत्तेः तुल्यतया विशेषत एव तद्वोधकत्वाङ्गीकार आवश्यकः । तत्र विशेषः संसर्गो गवादिप्रातिपदिकार्थो वा, आद्येऽप्रतीतस्यानभिहितस्य विशेषकत्वासंभवाद्वाच्यत्वं तस्याङ्गीकार्यमेवं च गौरवं स्पष्टमेव। अन्त्ये संसर्गवाचितामतेऽपि प्रातिपदिका- र्थस्य गवादेर्व्यार्क्तकतया विशेषणत्वसंभवे तत्पक्षोपेक्षा नोचिता । संबन्धप्तत्यक्षे एव यावत्संबन्धिप्रस्यक्षं कारणमन्यथा घदाकाशसंयोगप्रत्यश्रापतेतीः । एवं चोभ- यनिरूप्यः संबन्ध इति द्वितीयसंबन्धिज्ञानं विना तद्वोधानिर्वाहात्तद्वाचकतावश्य- कीति दूषणं निरस्तम् । तथा च गोमत्पदाद्गोविशिष्ट इतिबद् गोसंबन्ध इति बोधो निष्प्रत्युह एव । शब्दशक्तिस्वभावादेव,__भावनापदोपात्तभावानाया आश्रयानाक्षेपकत्वमाख्यातोपात्तायास्तस्यास्तदाक्षेपकत्वमितिवत्__ संबन्धपदो- पात्तसंबन्धस्याश्रयानाक्षेपकत्वेऽपि मतुवाद्युपात्तस्य तस्य तदाक्षेपकत्वं संभवति । 'यद्वा स्वसमवेत' इत्याद्यपि , त्वादेः स्वसमवेतगुणवाचकत्वनियमासिद्धेर्जातेः पदार्थत्वमते प्रकृत्यर्थवाचकत्वसीकारेण मतुबादेः संबन्धावाचकत्वे गोमत्त्वमित्य- तस्तत्प्रत्ययानापत्तः, प्रकृत्यर्थसमवेतवाचकत्वेऽतिगौरवापत्तः । घटत्वत्वमित्यतो घटत्वत्वस्यैव बोधापत्तेश्च । घटादिपदेन घटत्वाभिघानेऽपि प्राधान्येन बोधार्थ त्वादिशक्तेशवश्यकतेति न वैयर्थ्यशङ्केति बोध्यम् । तस्मात् संबन्धवाच्यत्वे दोषाभावादनुशासनलभ्यत्वाच्च तस्यैव वाच्यत्वं स्यान्न तु द्रव्यस्य । सामानाधि- करण्यानुरोधेन द्रव्यं मतुबादिवाच्यमिति चेत्__प्रकृतेऽपि तुल्यमित्यादि वेस्तरेण बृहद्भूषणे निरूपितमित्याशयेनाह__विस्तरेणेति । ननु 'लः कर्मणि__' तिप्त- सभि-', द्वचेकयोद्विवचलैकत्वादौ लकारस्य स्थाने एकवचना दिसंज्ञकास्तिबादयो भवन्तीति वाक्यार्थपर्यवसानादेकत्वादिसंख्याया एव वाच्यत्वमनुशासनल्लभ्यते, न कर्तृ कर्मणोः, शवरसामिभिः पुरस्कृतोऽयमर्थ इति चेन्न, एकवचनादिसंज्ञाया
आदेशनिष्ठतया तिवादिविधिनैव 'द्वचेकयो-' इत्यादेरेकवाक्यता, न तु 'लः कर्मणि-' इत्यनेनापि, तत्र च न कर्तरीत्यादिकमस्ति । अत उक्तर्थकत्वासंभवा- ल्लविधितिवादिविध्योस्तु न पदैकवाक्यतापि तु वाक्यैकवाक्यता, लविधिलभ्यल- कारानुवादेनादेशाविधेः प्रवृत्तेः, स चैकवचनादिसंज्ञाविनिर्मुक्त एव, तस्मात्-'लः कर्मणि-' इत्यनेनादौ वाक्यार्थबोधने कृते सत्येवान्येनैकवाक्यया तेन च कर्त्रदि- कमर्थमुपादाय तत्र लकारस्य विधानात्तस्य वाच्यत्वं दुष्परिहरमेव । ननु 'वर्त- माने लट्' इत्यादिना विहितलकारमुद्दिश्योक्तरीत्या पदैकवाक्यतासंभव इति चेदे- वमपि सुप्स्विव तिङ्क्षवपि कर्त्रादीनां प्रत्ययार्थत्वं संख्यायायास्तद्विशेषणत्वं च दुर्वारम् । अपि च कर्माशेऽप्येवमेवापत्तौ कर्मणोऽप्यवाच्यत्वापत्त्या 'पच्यते तणडुल' इत्यादौ भावनायाः कर्मव्यभिचारितयाक्षेपासंभवेन कमणो बोधानापत्तिः । आख्यातार्थसंख्ययाश्रयाक्षेपसंभवेऽपि कर्मत्वशक्तिमत्त्वेन बोधानुपपत्तिर्दृदैव । ननु कर्तुर्वाच्यत्वे नानृतं वदेदिति निषेधसेय प्रकरणापेक्षया श्रुतेर्वलवत्त्वात् पुरुषार्थत्व- मेव स्यान्न क्रत्वर्थत्वं तथा च क्रतौ तादृशापभाषणे कृतेऽपि क्रतुभ्रंशप्रायश्चित्ता- नापत्तिः, न चेष्टापत्तिः, यााज्ञिकसमाचारविरोधात् । 'परावारज्ञा केचिदृषयो यद्वा नस्तद्वा न इति प्रयोक्तव्ये वर्वाणस्तर्वाण इति प्रयुञ्जते, याज्ञे कर्मणि पुन- र्नाभाषन्ते, यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः' इति पस्पशाह्निकस्थभाष्यस्वरस- विरोधाच्चेति चेन्न । प्रकारणसचिवश्रुत्या क्रतुयुक्तपुरुषार्थत्वसंभवेनादोषात्, प्रमा- णयोर्विरोधे एव बलावलचिन्ताप्रवृत्तेः, प्रकृते विरोधाभावादन्यथा 'जञ्जभ्यमानोऽ- नुब्रूयान्मति दक्षक्रतू' इत्यत्र क्रतावपि जञ्जभ्यमानपुरुषसत्त्वादविरुद्धाभ्यां वाक्य- प्रकरणाभ्यां पुरुषसंस्कारमुखेन क्रत्वर्थत्वसिद्धान्तस्त्वदीयो भज्येतेति मञ्जूषादौ विस्तर इत्यलं पल्लवितेन ।
नु 'लः कर्मणि-'इत्यनुशासनेन लकाराणां शक्तिबोधनात् 'आश्रये तु तिङः' इत्ययुक्तमित्याशङ्क्याह__बोधकतेति । तत्र = कर्त्राद्यर्थनां मध्ये । कर्तृकर्मणी [व्यापारफलयोरिति । कर्त्ताव्यापारे, कर्मफलेविशेषणमित्यर्थः । कर्मप्रत्यये कर्मणीत्यत्र] विशेषणमित्यनुषज्यते । ननु धात्वर्थस्य प्रकृत्युपस्थापिततया तस्यापि प्रत्यासन्नतया तत्र कुतो न विशेषणं, कि च प्रत्ययार्थस्य प्रकृत्यर्थ एवान्वयस्य न्याय्यत्वात् , सुबर्थसंख्यायाः प्रकृत्यर्थ एवान्वयस्य दृष्टत्वाच्च, तत्रैव तदन्वय उचितः इत्याशङ्कं निराकर्तु कर्त्रादौ विशेषणत्वे हेतुमाह__समानेति । तथा च धात्वर्थापेक्षया प्रत्यासत्त्यतिशयातत्रैव तदन्वय
उचितः । अत एव 'अनभिहिते' इति सूत्रभाध्ये 'प्रातिपदिकार्थ__' इति सूत्रे एतदनुवृत्तौ सत्यां संख्याया एवैतद्विशेषणं स्यादन्यस्यासंभवात् । तथा च 'पचत्योदनं देवदत्त' इत्यादौ प्रथमा न स्यात्, तिङोक्तत्वादेकत्वादीनामित्युक्तमा- ञ्जस्येन संगच्छते, क्रियायां तदन्वये तु तदसंगातिः स्पष्टैव । अत एव 'पचतीति कर्तु'रेकत्वं तिडाऽभिहितमिति प्रथमा न स्यात्' इति कैयटोपाध्यायै- रुक्तम् । रूपप्सूत्रे 'साधनापेक्षं पचत इत्यदौ द्विलचनम्' इति भाष्यपीत्यमेव व्याख्यातं तैः । क्रियायामनारोपितद्वित्वासंभवश्च, सर्वत्रारोप मानाभावश्च । 'तिबन्तं चापि किचिद्विभत्तर्य्थप्रधानं किचित् क्रियाप्रधानम् , काण्डे कुड्ये इति विभत्तयर्थप्रधानं रमते ब्राह्मणकुलमिति क्रियाप्रधानं, न चैतयोरर्थयोर्लिङ्ग- संख्याभ्यां योगः' इति 'हस्वो नपुंसके__' इति सुत्रस्थभाष्यविरोधश्च (न) ? अत्र प्राय इति रोशः । तेन हतशायिका इत्यादौ तद्योगेऽपि नाऽसंगतिः । पचतोरुपमित्यादावप्यौत्सर्गिकमेकवचनं पचतिरूपमितिवत् ।
वस्तुतस्तु हतशायिका इत्यादावपि नासत्त्वभूतक्रियायां संख्यान्वयः, परं तु भाष्यकारवचनादेव तत्र बहुवचनमिति प्रामाणिका इति वृहद्भूषणादौ स्पष्टम् । अन्ये तु भावतिङन्ते एकवचनमौत्सर्गिकमसत्त्वभूतत्वात् क्रियायाः । अन्यथा 'ब्राह्मणाभ्यामास्यते' इत्यादौ द्विवचनाद्यापत्तेः, क्रियाभेदेन कर्तृभेदस्याश्यकत्वादिति वदन्ति । मीमांसकनैयायिकादीनामपि साधम एव संख्यान्वयोऽभिमतो न क्रियायामियानेव परं भेदो यतन्मते पदान्तरोपस्थापितादौ तदन्वयः, स्वमते तिङुपस्थापिते इति । न चानेकः पचति, दाराः पचन्ति इत्यदौ साधनेऽप्यारोपितसंख्यान्वय आवश्यक इति वाच्यम् । तत्रागत्या तदङ्गीकारे मानाभावादिति भावः । सुब्विभत्तर्य्थसंख्यायास्तु समानप्रत्ययोपात्तेऽन्वयासंभवात् प्रकृत्यर्थे एवान्वयः, कर्मादीनां विभक्तिवाच्यतामते तत्संभवेऽपि द्योत्यतामते तदसंभव एव । तधा चोक्तं 'बहुषु बहुवचनम्' इति सूत्रभाष्ये__'एवं तर्हि एकवचनं, द्विवचनं, बहुवचनमिति शब्दसंज्ञा एताः, येष्वर्थेषु स्वादयो विधीयन्ते तेषु बहुषु, केष्वर्थेषु स्वादयो विधीयन्ते, कर्मादिषु, न वै कर्मादयो विभत्तर्य्थाः, के तर्हि ? एकत्वादयः, एकत्वादिष्वपि वै विभत्तर्य्थष्ववश्यं कर्मादयो निमित्तत्वेनोपादेयाः, कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे इति' इति । अत्रानभिहिताधिकारारम्भसामर्थ्यात् संख्या 'विभक्तिवाच्या, चतुष्टयं प्रातिपदिकार्थ इत्याशयको 'न वै कर्मादयः' इत्यादिः 'के तर्हि एकत्वादयः'
इत्यन्तो ग्रन्थ इत्याहुः । परे तु पञ्चकं प्रातिपदिकार्थ इत्याशयकोऽयं ग्रन्थः, अर्धजरतीयस्यायुक्तत्वात्, अत्रापि पक्षे एकत्वादीनामाश्रयाकाङ्क्षायां 'कर्मणि द्वितीया'इत्यादिभिरेकवाक्यत्वे सति प्रत्यासन्नतया संभवेन च निमित्तत्वमित्याशयेन 'एकत्वादीनां प्राधान्याभिप्रायिका इत्याहुः । तथा च समानप्रत्ययोपात्तत्वप्रत्यासत्याख्यातार्थसंख्यायास्तदर्थान्तरे आश्रये एवान्वयः । एवं 'लः कर्मणि__' 'तिपतस्__' 'द्वयेकयोः__' इत्यादीनामेकवाक्यतयैकत्वा- दिविशिष्टकर्त्रादौ तद्विधानादित्यपि बोध्यम् । तत्र भवन्तः परे तु तेषां पूर्वोक्तरीत्या वाक्यैकवाक्यता, न पदैकवाक्यता, सा च लकाराः कर्मादौ भवति, तेषां च स्थाने एकत्वादौ तिबादयो भवन्तीत्येवंरूपा । तत्र हि द्वितोयस्य कर्मणीत्यादिपदस्यासत्त्वात् कर्मादावेकत्वादेर्विशेषणत्वं न संभवति । आावृत्तौ च मानाभावः, तस्माद्धात्वर्थ एव संख्यान्वयः । कस्यैकत्वादावित्याकाङ्क्षाया- मुपस्थित[प्रकृत्यर्थस्यैव सम्बन्धौचित्या]त्प्रकृत्यर्थगतैकत्वादावित्येवार्थः । एवं हि सुपतिङ्विषये 'द्वयेकयोः__' इत्यादीनामैकरूप्यं भवतिः अत एव समानप्रत्ययो- पात्तत्वमप्यकिचित्करम् । कर्मणीत्यादेरपि विधेयं प्रति गुणत्वाद्गुणानां च परार्थत्वादिति न्यायेन संख्यया तत्संबन्धासंभवात् । स्वप्रकृतिकप्रत्ययवाच्य- साधनगतसंख्यारोषेण च न द्विवचनाद्यनुपपत्तिः । [आरोप]मूलभूतसाधनधर्मिक- तत्संख्याप्रकारकमानसनिश्चयसत्त्वान्न कर्त्रादौ तत्संशयः । देवदत्तयज्ञदत्ताभ्यां भूयते, सुप्यत इत्यादौ कर्तृगतद्वित्वाद्यारोपनिबन्थनद्वि वचनादिकं तु नापा- दनीयम् । शक्तिस्वभावात्, स्वप्रकृतिकप्रत्ययवाच्यसाधनगतसंख्याया एव क्रियायामारोपो न तु भिन्नपदोपात्तसाधनगतसंख्याया इत्ङ्गीकारात् । अनेकः पचतीत्यत्रारोपिताया एव साधनगतसंख्यायाः प्रत्यायकत्वस्य भाष्यासिद्धान्ते ??*त्कृप्तत्वाच्च । उत्तरपदार्थप्रधानो नञ्तत्पुरुष इति भाष्यसिद्धान्तात् 'पञ्चकृत्वः पच्यत इत्यादौ पदान्तरसमभिव्याहारेण बहुत्वागमेऽपि लक्ष्यानुसारेण पदसंस्कारपक्षस्यैवाङ्गीकारान्न बहुवचनाद्यापत्तिः । धातुना च निवृतिभेदैव क्रियाप्रतिपाद्यते । तदुक्तं हरिणा__
'एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदाश्रयः ।।' इति ।
व्याख्यातं चैतद्धेलाराजेन,__एकपदापात्तकर्तृकर्मलक्षणसाधनाधारकद्वित्वबहुत्वा- भ्यां पचतः पचन्ति पच्येते पच्यन्ते इति क्रिया विशेष्यते, तेन हि
द्विबहुसाधनसाध्यत्वं प्रतीयते क्रियायाः । एवं तद्गतलिङ्गयोगो न, शब्दार्थ प्ततीतेः स्वाभाविकत्वेन युत्तयगम्यत्वादिति । तथा 'सम्बन्धाज्जातभेदोऽयम्' इति हरिकारिकाप्रतीकमुपादाय 'यथाख्याते प्रत्ययवाच्याकारभेदे सति तत्सम्बन्धात्धात्वर्थक्रियायामपि भेदः प्रतीयते यथा पचतः पचन्ति इति पुञ्ज- राजः । अत्र द्विवचनान्तोदाहरणादेकत्वं स्वगतमेव प्रतीयत इत्यभिप्रतेम् । अत एव ङ्याप सूत्रे भाष्ये तत्सूत्रानारम्भे पचतीत्यादौ तिङन्तात् स्वायुत्पत्तिश- ङ्कैकत्वादीनामुक्तत्वात् परिहृता । तव मते साधनगताया उक्तत्वेऽपि प्रधान- भूतधात्वर्थगतसंख्याया अनुक्तत्वात्सुवुत्पत्तिर्दुर्वारा, सुपो विशेष्यगतसंख्याऽ- भिधायकत्वात् । तथा रूपपसूत्रभाष्येऽपि 'पचतिरूपं' पचतीरुप'मित्यादाव- मोऽनुपपत्तलिङ्गसंख्याविरहादित्याशङ्क्य क्रियाप्रधानमाख्यातं, क्रिया चैका न द्वित्वादिमतीति तिङ्न्ताद्भेदानवगतेः । त्कीबत्वं च स्वभावात् । यद्येका क्रिया पचत इत्यादौ कथं द्विवचनादीत्याशङ्कय साधनापेक्षं तदित्युक्तम् । अत्र साधने द्वित्वाद्यन्वय इति व्याख्या न साधीयसी । एकत्वस्य क्रियायामन्वय, द्वित्वादेः साधने इति वैरूप्यापत्तेः । यद्यपि क्रियागतमेकत्वं तिङोक्तं तथाप्यनेन ग्रन्थेन पचतोरूपं पचन्तिरूपमित्यत्रानुपपत्तिः परिहृतेति भावः । अत एव तदग्रे पचतोरूपमित्यादावपि पचत इतिवद् द्विवचनाद्यापत्तेस्तिङोक्तत्वात् परिहारे कृते सति 'एकवचनमपि तर्हि न प्राप्नोति' इत्युक्तम् । पचतीत्यत्र तिङोक्तत्वादेकत्व- स्यैकवचनं न प्राप्नतीति तदाशयः कैयटोपाध्यायैरुक्तः । तदग्रे च 'एकवचननमुत्सर्गतः करिष्यति' इति तत्परिहार उक्तः । न र्चौत्सर्गिकमेकवचनं पचतोरूपमित्यादावपि भविष्यति तथा च क्रिया चैकेत्याद्युक्तिर्निरर्थिकेति वा- च्यम् । 'द्वयेकयो__'इति यथाश्रुततत्सूत्राभिप्रायेण तस्य सत्तवात् । औत्सर्गिक- मेकवचनमिति पक्षेऽपि पूर्वोक्तक्रियागतैकत्वस्वाख्यण्डनाच्च तस्यानभि- प्रेतत्वमिति बोध्यम् । एको द्वौ बहव इत्यादौ द्वयोरेकस्य बहुषु त्रयाणामित्यादि- निर्देशैः प्रातिपदिकार्थसूत्रे वचनशब्देन च संख्याप्रवृत्तिनिमित्तकैकादिशब्देध्वनुवा- दकविभत्तयैव न केवलेति नियमपरिपालनेऽप्यत्रौत्सर्गिकैकवचनेनैतत्परिपालनं लक्ष्यानुरोधादुक्तभाष्यप्रामाण्याच्च । अतो न पचतोरूपमित्यादौ द्विवचनाद्या- पत्तिः। एवं भावे स्वगतैकत्वनिबन्धनमेवैकवचनं न त्वौत्सर्गिकम् । धात्वर्थे तदन्वयानुपगमे पचति भवति पचतो भवतीत्यादौ भूधातूत्तराख्यातार्थ- संख्यानन्वितैव स्यात्, न चेष्टापत्तिः । 'भवतिः पुनर्वर्तमानकालं चैकत्वं च' इति
भूवादिसूत्रस्थभाष्येण तस्य संख्यार्थकत्वप्रत्यायनादित्यादि समूचिरे। विस्तारो मञ्जूषायामनुसंधेयः । आख्यातार्थसंख्याप्रकारकेति । कर्तृकर्मविशेष्यकेत्यपि पूरणीयम् । तथा चाख्यातोपस्थितसंख्याप्रकारककर्तृभूतार्थविशेष्यकबुद्धित्वं, तत्त्वविशिष्टकर्मभूतविशेष्यकबुद्धित्वं च कार्यतावच्छेदककम्, आख्यातजन्यकर्त्रुप- स्थितित्वं तत्कर्मोपस्थितित्वं कारणतावच्छेदकं, समवायः कार्यत्वकारणत्य- योरवच्छेदकः सम्बन्धः । कर्तृप्रत्ययेन कर्त्रादिविशेष्यकबोधजननादाख्यात- जन्योपस्थितेर्व्यभिचारात्कार्यतावच्छेदकदिशिप्रकारकान्तनिवेशः, सूबर्थसंख्या- प्रकारकतादृशबुद्धेरुदयात्तद्दाषतादवस्थ्यं स्यादतः__आख्यातार्थेति संख्याविशेष- णम् । तदर्थसंख्याया अपि आख्यातशक्यतया तदवस्थो दोष इति तदुपस्थितिपरं, तज्जन्योपस्थितिसहकारेण संख्याप्रकारकबोधप्रापकम् । अन्यथा सुबुपस्थितायास्तॢडुपस्थितायाश्च संख्याया एकेनोक्तत्वाद्दोषतादवस्थ्यापत्तिः । काष्ठः तण्डुलं पचतीत्यत्राख्यातार्थसंख्यायाः करणादावन्वयबोधवारणाय कर्तृ विशेष्यकत्वादेः कार्यतावच्छककोटौ निवेशः । ननु तथापि कर्तृप्रत्यये कर्मणि कर्मप्रत्यये कर्तरि तदापत्तिरिति चेन्न । कर्तृकर्मणोराख्यातार्थत्वस्य निवेश- नीयत्वात् । तस्य च पूर्ववदेवार्थोऽतो न तदवस्थेदोषः । पदान्तरेण कर्त्राद्युप- स्थितितस्तादृशबोधवारणायाख्यातजन्यत्वं तत्तदुपस्थितौ निवेशितम् । चैत्रस्य तथाविधसंख्योपस्थितिसत्त्वे मैत्रस्य तादृशवारणाय समवायस्यतद्घटकतया निवेशः । वस्तुतस्तु कर्तृकर्मविशेष्यकत्वं कार्यातावच्छेदके न निवेश्यं, कर्तृत्वाद्य- बच्छिन्नविशेष्यतासम्बन्धेन कार्यकारणभावाङ्गीकारान्न पूर्वोक्तदोषः, तज्जन्या कर्त्राद्युंपस्थितिरुद्वोधिका उद्वोधककार्यताकारणतावच्छेककोटौ तत्पुरुषीयत्वप्रवे- शान्न चैत्रस्येत्यादिदोषः । तत्पुरुषायत्वनिवेशात् कार्यकारणभावबाहुल्यमिति तु न शङ्क्यं, विषयनिवेशापेक्षया कार्यकारणभावनामल्पत्वात्, विषयापेक्षया पुरुषाणा- मल्पत्वात् । परमते कार्याकारणभावप्रयुक्तं गौरवमाह, नैयायिकेति । वक्ष्यमाण- कार्यकारणभावाभ्युपगमे युक्तिमाह_आख्यातार्थेत्यादिना । तथा च तदनभ्युपगमे तथाविधनियमानुपपत्त्या स आवश्यकः । द्वितीयाद्यन्तपदोपस्थापितेऽपि तदन्वया- पत्तेरिति भावः ।। आख्यतार्थेति पूर्ववद्वयाख्येयं, पदप्रयोजनमपि पूर्ववदव- गन्तव्यम् । जन्योपस्थितिरिति । विषयनिष्ठप्रत्यासत्त्या कार्यत्वकारणत्वपक्षे प्रथमान्ततत्पदार्थनिष्ठविषयता कारणतावच्छेदकतया प्रवेश्या,नातः समूहाल- म्बन[प्रथमान्तपदजन्योपस्थितिविषयतयाः पदार्थान्तरे सत्त्वादतिप्रसङ्गः ।]
प्रथमान्तपदजन्येत्यादिना पदान्तरजन्योपस्थितेः कारणताभ्युपगमात् । एतन्मते स्वमतापेक्षया गौरवमावेदितम् । सोऽपि = उक्तकार्याकारणभावोऽपि । चन्द्र इवेति । चन्द्रादेरपि प्रथमान्तर्थतया चन्द्र-भोजनादौ 'दृश्यते' 'व्रचती'त्याद्या- खयातार्थसंख्याप्रकारकान्वयबोधापत्तिः, न चेष्टापत्तिः, अननुभवात्, 'चन्द्र इव दृश्येते मुखे'इत्यादौ 'दृश्येते'इति द्विवचनाद्यनुपपत्तिः, चन्द्रस्यैकत्वेन द्वित्वान्वयासंभवात् । न च कारणेन कार्यजननाद्विशेषत आपादकाभावः, सामटया एवापादकत्वात्, मुखे एव तदन्वयबोधो न चन्द्रे इति नियमानिर्वाह- स्योद्भावनीयत्वाच्च । इतराविशेषणत्वेति । समवायेन कार्यकारणभावपक्षे 'इतरविशेषणतानापन्नप्रथमान्तार्थविशेष्यत्वं' कार्यतावच्छेदककोटाबन्तर्भावनीयं, द्वितीयपक्षे इतरविशेषणतानापन्ननिष्ठविषयतैव प्रत्यासत्तित्वेन निवेश्येत्यर्थः । चन्द्रभोजनस्य व्रजनक्रियायामिवार्थसादृश्ये विशेषणत्वान्नोक्तापात्तिः । अतिगौरव- मिति । स्वमते चन्द्रादेरतवाख्यातार्थत्वविरहेण तत्र संख्यान्वयबोधस्याप्रसक्ततया नेतराविशेषणत्वं तत्रान्तर्भावनीयमिति भावः । इदमपि = उक्तगौरवमपि, स्वमते परमातपेक्षया लाघवमपीति वार्थः । ननु व्यापारे विशेषणत्वमन्याय्यं, समान- प्रत्ययोपात्तयोः कर्तृकर्मणोरेव तदन्वयस्योचितत्वात् । न च धातीरित्यनु- वृत्त्या प्रयोगे, धातोर्वर्तमानत्वस्याविवक्षणात्तदर्थगतवर्तमानत्व इत्यर्थलाभाद् व्यापारे एव तदन्वयाङ्गीकार इति वाच्यं, फलस्यापि धात्वर्थत्वाविशेषेण व्यापारे एव तदन्वये विनिगमकाभावादित्यत आह__तथाहीति । तञ्च = धातुपदं च । धात्वर्थ वदत् = उक्तरीत्या धात्वर्थ बोधयत् । प्राधान्याद्__प्राधान्याच्च चकारेण लक्ष्या- नुरोधपरिग्रहस्तेन 'पच्यते' 'पच्यमान' इत्यादौ फलस्य प्राधान्येऽपि न क्षतिः । कर्तृकर्मणोरेवेति । न च पूर्वोक्तयुक्तया व्यापारे एवान्वय इति वाच्यम्, अनुवृत्तधातोरित्यस्य पञ्चम्यन्ततया तथावाक्यार्थसंभवात्, आवृत्तौ मानाभावात्, लक्षणैकचक्षुष्कस्य लक्ष्यदर्शनाभावाच्चेति भावः । लक्ष्यैकचक्षुष्कदर्शनाभिप्रायेण समाधत्ते__अतीतेति । अनिष्टप्रसञ्जनमुक्त्वेष्टासिद्धिमप्याह__अपाक्षीदिति । नन फले एव तदन्वयः स्वीक्रियतां, तत्र च न पूर्वोक्तदोषावसर इत्याशङ्क्य निराचष्टे__नापीत्यादिना-आपत्तेश्चेत्यन्तेन । प्रयोगापत्तिरिति । फले तदन्वया- ङ्गीकारपक्षे तु फलस्यावर्तमानतया नायं दोषः, तथा चायमपि पक्षो दुष्टः, एवं च सर्वपक्षाणां दुष्टत्वे तुल्ये एतत्पक्षस्यैवाश्रयणमनुचितमिति भावः । अज्ञाना- दप्रयोगादिति । ज्ञानस्यैव बुबोधयिषया प्रयोगे निमित्तत्वात्, शुकादिवत्
प्रयोगस्त्विष्ट एव । ननु परप्रयत्नाप्रत्यक्षत्वेऽप्यानुमानिकादिज्ञानसंभवात्तथाविध- प्रयोगो दुर्वार एवेत्याशङ्क्ये्टापत्त्या परिहरति,__किचितिति । किचिच्चेष्टा- दिनेत्यर्थः, आदिना तदीयलेखादिः ।
बृहद्भूषणकारादयस्तु-"तदीययत्नो नोत्थानात्मकफलानुकूलोऽपि तु तदुद्दो- श्यकोऽत एव तत्रोत्थानाय यतत इत्येव प्रयोगो नोत्तिष्ठतीति, अनुकूलता- विशेषस्यैव फलव्यापारयोः संसर्गतयाभ्युपेयत्वात् । अत एव तण्डुलक्रयणादि- दशायामयं पचतीति न प्रयोग"__इत्याहुः ।
एवंञ्चेति । एवं = पूर्वोक्तयुक्तीनामवश्याश्रयणीत्वे । भावनैव = धात्वर्थ एव । ननु 'भावनाया धातुवाच्यत्वे कर्त्रादेस्तिङ्वाच्यत्वे तस्याः प्रत्ययार्थसाधनं प्रति विशेषणत्वापत्तिः, संख्याकालाद्यतिरिक्तप्रत्ययार्थस्य प्रकृत्यर्थ प्रति प्राधान्य- स्यैव नियतत्वा'दिति मीमांसकादिप्रोक्तं दूषणमाशङ्क्य निराचष्टे__यद्यपीति । भावंप्रधानमिति । आख्यातं = तिङ्न्तं,__तिङर्थनिष्ठप्रकारतानिरूपितधात्वर्थ- निष्ठविशेष्यताकबोधजनकम् । सत्त्वप्रधानानि नामानीति । सत्त्वं = द्रव्यं, लिङ्गाद्यन्वयि, तत्प्रधानबोधजनकम्, तन्निष्ठमुख्यविशेष्यताकबोधजनकबोधजन- कमित्यर्थः । मुख्यविशेष्यता'निवेशाच्च 'पचत्यादौ तिङन्ते, आश्रयत्व- संख्या-निष्ठप्रकारतानिरूपितकर्त्रादि __ सत्त्व-निष्ठविशेष्यताकबोधजलकत्वेऽपि नातिप्रसङ्गः, क्रियानिष्ठप्रकारतानिरूपितविशेष्यतानिवेशेन तत्रातिप्रसङ्गवा- रणेऽपि ['घट'इत्यादावव्याप्तेः] । धात्वर्थभावनाप्राधान्यमध्यवसीयत इति । तथा चनिरुक्तभाष्यप्रामाण्येनोक्तनियमसंकोचोऽवश्यमङ्गीकार्यः, भवतामेव प्रत्युत निरुक्तादिविरोध इति भावः ।

ननु भवायतीति भाव इति व्युत्पत्त्या भावयतेरजन्तभावपदेन कृतिरूपा भावनोच्यते, क्रियापदेनापि सैव, तथा च तिङर्थकालादिमध्ये कृतिरूपदर्थस्यैव [प्राधान्यं, तथा च] धात्वर्थनिष्ठप्रकारतानिरूपितकृतिनिष्ठविशेष्यताशालिबोध- जनकमाख्यातमिति तदर्थः । एवं च निपुक्तादिकं भवदभिमतार्थसाधक- मस्मत्प्रतिकूलं वा, पचतीत्यादितः कृतिनिष्ठविशेष्यताकबोधोत्पत्तेरिति वाच्यं, 'रथो गच्छति' 'जानाती'त्यादावाव्याप्तेः, (आद्ये) कृतेरप्रतीतेः, 'करोती'त्यत्र तत्प्रतीतावपि तिङर्थत्वाभावात् । एवं 'पच्यत' इति कर्माख्याते 'सुप्यते' इति भावाख्यातेऽव्याप्तश्च, तत्र तिङ्प्रत्ययेन, कृतेरबोधनात् । न चैवं तद्घटिताद् 'देवदत्तेन पच्यत' इत्यादिवाक्यात् कृतिप्रतीतिर्मस्यादिति वाच्यं, तृतीययैव तद्बोधसंभवात् । न चाऽऽधेयत्वमेव तन्मते तृतीयार्थः । अत एव 'देवदत्तेन पच्यते न यज्ञदत्तेने'त्यतो यज्ञदत्तवृत्तित्वस्याश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताका- भाव[बोध]संभवः, तस्याः कृत्यर्थकत्वे तु कृतेर्जन्यत्वसंबन्धावच्छिन्नप्रति- योगिताकाभाव [एव] क्रियायां बोधनीयः, स च न संभवति, जन्यत्वस्य वृत्त्य- नियामकतया प्रतियोगितावच्छेदकत्वासंभवात्, आश्रयत्वसंबन्धावच्छिन्नप्रति- योगिताकाभावभानोपगमने च यज्ञदत्तकर्तृ[कर]केऽपि तादृशाभावस्याबाधिततया तादृशप्रयोगापत्तिः, तथा च तत्र तिङ्प्रत्ययस्यैव तदर्थकत्वमभ्युपगम्यते इति न तत्राव्याप्तिरिति वाच्यं, 'देवदत्तेन पक्कस्तण्डुल'इत्यतः कृतिबोधानापत्त्या तृतीयायास्तदर्थकत्वावश्यकत्वात्, अत एव 'कर्तृकरणयोस्तृतीया' इत्यानुशा- सनमपि साधु संगच्छते । प्रातीननैयायिकैर्वृत्त्यनियामकसंबन्धस्याभाव- प्रतियोगितावच्छेदकत्वाङ्गीकाराच्च न नञ्समभिव्याहारे दोषः, नव्यमतेकति- जन्यत्वस्य तृतीयार्थत्वान्नोक्तदोषः । एवं च-तृतीययैव तद्वोधनसंभवे कर्माख्या- तस्य तद्वोधकत्वाभावात् 'पच्यत' इत्यादावव्याप्तिर्दुष्पतिहरैव । 'तृती- याया आधेयत्वमेवार्थः, कर्माख्यातेनैव कृतिर्बोध्यते, कृत्प्रत्ययस्थले तृतीयायाः कृतौ, कृतिजन्यत्वे वा लक्षणा' इत्यभ्युपगमेऽपि कर्माख्याते कृतेः प्राधान्या- भावादव्याप्तिस्तदवस्थैव । न च 'कृति'पदं संख्याकालाद्यतिरिक्ततिङर्थ- मात्रपरं, तथा च न 'रथो गच्छति' 'जानाति' 'नश्यती'त्यादौ 'पच्यते' इत्यत्र चाव्याप्तिः, तत्राप्य[श्रयत्वादेस्तदर्थस्य प्राधान्यादिति वाच्यम्, एवमपि भावाख्यतेऽव्याप्तेरपरिहारात्, न च तत्रापि तङर्थकृत्या]श्रयत्वाविशेष्यकबोधा- ङ्गीकारान्नाव्याप्तिसंभवः, 'चैत्रेण सुप्यते' 'गगनेन स्थीयत' इत्यादित[श्चैत्रवृत्तिः
स्वापानुकूला कृतिः, गगमवृत्तिः स्थित्याश्रयता इति बोधसम्भवादिति वाच्यं, तार्किकैस्तादृशबोधोनानुभावसिद्धोऽपि तु] चैत्रवृत्तिकृतिजन्यःस्वापः, गगनवृत्तिः स्थितिरित्येव बोधोऽनुभवसिद्ध इत्युक्तत्वात् । तत्त्व ? जनितबोधके 'पवती'त्या- दावव्याप्तिवारणाय तथाविधबोधजनकतावच्छेदकानुपूर्व्यदिकत्वमेव वक्तव्यमेवं च न बावाख्यातेऽव्याप्तिर्भूयते इत्यादितोऽपि कर्मत्वतात्पर्यग्रहदशायां प्रत्ययार्थ- विशेष्यकबोधजननेन तादृशानुपूर्व्या अपि तथाविधबोधजनकत्वाक्षतेः । अथवा 'चैत्रेण सुप्यत' इत्यादितः पूर्वोक्तबोधोऽङ्गीक्रियतेऽत एव भावना- विशेष्य- विरहादनन्वितैव संख्येत्याख्यातवादस्थदीधितिग्रन्थः संगच्छते । तन्मुख्य- विशेष्यताकबोधानुभवेनेतरविशेष्यताकबोधविरहादित्यर्थकत्वात् । धात्वर्थे निरूप- कतासंबन्धेन भावनाप्रकारकबोधसंभवेन यथाश्रुतेऽसंगतेः, तिङर्थभावनाया धात्वर्थविशेष्यताकबोधस्यान्यत्र क्लृप्तस्या[पलापा]पेक्षया एतादृशनिरुक्ताद्यनुरोधेन तादृशबोधस्वीकारस्योचितत्वाच्च । मीमांसकनये प्रत्ययार्थव्यापाररूपभावनायाः प्राधान्यस्यैव संभवात्, तथा च 'पचती'त्यादावाख्यातप्रत्ययार्थः कृत्यादिरूपा भावना, सैव च प्रधानमिति मतमेव सम्यक्, प्रकृतिप्रत्यययोरिति नियमस्या- संकोचेनैव निर्वाहादित्यत आह__अपि चेति । अभेदान्वयादिति । इदं कर्तृः प्रत्ययार्थत्वापक्षे । कृतेस्तदर्थत्वपक्षे त्वाश्रयत्वसंबन्धेनावयादिति बोध्यम् । प्राधान्यापत्तिरिति । प्रत्ययार्थकृत्यादेरितरविशेषणतानापन्नतया प्रथमान्तार्थे प्रकारतया बोधजनकसामग्रीसत्त्वान्नैयायिकमतसिद्धतथाविधबोधस्वीकारापत्तिरिति भावः ।
ननु प्रथमान्तार्थमुख्यविशेष्यकबोधे इष्टापत्तिः, यतस्तदङ्गीकारेणैव प्रथमान्तार्थोद्देश्यकभावनाविधेयान्वयबोधस्य सर्वानुभवसिद्धस्य निर्वाहो भवति, न क्रियाविशेष्यकबोधस्वीकारे 'दैवदत्तः पचती'ति वाक्यजन्यबोधदशायां देवदत्तः पाकानुकूलकृतिमान् न वेति संशयानुत्पत्तिनिर्वाहश्च क्रियाप्राधान्यमते न स्यात् । समानविशेष्यकैककोटिप्रकारकनिश्चयस्यैव तत्तदभावकोटिकसंशयनिवर्तकत्वा- दित्याशङ्कां परिहर्तुमाह__तथा चैति । भाष्येति । 'का तर्हीयं वाचोयुक्तिः' पचति भवति, पचसि भवति, पक्ष्यति भवति' इति-प्रश्ने-उत्तरं 'पचादयः क्रिया भवतिक्रियायाः कर्व्यो भवन्ति' इति भूवादिसूत्रस्थभाष्येत्यर्थः । अत्र 'पक्ष्यति भवती'त्यस्य-भविष्यन्ती पाकक्रिया सूक्ष्मरूपेण भवतीत्यर्थः । एतेन भविष्यत्पाक- क्रियाकर्तृकवर्तमानभवनस्य वाधात् तादृशप्रयोगानिर्वाह इति दूषणं प्रत्युक्तम् ।
अत्र क्रिययोः क्रियाकारकभावेनान्वयाङ्गीकारात्तुल्यन्यायेन'पश्य मृग' इत्यत्रापि क्रिययोस्तथा बोधस्तदभ्युपगत इति भावः । एवं 'कर्मणा यमभिप्रैति__' इति सूत्रे__क्रियाग्रहणं कर्तव्यमिति वार्त्तिकखण्डनार्थे 'क्रियापि कृत्रिमं कर्म, क्रियया हि क्रियेप्सिता भवति, कया क्रियया ? संदर्शनादिक्रियया' इति भाष्ये उक्तम् । तद्रीत्या धावनक्रियाया दर्शनक्रियां प्रत्यपि कर्मत्वमभिमतमेव । एवं च 'मृगकर्तृकं धावनकर्मकं दर्शन'मित्यर्थे तद्वाक्यंभाष्यकृतामबिमतमिति भावः । हरिणाप्युक्तम्__
'सुबन्तं हि यथानेकं तिङ्न्तस्य विशेषणम् ।
तथा तिङ्न्तमप्याहुस्तिङन्तस्य विशेषणम् ।।' इति ।
'पुरीमवस्कन्द लुनीहि नन्दनम्' इति माघपद्ये 'समुच्चयेऽन्यतरस्याम्' इति सूत्रे कौमुद्युदाहृते स्पष्ट एव तिङन्तार्थक्रियाणां विशेष्यविशेषणभावः ।
परमते एकवाक्यतानुपपत्तौ बीजमाह__प्रथमान्तेति । प्रथमान्तमृगपदोप- स्थापितस्येत्यर्थः । विशेष्यस्येत्यनेन धावनं प्रति विशेष्यत्वाद्दर्शने साक्षाद्विशे- षणत्वादन्तरङ्गादपि प्रधानकार्यस्य बलवत्ताया 'हेतुमिति च' इति सूत्रभाष्यसंमतत्वेनान्तरङ्गामपि प्रथमां बाधित्वा द्वितीया स्यात्, मम तु नायं दोषः, मृगस्य धावनं प्रति विशेषणत्वेनान्तरङ्गाज्जातस्य प्रथमारूपसंस्कारस्या- निवृत्तिरिति सूचितमिति वदन्ति । द्वितीयापत्तेरिति । तथा च धावनाश्रय- मृगकर्मकदर्शनाश्रयस्त्वमित्यर्थे 'पश्य मृगं धावती'ति वाक्यस्यैव संभवेन तादृशवाक्यस्यैवासिद्धिरिति भावः । स्वमते तु न द्वितीयापत्तिः, धावनस्य धात्वर्थतया कर्मभूततद्वाचकधातोरप्रातिपदिकत्वात्, न च द्वितीयाविरहे कर्मत्व- भानानापत्तिर्वृत्त्या पदानुपस्थितत्वादिति वाच्यं, मीमांसकनयेऽर्थोपस्थिति- मात्रस्यैव शाब्दबोधे हेतुतया पदजन्योपस्थिति विनापि कर्मत्वप्रकारकबोधसंभ- वात्, तादृशोपस्थितिहेतुतावादिमते तु तत्संसर्गकबोधस्यैवाभ्युपगमात् । न च तार्किकमतेऽपि न द्वितीयापत्तिः, धावनक्रियाविशिष्टमृगस्यैव कर्मतासंबन्धेन दृशिक्रियायामन्वयो न तु केवलमृगस्य । विशिष्टस्य शुद्धादनतिरेकेऽपि मृगत्वावच्छिन्नविषयत्वापेक्षया धावनविशिष्टमृगत्वावच्छिन्नविषयताया भिन्नत्वात् । नामार्थधात्वर्थयोः साक्षाद् भेधेनान्वय इति व्युत्पत्तिविरोधोऽपि न । तादृशव्युत्पत्तेः केवलनामार्थधात्वर्थान्वयविषयत्वात् । अतः 'श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः 'जानामि सीता जनकप्रसूता' इत्यादि संगच्छते । भवन्मते
उत्पत्तिपदादितो द्वितीयापत्तेरसंगतिः स्पष्टैव । एवं च प्रथमान्तार्थमुख्य- विशेष्यकबोधाङ्गीकारे न कोऽपि दोष इति वाच्यम् । नीलादिविशिष्टघटादेः कर्मत्वबोधे 'नीलं घट'मित्यत्र द्वितीयानापत्तेः, प्रथमापत्तेश्च । न चेष्टापत्तिः । अनभिहितसूत्रस्थभाष्यविरोधात् । तत्र हि 'भीष्ममुदारं कटं कु'र्वित्यत्र विशि- ष्टस्य कर्मत्वपक्षे कटपदादुत्पन्नया द्वितीयया अभिधाने भीष्मादिपदात्तदुत्पत्तिर्न स्यादिति तिङादिपरिगणनमित्युक्तम् । न च कर्मत्वस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव द्वितीया, न तु संसर्गतया विवक्षायामपि, प्रकृतभाष्यग्रन्थश्च कर्मत्वस्य विशेष्यतापर इति न तद्विरोध इति वाच्यम् । भाष्यकारमते सर्वत्र विभत्तयर्थस्य संसर्गतया भानात् तथा वक्तुमशक्यत्वात् । नीलादिविशिष्ट- घटादिक्रियायामाहरणादेरकारणत्वादिसंबनेधेन बोधतात्पर्थे नीलो घट आहर विद्वान् ब्राह्मणो देहीत्यादिप्रयोगाणामुक्तार्थे काव्यपुराणादावनुपलम्भात् । नीलो घट आनय शुक्लस्तण्डुलः पचतीत्यादिषु 'तिङसामानाधिकरणे प्रथमा' 'अभिहिते प्रथमा'इत्यनुशासनात् प्रथमाया अप्यनुत्पत्त्या तादृशप्रयोगासिद्धिश्च । एवं 'तथा चोत्पत्तयः शुभाः' इत्यादिप्रयोगा आषत्वादेव समाधेयाः । अनार्षेस्त्त- वसाधुरेव । दृशधातोरुत्कटथावनकर्तृकमृगकर्मकदर्शने, मृगकर्तृकोत्कटधावन- कर्मकदर्शने वा लक्षणा, इतरपदानि तात्पर्यग्राहकाणि, अतो न व्युत्पत्तिवि- रोधलेशोऽपि । मृगकर्तृकोत्कटधावनकर्मकदर्शनस्य प्रतिपिपादयिषितस्य बोध- निर्वाहोऽपि भवतीति तु न युक्तम् । उक्तरीत्या लक्षणां विनैव निर्वाहे तदाश्रयणस्यानुचितत्वात् । अनुपपत्तिप्रतिसंधानं विनापि बोधोदयाच्च । ननु तथापि क्रियामुख्यविशेष्यको बोधो न युक्तोऽपि तु प्रथमान्तार्थमुख्यविशेष्यकएव युक्तस्तथा हि 'अनुभिहिते कर्तरि तृतीया' इत्यस्य समभिव्याहृततिङादिना कर्तुरवाच्यत्वे तृतीयोति नार्थः शाब्दिकैः स्वीकर्तु शक्यस्तिङ्सामान्यस्यैव कर्तृनिष्ठशक्तिनिरूपकत्ववाचकतया 'चैत्रेण पच्यते तण्डुल' इत्यत्रापि तृतीयानापत्तेः । कर्तरि यकोऽसाधुत्वादेव चैत्रः पच्यत इत्यादिप्रयोगकारणसंभवे यगाद्यनु तङन्तत्वादेर्गौरवेण वाचकतावच्छेदककोटावनुप्रवेशाभावात् । नाप्यबोध्ये कर्तरि तृतीयेत्यर्थः । चैत्रेण पच्यत इति वाक्यस्य कर्तृविषयकबोधजनकत्वे तद्घटकसकलपदानामपि तद्वोधजनकतया कर्तृतिङ्बोध्यत्वात्तद्दोषतादवस्थ्यात् । न च तच्छाब्दौपयिकाकाङ्क्षाशून्यत्वमेव तद्वोधकत्वं निवेश्यम्' पच्यत इत्यत्र तद्वोधप्रयोजकाकाङ्क्षाशून्यत्वमक्षतमेव । चैत्रादिपदोत्तरतृतीययैव तद्वोधसंभ-
वात्तत्र तादृशाकाङ्क्षाया अकल्पनदिति वाच्यम् । चैत्रेण पक्ष्यत इत्यदौ तृतीयानुपपत्तेः । चैत्रः पक्ष्यत इत्यतश्चैत्रप्रकारककर्तृविशेष्यकक्रियामुख्यविशेष्य- कस्य, केवलात् पक्ष्यत इत्यश्च कर्तृप्रकारकक्रियाविशेष्यकस्य बोधस्योदयात्तत्रा- नुपूर्वोरूपाकाङ्क्षायास्तच्छाब्दौपयिकत्वावश्यकत्वात् । न च समभिव्याहाररूपै- वाकाङ्क्षा विवश्रणीया, प्रकृते त्वानुपूर्वोरूपैव सा तथाविधेति नोक्तदोष इति वाच्यम् । तथा सति चैत्रेण पचतीत्यादावपि तृतीयापत्तेः । तादृशसम- भिव्याहारस्य तद्वोघौपयिकत्वाभावात् । तस्मात् तत्तत्प्रातिपादिकार्थविशेष्यतया कर्तृविवक्षायां तत्तत्प्रातित्यत्रापि चैत्रपदात् तृतीयापत्तिश्चैत्रेण पच्यत इत्यादा- विव__कर्तृश्चैत्रपदार्थ प्रति विशेष्यत्वाविशेषात् । तस्मात् प्रथमान्तार्थमुख्य- विशेष्यक एव बोधो युक्तोऽङ्गीकर्तुमिति चेदत्र वदन्ति,__प्रातिपदिकार्थविशेष्य- कतयेत्याद्युक्तरीत्यनुसरणेऽपि न चैत्रैण पचतीति प्रयोगापत्तिः । एकपदोपात्तत्व- प्रत्यासत्त्या पूर्वमेव तिङर्थान्वयबोधस्य जातत्वात् । तिङादेः कर्त्रनभिधायकत्वं तत्तात्पर्यसून्यत्वं, तदतात्पर्ये चैत्रेण पचतीत्यत्र तृतीयायाः साधुत्वेऽपि भावकर्मणोरित्यात्मनेपदेन बाधान्न परस्मैपदं साध्विति न तादृशप्रयोगापत्तिः । चैत्रेण पचतीति प्रयोगस्तत्र स्यादित्यपि न, कर्तृतात्पर्याभावेन शपोऽविषयतया यको दुर्वारत्वात् । तथा च तादृशकर्त्रनन्विततत्तत्प्रातिपदिकार्थविशेष्यत्वेन कर्तृविवक्षया तृतीयेति पर्यवसितार्थ इति न कोऽपि दोषः । यद्धात्वर्थकर्तरि तृतीयादिकं विधित्सितं समभिव्याहृततिडाद्युपस्थाप्यतद्धात्वर्थकर्त्रनन्वितत्व- मुपादेयमतो भू़ञ्जनेन चैत्रेण पच्यत इत्यत्र शानजर्थकर्त्रन्वितत्वेऽपि चैत्रस्य न चैत्रपदात् तृतीयानुपपत्तिः । पचिक्रियाकर्त्रनन्वयात् । तत्तद्धात्वर्थक्रियाव्यक्ती ततद्वयक्तित्वेनोपादाय तथाविधतत्तत्क्रियाकर्त्राद्यनन्वितत्वं निवेश्यम् । तेन चैत्रेण दृश्यमानं मैत्र देवदत्तः पश्यतीत्यादौ न मैत्रादिपदाद् द्वितीयानुपपत्तिः । वस्तुतः कर्तृः समभिव्याहृततिङादेस्तात्पर्यशून्यत्वे कर्तृपरप्रातिपदिकात् तृतीयेति 'अनभिहिते कर्तरि तृतीया' इत्यस्यार्थः । चैत्रेण पच्यत इत्यत्र तिङ्प्रत्ययस्य कर्त्रतात्पर्यकत्वाच्चैत्रः पचतीत्यत्र तस्य तत्तात्पर्यकत्वात्तृतीयातच्छून्यप्रयोग- निर्वाहः । एवमेव 'अनभिहिते कर्मणि द्वितीया' इत्यादेरर्थेऽवसेयः । ननु एक्कानि भुङ्क्ते चैत्रः, पत्तवा भुज्यत ओदन इत्यादौ क्रमेण कृता कर्तृकर्मानभिधानाच्चैत्रपदातृतीयाया ओदनपदाद् द्वितीयाया आपत्तिः । न च समभिव्याहृततिङगद्यभिहितत्वसामान्याभावस्यैव विवक्षणात् प्रथमे कर्तुः कृतान-
भिधानेऽपि तिङाभिधानाद्, द्वितीये कृता कर्मणोऽनभिधानेऽपि तिङाभिधा- नान्नोक्तदोष इति वाच्यम् । चैत्रेण पक्कमोदनं मैत्रो भुड्क्ते, पाचकेन चैत्रेण भुज्यते ओदन इत्यादौ ओदनचैत्रपदाभ्यां द्वितीयातृतीययोरनुत्पत्त्यापत्तेः, कृता कर्मणः कर्तृश्चाभिधानादिति चेन्न । प्रधानक्रियानिरूपितशक्तेरनभिधाने गुण- क्रियानिरूपितशक्तेरभिधानेऽपि तत्तद्विभक्तेः साधुत्वानङ्गीकारात् । तदुक्तं भर्तृहरिभिः__
'प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ।।' इति ।
प्रथमकारिकोक्तं प्रधानक्रियानिरूपितशत्तयनुरोधं प्रपञ्चयति__प्रधानविष- येति । गुणे गुणनिरूपिता अनुक्तापि तद्वदुक्तवात् प्रतीयत इति योजना । तुल्यन्यायाद् गुणनिरूपिताया उक्तत्वेऽपि प्रधाननिरूपितशक्तेरनुक्तत्वे गुणनिरूपिताप्यनुक्तवात् प्रकाशत इत्यपि लभ्य इति बोध्यम् । अत एव 'प्रासादे आस्ते' इत्यत्र सदिनिरूपिताधिकस्णत्वस्यभिधानेऽप्यासिनिरूपिताधिकरणत्व- निमित्तिका सप्तमो सिध्यति । अनभिहित इति पर्युदासाङ्गिकारात् । इदं च 'स्वादुमि णमुल्' इत्यत्र भाष्ये स्पष्टम् । तत्र हि आ च तुमुनः समानाधि- करणेऽनुप्रयोगेण प्रत्यया वक्तव्याः । अन्यथा 'स्वादुंकारं भज्यते यवागुर्दे- वदत्तेने'त्यत्र णमुल् 'कर्त्तरिकृ'दिति कर्तरि स्यात् । तेनाभिधानाद् देवदत्तशब्दात् तृतीयान स्यादित्यादिकमुक्त्वा'ऽव्ययकृतो भाव' इत्याश्रित्योक्त- वचनं खणिडतम् । तत्र कैयटेन__यद्येवं पक्त्वौदनं भुङ्क्ते देवदत्तः पक्त्वौदन भुज्यते देवदत्तोनेति कत्वाप्रत्ययेन कर्तृकर्मणोरनभिधानात् पाकापेक्षया तृतीया- द्वितीये कस्मान्न भवतः__इत्याशङ्कय प्रधानक्रियानिरूपितशत्तयनुपोधेन पूर्ववत् समाहितम् । एवं चैतद्भाष्याशयप्रकाशिके इमे हरिकारिके इति स्पष्टमेव तद्विदाम् । समानाकारज्ञानभेदाद्विषयताभेदेमानाभावेऽपि तत्तज्ज्ञानक्रिया- निरूपितकर्मत्वशत्तयोर्भेदाच्चैत्रेण दृश्यमानं घटं मैत्रः पश्यतीत्यत्र तिङ्प्रकृति- भूतदृश्यर्थनिरूपितानभिहितकर्मत्वशक्तिप्रयुक्तद्वितीयासिद्धिः । विषयताया द्विती- याद्यर्थत्वं तु नानुशासनसिद्धम् । आवरणभङ्गानुकूलव्यापारस्य विषयतासंबन्धा- वच्छिन्नज्ञानानुकूलात्ममनोयोगरूपव्यापारस्य वा दृश्याद्यजानात्यर्थत्वेन फलस्य
क्रियादिभेदेन भिन्नतया फलरूपत्वेऽपि कर्मत्वशक्तेर्न क्षतिरित्यलं प्रसङ्गागत- विचारप्रपञ्चेन ।
'आनय धावति मृग इत्येकं वाक्यं न स्यात् । क्रियायाः प्राधान्यवादिमते क्रियाया आनयनकर्मत्वासंभवात् । मन्मते तु धावनविशिष्टमृगस्य तत्संभवा- न्नानुपपत्तिरेकवाक्यताया' इति तु न शङ्क्यम् । 'शिखीध्वस्त' इति- वदुपपत्तेः । एवमेव ब्राह्मणानां शतं भोज्यतामित्यादिप्रयोगसंगतिः । तादृशैकवाक्यत्वे माना- भावाच्चेति दिक् । एतेन 'बावप्रधानमाख्यातम्' इति निरुक्ताद्यनुरोधात् तिङर्थस्य क्रियां प्रति विशेषणत्वोपगमेऽपि 'पचति देवदत्त' इत्यत्रैककर्तृकपचिक्रियाश्रयो देवदत्त इति प्रथमान्तार्थमुख्यविषेष्यकबोधसंभवात् स एवाङ्गीक्रियतामिति प्रत्युक्तम् । कुतो वाक्यभेद इत्यत आह । अध्याहारे इति । अनन्वयापत्तेश्चेति । चो हेत्वर्थः । तथा च परस्परमनन्वयापत्तया भाष्यकृदभिमतैकवाक्यत्वहा- निरित्यर्थः । परमतदूषणमुपसंहरति__एवं चेति । एवम् । उक्तरीत्या कर्तुराख्यातार्थत्वे धात्वर्थप्राधान्ये च । भावनाप्रकारकेति । संख्याकालाद्यति- रिक्तस्तिङर्थो भावना । अत एव रथो गच्छति चैत्रो जानातीत्यादिजन्यबोध- सांधारण्यम् ।
कारणमिति । विशेष्यतासंबन्धेन भावनाप्रकारकाशाब्दबोधं प्रति तत्तत्प्रथमान्तार्थनिष्ठविशेष्यतासंबन्धेन तत्तत्प्रथमान्तपदजन्योपस्थितिः कारण- मित्यर्थः । तेन समूहालम्बनोपस्थितिविषयतामादाय नातिप्रसङ्गः । भावनात्वा- वच्छिन्नेति । इदं धातुना भावनात्वप्रकारकबोध इत्यभ्युपेत्य । यदि तु विशेषरूपावच्छिन्नविषयतयेति बोध्यम् । कार्यतावच्छेदकस्तु विशेष्यतासंबन्धो बोध्यः । तिङर्थकर्मप्रकारकबोधे तत्तत्फलनिष्ठविशेष्यतासंबन्धेन धातुजन्यो- पस्थितिः कारणमित्यपि कार्यकारणभावो द्रष्टव्यः । ननु धात्वर्थव्यापारस्य कृदर्थं प्रत्येव प्रकरित्वं स तिङाद्यर्थं प्रतीति नियमनिर्वाहाय भावनाप्रकारकशाब्दबोधे कृज्जन्योपस्थितिः कारणमिति कार्यकारणभाव आवश्यकः । तथा च पचत्या- दितः क्रियाप्रकारकक्रियाविशेष्यकबोधो न संभवति, तद्धेतुभूतकृज्जन्योपस्थितेर- भावादित्याशङ्कां निराकर्तुमाह__भावनेति । कृज्जन्योपस्थितिवदिति । यद्यपि यत्र कृज्जन्योपस्थितौ शब्दाविज्ञानात् तदर्थोऽपि विषयस्तादृशसमूहालम्ब- नोपस्थितिविषयता घटाद्यर्थेऽप्यस्तीत्यतिप्रसाङ्गस्तदवस्थस्तथापि स्वजनक- ज्ञानीयकृदवृत्तिप्रकारतानिरूपितविशेष्यतासंबन्धेन कृज्जन्योपस्थितेर्हेतुत्वान्नाति-
प्रसङ्गः । स्वमुपस्थितिः समुहालम्बनोपस्थितिजनकं शक्तिसंबन्धेन यत्कृत्प्र- कारकं तदर्थविशेष्यकं ज्ञानं तादृशज्ञानीयकृन्निष्ठप्रकारतानिरूपितविशेष्य- तायास्तदर्थकर्त्रादावेव सत्तवात् । धात्वर्थभावनेति । धातुजन्यभावना- निष्ठविशेष्यतासंषन्धेनोपस्थितिरित्यर्थः । अन्यथा सत्तादिपदोपस्थितस्यापि सत्तादेर्धात्वर्थानपायादतिप्रसङ्गापत्तेः । भावनापदं च तन्निष्ठविशेष्यताला- भार्थमेव । दिगिति । तदर्थस्तु पूर्वे विस्तरेण निरूपितः । यद्वा ननु तिङन्त- समुदायस्याप्येकवाक्यत्वे 'तिड्ङतिङः' इति सूत्रे 'अतिङः' इति व्यर्थ तिङन्तात्परं तिङन्तस्य समानवाक्यस्थत्वविरहान्निधाताप्राप्तेरिति भाष्यविरेध इति भाव इत्यन्यत्र विस्तरः । इत्थं चेति । प्रत्ययार्थस्य कर्त्रादेर्धात्वर्थविशेषणत्वे तदर्थसंख्यायास्तदर्थकर्त्रादिविशेषणत्वे च । एकाश्रयिकेति । वर्तमानकालिकी- त्यपि बोध्यम् । नव्यमते त्वेककर्तृकेति बोधाकारो द्रष्टव्यः । पाकानुकूलेति । विक्लित्त्यनुकूलेत्यर्थः । एकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति । 'भाव- प्रधानमाख्यातम्' इति निरुक्तभाष्यानुरोधात् कर्मप्रत्ययान्तजवोधेऽपि भावनायाः प्राधान्यमिति भावः । वस्तुतस्तु कर्मकृदन्ते फलस्य व्यापारं प्रति प्राधान्यं दृष्ट- मिति कर्मतिङन्तेऽपि तस्यैव मुख्यविशेष्यत्वं युक्तम् । अत एव प्रत्ययार्थे साक्षात् प्रकृत्यर्थविशेष्यान्वयित्वस्य सर्वत्र कृप्तस्य न त्यागः । अत एव 'इष्यते पुत्रः' 'इष्टः पुत्रः' इत्यर्थे न पुत्रीयतीति प्रयोगो भिन्नार्थत्वादपि तु पुत्रमिच्छतीत्यर्थे एव । क्यजन्तात् कर्मणि प्रत्ययस्तु दुर्लभोऽकर्मकत्वादित्युक्तं 'सुप आत्मनः __इत्यत्र भाष्ये । अन्यथा उभयत्रापीच्छानुकूलव्यापारस्यात्ममनःसंयोगाद्या- त्मकस्य प्राधान्याविशेषात् तदसंगतिः । मन्मते त्वेकत्र व्यापारे विशेष्योऽपरत्र फलमिति भिन्नार्थत्वं स्पष्टमेव । तथा चीक्तं कैयटेन__'यदा क्रियाफलस्य (कर्मणः) प्राधान्यं तदा 'इष्टः पुत्र' 'इष्यते पुत्र' इति वाक्यमेव, न तु क्यजन्तं; तस्याकर्मकत्वात्, कर्मणि प्रत्ययानुत्पादात्' इति परे प्राहुः ।
यद्यपि कर्मप्रत्यये भावनायाः प्राधान्येऽपि तदर्थसंख्यायाः कर्मणि विशेषणत्वं कर्तृ प्रत्यये कर्तरि, तावता भिन्नार्थत्वोपपत्तिराश्रयान्वयमादायापि तदुपपत्तिस्तथापि भिन्नमुख्यविशेष्यकबोधजनकत्वरूपं भिन्नार्थत्वं विवक्षितं तद- संगतिर्दृढैव । यत्किचिदशे विभिन्नप्रकारकबोधजनकत्वमेव भिन्नार्थकत्वं विवक्षितमिति चेदिच्छापदनिर्दिष्टप्रत्ययार्थाशे वृत्तिवाक्ययोभिन्नार्थत्वविरहे प्रत्यया- वारणेन तस्याकिचित्करत्वादिति भावः । ननु सर्मधातूनां व्यापारार्थकत्वं न
संभवति नश्यतीत्यादौ तदननुभवादत आह__नश्यतीत्यत्रेति । प्रतियोगित्व- विशिष्टेति । अन्यप्रतियोगिकनाशसामग्रीसमवधानेऽपि घटो नश्यतीत्यप्रयोगात् प्रतियोगित्वविशिष्टेति स्वप्रतियोगित्वविशिष्टार्थकम् । अत एव = नशधातोस्ता- दृशसामग्रयर्थकत्वादेव । इति प्रयोग इति । तदर्थकत्वाभावे नश्यति नड्क्ष्यतीति प्रयोगीपपत्तावपि नाशस्यातीतत्वविरहान्नष्ट इति प्रयोगो न स्यात् । चिर- विनष्टेऽपि नश्यतीत्येव प्रयोगः स्यात् । सामग्र्यर्थकत्वे तु सामग्र्यामेव प्रत्ययार्थकालान्वयान्नोक्तापत्त्यनुपपत्ती इति भावः । इदं च दूषणं वर्तमानर्ध्वस- प्रतियोगित्वरूपमतीतत्वं प्रत्ययार्थ इति मते । वर्तमानध्वंसप्रतियोगिकाल- वृत्तित्वस्य तदर्थत्वे तु नोक्तं दूषणमिति बोध्यम् । अन्तत आश्रयतैवेति । वस्तुत आत्ममनःसंयोगोऽपि ज्ञानानुकूलः संभवतीति भावः । अत्र फलतावच्छेदकः संबन्धो विषयता तेन घटादेः कर्मत्वमिति बोध्यम् । ज्ञानमेव फलं, तदेव तदनुकूलो व्यापारः, फलतावच्छेदकः संबन्धो विषयता, व्यापारतावच्छेदकस्तु समवाय इति मतान्तरं बोध्यम् । ऊह्यमिति । इच्छतीत्यादावूह्या- मित्यर्थः ।। 2 ।।

का : 3
उभयबोधापत्तिः = कर्तृकर्मोभयबोधापत्तिः । उभयत्रापि शक्तेः सत्त्वा- दित्यर्थः । ननु यत्र तात्पर्यग्रहस्तस्यैव बोधो न त्वपरस्य, एकदोभयबोधे तात्पर्य- ग्रहसत्त्वेऽप्येकेन प्रत्ययेनैकदोभयबोधस्याव्युत्पन्नत्वान्नैकदोभयबोधापत्तिरित्यतो दूषणान्तरमाह__कर्तृमात्रबोधवदिति । बोधापत्तिरिति । हर्यादिपदात् कदा- चिदिन्द्रमात्रस्य कदाचिद्विष्णवादिमात्रस्य बोधोत्पादवदिति भावः । तात्पर्यग्राहक- प्रकारणादेः समानत्वादिति भावः । तात्पर्यग्राहकमिति । अनादिता- त्पर्यग्राहकमित्यर्थः । तथा च पच्यत इत्यत्र कस्याचित् कर्तृबोधे तात्पर्यसत्त्वे- ऽप्यनादितात्पर्याभावान्न कर्तृ बोधे इति भावः ।
कारिकायां तत्रेति तयोरित्यर्थकम् । तथा च तयोः__फलव्यापारयोर्मध्ये इत्यर्थः । नन्वेवं तङादयः कर्मद्योतका इत्यादिव्यवहारः कथमुपपादनीय इत्यत आह__फलान्वयेत्यादिना समुदायार्य इत्यन्तेन । शक्त्युद्बोधकत्वरूपद्योत- कत्वासंभवादाह__तात्पर्यं ग्राहयन्तीति । तत्प्रतीतिच्छां ग्राहयन्ति । तङ् यगादिसमभिव्याहृतो बोध्यः, तेन धत्ते इत्यादौ नातिप्रसङ्गः ।। 3 ।।
का : 4
एवम् = तङातीनां फले आश्रयान्वये तात्पर्यग्राहकत्वे । ननु 'भावकर्मणोः' __इत्यादिसूत्रविहिततङादीनां कथं कर्तरि साधुत्वमित्याशङ्क्याह__'कर्मवत् कर्मणा'__इत्यादिना साधनात् इत्यन्तेन । मूले-उत्सर्गोऽयमिति । अयं = तङादिः, कर्मद्योतक इत्यादिः, पूर्वोक्तोऽर्थः । उत्सर्गः = प्रायिकः, न सार्वत्रिक इत्यर्थः । कुत इत्याशङ्कायामाह__कर्मेति । विपर्ययात् = वैपरीत्यात् । यथागमं = यथाशास्त्रम्, यथाबोधं वा । तच्च व्याख्याने स्पष्टम् । 'पच्यते ओदनः स्वयमेवे'त्यादौ व्यापारे एवाश्रयान्वये इति स्पष्टयितुं शाब्दबोधं वर्णयति__अत्र हीति ।
एकनारदेति । एको नारदस्तद्विषयकं ज्ञानमित्यर्थः । अत्र निपातेनेतिशब्देन कर्मणोऽभिधानान्न नारदशब्दोत्तरं द्वितीयेति भावः । नव्यमते तु नारद इत्याकारकं यज्ज्ञानं तदनुकूल इत्यादिशाब्दबोधोऽवगन्तव्यः, तैः क्कचिन्निपतोनाभिधानमिति नानुमन्यते, तिङातिहरिगणनस्यैव भाष्ये उक्तत्वात् । 'सकर्मकथात्वि'ति__समभिव्याहृतान्तोपादानं__तण्डुलः पच्यते स्वयमेवेत्यादो कर्मवदित्यनेन 'भावकर्मणो'रिति शास्त्रमतिदिश्यते इति पक्षेऽतिप्रसङ्गवा- रणाय । 'अबोधिश्रीकृष्ण' इत्यादावतिप्रसङ्गवारणाय__भावसाधारणेति । यगादीति । आदिना चिण्वदिट् । तत्तद्विधायकशास्त्रज्ञानशून्यस्य तु प्रकरणादिकमेव तात्पर्यग्राहकम् । एवं लिङादावपि । अन्यथा 'पेचे' इत्यत्र कर्तृकर्मणोरुभयोरपि समानत्वात् तात्पर्यग्राहकदुर्भिक्षमेव स्यात् ।। 4 ।।

का : 5
भावनाया अवाच्यत्वमिति । तस्या धातुवाच्यत्वे प्राधान्यानुपपत्त्या तद- वाच्यत्वमित्यर्थः । व्यापाराख्यभावनाया अवाच्यत्वमेवेत्यर्थ इति वा । वाच्यतां ध्वनयितुमिति । तथा च यत्नभिन्नो व्यापारो न धातुवाच्यो नापि तिङ्वाच्योऽपि तु फलमात्रं धात्वर्थः, कृतिः प्रत्ययार्थ इति प्राचीननैयायिकादिमतं न सम्यगिति सूचितम् । कस्यचित् कश्चिच्छब्दः प्रसिद्ध इत्यनेकपर्यायोपादानम् । अथवा चेतनाचेतनसाधारणफूत्कारयत्नादीनां धातुवाच्यत्वक्रियात्वयोर्बोधनार्थ तत् । अत एव = तेन तेन रूपेण व्यापारस्य वाच्यत्वादेव । सर्वसिद्ध इति । सर्वानुभवसिद्ध इत्यर्थः । सर्वानुभवसिद्धस्यापलापोऽनुचित इति भावः । एवं 'देवदत्तः पचती'ति
वाक्यजन्यबोधदशायां देवदत्तः फूत्कारादिमान्न वेति संशयोऽप्यत एव नेत्यपि बोध्यम् । एवम् = उक्तप्रकारेण फूत्कारादिव्यापाराणां वाच्यत्वे । गौरवा- पत्त्येति । फूत्कारत्वादीनामुपाधिरूपत्वात् ।

तदवच्छेदकमिति । प्रवृत्तित्वरूपकृतित्वमिष्टसाधनताज्ञानकार्यतावच्छेद- कतया सिद्धो जातिविशेषोऽतस्तदेवाख्यातशक्यतावच्छेदकं लाघवादिति भावः । तथा च फलं धात्वर्थो यत्न आख्यातार्थ इति प्राचीननैयायिकमतं पर्यवसन्नम् । यत्नत्वं धातुशक्यतावच्छदकमिति तु नार्थः । तथा सति प्रत्ययस्या- श्रयार्थकतापत्तेः । तच्च न नैयायिकाभिमतम् । अत एव कालसंख्ययोरेव प्रत्ययवाच्यतेत्यपि न, नैयायिकानभिमतत्वात् । धातुवाच्ययत्नस्य प्रथमान्तर्थे- ऽन्वयानापत्तेश्च, नामार्थधात्वर्थेति व्युत्पत्तिविरोधात् । 'लः कर्मणि'__इति सूत्र- विरोधाच्च । ननु 'रथो गच्छती'त्यादौ यत्नस्य बाधाद् व्यापारादिप्रतीतिः सर्वानुभवसिद्धा कथं निर्वाह्येत्यत आह__रथो गच्छतीति । 'जानाति' इत्यस्य 'देवदत्त' इत्यादिः शेषो बोध्यः । आदिपदात् इच्छति-नश्यतीत्यादिपरिग्रहः । व्यापारत्वादित्यादिनाश्रयत्वत्वप्रतियोगित्वत्वपरिग्रहः । घटो नश्यतीत्यतो नाशा- नुकूलव्यापारस्य नाशाश्रयत्वस्य च प्रतियोगिनि बाधात् प्रतियोगित्वमेव लत्र भासत इति बोध्यम् । एवं 'रथो गच्छती'त्यत्रापि व्यापारभानमिति न साधु, गमनानुकूलनोदनादिमत्यकत्र स्थितेऽपि चैत्रादौ चैत्रो गच्छतीति प्रसङ्गात् । गुरुणि संभवादिति । शक्तिलक्षणयोरुभयोरपि पदतदर्थसंबन्धत्वाविशेषाद् गुरुधर्मावच्छिन्ने लक्षणाया इव शक्तेरपि संभवादित्यर्थः । वैषम्ये बीजाभावा- दिति । ननु कारणतावच्छेदकत्वप्रतियोगितावच्छदकत्ववच्छक्यतावच्छेदकत्वं स्वरूपंसंबन्धविशेषरूपं संभवति लवुधर्मे गुरुणि न कव्पयेत् । अत एव लघुधर्मवत् कारणतावच्छेदकता प्रतियोगितावच्छेदकता च कल्प्यते । अत एव प्रमेयधूमे प्रमेयत्वविशिष्टाभावप्रतियोगितावच्छेदकत्वं नास्तीति प्पतीति प्रतीतिः सिद्धा धूमत्वे नास्तीति तार्किकप्रवादः संगच्छते । अतः संभवतीत्यस्य संभवत्त- दवच्छेदकताके इत्यर्थः । तथा च संबवत्तदवच्छेदकताकधर्मापेक्षया यो गुरुः स तदनवच्छेदताक इति व्याप्तिः पर्यवसिता । संभवत्तदवच्छेदकताकत्वं च तदवच्छेदकत्वबाधकशून्यत्वं, बाधकं चावच्छेद्यप्रतियोगित्वाद्यसमनैयत्यम् । तथा च तत्समनैयत्यमेव संभवत्तदवच्छेदकतात्वम् । समनैयत्यघटकदलद्वयनिवेशाद् घटपटान्यतराभावमहानसीयवह्रयभावप्रतियोगितावच्छेदकत्वं धटत्ववह्नित्वाद्य- पेक्षया गुरोरपि तादृशान्यतरत्वमहानसीयवह्नित्वादेनिर्वहति । प्रतियोगितायाः समनैयत्यं च__तदन्यूनवृत्तित्वे सति तन्निरूपकाभावविरोधितावच्छेदकत्वम् । अतो गुणकर्मान्यत्वादिविशिष्टसत्तोद्यभावप्रतियोगितावच्छेदकत्वस्य न सत्तात्व-
समनियततादृशविशिष्टसत्तात्वेऽनुपपत्तिः, शक्यतावच्छेदकत्वमेव स्वरूपसंबन्ध- विशेषो न लक्ष्यतावच्छेदकत्वमिति चेन्न । स्वरूपसंबन्धस्य तत्तत्स्वरूपरूपत्वे गुरुधर्मस्वरूपाणामपि सत्त्वात् तद्वरमवच्छेदकत्वस्वीकार एव । भावकल्पनायां लाघवात् । अन्यत्र त्कृप्ताभावस्य संबन्धमात्र कल्प्यते धाघवादिति चेदन्यत्र कल्प्यमानावच्छेदकत्वस्य संबन्धकल्पनैव युक्ता । गुरुधर्मे अन्यूना- नतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्यानपायाच्चेति बृहद्भूणादितोऽवगन्तव्यम् । यत्नार्थककरोतिनेति । यत्नजन्यत्वप्रतिसंधानदशायां पटाङ्कुरयोः कृताकृतव्यव- हारात्तस्य यत्नार्थकत्वमावश्यकमिति भावः । रथो गमनमिति । रथपदानुक्तौ गमनानुकूलकृतेश्चैत्रादिसमवेतायाः सत्त्वान्न तादृशप्रयोगानुपपत्तिरतो 'रथ' इति । 'अङ्कुरः कृत' इत्येतावन्मात्रस्येश्वरकृतिजन्यत्वमादायोपपत्तेराह __बीजादिनेति । विवरणादिति । इदमुपलक्षणं, 'कि करोती'ति यत्ने प्रश्रे पृष्टे पचतीत्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्चेत्यपि द्रष्टव्यम् । यत्नार्थकताया असिद्धेरिति । न च रथो गमनं करोतीत्यादौ करोतेर्व्यापारसामान्ये लक्षणेति वाच्यं, मुख्यार्थत्वे संभवति लक्षणाकल्पनस्या- न्याय्यत्वादिति भावः ।
ननु व्यापारशक्तत्वे यत्नजन्यत्वाप्रतिसंधानदशायां 'पटः कृतः' 'अङ्कुरः कृत' इति व्यवहारानुपपत्तिः, व्यापारजन्यत्वप्रतिसंधानाविशेषात्, ईश्वरीयकृति- जन्यत्वेऽपि चैत्रादिकृतिजन्यत्वाभावप्रतिसंधानदशायां तादृशव्यवहारस्येष्टत्वात्, तदुक्तमाचार्यैः__
'कृताकृतविभागेन कर्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना ।।' इति ।
तत्र = कृञो (कृतौ-यत्ने ?) परस्मिन् मते = मीमासकमते इत्यर्थः । निरूढलक्षमा एव कर्तृपदस्थकृञोऽपीति चेल्लाधवात् कृतित्वावच्छिन्ने एव शक्तिरस्तु, व्यापारे एव लक्षणास्तु, लघुधर्मावच्छिन्ने एव शक्तेमीमांसकादिमत- सिद्धत्वात्, लक्षणया बोधात् तत्पदजन्यबोधविषयत्वप्रकारकभाववदिच्छायाः सन्मात्रविषयिण्यास्तत्रावश्यकत्वेऽपि लघुधर्मावच्छिन्ने एव संबन्धत्वमङ्गीक्रियते, न गुरुधर्मावच्छिन्ने, अनुभवबलेन गौरवज्ञानस्य प्रतिबन्धकत्वकल्पनात्, शक्यसंबन्धरूपलक्षमायास्तु तत्रापि संबन्धत्वं त्कृप्तं, न कल्प्यमिति वैषम्यमत एव न लक्षणोच्छेद इति सकलतान्त्रिकसिद्धभित्यत आह__कि च भावनाया इति । अवाच्यत्वे = व्यापाररूपभावनाया धातोस्तिङश्चावाच्यत्वे । द्वितीया
स्यादिति । तस्या अवाच्यत्वे स्वजनकव्यापारव्यधिकरणधात्वर्थफलाश्रयत्वं कर्मत्वं वक्तव्यं, धात्वर्थफलश्रयत्वमेव वा, एवं च 'घटं भावयती'त्यत्रेव 'घटो भवती'त्यत्रापि धटपदाद् द्वितीयापत्तिः, । उभयत्रापि घटस्य धात्बर्थोत्पत्ति- रूपफलाश्रयत्वाविशेषादित्यर्थः । कर्मसंज्ञाया बाधादिति । घटस्य फलाश्रयत्वे- ऽपि द्वितीयाप्रयोजककर्मसंज्ञाया विरहान्न द्वितीयापत्तिरित्यर्थः । अनुगतेति । चेतनाचेतनसाधारणेत्यर्थः । घटस्याकर्तृत्वमुपपादयति-कृत्याश्रयत्वस्येति । तद्धात्वर्थफलानुकूलकृत्याश्रयत्वस्य । कारकेति । प्रकृतधात्वर्थकारक- चक्रेत्यर्थः । अभावात् = अचेतनत्वात्, कारकचक्रप्रयोक्तृत्वाभाव इति भावः । तथा च कृत्यादिमत एव कर्तृसंज्ञाविधानात् कृत्याद्यभावे कर्तृसंज्ञाप्राप्त्यभावेन कर्मसंज्ञाया अनपवादाद् द्वितीयापत्तिर्दुर्वारेति भावः । ननु धात्वर्थानुकूलव्यापा- राश्रयत्वं स्वतन्त्रपदेन विवक्षणीयं, तच्च घटेऽबाधितमेवेत्यत आह__धात्वर्थेति । कारकमात्रेति । कारकमात्रे प्रकृतधात्वर्थानुकूलव्यापारवत्त्वात् सर्वकारकेष्वति- प्रसङ्गः । ननु कारकचक्रप्रयोक्तृत्वं कर्तृत्वं, तच्च वैवक्षिकमतो नातिप्रसङ्गः, अत एव 'स्थाली पचती'त्यपि भवति । स्पष्टं चेदं 'कारके' इति सूत्रभाष्ये इत्यत आह__तथा चेति । भूप्रभृतावतिप्रशङ्गवारणाय-स्वार्थफलव्यधिकरणेति । भूप्रभृतेरपि पच्यादिधात्वर्थफलव्याधिकरणव्यापारवाचित्वादतिप्रसङ्गतादवस्थ्यम्, अतः स्वार्थत्वं फले निवेशितम् । फलव्यधिकरणत्वं च फलतावच्छेदकसंभन्धेन यत्किचित्तत्फलाधिकरणभिन्नवृत्तित्वं, नातो गम्यादरसंग्रहः । फलतावच्छेदक- संबन्धनिवेशाद् भूप्रभृत्यर्थफलस्य कालिकादिसंबन्धेन यदधिकरणं कालादि, तद्भेदस्य स्वजनकव्यापाराधिकरणे सत्त्वेऽपि नातिप्रसङ्गः । चैत्रग्रामोभयनिष्ठ- संयोगव्यक्तयधिकरणत्वावच्छिन्नप्रतियोगिताकभदस्य चैत्रेऽसत्त्वाद्गम्यादेरसंग्रह- स्तदवस्थ इति_'यत्किचित्' तत्फलवत्याधिकरणे निवेशितम् । यद्वा फलाधि- करणयत्किचिदवृत्तित्वं फलव्यधिकरणत्वं, विनिगमनाविहहादास्वार्थव्यापारेति । व्यापारव्याधिकरणत्वं = व्यापारानधिकरणवृत्तित्वम् । संबन्धनिवेशनं पूर्ववद्वो- ध्यम् । अथवा स्वानधिकरणवृत्तितत्तत्फलकत्वं-फलव्यधिकरणत्वं, स्वशब्दार्थो व्यापारः, स्वाधिकरणत्वं व्यापारतावच्छदकसम्बन्धेन बोध्यं, नातो ग्रामस्यापि कालिकसंबन्धेन चैत्रवृत्तिव्यापारवत्त्वेऽपि क्षतिः । तद्वृत्तित्वं च_फलतावच्छेदक- संबन्धेन, तेन नाकर्मकेऽतिप्रसङ्गः । वाच्यत्वम् = धातुवाच्यत्वम् । अन्यतमत्वमिति । सकर्मकत्वेनाभिमता यावन्तो धातवस्तद्वृत्त्यन्यत- मत्वमित्यर्थः,
तच्च तत्तद्धात्वानुपूर्व्यवच्छिन्नप्रतियोगिताकभेदसमुदायवद्भिन्नत्वाम् । एकस्यै- वेति । एकानुपूर्वीकस्यैवेत्यर्थः । तेन 'भारं वहति' 'नदी वहती'ति वाक्यद्वयघटकवहधातुव्यक्तयोरुच्चारणभदेनार्थभेदेन परस्परभेदावश्यकत्वेनैक- स्यैवेत्यसंगतमिति निरस्तम् । यद्वार्थभेदादिसत्त्वेऽपि शब्दाभेदमते इदमिति बोध्यम् । एवं च सकर्मकत्वेनाभिमतधातूनां तत्तद्वयक्तित्वावच्छिन्नप्रति- योगिताकभेदानामन्यतमत्वरूपभेदप्रतियोगितावच्छेदककोटौ प्रवेशेऽपि निस्तार इति बोध्यम् ।
ननु सकर्मत्वं स्वजनकव्यापारव्यधिकरणफलवाचकत्वं, तञ्च करोतेरक्षतम्, यत्नस्य फलतावच्छेदकविषयतासंबन्धेन स्वजनकात्ममनोयोगादिरूपव्यापारा- नधिकरणवृत्तित्वात्, तद्भिन्नत्वमकर्मकत्वं, तच्च करोतौ न संभवतीति 'कृञोऽ- कर्मकतापत्ते'रित्यसंगतमित्याशङ्कयाह__अयं भाव इति । अर्थ इति । अस्य 'धातो'रित्यादिः । यती प्रयत्ने इतिवदिति । तथा च नोक्तरूपं सकर्मकत्वं वक्तुमुचितं, यतधातावतिप्रसङ्गात्, अपि तु 'स्वार्थफले'त्याधुक्तमेवास्मद्रीत्या, पररीत्या फलविशिष्टव्यापारवाचकत्वमेव, तच्च करोतेर्यत्नमात्रवाचकत्वे न संभवतीत्यकर्मकतापत्तिर्दुर्वारैति भावः ।
ननु धातुमात्रस्य व्यापारावाचकत्वे धातुमात्रस्याकर्मकतापत्तिसंभवात् 'कृञ' इति विशेषोक्तिरनुचितेत्याशङ्क्याह__कृञ इतीति । फलवाचकत्वं सकर्मकत्व- मित्यभिप्रेत्याह__सकर्मकतेति । तथा च सकर्मकाकर्मकविभागोच्छेद इति तात्पर्यम् । तत् = सकलधातुवाच्यत्वम् । एतेन व्यापारो भावनेति कारिकया व्यापारस्य धातुवाच्यत्वसाधनेऽपि फलांशस्य तदसाधनेन न्यूनतेति दूषणं प्रत्युक्तम् । कृञ इतीति । 'यती प्रयत्न' इतिवद् यत्नार्थकतायाम- कर्मकतापत्तिरित्युक्तम्, अन्यथा 'वायुर्विकुरुते'सैन्धवा विकुर्वते' इत्यादिप्रयोगदर्शनाद्यथाश्रुतेऽसंगत्यापत्तीः । ननु फलावाचकत्वेऽपि फलव्यधि- करणव्यापारवाचकत्वं सकर्मकत्वं कृञादेरप्यक्षतमेव, उत्पत्त्यादिरूप- फलव्यधिकरणयत्नाद्यात्मकव्यापारवाचकत्वदित्याशङ्क्याह_अयं भाव इति । धात्वर्थ इति । सकलधात्वर्थ इत्यर्थः । सकर्मकत्वोच्छेदापत्तिरिति । समनन्तरोक्तं न सकर्मकत्वमाश्रयितुमर्ह, यतिस्यन्द्यतिव्यापकत्वादिति भावः । ननु सकर्मकत्वव्यवहारानुरोधादस्तु पच्यादेः फलांशोऽपि वाच्यः, अत एव धातोर्व्यापारमात्रवाचित्वे फलं द्वितीयाद्यर्थो वाच्यः, तथा च प्रयागात् काशीं
दच्छति चैत्रे 'प्रयागं गच्छति चैत्रः' 'काशीं च्यजती'त्यपि प्रयोगः स्यात्, एवं 'ग्रामं स्यन्दते इति प्रयोगापत्तिश्च, एकस्यैव व्यापारस्य गम्यादिवाच्यस्य पूर्वापरदेशनिष्ठविभागसंयोगजनकत्वात्-तत्तत्फलविशेषान्वयबोधे तद्धातुजन्यो- पस्थितेर्हेतुत्वकल्पनुयोक्तप्रयोगापत्तोर्वारणे तु गौरवम् । त्यजिगम्योः पर्यायता- भ्रमदशायां 'गच्छति ग्रामं'त्यजति ग्राम'मिति वाक्यद्वयादप्यविलक्षणबोधोत्पत्त्या तथाविधहेतुहेतुमद्भावकल्पनमशक्यं च, व्यभिचारात्, तत्पुरुषीयतथाविधभ्रम- शून्यकालिकतत्पुरुषीयतत्तत्फलान्वयबुद्धित्वस्य कार्यतावच्छेदकत्वं स्वीकृत्य व्यभिचारवारणे त्वतिगौरवम् । तथाविधभ्रमदशायामपि तादृगन्वयबोधो नाभ्युपेत इति तु न युक्तमनुभवसिद्धस्यापलापालार्हत्वात् । एवं त्यजति गच्छति त्यागो गमनमित्यतोऽप्यविक्षणबोधापत्तिः । न च तत्र फलविशेषावच्छिन्नव्यापारेलक्षणा- स्वीकारान्नोक्तापत्तिरिति वाच्यम् । अनेककर्मप्रत्ययानां तत्तत्फलविशेषे शक्ति- कल्पनां,__कर्मप्रत्ययासमभिव्याहृतगम्यादेस्तत्तत्फलावच्छिन्ने लक्षणाकल्पनां,__ चापेक्ष्य गम्यादेरेव विशिष्टवाचकत्वस्योचितत्वात् । एवं 'पच्यतेतण्डुलः स्वय- मेवे'त्यादिप्रयोगानुपपत्तिश्च, फलस्य धात्ववाच्यत्वे कर्मस्थक्रियकत्वाभावेन कर्मवाद्भावाप्राप्तेरित्यादिदोषाणामनवतार एव, तथा पच्यादेरुक्तरीत्या फला- वच्छिन्नव्यापारार्थकत्वेऽपि कृञादेर्यत्नादिरूपव्यापारमात्रार्थकत्वे बाधकाभावः, तत्र सकर्मकत्वव्यवहारः कर्मान्वितार्थकत्वनिमित्तको गौणः । एवं तत्र धात्वर्थता- वच्छेदकफलशालित्वरूपमुख्यकर्मत्वविरहेऽपि विषयत्वरूपं कर्मत्वं संभवतीत्याशङ्क्याह__न च कृञादाविति । लकारासंभवादिति । गौणमुख्यो- रिति न्यायादिति भावः । तदेव दृष्टान्तेन दर्शयति-
न हीति । उत्पत्त्यनुकूलयत्नार्थकत्वे कृञो नोक्तदोषसंभव इत्यत आह-एवं चेति । यत्नमात्रमितीति । मात्रपदेनोत्पत्तिरूपफलव्यवच्छेदः, तथा च पराभिमतयत्नमात्रार्थकत्वं तु स्वाभिमतमेवेति भावः ।। 5 ।।

का : 6
अत एव = यत्नपदस्य तन्मात्रपरत्वादेव । अन्यथोत्पादनपदस्योत्पत्त्य- नुकूलयत्नाद्यर्थकतयाऽसंगतिः स्पष्टैवेति भवत्युपष्टम्भकता । यत्नादीत्यादि- पदेनान्यव्यापारस्यापि परिग्रहः, 'बीजादिनाङ्कुरः कृत' इत्याद्यनुरोधात्, तत्र यत्नबाधात् तत्त्यगेऽपि शक्त्यैवेतरव्यापारभानमिति भावः । ननु
प्रत्ययार्थफलव्यधिकरणव्यापारवाचित्वं सकर्मकत्वमस्तु, प्रत्ययार्थफलाश्रयतवमेव कर्मत्वमतो न कश्चिद् दोष इति चेन्न, 'घटं भावयती'त्यादौ फलस्यात्वयतिरेकाभ्यां प्रकृतिभूतधातुवाच्यत्वे सति गौरवान्मानाभावाच्च तस्य प्रत्ययार्थत्वाभावेन तत्र लक्षणद्वयस्याप्यव्याप्त्यापत्तेः । किंव फलस्य प्रत्ययार्थत्वे 'पचती'त्यादौ फलविषयकबोधानापत्तिरिति दिक् । युक्त्यन्तरमाहेति । मुख्यभाक्तसाधारणकर्मत्वन्वितस्वार्थबोधकत्वमेव सकर्मकत्वम्, कर्मत्वानामननु- गमेऽपि कर्मत्वपदवत्त्वेन तैषामनुगमः । गौणेऽपि कर्मत्वे घटं जानाति करोतीयादिप्रामाणिकप्रयोगानुरोधाद् द्वितीयादयः, यथा शाब्दिकमते आरोपितकर्तृत्वादिकमादाय तृतीयादयः, अत एव 'शृणोत ग्रावाण' इत्यादि संगच्छते । अत एव च कारकचक्रप्रयोक्तृवं कर्तृत्वमिति भाष्यमते घटो भवतीत्यादिप्रयोगनिर्वाहः, न च कारकाधिकारे गौणमुख्यन्यायाप्रवृत्तेः सिद्धान्त- सिद्धतया द्वितीयादिसिद्धावपि तत्र लकाराद्यसिद्धौ 'ज्ञायते क्रियते घट' इत्यादि- प्रयोगासिद्धिरेवेति वाच्यम् । स्वरितत्वप्रतिज्ञया अधिकः कारोऽधिकारोऽधिकं कार्यमित्यर्थक__'स्वरितेन__' इति सूत्रेण तेषामपि सिद्धेः । धातुविशेषजन्य- यत्नाद्युपस्थितेर्द्वितीयाद्यर्थविषयत्वान्वयबोधे नियामकत्वान्न घटाय यतत इति वाक्तव्ये 'घटं यतत' इत्यादयः प्रयोगाः । अस्तु वा तत्र विषयतैव फलं, तस्या अपि ज्ञानादिप्रयोज्यत्वरूपफलत्वसत्त्वात् । एवं च सुख्यमेव कर्मत्वमिति नोक्तन्याव्यर्थकत्वमेव सकर्मकत्वम्, एतदवैतच्छास्त्रीयकर्मसंज्ञाकार्थान्वय्यर्थकत्व- मुच्यते, एतच्च भवचोऽप्यावश्यकमत कर्मणि प्रत्ययानुपपत्तेरित्यतो युक्त्यन्तरमा- हेत्यर्थः । ननु वचनाभावात् कर्मकर्तरि__कर्मवत् स्याद्यगाद्यपीति__मूलमनुप- पन्नभित्यत आह__कर्मवत् स्यादिति पदेनेति । सूत्रं लक्ष्यत इति । सूत्रविहित- मित्यर्थः । अन्यथा यगादीत्यनेनान्वयापत्तेः । कार्यातिदेशपक्षे साक्षादेव तत्सूत्र- विहितत्वं यगादेः, शास्त्रातिदेशपक्षे तु परम्परयेति बोध्यम् । तन्न स्यादिति । कर्मस्थक्रियया तुल्या क्रिया फलरूपा, फलसमानाधिकरणव्यापाररूपा वा यत्र तादृशकर्ता कर्मवदित्यर्थकस्य__'कर्मवत् कर्मणा__'इति सूत्रस्याप्राप्तेः, कृञः फलवाचकत्वाभावात्, तदर्थयत्नस्य तु घटादिसमवेतत्वाभावात् । यत्र कर्म- वद्भावाभावे इष्टापत्तिस्तु न, प्रकृतसूत्रभाष्यविरोधात् । ननु कर्मणि समवायेन यत्नस्यासत्त्वेऽपि विषयतया तन्निष्ठत्वमक्षतमेव, अत एव घटं जानातीत्यादिवद् घटं करोतीति प्रयोग उपपद्यते, फलतावच्छेदकविषयतासंबन्धेन ज्ञानादिवद्
यत्नस्य घटनिष्ठतया तस्य कर्मत्वात् । न चैवं घटं यतत इत्यपि स्यादिति वाच्यम् । तदुपस्थितयत्नस्य विषयतया फलत्वव्यवहाराभावेन विषयतायाः फलतावच्छेदकत्वानङ्गीकारात् । एवं च 'क्रियते घटः स्वयमेवे'त्युपपन्नमेवेत्या- शङ्क्य नैवं वक्तुं शक्यं 'दृश्यते घटः स्वयमेवे'त्यादिप्रयागापत्तेरित्याशयेन मूलोक्तं दृठ्टान्तमुपपादयति__यथा दृश्यते घट इति ।। 6 ।।

का : 7
एवम् = फलव्यधिकरणेत्यादेरेव सकर्मकत्वरूपत्वे । विषयावच्छिन्नेति । अवच्छेदकतासंबन्धेन विषयनिष्ठ आवरणभङ्ग इत्यर्थः । भङ्गदीत्यादिपदेन विषयतापरिग्रहः । किं न स्यादिति । तथा च फलव्यधिकरणेत्यादिरूपं सकर्म- कत्वमपि स्वीकारयोग्यं न भवतीति तात्पर्यम् । किं च 'गम्यते ग्रामः स्वय- मेवे'त्यादिप्रयोगापत्तिरूपोऽपि दोष इत्याह__एवं ग्राम इति । निर्वर्त्यादिस्वरूपज्ञानार्थमाह__ईप्सितमिति । तेन तद्भिन्नकर्मण आधिक्येऽपिन क्षतीः ।
क्रियाकृतविशेषेति । क्रियाकृताविशेषेण तद्वैशिष्ट्येनानुपलभ्यमान इत्यर्थः । यद्वानुपलभ्यमानः क्रियाकृतविशेषो यत्रेति बहुव्रीहौ राजदन्तादित्वा- दिना विशेषणस्यापि परिनपातः । विशेषदृष्टिसर्पदृष्ट्योर्यद्यपि मूर्च्छादिरूपो विशेषो दृश्यते, तथापि न सर्वत्र, तथा यद्धातुकर्मणि प्रायः क्रियाकृतविशेषो- पलम्भाभावस्तद्धातुकर्म प्राप्यं कर्मेति पर्यवसन्नम् । वक्ष्यत इति ।
'क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शमादनुमानाद्वा तत् प्राप्यमिति कथ्यते ।।' इति ।
__इति वाक्यपदीयादिति वक्ष्यत इत्यस्यार्थः । नोक्तातिप्रसङ्ग इति । तद्बीजं तु 'कर्मवत् कर्मणा__' इति सूत्रे कर्मणेत्युपादानात् कर्मस्थक्रियाणां कर्मस्थभावकानामेव धातूनां ग्रहणं विनाप्यन्तरङ्गत्वात् प्रकृतधात्वर्थाश्रय- कारकेणैव तुल्यक्रियत्वलाभेन 'साध्वसिश्च्छिनत्ती'त्यत्र वारणात्, कर्तृभिन्नं च प्रकृतधात्वर्थाश्रयीभूतं कर्मैवेति भावः । क्रियाव्यवस्था चेत्थमुक्ता भर्तृहरिभिः__
'विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ।।' इति ।
पूर्वार्धस्य तूक्त एवार्थः । "नन्वेवं चिन्तयति पश्यत्यादीनां कर्तरि क्रिया-
कृतविशेानुपलम्भात् कर्तृस्थभावकत्वानुपपत्तिरतः सिद्धान्तिमतमाह__अन्येषा- मिति । मत इति शेषः । यत्र कर्तृकर्मोभयसाधारणं फलं शब्देन प्रतिपाद्यते स कर्तृस्थभावकः, यथा 'पश्यति घटं' 'ग्रामं गच्छती'त्यादौ, ज्ञानरूपफलस्य समवायविषयतासंबन्धाभ्यामुभयनिष्ठत्वात्, संयोगस्य च समवायेनोभयनिष्ठत्वम्, एवं हासस्यापि चित्तवृत्तिविशेषस्योभयनिष्ठत्वम् । अत एव जानातेरा- वरणभङ्गाद्यनुकूलव्यापारर्थकत्वे कर्तृस्थक्रियकत्वानापत्तिः, कर्मस्थक्रियकत्वा- पत्तिश्चेति ज्ञानानुकूलव्यापारार्थकत्वमेव स्वीक्रियते । यत्र तु कर्तृदृत्तिफलं स कर्मस्थभावको यथा 'भिनत्ती'त्यादौ, न हि द्विधाभवनादिकं कथमपि कर्तृगतं भवतीति" हेलाराज इत्यन्यत्र विस्तरः ।
धाताः फलवाचकतासाधिकामन्येषां युक्तिमाह__धातुनामिति । क्रियावाच- कत्वाविशेषादिति । एकजातीयक्रियावाचकत्वाविशेषादित्यर्थः । अत एव धातुमात्रस्य पर्यायतापत्तिर्न कृता । अपि वदन्तीत्यनेनास्वरसः सूचितः, तद्वबीजं तु द्वितीयया तत्तत्फलबोधे तत्तद्धातुजन्योपस्थितेर्हेतुत्वकल्पनया प्रयागं त्यजतीति प्रयोक्तव्ये प्रयागं गच्छतीत्यादिप्रयोगवारणं सुकरमिति ।
निर्विवादमिति भवतीत्यादितः सत्तादिबोधस्य सर्वमतसिद्धत्वादित्यर्थः । पचतीत्यादित एव फलबोधे विवादः । तत्र फलबोधो द्वितीयादित एवेति पराभ्यु- पगतत्वात् । अत एव = धातोः फलवाचकत्वादेव । संगच्छत इति । तण्डुलानोदनं पचतीत्यत्र तण्डुलानां विकार्यकर्मत्वमोदनस्य निर्तर्त्यकर्मत्व- मभिमतं तन्निर्वाहार्थमुत्पत्तिविकृतिरूपफलद्वयार्थकत्वपर एव स भाष्यग्रन्थः । एकस्यैव व्यापारस्योक्तफलद्वयजनकतया व्यापारद्वयपरत्वे असंगतिः स्पष्टैवेति भावः । नन्वेवं जानात्यादेः सकर्मकत्वाय ज्ञानाद्यनुकूलव्यापारवाचित्वं, तथा च चक्षुपादिकं जानातीति स्याच्चक्षुरादवपि ज्ञानानुकूलचक्षुर्मनःसंयागादेः सत्तवादिति चेन्न, 'स्थाली पचती'तिवदिष्टापत्तेरित्याशयेनाह__दिगिति ।। 7 ।।

का : 8
पूर्वोक्तयुक्तिभिः फलव्यापारयोर्वाच्यत्वे साधिते 'तिङ्प्रत्ययवाच्यैव भावने'ति मण्डनमिश्रानुयायिमतमाशङ्क्य निराकुस्ते__एवं सिध्यत्वित्यादिना । तदागमे हीति । 'शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य ज्ञानं यथान्येष्म्'__ इति जैमिनिसूत्रम् । 'पशुना यजेते'त्यत्रैकवचनोपात्तौकत्वस्य करणत्वेन न
क्रियायामन्वयः, किं तु प्रकृत्यर्थे, 'प्रत्ययानां प्रकृत्यर्थान्विते'ति व्युत्पत्तेरिति स्वाकारे एकत्वस्य यागाङ्गत्वाभावात्तदभावेऽपि यागावैगुण्यात्तदविवक्षितमेव स्यादिति,__पूर्वपक्षे; इदनुत्तरसूत्रम् । तदर्थस्तु-शब्दवत् = शब्दबोध्यं यथा भवति तथोपलभ्यते एकत्वं, हि = यतः तदागमे = एकवचनश्रवणे, दृश्यतेऽतस्तस्याङ्गत्वज्ञानं, यथान्येषां पशुत्व-लौहित्यादीनामिति । तथा च विशष्टंस्य श्रुत्याङ्गत्वबोधनेन पशुवाचित्ववच्छब्दबोध्यस्यास्य विशेषणस्याङ्ग- त्वोपपत्तिरिति भावः । एवं च तत्र यथा एक वचनागमे एकत्वं दृश्यतेऽतस्तदर्थत्वमेवं पचतीत्यादावाख्यातश्रवणे सति व्यापारबोधात् तस्य तदर्थत्वमेवाङ्गीकार्यमन्यथोक्तन्यायविरोधापत्तेरिति तात्पर्यम् । तथा चोक्तं भट्टपादैः__
'तथा क्रमवतो नित्यं प्रकृतिप्रत्ययांशयोः ।
प्रत्ययश्रुतिवेलायां भावनात्मावगम्यते ।।' इति ।
नन्वेवं पूर्वोक्तसकर्मकत्वाकर्मकत्वविभागोच्छेदः, व्यापारस्य धात्वर्थत्वा- भावात्, एवं 'देवदत्तः पचती'त्यादौ धातूपात्तव्यापाराश्रयत्वरूपकर्तृत्वस्य दुर्वचत्वेन देवदत्तादिरूपे कर्तरि प्रत्ययो न स्यादित्यतः सकर्मकत्वादि- कमन्यादृशमाह__एवं च स्वयुक्तेति । स्वं = प्रकृतधातुः । भवत्यादेः पच्यादि- युक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वात् सकर्मकत्वापत्तिरतः__'स्युक्ते'- त्याख्यातविशेषणम् । योगश्च स्वाव्यवहितोत्तरवर्तित्वं, तेन 'देवदत्तः पचति' 'भवति घट' इत्यत्र पच्युत्तराख्यातस्य भूधातुयुक्तत्वेऽपि नातिप्रसङ्गतादव- स्थ्यम् । 'स्वोत्तरवृत्तित्व'मात्रनिवेशे,__'घटो भवति' 'पचति देवदत्त' इत्यत्र भूधातावतिप्रसङ्गः 'अव्यवहितोत्तरवर्तित्व'मात्रनिवेशे__'अत्ति' 'पपाचे'त्येतद्घट- कात्तिपच्योः संग्रहेऽपि पचति अत्स्यतीत्येतत्समुदायघटवयोस्तयोरसंग्रहः, अतो द्वितीयदलप्रवेशः । तेन 'घटं भावयति,' 'ग्रामं गमयती'त्यादौ भवत्यादेर्णजर्थव्यापारव्याधिकणोत्पत्त्यादिफलवाचकत्वसत्त्वान्नसंग्रहः । उत्पत्त्या- दिवाचकत्वं,__प्रकृतिभूतभूप्रभृतावेव न ण्यन्तस्योति ण्यन्तस्य सकर्मकत्वाभावे 'भाष्यते घट' इति ण्यन्तात् कर्मणि लकारानुपपत्तिरिति न वाच्यं, स्वस्वघटकान्यतरवृत्त्या तद्बोधकत्वरूपस्य तद्वाचकत्वस्य निवेशेनादोषात् । 'तद्घटकभूधातावतिप्रसङ्ग' इति तु न श्हक्यम्, इष्टापत्तेः । एवं 'स्वयुक्तप्रत्ययार्थव्यापारसमानाधिकरणफलवाचकत्व'मकर्मकत्वं, 'स्वयुक्तप्रत्य-
यार्थव्यापारजन्यफलाश्रयत्वं कर्मत्व'मित्यपि बोध्यम् । कर्तृत्वं वाच्यमिति । यथा देवदत्तः पचतीत्यादौ देवदत्तादेः चैत्रो मैत्रेण पाचयती'त्यादौ प्रयोज्यप्रयोजकयोरपि णिजर्थाख्यातार्थाश्रयत्वात् कर्तृत्वं, देवदत्तेन पच्यते, देवदत्तेन स्थीयत इत्यत्राप्याख्यातार्थव्यापाराश्रयत्वाद् देवदत्तस्य कर्तृत्वमिति । इत्यादीत्यादिपदादुक्ताकर्मकत्वलक्षणादिसंग्रहः । मीमांसकम्मन्यमिति । 'आत्म- माने खश्च' इति खश् । अनेन भावनामुख्यविशेष्यको बोध इति सूचितम् । गमनवानिति प्रतीत्यापत्तिरिति । फलव्यापारयोर्धात्वर्थत्वमतेऽपि तदारत्तिरिति तु न शङ्क्यम्, अन्तरङ्गत्वात् फलस्य व्यापारे एवान्वयाङ्गीकारात् । एवं 'गमनं न स्यन्द' इति प्रयोगारत्तिश्च बोध्या । संयोगाश्रयत्वादिति । अस्य 'ग्रागस्ये'त्यादिः । ननु कर्मणः कर्तृत्वविवक्षायां तादृशप्रयोगापत्तिः सिद्धान्तेऽपीति चेन्न । कर्मदेवदत्तादेरेव कर्तृत्वविवक्षायामपि तदापत्तिरित्याशयात्, फलमात्रार्थ- कात् तत्समानाधिकरणव्यापारार्थकाच्च ल्युडादेरनभिधानाद्वेति भावः । व्यापार- विगमे = व्यापारनाशे । इत्यापत्तिश्चेति । धातोर्व्यापारावाचकत्वे पाकपदार्थ- फलमेव वाच्यं, तथा चोक्तानापत्तिरनुक्तापत्तिश्चेति भावः । फलानुत्पाददशायां फलकर्तृकसत्ताया वर्तमानत्वाभावात्, व्यापारविगमेऽपि फलकर्तृकसत्ताया वर्तमानत्वाच्चेति भावः । पूर्वोक्तस्थले पचतीत्यानापत्तिस्तदापत्तिश्च न संभवति, प्रत्ययार्थ व्यापारे एव समानाभिधानश्रुत्या तदर्थकालान्वयोपगमात् । उक्त- दूषणोद्धारं तदुक्तं निराकुरूते__यत्तु भावेति । नानुपपत्तिरिति । उक्तदोषणामनवकाशादेस्तन्मतानुपपत्तिर्नेत्यर्थः ।
कर्त्राख्यातवदिति । यथा 'लः कर्मणि__' इति सूत्रेऽनुवृत्त 'कर्तरि' इत्यस्य कर्तृत्वपरत्वमभ्युपगम्य तत्सूत्रेण व्यापारे लकारविधानं मीमांसकैरङ्गी- क्रियते, तथा घञादिनामपि 'कर्तरि कृत्' इति सूत्रेण व्यापारे विधिसंभव इत्यर्थः । न केवलं तद्वैयर्थ्यमपि तु तद्भाष्यविरोधोऽपित्याह__तद्भाष्यविरो- धेति । धञादेरप्यसत्त्वभूतकारकान्वययोग्यव्यापारार्थकत्वे 'भावे' इति सूत्रभाष्य- विरोधापत्तेरित्यर्थः । तत्र हि 'सत्त्वभूतभावो घञादेरर्थ'इति प्रतिपादितमित्यग्रे वक्ष्यते । ननु द्विविधभावोऽपि घञाद्यर्थोऽस्त्वतो न तद्विरोध इत्यतस्तद्भाष्यविरोधापत्तेश्चेति चेनान्येषां दूषणानां संग्रहः सूचितः । तथा हि__आख्यातप्रत्ययस्य कर्तुरवाच्यत्वेऽभिधानानभिधानव्यवस्थोच्छेदः, कर्तृकर्म- कृतां व्यापारावाचकत्वे तण्डुलानां पाचकः देवदत्तेन पक्क इत्यादौ
षष्ठ्याद्यनुपपत्तिः, कर्मत्वाद्यसंभवात् । तेषामपि भावार्थकत्वे गौरवम्, अनुशासनेन तदर्थकत्वालाभश्च । न च 'कर्तरि कृत्' इति सूत्रस्थकर्तृपदस्या- वृत्त्या धर्मधर्म्युभयबोधकतया भावनायां तद्विधिलाभ इति वाच्यम्, आवृत्तौ प्रमाणाभावात्, एवमपि कर्मकृतां तदर्थकत्वानुपपत्तिः स्थिरैव । न च 'तयोरेव कृत्य__' इत्यादावपि कर्तृग्रहणमनुवर्त्य भावनायामपि तेषां विधानमिति वाच्यं, गौरवापत्तेः । एवं 'गुरुः शिष्याभ्यां पाचयती'त्यत्र 'हेतुमति च' इति सूत्रवलात् प्योजकव्यापारस्य णिजर्थत्वे स्थिते प्रयोज्यव्यापार एवाख्यातार्थो वाच्यः, एवं च णिजर्थव्यापारस्य प्रकृत्यर्थतया आख्यातार्थव्यापारान्वयिन्येव तदर्थसंख्यान्वया- द्गुरुगतसंख्यानभिधाने गुरुपदात् प्रथमानापत्तिः, शिष्यपदात् तदापत्तिश्टेत्याद्यन्यत्र विस्तरः । एत्यभ्युपेयमिति । पूर्वोक्तदूषणगणनिरासाय यत्मातिरिक्तो व्यापारोऽपि धात्वर्थः, यत्न आख्यातार्थ इत्भ्युपेयत इति भावः । सकलव्यापारलाभसंभवेनेति । विनिगमनाविरहाद्यत्नोऽपि धातुवाच्य इत्यर्थः । गौरवमिति । संख्यायां कालादौ तच्छक्तिरस्तु, न तु यत्नेऽपि, अन्यलभ्यतया तत्र शक्तिकल्पनानौचित्यादित्यर्थः न पुन'व्यापारत्वेन धातुत एव लाभे प्रत्ययस्य यत्नत्वावच्छिन्ने शक्तिकल्पानायां गौरवादित्यर्थः', तथा सत्यनुभवसिद्वफूत्कार- त्वादिना बोधास्यानिर्वाहात्, तत्तत्फलानुकूलयत्नलाभेऽपि तदनुकूलव्यापा- रानुकूलयत्नालाभात् । 'तल्लाभार्थमाख्यातस्य यत्ने शक्ति'रिति नव्यमीमांस- कोक्तमपि न युक्तं, तथाननुभवात्, अन्यथा व्यापारानुकूलव्यापारालाभात् तत्रापि शक्तिकल्पनापत्तेः, पाकं करोतीति धात्वर्थात् पृधक् करोतिना विव्रियमाणतया विक्लित्त्यादिफलानुकूलव्यापारानुकूलयत्नादिरूपा भावना आख्यातार्थः, व्यापारविगमे फलसत्त्वदशायां 'पाको विद्यते' इत्यप्रयोगात्, घञन्तपाकादिपदस्य फलावच्छिन्नव्यापारार्थताया आवश्यकत्वादिति त्ववाच्यं, पाकं करोतीत्यत्रत्य- पाकपदस्य फलमात्रार्थकत्वात्, फलानुत्पादसमये फूत्कारादिव्यापारसत्त्वेऽपि'- पाको भविष्यती'त्यादिव्यवहारात् क्कचित्तस्य फलमात्रपरत्वस्यापि दर्शनात्, अन्यत्र फलावच्छिन्नव्यापारपरत्वान्नोक्तदोष इति भावः । 'कथं पुनर्ज्ञायते क्रियावचनाः पचादयः ? इति, यदेषां करोतिना सामानाधिकरण्यं, किं करोति__पचतीति, धातुरेव क्रियामाह' इति भूवादिसूत्रे भाष्यमप्यत एव संगच्छते । अत्र गौरवमित्यन्तेन तस्मादित्यनेन सूचितो बुद्धिस्थहेतुसमुदायः प्रतिपादितः । उक्तहेतुतः करोतिः पचादिधातोरेव व्याख्यानं विवरणमिति
मूलार्थमाह__पचतीत्यस्येत्यादिना । बाधकम् = प्रकृतिप्रत्यययोः प्रत्ययार्थेति न्यायविरोधात्मकं बाधकम् । तन्मतम् = आख्यातवाच्यैव भावना, करोतिना विवरणात्, 'धात्वर्थस्यैव विवरण'मिति तु न, विनिगमकाभावात्, अस्मन्मते च 'व्यापारविशेष्यकबोधानुपपत्तिरेव मानम्, तदुक्तम्__
'प्रत्ययार्थ सह ब्रूतः प्रकृतिप्रत्ययौ सदा ।
प्राधान्याद् भावना तेन प्रत्ययार्थोऽवधार्थते ।।' इति__

__मामासकमतमित्यर्थः । ननु पदपदार्थोपस्थित्यादिघटितसामग्रीसत्त्वे कुतोऽन्वयबोधाभावः, न च कारकाणां भावनायामेवान्वय इति नियमात्र परस्परमन्वय इति वाच्यं, कारकरूपेणान्वयासंभवोऽपि मीमांसकरीत्या संबन्धसामान्येनान्वयसम्भवादित्यत आह__अयं भाव इति । सहर्थ ब्रूत इति । एकार्थान्वितस्वार्थ बोधयतः । अर्थद्वयमध्ये कस्य विशेष्यत्वं, कस्य विशेषणत्वमित्याकाङ्क्षायामाह__तयोरिति । फलितार्थमाह__इत्यस्य हीति । प्रकृतिप्रत्ययार्थयोः परस्परानन्वयप्रयोजकमुभयोः कारकत्वमाह__पाकः कर्म- कारकमिति । पाकः = फलंशस्तस्य-क्रियानिर्वर्त्त्यतया, व्यपदेशिवद्भावेन स्वाश्रयतया च कर्मत्वमित्यर्थः । अरुणाधिकरणे हि कारकाणां क्रियायामेवान्वय इत्युक्तम् । वक्ष्यमाणेति । क्रियात्वस्यैव तदन्वयितावच्छेदकतया तद्विशिष्टक्रिया- यामेवान्वय इति वक्ष्यमाणेत्यर्थः । तत्र इयान् परं भेदो__यन्मीमांसकमते 'अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाती'त्यादौ विशेष्यविशेषणानां सर्वेषां क्रियायामन्वयः, परस्परमन्वस्तु पार्ष्ठिकः, स्वमते तु विशेषणविशिष्टविशेष्य- स्येति । अत एव नीलोत्पलमित्यादौ सामर्थ्यात् समास उपपद्यते । नियमस्यैवा- भावे इति । भवन्मते एतादृशस्थले व्याभिचारादुक्तनियमस्यैवासंभवे इत्यर्थः । न च 'संबन्ध'-इति । यजेतेत्यत्र__श्रुत्या = धात्वादिश्रुत्या, धात्वर्थभावयोः = धात्वर्थभावनयोः, संबन्धमात्रं = संबन्धसामान्यमुक्तम्, तत्र तृतीयादिविभक्तय- भावेन करणत्वादिविशेषरूपणान्वयासंभवात् संबन्धसामान्येनान्वयः प्रतिपाद्यते, तदेकांशनिवेशे = संबन्धविशेषबोधने, अस्याः = श्रुतेर्व्यापारः = सामर्थ्य नेति तदर्थः । अर्थावाधरूपयोग्यतासत्त्वात् तद्विरहोक्तिस्संगतेत्यत आह-अन्वयेति । तन्मतेऽपि तस्यैव योद्यतात्वात् . अत एव स्थूलजवाभिप्रायकं 'पयसा सिचती'ति वाक्यं न योग्यं, द्रवद्रव्यत्वस्यैवान्वयितावच्छेदकत्वात्, अन्वयप्रयोजकपदे- नान्वयितावच्छेदकस्यैवाभिधानात्, यदवच्छिन्नेऽन्वयस्तस्यैव ह्यन्वयितावच्छेद- कत्वं, न च स्थूलजले द्रवद्रव्यत्वज्ञानदशायां 'सेको नैतज्जलकरणक' इति बाधकप्रमासत्त्वेऽपि शाब्दबोधापत्तिरिति वाच्यं,स्वरूपसद्योग्यताया हेतुत्वात् । यद्वा-बाधकप्रमाविरहोऽप्यपेक्षणीय इति भावः । नियमद्वयोऽपि दूषणमाह- अजाश्वेत्यादिना । स्त्रीत्वस्यैवेति । यः प्रधानं स प्रत्ययार्थ एवेति नियमे।डजादेः प्रत्ययार्थत्वविरहेण प्राधान्यानापत्तिः, किं तु स्त्रीत्वस्यैवेति भावः । द्वितीयनियमे तु स्पष्टमेवेदं दूषणम् । ननु विशेष्यत्वादिना बोधे नियामकाभावेऽनियत एव
बोधः स्यादित्यत आह-विशेष्यत्वादिनेति । व्युत्पत्त्यान्विति । तथा च व्युत्पत्तिरेव तत्र नियामिकेति भावनाया धात्वर्थत्वेऽपि न प्राधान्यानुपपत्तिरिति भावः । व्युत्पत्त्यनुसारित्वं बोधस्य दर्शयति-अत एवेत्यादिना । शक्यतावच्छेदकप्रकारक एवेति । अत एव 'गङगायां घोषः',__
'जाता लता हि शैले जातु लतायां न जायते शैलः ।
संप्रति तद्विपरितं कनकलतायां गिरिद्वयं जातम् ।।'
__इत्यादौ गङ्गात्व लतात्वादिनैव बोधः । अत एव विलक्षणशैत्यपाव- नत्वादिप्रतीतिचमत्कारोऽपि । अन्यथा गङ्गातोरे घोष इत्यतः को विशेषः स्यात्, विपरीतपदप्रतिपाद्यं वैपरीत्यं च न भवोदित्याहुरालङ्कारिकाः ।
'कचतस्त्रस्यति वदनं वदनात् कुचमण्डलं त्रसति ।
मध्याद्विभेति नयनं नयनादधरः समुद्विजति ।।'
__इत्यत्र कचत्वादिना बोधो न त्रासकरोऽपि तु राहुत्वचन्द्रत्वादिनैव, अत एव 'गङ्गायां घोष' इत्यादौ तीरत्वादिना बोधः । कचपदं राहौ, वदनपदं चन्द्रे, कुचमण्डलपदं चक्रवाकदम्पत्योर्मध्यपदं सिहे, नयनपदं हरिणेऽधरपदं प्रवाले लाक्षणिकम् । गङ्गापदेन स्वसृत्त्या प्रतिपादनादेव विलक्षणशैत्य- पावनत्वादिप्रतीतिनिर्वाह इति नैयायिकादय आहुः । विपर्ययेणेति । वैपरीत्येन । व्युत्पन्नानाम् = तादृशवाक्ये आधाराधेयभावसंबन्धेन घटप्रकारककर्मत्वविशेष्यक- बोधजनकताग्रहवताम् । नैयायिकेति । कर्मधारयसमासे नैयायिकशब्दस्य क्रियाशब्दतया पाठकपाचकादौ पाठकादिवत् पूर्वनिपातः । बोधः = उक्तबोधः । न तदिति । अत्र बोध इत्यनुषजन्यते । तथाव्युत्पत्तिरहितानां घटवृत्तिकर्मत्व- मित्याकारको बोध इत्यर्थः, न तु बोधसामान्यानुदयोऽर्थः, अयोग्यतानिश्चयशून्य- समये तथाव्युत्पत्तिरहितानामपि तादात्म्यसंबन्धेन घटप्रकारककर्मत्वविशेष्यक- बोधोदयात् । अत एव = बोधस्य व्युत्पत्त्यनुसारित्वादेव । वचनमेवेति । एव- कारेण प्रकृतिप्रत्यययोरित्यस्य व्युवृत्तिस्तस्यौत्सर्गिकत्वात् सामान्यवचनत्वाच्चौ- तस्य विशेषवचनत्वादिदमेव ग्राह्यमिति भावः । तत्राख्यातपदेन धातुरुच्यते, आख्यायते सर्वप्रधानभूतोऽर्थोऽनेनेति व्युत्पत्तेः । नामादिप्रकृतीनामेवोद्देशात् । तत्र 'नामान्याख्यातजानि' इति निरुक्ताच्च । न ह्याख्यातप्रत्ययजं तदन्तजं वा नाम संभाव्यते । अत एव 'सर्व नाम धातुजमाह व्याकरणे शकटस्य च तेकम्' इति पूर्वोक्तनिरुक्तसमानार्थकं वाक्यं महाभाष्ये पठाते । तथा च वाक्ये
सर्वापेक्षया प्रधानीभूतभावार्थकत्वं धातुलक्षणं पर्यवसन्नम् । प्राधान्योक्तिस्तु तन्मुख्यविशेष्यक एव बोधो जायत इति स्फोरणाय, न तु तस्य लक्षणे निवेश इति भूषणकारानुमता सरणिः ।
मञ्जूषाकारास्तु तत्राख्यातशब्देन तिङ्न्तम्, 'आख्यातमाख्यातेन' इत्यादौ तथैव प्रतीतेः, 'चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च' इत्युप- क्रमाच्च, 'भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य, तत्र भावः प्रधानम्' इति तद्भाष्याच्चेत्यादिकमाहुः । विस्तरस्तु तत एवावगन्तव्यः । एतन्मतेऽपि एत'न्निरुक्तं भावस्य प्रागुक्तयुक्तिभिर्धात्वर्थात्वे स्थिते तत्प्राधान्यनियामकं भवतीति ध्येयम् । इत्यत्रापीति । अपिना पक्कवानित्यस्य समुच्चयः । उभयसावारण्येन = तिङ्न्तकृदन्तोबयसाध रण्येन । धातुरेव वाचक इति । उभयभापि पचिधातोरेकत्वेन लाघवात्, प्रत्ययानां भिन्नतया तद्वाचकत्यां गौरवादिति भावः । प्राधान्यापत्तिश्चेति । कृतामपि भावनावाचकत्वे भावनयैवाक्षेपात् कर्तृकर्मलाभसंभवे तिङ्क्षिववात्रापि तस्या एव प्राधान्यापत्तिरिति भावः ।। 8 ।।

का : 9
लिङ्गसंख्यान्वयेति । पकवान् पक्कवती पक्कवात् इत्यादौ पुंस्तत्वस्त्रे- त्वादिलिङ्गैकत्वादिसंख्यान्वयायेत्यर्थः । कर्तुर्वाच्यत्वमिति । इदं 'पक्कस्तण्डुल' इत्यादौ कर्मादेसप्युपलक्षणम् । समासानुपपत्तौ हेतुमाह__पुरुप इति । राजसंबन्धी पुरुषो देवदत्तसंबन्धिनी भार्येत्यन्वये विवक्षिते राज्ञो भार्या इत्यनेन यथा समासो न भवति, असामर्थ्यादनन्वयादेवं नखैर्भिन्न इत्यादावपि स न स्यादित्यर्थः । असामर्थ्यादिति । कारकाणां भावनायामेवान्वयेन परस्परमनन्वयात्, परमते तिङगदेर्भावनानाचकत्वात् । साक्षाद्धात्वर्थत्वान्व- येनेति । कृधातोस्तन्मतेऽपि कृतिरूपभावनार्थकत्वादिति भावः । परम्परेति । स्वकर्तृकादिक्रियाजन्यत्वरूपपरम्परेत्यर्थः । शङ्कते__न चेति । तथा च नोक्तपरम्परासंबन्धेन तयोरन्वयः, अपि त्वेकस्यां क्रियायामन्वयित्वरूपमेव सामर्थ्य नीलोत्पलमित्यादिसमाससिद्धये तैरङ्गीकर्तव्यं, तच्चात्राप्यस्तीति न समासानुपपत्तिरिति भावः । असमर्थेति । 'असूर्यपश्या राजदारा'इत्यत्र दर्शन- क्रियाया एवाभावबोधेन सूर्यपदार्थेन नञर्थस्यान्वयविरहादसमर्थसमासत्वेन भाष्यकारादेरभिमतः, तस्याऽसमर्थसमासत्वं तव मते भज्येत, न सूर्य पश्यन्ती-
त्यर्थे नञसूर्यपदार्थयोरेकक्रियान्वयित्वरूपसामर्थ्यसत्त्वादिति भावः । आदि- पदा'दश्राद्धभोजी ब्राह्मण' 'अमुनर्गेयाः श्लोका' इत्यादेः संग्रहः । इत्याद्या- पत्तेरिति । न चात्रापीष्टापत्तिः, तत्र समासाभावस्यैव सर्वानुमतत्वात्, अत एव 'सर्वचर्मणः कृतः__' इति सूत्रे सर्वश्चर्मणा कृत इत्यर्थे 'सर्वचमण' इति निपातनात् समास इत्युक्तम् । ननु कृतः सर्व इत्यादावनभिधानान्न समासः, किं च 'सह सुपा' इत्यसार्वत्रिकं । तेनैव सर्वत्र समाससिद्धौ 'द्वितीया श्रिता__' इत्यादिना समासवधानात्, अन्यथा तत्तत्सूत्रैस्तत्पुरुषादिसंज्ञा एव विधीयेरन् । अत एवानेन समासस्यागतित्वं तत्र तत्रोक्तम् । किं चैवं 'कर्तृकरणे कृता__' इत्यादिना कृप्रकृतिककृतेति वा वक्तव्ये सामान्यसूत्रप्रणयनसामर्थ्यात् 'देवत्रातो गलो ग्राह'इति निर्द्दशाच्च क्रियाद्वारकसामर्थ्यमादाय कृदन्तेन कारकस्य समास इत्यभ्युपगमान्न दोषः । कृद्ग्रहणसामर्थ्यादप्ययमर्थः सिध्यति । 'कर्तृकरणे'इति न्यासेनैव 'सुपा' इत्यनुवृत्त्या कृदन्तेनैव समासस्य सिद्धेः, 'काष्ठैः पचतितरा'मित्यत्र समासस्य बहुलग्रहणेनापि वारयितुं शक्यत्वाद्, बहुलग्रहणेनैव सुबुत्पत्तेः प्रागेव समासस्य सिद्धत्वादित्यभिप्रेत्य दूषणान्तरमाह__किं चेति ।
धात्वर्थफलेति । उत्पत्तिरूपफलेत्यर्थः । ननु भवन्मतेऽपीयमापत्तिस्तुल्या, कर्तृसंज्ञया कर्मसंज्ञाया बाधान्नेति समाधानमपि तुल्यमित्याशङ्कां निराचष्टे__न चाख्यातार्थेति । तथा च दृ्टान्तार्ष्टान्तिकयोर्वेषम्यम्, दृष्टान्ते प्रयोजकव्यापारो णितर्थः, दार्ष्टान्तिके तु प्रयोज्यव्यापार आख्यातार्थः । एवं च घटं भावयतीत्यत्र घटस्य कर्तृत्वाभावेन णिजर्थभावनां प्रति कर्मत्वं निरपवादमेव । घटो भवतीत्यत्र आख्यातार्थव्यापाराश्रयतया कर्तृसंज्ञया वाधितत्वान्न घटस्य कर्मत्वमित्यर्थः । अकर्तृत्वापत्ताविति । सर्वस्यैव यत्किचिदाख्यातार्थव्यापाराश्रयत्वात् समभिव्या- हृतेत्यावश्यकम् । प्रकृते चात्यातस्य न प्रयोज्यव्यापारोऽर्थः, अपि तु णिजर्थव्यापार एव तेनानूद्यते । अत एव प्रयोजकस्य कर्तृत्वनिर्वाहः, अत एवाख्यातार्थव्यापारान्वयिन्येव तदर्थसंख्यान्वयनियमाद् 'गुरुः सिष्याभ्यां पाचयती'त्यत्र गुरुपदात् प्रधमोत्पत्तिः, पाचयतीत्येकवचनोपपत्तिश्च । एवं चाख्यातार्थव्यापारानाश्रयत्वात् प्रयोज्यस्य कर्तृत्वानुपपत्तिरिति भावः । कारण- तृतीयैवेयमिति तु न शङ्क्यं, तथा सति कर्तुः प्रयोजकस्यैव हेतुतया देवदत्तस्य हेतुतापत्तौ णिजुत्पत्तेरेवासंभवापत्तेः । 'तत्पयोजक__'इत्यत्र तत्पदेन धात्वर्थानुकूलव्यापाराश्रयत्वदिति न वाच्यम्, 'स्वतन्त्रः कर्ता' इति पूर्वसूत्रेण
कर्तृसंज्ञाविधानात् तत्पदेन कर्तृसंज्ञकस्यैव परामर्शार्हत्वात्, कारकमात्रस्यैव धात्वर्थानुकूलव्यापाराश्रयतया कारकमात्रप्रयोजकव्यापारे णिजुत्पत्त्यापत्तेः । न चेष्टापत्तिः 'काष्ठैः पाचयति' 'दर्शयति भवं भक्त' इत्यादिप्रयोगाणां दर्शनादिति वाच्यं, काष्ठानि पचन्ति पश्यति भव इत्यर्थे काष्ठादीनां कर्तृविवक्षायां तत्प्रेरणायामेव तादृशप्रयोगाणामिष्टत्वादिति भावः । गमिकर्मतानापत्तेरिति । कर्तृरीप्सितस्यैव कर्मत्वात् । ननु त्वत्सिद्धान्तेऽपि कर्मसंज्ञाविधायके 'कर्तुरीप्सिततमम्-' इति सूत्रे कर्तृपदं स्वतन्त्रमात्रपरं, न तु कर्तृसंज्ञकपरं, 'देवदतो विष्णुमित्रं ग्रामं गमयती'त्यत्र ग्रामस्य कर्मत्वानापत्तेः, प्रयोज्यस्य गत्यादिसूत्रेण कर्मसंज्ञायां कर्तृसंज्ञाविरहात् । एवं च ममापि मते न दोषः, प्रयोज्यस्य धात्वर्थसंयोगानुकूलव्यापाराश्रयत्वरूपस्वातन्त्र्यसत्त्वादिति चेन्न । एतन्मते आख्यातार्थव्यापाराश्रयत्वस्यैवं, न तूक्तस्य, कारकामात्रेऽतिव्याप्तेः, तस्य च प्रयोज्येऽसत्त्वात् । प्रकृतधातुसंबन्धिकारकचक्रप्रयोक्तृत्घरूतं तद्धातुकर्तृत्वं त्वचेतने न संभवतीत्युक्तमेवेति भावः । ग्रामस्य णिजन्तकर्मत्वं संभवत्येव तत एव द्वितीयानिर्वाह इत्यत आह__गमिकर्मतेति । ननु तदभावे का क्षतिरित्या- शङ्कामाह__तथा चेति । इत्यपि न स्यादित्यत्र हेतुमाह__गत्यर्थकर्मणि__' इति । आध्वभिन्ने गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ स्तश्चेष्टायां सत्यामिति तत्सूत्रार्थः । तन्मते गत्यर्थकर्मत्वं संयोगरूपगत्यर्थकधातुसमभिव्याहृताख्यार्थ- व्यापाराश्रयरूपं कर्तुरूप्सिततमत्वं तादृशकर्तृनिष्ठाख्यातार्थक्रियाजन्यफलाश्रय- तयेच्छाविषयत्वरूपं, तच्चोक्तरूत्या ग्रामस्य न संभवतीति णिजन्तकर्मत्वनिबन्ध- नद्वितीयासिद्धावपि चतुर्थी न सिध्येदिति भावः । एतेन = उक्तप्रयोगानिर्वाहेण । उभयम् = प्रयोज्यप्रयोजकव्यापारोभयम् । अपास्तमिति । उक्ताख्यातस्य णिजन्तधातुयुक्तत्वेऽपि गत्यर्थकधातुयुक्तत्वाभवेन प्रयोज्यस्य स्वयुक्ताख्यातार्थ- व्यापाराश्रयत्वरूपगत्यर्थकर्तृत्वाभावाद् गत्यर्थकधातुकर्मत्वानापत्तौ चतुर्थ्यनापत्ति- तादवस्थादिति भावः । ननु गत्यर्थकर्मपदेन तदर्थसंयोगाश्रयत्वे सति तदनुकूलव्यापाराश्रयत्वेन विवक्षितो यस्तदभिन्नोऽर्थो विवक्षितः, लक्ष्यानुरोधात् । किं च 'गत्यर्थकर्मणि-' इति सूत्रं भाष्ये प्रत्याथ्यातम्, तथा च गत्यर्थकर्मत्वा- भावेऽपि न क्षतिः, 'पत्ये शेते' इतिवच्चतुर्थी सिद्धेति स्पष्टं भाष्यादावत आह-किं चेति । नन्वाख्यातशून्यस्थलेऽपि प्रथमानुरोधेन तिङ्ताध्याहार आवश्यकः, अन्यथा तिङ्समानाधिकरणे प्रथमेत्यनुशिष्टप्रथमायाः साधुत्वं न स्यात्, एवं च
देवदत्तः पक्तेत्यत्रापि अस्तीत्याद्यध्याहाराद् देवदत्तस्य कर्तृत्वोपपत्तिरिति चेन्न, एवं सत्यप्यस्धातुकर्तृत्वोपपत्तावपि पचिकर्तृत्वानुपपत्तितादवस्थ्येन ततः कर्तरि तृजनापत्तेः । ननु यद्धातुप्रकृतिकाख्यातार्थव्यापाराश्रयत्वं यस्य गृहीतं तत्र तद्धातोः कृद् भवतीत्येव 'कर्तरि कृत्' इत्यस्यार्थोऽभ्युपेयते, सामर्थ्यात्, आक्षिप्तभावनाश्रयत्वेन यदा यो विवक्षितस्तदा तस्मिन् वाच्ये इति च । यद्वा कृत्प्रत्ययस्य व्यापारोऽप्यर्थोऽङ्गीक्रियते, एवं च प्रत्ययार्थाश्रयत्वमेव कर्तृत्वमभ्युपेयते इति चेन्न, क्लिष्टत्वापत्तेः । इत एव वास्वरसादाह-दिगिति । तदर्थस्तु भवता धात्वर्थफलप्रकारकानुकूलत्वसंसर्गकभावनाविरोष्यकबोधे धात्वा- ख्यातानुपूर्वीधातुकृदानुपूर्व्योः कारणतावच्छेदकत्वमङ्गीकारणीयम्, मया तु धात्वानुपूर्व्या एव तथात्वमङ्गीकर्तव्यमिति लाघवमित्यादि-बृहद्भूषणतो- ऽवगन्तव्यम् ।
ननु 'भूवादयः' इत्यस्य भूरादिर्येषामिति बहुव्रीहिणा भूप्रभृतयो धातुसंज्ञा इत्येवार्थो न तु भ्वादिगणपठिताः क्रियावाचका धातुसंज्ञा इति, तद्वोधकशब्दा- भावात्, कथं तर्हि 'भूवादयः' इति निर्देशोपपत्तिः, निपातनाद्वकारागम इति गृहाण । ननु तथापि तदानर्थक्यं दुष्परिहरमेवेति चेन्न ।
'भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते' ।
__इति वार्तिककारैरेव परिहृतत्वात् । मङ्गलार्थः = मङ्गलसूचकः । यथाऽपूर्वस्य दध्यादेर्लाभो लोके मङ्गलसूचकस्तथेत्यर्थः । अथवा सति वकारे- ऽविकृतभूशब्दोच्चारणेन महाव्याहृतिरेफान्तभूशब्दस्मरणसंपादनद्वारा तस्य मङ्गलसूचकत्वमिति कैयटिये स्पष्टम् । एवं च न सूत्रानुपत्तिः परमते इत्याशङ्कां निराचिकीर्षुः सूत्रार्थमाह-तत्र भूश्चेत्यादिना । व्यवस्थेति । नियमेनावधिसाकाङ्क्षप्रथमरूपोऽर्थः । क्रियावाचकत्वेनेति । शब्दत्वादिना सादृश्याभ्युपगमे वादय इत्यस्याव्यावर्तकतापत्तिः । अदादित्वगत्यर्थकत्वेन तत्स्वीकारे सकलभ्वादीनामसंग्रह इत्यतो व्याख्यानाच्च क्रियावाचकत्वेनैव तदभ्युपगम इति भावः । हिरूगादीनां क्रियानात्रं प्रति विशेषणत्वेऽपि तेषां क्रियावाचकत्वाभाव इत्भिप्रत्याह-इत्यादाविति । आदिना शिश्ये इति भावतडः, आणवयत्यादेश्चसंग्रहः ।। 6 ।। आकारलोपापत्तिरिति । नन्वेतस्याकारस्य लाक्षणिकतयान लोप इति चेन्न । 'पशुषा' इत्यसिद्धयापत्तेः । पशुं सलोतीत्यर्थे 'जनसन-' इति विट् । 'विड्वनोः-' इत्यात्वम् । लाक्षणिकत्वादिति ।
प्रतिपदोक्तस्य 'या' इत्यस्यैव भ्वादिपदेन ग्रहणं न सर्वनाम्न इति भावः । यदि तु__'नकारजावनुस्वारपच्चमौ झलि धातुषु । सकारजः शकारश्चेर्षाट्टवर्गस्तवर्गजः ।।'
-इत्यभियुक्तोक्तेर्धातुसंज्ञासूत्रे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तिर्वक्तुमशक्या, तत्परिभाषाप्रवृत्तौ हि धातुविशिष्टघटकत्वं नकारादेरसंभवीति तथाभियुक्तोक्तया धातुसंज्ञायामुक्तपरिभाषा न प्रवर्तत इत्यङ्गीकार्यमित्युच्यते, तर्ह्यस्तु धातुसंज्ञा, तथापि, 'आतोऽनापः' इति वार्तिकान्न प्रकृते आकारलोप इत्यत आहेत्यव- तरणिका बोध्या । ननु निपातस्य वेत्यस्य धातुत्वेऽपि न क्षतिः, वातीति प्रयोगस्येष्टत्वात्, अत आह-विकल्पार्थक इति । तथा च गत्याद्यर्थकस्य वातीतिप्रयोगस्येष्टत्वेऽपि विकल्पार्थकोनेष्ट इति भावः । किं च तस्य धातुत्वे 'अधातुः' इति पर्युदासात् प्रतिपदिकत्वानापत्तौ सूबन्तत्वाभावे पदत्वानापत्तिः । एतेन हन्तेर्गत्यर्थत्वेऽपि हन्तीत्यतः प्रायस्तदर्थानवगतिवत् वातीत्यतो विकल्पानवगतिनिर्वाह इति तस्य धातुत्वेपि न क्षतिरिति दोषानवाकाशः । यद्यापि निपातस्यानर्थकस्येत्यवश्यमनर्थकनिपातानां प्रातिपदिकसंज्ञार्थमारब्धव्यं तथा च तत्रानर्थकस्य निपातस्य संज्ञाविधानेन चरितार्थतया सर्वतो बलीयसो निषेधबाधे मानाभाव इत्याशयः, इत एवास्वरसाद्वा-यावादीनामित्यादिपदम् । अर्थानादेशनादिति__भाष्येति । मुण्डमिश्रेत्यादिसूत्रस्थेत्यादिः । अत एव प्रकृतसूत्रे 'परिमाणग्रहणं कर्तव्यमियानवधिर्धातुसंज्ञो भवतीति वक्तव्यम्, कुतो ह्मेतुद्भूशब्दो धातुसंज्ञो भवति च पूनर्भ्वेधशब्द इति' वार्तिकं तद्भाष्यं च संगच्छते । अर्थानादेशनादित्यस्य सर्वत्राथांनादेशनादित्यर्थः । अत एव 'एवमर्थ' स्वल्वप्याचार्यश्चित्रयति, क्कचिदर्थानादिशति क्कचिन्न__इति 'नमोवरिवश्चत्र-' इति सूत्रे भाष्ये उक्तम् । अत एव च 'कुर्द खुर्द क्रीडायामेव' इत्येवकारस्य धातुनामनेकार्थत्वे ज्ञापकतोक्ता संगच्छते । अर्थनिर्देशस्योपलक्षणात्वाच्चेत्यपि बोध्यम् ।। 10 ।।

का: 10
ग्रहपदपूरणप्रयोजनगाह-यथाश्रुतेति । उत्पत्तौ ग्रहे वेति । देवदत्तस्य यज्ञदत्ताद् यज्ञदत्तस्य च देवदत्तादुत्पत्तिर्न संभवति । एवमित्पदार्थज्ञाने हल्पदार्थज्ञानस्य कारणत्वं हल्पदार्थज्ञाने चेत्पदार्थज्ञानस्य कारणत्वं न संभवति,
कार्याव्यवहितनियतपूर्ववर्तिन एव कारणत्वं, तच्चोभयत्र न संभवतीति तत्रैव तस्य प्रतिबन्धकत्वमित्यर्थः । न चान्यतमत्वमिति । यावन्तो धातुपदव्ययहार्या- स्तदन्यतमत्वरूपं 'धातुत्वं, धात्वर्थत्वं क्रियात्व'मित्येद्धटकमतो नान्योन्या- श्रयावकाश इति भावः । वैयर्थ्यापत्तेरिति । 'धातोः कर्मणः-' इत्यादौ तादृशान्यतमत्ववत एव ग्रहणेनेष्टसिद्धेस्तत्परिचयार्थमेव सूत्रमिति चेदेत- द्वाक्यार्थबोधात्मकपरिचयासंभवे तादवन्यतमत्वेनोपादानासंभव इति भावः । लक्षणमिति । सूत्रजवाक्यार्थरूपमित्यर्थः । फलांशानामन्यतमत्वेनोपादाने सूत्रवैयर्थ्य शङ्कापि नेति भावः । नन्वेवं कथं पुनर्ज्ञायते क्रियावचनाः पचादयो यदेषां करोतिना सामानाधिकरण्यं क्रियावाचनो धातुरिति भूवादिसूत्रे भाष्यव्यवहारः कथं संगमनीयः, फलांशस्य क्रियात्वाभावादित्यत आह-धात्वर्थ- त्वादिति । तथा च गौणो व्यवहार इत्याशयः । अत्र वदन्ति__लडाद्युत्पत्तौ भ्वादिगणपठितत्वे सति क्रियावाचकत्वं न नियामकं, क्रियात्वस्यानुगतस्याभावात्, किं तु संज्ञाशब्दत्वात् संज्ञाविशेषः, संज्ञाशब्दानां जातिवाचित्वपक्षे जातिविशेष एव, सूत्रं तु तत्परिचायकमेव, कारिकायां क्रियाशब्दस्य साध्यत्वेनाभिधीयमान- व्यापारे संकेतिकशक्तेः स एव गृह्यते, सूत्रे वाशब्दः सूचनायति न सूत्रं धातोः क्रियावाचकत्वसाधनायाभिहितं किं तूक्तयुक्तिभिः साधितार्थस्य स्वोत्प्रेक्षितत्व- निरासायैवेति तत्त्वम् । एतेन भ्वाद्यन्यतमत्वमेवास्तु धातुत्वं, तच्च न क्रियात्व- गर्भमथवा गणपठितत्वे सति सत्ताद्यर्थकत्वमेव भूधातोर्धातुत्वम्, एवं तत्तदर्थमुपादाय तत्तद्धातुत्वमूह्यम् । अर्थस्य विशेष्योपादानाच्च नान्योन्या- श्रयोऽपि । अथवा सर्वफलान्यन्यतमत्वेनोपादाय गणपठितविशेषिततद्वाचकत्वमेव सूत्रार्थः कल्प्यतामित्यपास्तम् । उक्तरीत्यैव निर्वाहेऽन्यतमत्वादिगर्भभवदुक्त- पक्षाणां गुरूत्वात् । चरमपक्षे विकल्पस्याप्यन्यतममध्ये निवेशावश्यकत्वादिति । एतेन यस्माद्धातोर्यो योऽर्थः प्रतीयते लोके तत्तदर्थविशिष्टस्य तस्यैव गणे पाठेन, भ्वादिगणपठितत्वमेव निर्दिष्टमिति परास्तम्, दुर्ज्ञेत्वाच्च ।। 11 ।।

का: 11
अस्यैव । भ्वादिगणपठितत्वे सति क्रियावाचकत्वस्यैव । प्रतीत्यभावा- दिति । अस्य 'क्रियाया' इत्यादिः । तत्तत्कालसंबन्धरूपसत्ताया एव ततः प्रतीतेः । अत एव किं करोतीति प्रश्रे पचतीतिवदस्तीत्युत्तरं न । धर्मिभागे =
सत्तादिरूपे धर्मिभागे । वस्तुसतो भाव्यस्य भावनाप्रतीत्युपयोगित्वं न संभवतीत्यत आह__भाव्यत्वेनेति । सुतरामिति । उत्पत्त्यनुकूलभावनाप्रतीतेः सकलानुभवसिद्धत्वात् सत्तार्थकत्वे क्कविदेव तत्प्रतीतिः । उत्पत्त्याद्यर्थकत्वे तु सर्वत्रेति बोधनाय तरप्प्रत्ययः । उत्पत्त्यादीत्यादिपदात् पराभवतीत्यादौ पराभवादिसंग्रहः । उत्पत्त्यर्थकत्वे रामायणप्रयोगं प्रमाणयति__'रोहित'__इति । सत्तार्थकत्वेऽनुभवविरोधः, वंशावल्यामुत्पत्तेरेवानुभवात्, पञ्चम्यर्थहेतुत्वान्व- यानुपपत्तेः । पञ्चम्यनुपपत्तेश्चेति भावः । अस्त्यादेः सत्तातुल्यभावनार्थकत्वे साधकान्तरमप्याह__किञ्चेति । तस्या एवेति । भावनाया एवेत्यर्थः । एवेन फलांशव्यवच्छेदः । तत्र मानमाह__क्रियाभेदायेति । स्वविशिष्टक्रियाया इतर- क्रियातो व्यावर्तनाय । क्रियायां कालान्वये सत्येवेतरव्यावृत्तिरिति क्रियायामेव कालान्वयः, 'क्रियाभेदाये'त्यस्य सावधारणत्वात्, संख्या सर्वस्येत्त्युत्तरवाक्यात् । तथा च भाष्यकाराद्यनुभव एव मानमिति भावः । तथा चोक्तं भूवादिसूत्रे भाष्ये__'नान्रेण क्रियां भूतभविष्यद्वर्तमानाः काला व्यज्यन्ते । अस्त्यादिभिश्चापि भूतभविष्यद्वर्तमानकाला व्यज्यन्ते' इति । अत एव च 'वर्तमानक्रियावृत्ते'रिति व्याख्यातम् । अत एवास्तीत्यादौ क्रियात्वनिवाहः । अस्तिभवतिविद्यती- नामात्मभरणमर्थः । आत्मा सत्ता, सत्ता चाषष्ठाद्भावविकारादनुस्यूतं यद्रूपं सदिति प्रत्ययवेद्यं तत्, तद्विषयव्यापारश्चात्मभरणस्वरूपधारण-पदाभ्यामुच्यते । स्पष्टं चेदं भूवादिसूत्रे भाष्ये । निरूक्तेऽपि__'अस्तीत्युत्पन्नस्य सत्त्वस्याव- धारणम्' इति । 'अस्तीति चोत्पन्नस्य सत्त्वस्य सत्तावतोऽववारणमाचष्टो इति तद्भाष्यकृतः । अशेषभावपदार्थ व्याचष्टो__फलसमानाधिकरणत्वादिति । दोष इति । तदनुपपत्तिप्रयोजकः । तथा च दूरत्वादिकमिव तद्भावनायाः स्पष्टप्रतीतौ प्रतिबन्धकमित्यर्थः । सुस्थतया निश्चिते इति । सत्तानुकूलव्यापारनिश्चये किं करोतीति प्रश्नोऽन्यविषयक एवेत्यवधारणादस्ती- त्युत्तरं तत्र नेत्यर्थः । बृहद्भूषणकारास्तु__वस्तुतो भूवादय इति सूत्रानु- रोधाद्धातूनां क्रियावाचकत्वावश्यकत्वेऽपि फलवाचकत्वं नावश्यकम्, अतो- ऽस्त्यादौ सत्तादिरेव क्रिया, अत एव 'पश्यति भवः' 'पच्यते तण्डुलः स्वयमेवे'त्यादौ विषयतादिरूपफलस्यैव क्रियात्वात्__तदाश्रयभावादेः कर्तृत्वोप- पत्तिरित्युक्तम् ।
'एकदेशे समूपे वा व्यापाराणां पचादयः ।
स्वभाववत् प्रवर्तन्ते तुल्यरूपं समाश्रिताः ।।' इति ।
__वाक्यपदीयव्याख्यावसरे हेलराजीयेऽपि__तद्धात्वर्थक्रियात्वं च तद्धा- त्वर्थाविशेषणत्वे सति तद्धातुजन्यशाब्दबोधविषयताविशिष्टत्वम्, अतो न 'तण्डुलं पचति' 'घटं भावयति' 'पश्यति भव'मित्यादौ विक्लित्त्यादिरूपक्रियाश्रयत्वात् कर्तृ तापत्त्या कर्तृसंज्ञया कर्मसंज्ञाबाधात् द्वितीयानापत्तिः । तस्मिम् प्रयोगे फलस्य तद्धात्वर्थविशेषणत्वेनीक्तक्रियात्वाभावात् । कर्मकर्तृ प्रयोगे तु फलस्योक्तक्रियात्वसत्त्वादुपपद्यन्ते 'तण्डुलः पच्यते स्वयमेवे'त्यादयः प्रयोगाः । सत्यन्तघटकतत्पदानुपादाने पचति भवतीत्यादौ पच्याद्यर्थस्य क्रियात्वानापत्तिर- रतस्तदुपादानम् । न च यथाश्रुतेऽपि घटं भावयतीत्यादौ कर्मसंज्ञा 'पचति देवदत्त' इत्यादौ सावकाशां कर्तृसंज्ञां बाधत इति नानुपपत्तिरिति वाच्यम् । 'चैत्रो ग्रामं गच्छति' 'पश्यति भव'इत्यादावपि धातूपात्तफलाश्रयत्वाच्चैत्रादेरपि कर्मत्यापत्ता द्वितीयापत्तेः । घटं भावयतीत्यत्र भवनस्य णिजन्तधात्वर्थ- विशेषणत्वोऽपिभ्वर्थ्वाविशेषणत्वेनभ्वर्थक्रियात्वापत्त्या तदाश्रयस्य कर्तृत्वापत्तिस्तु न, इष्टापत्तेः । अत एव क्रियाभेदादुभयमप्यस्तीति 'ण्यन्ते कर्तृश्च कर्मणः' इति भाष्ये उभयथापि व्यवहारः कृतः । नन्वेवं क्रियात्वस्य धातुत्वघटित- तयान्योन्याश्रयतादवस्थ्यमिति चेन्न, धातुत्वस्य जात्यादिरूपत्वात्, भूवादिसूत्रं तु तरिचायकमिति प्रागेवोक्तम् । तद्धात्वर्थफलत्वमपि = तद्धात्वर्थविशेषणत्व- विशिष्टतद्धात्वर्थत्वम् । 'पश्य मृगो धावती'त्यत्र धावनक्रियाया धावतो दृशि- फलत्ववारणाय प्रथमदले तत्पदम्, अन्यथा मृगपदाद् द्वितीयापत्तिः । एवं च 'पच्यते ओदनः स्वयमेव' 'घटो भवती'त्यादौ आश्रयत्वं व्यापारं प्रकल्प्य फलव्यापारोभयार्थत्वकल्पनं तत्र तत्रोक्तमनादेयम् । भावयतीत्यादौ भवना- श्रयत्वानुकूलव्यापारप्रतीतेरनुभवविरहाच्च, भवनानुकूलव्यापारस्यैव ततः प्रतीतेः । तथा चैतन्मते केवलव्यापारार्थकत्वमकर्मकत्वम् । फलव्यापारो- भयवाचकत्वं सकर्मकत्वं बोध्यम् । जीव प्राणधारणे, नृती गात्रविक्षेपे, संसुध्वंसु अधः पतने इत्याद्यनुशासनेनैतादृशानां प्राणादिविशिष्टधारकसंयोग-गात्रविशिष्ट- विक्षेपादिक्रियामात्रवाचकत्वेनोभयवाचकत्वाभावात्, विशिष्टस्यैव क्रियात्वात् । दधात्यादेस्तु संयोगधारणक्रियोभयवाचकत्वात् सकर्मकत्वोपपत्तिः । गात्रं धत्त इत्यादिप्रयोगोपपत्तिश्च । पतधातोरपि गमिवदुभयार्थकत्वादीध्वं पतति नरकं पतित इत्यादिप्रयोगनिर्वाह इत्याहुः ।। 12 ।।

का: 12
फलनियतत्वादिति । फलानुकूलव्यापारास्यैव भावनापदार्थत्वादिति भावः । तद्व्यक्तिभिन्नानिष्ठत्वे सति तन्निष्ठत्वमेकमात्रनिष्टत्वम् । फलव्यापारयोरन्यत- राधिकरणभेदाधिकरणवृत्तित्वमित्यर्थः । मावान्तर्भावस्य प्रयोजनमाह__तेनेति । तत्र विशेष्यदलस्यवैयर्थ्यादाह__भिन्नाधिकरणेति । आत्मानं = सत्तामात्मना = स्वेन बिभ्रत् = तदनुकूलव्यापारवान् भवन्, म्नियतौ सत्तात्यागानुकूलव्यापारस्ये- वात्र तदनुकूलव्यापारस्य प्रतातिरिति भावः । नन्वेवमात्मानं जानातीत्यादौ ज्ञानादिरूपफलस्य कर्तृमात्रनिष्ठतया सकर्मकत्वानुपपत्तिरित्याशङ्कयाह__ आत्मानमिति । भाष्योक्तेति । तथा चान्तःकरणावच्छिन्न आत्मा कर्ता, शरीरा- वच्छिन्नः कर्म, तथा चौपाधिको भेद इति भावः । एवंरीत्या जीवत्यादेर्न सकर्मकत्वम्, फलाश्रयावाचकत्वे सतीति विशेषणानुप्रवेशात् । अत एवास्तेरात्म- धारणानुकूलव्यापारार्थकत्वेऽप्यात्मरूपाश्रयवाचकत्वान्न सकर्मकत्वमित्याहुर्भूषण- कृदादयः । मञ्जूषाकारास्तु__एतच्छास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्म- कत्वम् । तेन आध्यासिता भूमय इत्याधुपपद्यते । अत्र तु 'अधिशीङ्स्था- साम्__' इत्याधारस्य कर्मत्वम्, अन्वयश्च पृथगुपस्थितयोः संसर्गरूपः, अन्वय- पदस्य तत्रैव व्युत्पत्तेस्तेन जीवत्यादिषु न दोषस्तत्र प्राणादिरूपकर्मणो धात्वर्थात् पृथुगनुपस्थितेः । एवं चाश्रवाचकत्वरूपविशेषणाननुप्रवेशाल्लाववमपीति प्राहुः ।। 13 ।।

का:13
भाष्यविरोधादिति । तादृशभाष्यात् कृदन्तात् सत्त्वेनैव प्रतीतेर्लाभादित्या- शयः । मृगो धावतीत्यादाविति । मृगो धावति पश्येति साध्यसाधनरूप- तेत्यनुपदमेव__वाक्यपदीयेऽभिधानात् । आख्यातशब्दे इत्यस्य तिङ्समुदाये इत्यर्थः । भागद्वयसत्त्वादिति । तथा च तत्रापि सिद्धावस्थापन्नक्रियाप्रतीत्या- पत्तिः । साध्यत्वसाधनत्वाभ्यां प्रतीतिमात्रेऽयं दृष्टान्तः । यथा पचतीति तिङन्ते धातुरूपप्रकृत्या साध्यत्वेन स्वार्थो बोध्यते, साधनत्वरूपस्वार्थस्तिङा, तथा 'पाक' इत्यत्र धातुना साध्यत्वेन क्रिया प्रत्याय्यते, प्रत्ययेन सिद्धत्वरूपेणेत्यर्थः । अत एवाख्यातभब्दे इत्येकवचनं स्वरसतः संगच्छते । इदमेव व्याख्यानं हेला- राजीये दृश्यत इति परे । कारकत्वेनान्वयित्वमिति । कर्तृत्वकर्मत्वेतरकारकत्व-
व्याप्यरूपेणान्वयित्वमित्यर्थः । तेन पचति भवतीत्यादौ कर्तृत्वकर्मत्वरूपेणान्वयि- त्वसत्त्वेऽपि नासत्त्वभङ्ग इत्युक्तं प्राक् । नैवमिति । तथा च दृष्टान्तदार्ष्टान्ति- कयोर्वैषम्याद् दृष्टान्तत्वं नोपपद्यत इति भावः । दृष्टान्तदार्ष्टान्तिकभावे सर्वाशे साम्यं न नियामकम्, तथा इति चन्द्रमुखाद्योरपि स म भवेत्, अपि तु किचिदंशे एव, तच्च प्रकृतेऽस्तीत्याह_तथापीति । मानत्वादिति । साध्यत्वेन प्रतीयमानार्थे एव कारकान्वयात्, प्रकृते तथानुपस्थितौ कर्मकत्वानुपपत्तौ 'कर्तृकर्मणोः--' इति षष्ठ्यनुपपत्तिरिति भावः । षष्ठीति । तथा च घञन्ते तथाऽप्रतीतावप्युपपद्य- मानया षष्ठ्या तत्कल्पना न संभवतीति भावः । नन्वध्याहृततिङन्तोपस्थित- क्रियाद्वारको योगः कृदन्ते नास्त्यतो न षष्ठ्यनुपपत्तिरित्याभिप्रेत्याह-न लोकेति । न च कर्तृकर्मणोः--'इति विधिवैयर्थ्यम्, न च क्रियान्तरमादायैव षष्ठ्युप- पादनीया, सा च न लोकेति निषेधेन न सम्भतीति वाच्पं, कर्त्तरि कृतिति सूत्रभाष्यप्रामाण्यात्तुमुनादीनामिवक्तिनोऽपि साध्यावस्थापन्नधात्वर्थानुवादकत्व- मेवेति--वस्त्रस्य कृतिरित्यादौ चरितार्थत्वात् । एवमोदनपाक इत्यादौ समासोऽपि न भवेत्, असामर्थ्यात् । 'कृद्योगा च षष्ठी समस्यते' इति वचनस्य वस्त्रकृतिरित्यत्र चरितार्थ्यात् । न च शेषषष्ठ्यैव वाक्यं समासश्चेति वाच्यम्, नलपाक इत्यादौ नलकर्तत्वादिप्रकारकबोधस्यानुभवसिद्धस्यानापत्तेः, 'आश्चर्थो गावां दोहोऽगोपेने'त्.सिद्ध्यापत्तेश्च । 'इभयप्राप्तौ--'इत्यस्यानन्तरस्येति न्यायेन 'कर्तृकर्मणोः--' इत्यस्यैव नियामकतया अगोपपदात् शेषषष्ठ्या दुर्वारत्वादित्या- द्यह्यमिति वदन्ति । नन्वेवं सति 'काष्ठैः पाक' इत्यापद्येत, आख्यातेनैव भावना साध्यतयोच्यते इति मीमासकमते तस्यामिष्टत्यादित्याशङ्कामिष्टापत्त्या परि- हरति-एवं रीत्येति । तथा च 'नन्वसत्त्वभूतक्रियाया' इत्यादिपूर्वपक्षे इष्टपत्ति- रेवेति तात्पर्यम् । नन्वेकस्यैव धात्वर्थस्य विरुद्धसाध्यत्वसिद्धत्वाभ्यां भानं न संभवतीति चेन्न । यथा संबन्धिभदादेकस्यैवाचार्यत्वं मातुलत्वं च तथैकत्रैव कारकलिङ्गादिरूपसंबन्धिभेदादुभयसंभवेन तयोविरोधस्यैवाभावात् । यथा वा 'पश्य मृगो धावती'त्यत्रैकस्यैव धावनस्य मृगं प्रति साध्यत्वं, दर्शनं प्रति साधनत्वं तथैकस्यैव धात्वर्थस्य साध्यत्वेन प्रकारता, सिद्धत्वेन विशेष्यता । एकनिष्ठत्वाच्च न तयोः स्फुटं ग्रहो बोधे । अत एव 'घञ्वाच्यो भावः प्रधान'मिति ग्रन्थाः संगच्छन्ते । 'कर्तरि कृत्' इति सूत्रे भाष्ये चेक्तं 'घञ्वाच्यो भावो बाह्यः प्रकृत्यर्थात्' इति । इत्युपपद्यत इति । अन्यथा कारकाणां
साध्यत्वेनोपस्थिते एवान्वय इति नियमादभेदेनान्वयेऽपि साध्यत्वेनोपस्थिति- रपेक्षितेति स्तोकं पाक इति नोपद्येतेति भावः । व्यापारान्वये तु शोभनः पाक इत्येव । व्यापारस्याकर्मतया तद्विशेषणे द्वितीयाया अप्राप्तेः । फलान्वये द्वितीयां बाधित्वा 'कर्तृकर्मणोः-- इति षष्ठी न । कर्तृ साहचर्येण धात्वर्थेऽभेदेनान्वयि- कर्मण एव ग्रहणात् । स्पष्टं चेदं 'पूजनात् पूजितम्--' इत्यत्र भाष्ये इत्यन्यत्र विस्तरः ।। 14 ।।

का: 14
मूले__साध्यत्वेनेति । तत्र = घञाद्यन्ते । अत्र'प्रतीयत' इति शेषः । तद्बोधकमाह-धातुरूपेति । धातुरूपं__निबन्धनं=निमित्तं यस्या इत्यर्थः । प्रतीतिनिष्ठं निमित्तत्वं प्रतीयमानेउपचरितमिति बहुव्रीहौ क्रियायाः प्राधान्योप- पत्तिः । सिद्धभावः = सिद्धत्वेन प्रतीतिः ।
इत्यनापत्तेरिति ।धातूपस्थप्यक्रियाया लिङ्गानन्वयितया तत्र स्तोकरदार्था- न्वये तत्रापि पूंस्त्वानुपपत्त्या सामान्ये नपुंसकस्यैवापत्तोरिति भावः । धात्वर्था- न्वये = धात्वर्थफलान्वये । प्रथमेति । उक्तरीत्या द्वितीयाया अप्राप्तया प्रातिपदिकार्थमात्रे प्रथमेत्यर्थः । घञो न शक्तिरभ्युपेयतेऽपि तु घञन्तस्य, तदन्तशक्तयोपस्थितान्वये 'स्तोकः पाक' इत्युपपद्यत एवेति__'कातन्त्रपरि- शिष्ट'कारादयोऽनुमन्यते तन्मतमाशङ्क्य निराकुरुते__न च घञन्तेति । न च भवत्सिद्धान्तेऽपि समुदायशक्तिर्वृत्तिमात्रेऽभ्युपेयते एव, अन्यथार्थवत्त्वाभावेन प्रातिपदिकसंज्ञा न स्यात्, 'कृत्ताद्धित'-इति सूत्रेप्यर्थवत्पदानुवृत्तोरुक्तत्वात्, प्रत्ययार्थस्य प्रकृत्यर्थे एवान्वयाद्विभक्त्यर्थसंख्याद्यन्वयोऽपि न स्यादिति वाच्यं, समुदायशक्तेरावश्यकत्वेन अनुशासनाद् घञोपि शक्तिरावश्यक्येवान्यथा ण्वुलादेरपि शक्तिर्न सिध्यत्, न चेष्टापत्तिः, समुदायशक्त्यैव तत्रापि कर्त्रादिबोधसंभवादिति वाच्यं, 'कर्तरि कृत्' इत्याद्यनुशासनविरोधात्, न च भ्वाद्यन्तर्भावेण समुदायशक्तिकल्पनायां तन्नियामकमिति वाच्यं, क्लिष्टत्वात्, सकलतान्त्रिकसिद्धान्तविरोधात्, खशादौ शबनुत्पत्त्या जनमेजयाद्यसिद्धया- पत्तोश्च, खशो ङित्त्वेन गुणनिषेधादित्याशयेनाह-दिगिति ।। 15 ।।
का: 15
संबोधनान्तस्येति । संभोधनविभक्त्यन्तार्थस्येत्यर्थः, अर्थद्वारा तस्यैव वा ।
निघातानुरोधादिति । 'देवदत्तो'त्यस्य ब्रवणेऽन्वये सत्येवैकवाक्यत्वोपपत्तौ सत्त्याम्-'आमन्त्रितस्य च' इति निघातो__ऽनुदात्तः सिध्यति, नान्यथेति भावः । नन्वेकवाक्यत्वाभावेऽपि निघातः कुतो न इत्यत आह__समानवाक्ये इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे सतीत्यर्थः । संबोधनपदमिति । अत्र पुञ्ज- राजः-"आख्यातं सविशेषणं वाक्यमिति समर्थसूत्रभाष्योक्तवाक्यलक्षणस्य संबोधनपदार्थे क्रियाविशेषणत्वाभावे निघातो न स्यात्' इति । संबोधन- विभक्तेरनुवाद्यविषयतया विधेयक्रियायामेवान्वयस्यौचित्येन न्यासिद्ध एवायमर्थः । तदुक्तं हरिणा__
'सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः ।
प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ।।' इति ।
अभिमुखीभावः = परोक्तवचनार्थग्ररणे सादरत्वाभ्युपगमः, एवं च 'राम मां पाहि' इत्यस्याभिमुखीभवद्रामोद्देश्यकं प्रवर्तनाविषयमत्कर्मकं रक्षणमिति बोधः, अत्र 'सविशेषण'मित्यनेन साक्षात्परासाधारणं विशेषणत्वमिष्टं, न तु साक्षादेव, तेन 'नद्यास्तिष्ठति कूले' इत्यर्थे 'नद्यास्तिष्टती'त्यत्र समर्थसूत्रभाष्यसंमतोदा- हरणे मिघातासिद्धिः । व्रजानि देवदत्तो'त्यत्र 'जानीही'त्यध्याहारः, अत एव 'क्रियासु विनियुज्यते' इत्यनेन न विरोधः, ज्ञानक्रियायां देवदत्तस्योद्दोश्यतया व्रजनस्य कर्मतयान्वयेन समानवाक्यत्वोपपत्तिः । वाक्यैकदेशन्यायेन श्रूयमाणादेव ज्ञानबोधः, अयमेव चाध्याहारपदार्थः, अतो न तत्र 'एकतिङ् वाक्यम्' इति लक्षणस्याव्याप्तिरिति वदन्ति ।
अन्ये तु संबोधनं ज्ञानोद्दोश्यकेच्छा, ज्ञाने, इच्छायां च विशकलितशक्ति- द्वयम्, ज्ञाने प्रकृत्यर्थस्य समवेतत्वसंबन्धेनान्वयः, प्रकृत्यर्थान्वितज्ञाने उद्देश्यता- संबन्धेनेच्छायाः, इच्छान्वितज्ञानस्य विशिष्टविषयतासंबन्धेन वाक्यर्थेऽन्वयः, एवं च प्रातिपदिकार्थसमवेतज्ञानस्योद्देश्यतया प्रातिपदिकार्थस्य ज्ञानसमवायित- योद्देश्यत्वरूपं संबोध्यत्वं प्रातिपदिकार्थस्य प्रतीयते; एतदेव संबोध्यत्वमाभि- मुख्यपदेन 'काशिका'दावुक्तम् । एवं च 'राम मां पाही'त्यादा'विच्छाविषय- रामसमवेतज्ञानविषयो मत्कर्मकत्वत्कर्तृकाशंसाविषयो रक्षण'मित्याद्याकारो बोधः__इत्याहुः ।
एकवाक्यतासत्त्वादिति । 'आख्यातं सविशेषण'मिति वाक्यलक्षणसत्त्वा- दित्यर्थः । तत्रैकवाक्यतायं सूत्रकारसंमतिमाह__'तिङ्ङतिङः' इति । अति-
ङ्पदघटितं सूत्रं कुर्वतेत्यर्थः । 'पचति भवती'त्यादौ तिङन्तात् परस्य निघातवारणप्रयोजनकमतिङ्ग्रहणमुक्तस्थले वाक्यत्वाभावेऽनर्थकं सत्तिङन्त- समुदायेऽप्येकवाक्यत्वं सूत्रकृदभिमतमिति सूचयतीति भावः । एकतिङिति । एकं तिङ् = तिङन्तं यत्रेति बहुव्रीहिः, तथा चैकतिङन्तघटितसमुदायो वाक्य- मित्यर्थः । अत्रापि 'विशेषणविशिष्टक्रियार्थकत्वं' विशेषणं निवेशनीयं, तेन 'तिष्ठति देवदत्तः' 'पचति मैत्र' इत्यत्र देवदत्तः पचतीत्यमनयोरेकवाक्यं न, तथा सति 'पचती'त्यस्य निघातापत्तिः, न चेष्टापत्तिः, 'आश्यातं सविशेषण'मिति वाक्यलक्षणमिति पत्रेऽनिष्टत्वात्, अत एव च 'तिङ्ङतिङः' इति सूत्रे 'पचति करोतीति प्रतीकमुपादाय 'विनापि चशब्देन समुच्चयावहमात् संबन्धसद्भावः' इत्युक्तं 'कैयटीये', 'क्रियाकर्मभावेनाप्यन्वयः सुवचः' इत्युक्तं 'प्रदीपोद्दयोते' । मते परम् = मते एव, नेत्यत्र 'निघात' इत्यनुषज्यते, संभवति मतैक्ये मतभेदो न न्याय्य इत्याशयेनाह-वस्तुतस्त्विति । एकतिङ्विशेष्यकमिति । एकतिङ् = तिडन्तं-विशेष्यं = मुख्यविशेष्यार्थप्रतिपादकं यत्रेत्यर्थः, तथा च मुख्यविशेष्यी- भूतार्थबोधकैकतिडन्तघटितसमुदायत्वमिति पर्यवसन्नम् । परे तु 'एकतिङ् वाक्यम् इति स्वशास्त्रीयनिघातादिकार्यमात्रोपयोगि, तेन 'पश्य नृगो धावती'त्यादावेतदसत्त्वेऽपि न क्षतिः, अत एवैतदाश्रित्य 'तिङ्ङतिङः' इति सूत्रस्थमतिङग्रहणं प्रत्याख्यातमष्टमे भाष्ये, एवं चोक्तस्थले 'देवदत्तो'त्यस्य निधाताभाव एव लभ्यते, यथोत्तरं मूनीनां प्रामाण्यादिति प्राहुः । तदर्थादिति । 'पञ्चकृत्वो भूङ्क्ते' इत्यादौ पञ्चादिशब्दास्तत्संख्योत्पत्तिपराः, तदद्योतक एव प्रत्ययः, तादृशोत्पत्तेश्च क्रियायामेवान्वय उचितः,-'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति सूत्रस्वारस्यादिति भावः । तत्राभ्यावृत्तिपदं पुनः पुनर्जन्मार्थकं भुजिक्रिये'ति बोधः । अत्र सूत्रे'क्रिया'पदं स्पष्टार्थ, द्रव्यादेरुपत्तेरेकत्वेन तस्य गणनयोग्यजन्माप्रसिद्धेः, अनेकस्या अपि क्रियायास्तु निवृत्तभेदाया धातुवाच्य- तायास्तादृशजन्मसंभवः, संख्यायास्तत्तसंख्यावत्ता बोधनरूपगणने हेतुतया गणनलाभे 'गणन'पदं गणनायां ये प्रसिद्धा एकादयस्तेषामेव परिग्रहार्थ, तेन युग्मोभादिशब्दा नेति स्पष्टमाकरे इति दिक् ।
क्रियान्वयिनामेवेति । 'ध्रुवमपाये__' इत्यत्र 'क्रियाया'मित्यनुवृत्तौ क्रियायां जनकाकाङ्क्षया क्रियायां यदपाये ध्रुवमित्यनेन क्रियाजनकमित्यर्थसंपत्त्या जनकस्य जन्याकाङ्क्षया तत्रैवान्वय उचित इति
तदन्वयिनामेवापादानादिसंज्ञेत्यर्थः । इत्युक्तत्वात् । यथा'ब्राह्मणवदधीते' इत्यत्र ब्राह्मणशब्दस्तत्कर्तृकाध्ययनपरः, 'देवदत्तवन्मैत्रः सुंदर' इत्यत्र 'भवती'त्यध्या- हारो बोध्यः, अन्यथा क्रियाग्रहणस्य निरर्थकत्तापत्तेः, एवं च तदर्थस्य क्रियैवाश्रय इति स्पष्टमेव । 'मथुरावत् पाटलिपूत्रे प्राकार' इत्यत्र वत्यर्थस्य प्राकारे एवान्वयेन क्रियायामनन्वयात् 'प्रथमो वति'रित्यभिदधौ । तत्र मथुराशब्दस्य तत्संबन्धिप्राकारे वृत्तिः, षष्ठ्यर्थसप्तम्यन्तादेव प्रत्ययो न त्वधिकरणसप्तम्यन्ता- दिवार्थेनासामर्थ्यादिति स्पष्टं शेखरादौ, विस्तरस्तत एवावगन्तव्यः ।
तेषां विधानादिति । 'याहि याहीति याति', अत्र लोडन्तार्थस्य 'याती'ति- पदोपस्थितक्रियायां सामान्यविशेषभावेनान्वयः । बृहद्भूषणे तु__'भोक्तुं पचती'- त्युदाहृतं, तत्र यद्यपि 'तुमुन्ण्घलौ__' इति विहितस्तुमुन् न धातुसंबन्धे इत्यधिकारे विहितस्तथापि क्रियावाचिन्युपपदे एव विहितत्वात् क्रियासंबन्ध- निमित्तकत्वमक्षतमेवेत्युदाहरणसंगतिः । ननु 'घटो न पट'इत्यत्राऽसमस्तनञः क्रियायामनन्वयेन नियमासंगतिरित्याशङ्कमानोऽसमस्तनञित्यस्य विवक्षितार्थ- माह__समासायोग्य इति । प्रसज्येति । प्रसाज्य-प्रतिषेधपदायोः 'सुप्सुपे'ति समासे तमर्हतीत्यर्थे 'तदर्हति' इति सूत्रेण छः, क्रियान्वययोग्य इत्यर्थः । तदन्वयायोग्यः = उत्तरपदार्थानन्वितः । तथा चोक्तम्__
'प्रसज्यप्रतिषधस्तु क्रियया सह यत्र नञ् ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।।' इति ।
व्याख्याप्रयोजनं दर्शयति__उत्तरपदार्थेति । उत्तरपदार्थान्वयेऽपि असमस्तत्वादिति योजना । असमस्तत्वे हेतुमाह__समासविकल्पेनेति । ननु 'घटो नास्ती'त्यत्र घटभाव एव प्रतीयते न तु क्रियाभावः, न च भूतलाधिकरणघटकर्तृकसत्ताया एवाभावो नञा बोध्यत इति वाच्यम्, अनुभव- विरोधात्, यत्र भूतले वर्तमानकालावच्छेदेन घटसंबन्धाभावस्तत्र तदधिकरण- कवर्तमानकालिकसत्तया अप्रसिद्ध्यातदभावबोधनासंभवाच्चेत्याशयेनाशङ्कते-न चासमस्तेत्यादिना । समाधत्ते-न त्वमित्यादिना । क्रियाया एव निषेध इति । अत एव युष्मदादिसामानाधिकरण्येन मध्यमपुरूषाद्युपपत्तिः, अन्यथा 'त्वदभावो' 'मदभावोऽस्ती'तिवत् 'त्वं न पचसी'त्यादावपि युष्मदस्मत्सामानाधिकरण्य- विरहान्मध्यमोत्तमयोरनुपपत्तिः, प्रथमस्यापत्तिश्च स्यादिति भावः । चरमे क्रियानिषेधप्रतीतौ युक्तिमाह__अत एवेति । जननक्रियाया अभावप्रतीतेरेव ।
विद्यमानेऽपि घटे = घटस्य विद्यमानतादशायामपि । घटस्य विद्यमानत्वे घटाभावबोधनस्याऽशक्यतया तत्र क्रियानिषेधबोधोऽवश्यमभ्युपगन्तव्य इति भावः । यद्यप्यविद्यमानत्तादशायामपि घटात्यन्ताभावे नि ये जननाश्रयत्वस्य बाधाद् घटाभावबोधनं न संभवति, अतस्तत्रापि क्रियाया एव निषेधबोधोऽभ्युपगन्तव्यः, एवं च विद्यमानत्वोक्तिनिरथिका, तथाप्युत्पादविनाश- योग्यभावाभ्युपगमपक्षे घटाभावे जननाश्रयत्वबोधः संभवतीति तस्य विद्यमान- त्वानुसरणम् । तथा चेति । 'त्वं न पचसी'त्यादावुक्तक्रमेण क्रियानिषेधावश्य- कत्वे चेत्यर्थः । अस्तित्वभाव एवेति । घटकर्तृकसत्ताया एवेत्यर्थः । एवेन घटाभावव्यावृत्तिः । ननु पूर्वोक्तस्थले अनुपपत्त्या क्रियानिषेधप्रतीतिस्वीकारेऽपि 'घटो नास्ती'त्यादौ धटाद्यभावप्रतीतिरेव स्वीक्रियतां, वाधकाभावात्, तथा च तत्रैवोक्तनियमभङ्घ इत्याशङ्क्याह__न हीति । तथा च तथाभ्युपगमे वैरूप्यं स्यात्, तच्च न युक्तमिति भावः । यदधिकरणकघटादिकर्तृकवर्तमानसता अप्रसिद्धा तत्राप्यरोपितादिरूपा सास्त्येवेति नोक्तदोष इति भावः ।
ननु 'भूतले न घट' इति क्रियावाचकपदरहितवाक्ये घटे भूतलवृत्तित्वाभाव एव बोधनीयस्तथा च तत्रैव नियमभङ्ग इत्यत आह__तथा च भूतल इति । अध्याहारे हेतुमाह__प्रकारतेति । प्रकारतासंबन्धेन नञर्थविशेष्यकशाब्दबुद्धित्वा- वच्छिन्नं प्रति भावनानिष्ठविषयतासंबन्धेन धातुजन्योपस्थितिर्हेतुरिति हेतुहेतु- मद्भावः पर्यवसन्नः, नञर्थ विषयतासंबन्धेन तादृशबुद्धेर्जननाद् व्यभिचार- स्तद्वारणाय प्रकारतात्वेन विषयताया निवेशः । प्रकारता चाभावत्वावच्छिन्नविषय- तानिरूपिता बोध्या, नातो 'घटो नास्ती'ति वाक्यजन्यबोधीयप्रकारताया धटादौ सत्त्वेऽपि व्यभिचारतादवस्थ्यम् । क्लृप्तत्वादिति । एतादृशकार्यकारण- भावानङ्गीकारे उक्तनियम्मिर्वाह इति तस्यावश्यकत्वादित्यर्थः । शेषम् = आरोपितत्वं नञ्द्योत्यमित्यादि ।। 16 ।।

का: 16
'तथा यस्य च भावेन ष्टी चे'त्यत्र 'यस्य च भावेने'त्यनेन तद्घटितं,__ 'षष्ठी चे'त्यनेन च तच्छब्दघटितं सूत्रं लक्ष्यत इत्याशयेन व्याचष्टे__'यस्य च भावेन भावलक्षणमित्यत्रेति 'षष्टी चानादरे' इतीति च । तथा च 'गोषु दुह्यमानासु गत' इत्यत्राद्यसूत्रेण सप्तमी, 'रुदति रुदतो वा प्राव्राजी'दित्यत्र
द्वितीयेन षष्टीसप्तम्यौ च क्रियायोगे एव साधुत्वेनान्वाख्यायेते इति समुदि- तार्थः । 'गोषु दुह्यमाना'स्वित्यत्र गोरदोत्तरसप्तम्या ज्ञाप्यज्ञापकभावात्मकः संबन्धोऽर्थः । दुह्यमानानां गवां ज्ञापकत्वं ज्ञाप्यत्वं च गमनक्रियायां शब्दतः प्रतीयते, पर्यवसानं तु तद्गतदोहनक्रियायां, निर्ज्ञातकालक्रियाया एवानिर्ज्ञात- कालक्रियायां स्वसहचरितकालावच्चिन्नत्वज्ञापत्वात् । एवमपरत्रापि रुदतीत्यादौ अनादरः पुत्रादिविषयकोऽधिको भासत इति बोध्यम् ।
वक्ष्यत इति । 'असाधुरनुमानेने'त्येतद्व्याख्यावसरे 'अनपभ्नष्टता- नादि'रित्यादिना वक्ष्यतं इत्यर्थः । ननु क्रियाशब्दस्य धात्वर्थमात्रे प्रसिद्धतया फलान्वयेनैवोक्ताष्टकस्य सत्धुत्वलाभे सति न भावनान्वयनियम इति न तदनुरोधेन 'पाक'इत्यादौ भावनाया वाच्यतावश्यकतेत्याशङ्कां निराकुरुते__अयं भाव इत्यादिना । संज्ञाशब्दस्यानपेक्षप्रवृत्तकत्वेन बलवत्त्वे नावमिकाधिकरणं प्रमाणयति__अत एवेति । मिर्णीतमिति । नवमाध्याये__'यद्योन्यां गायति तदुत्तरयोः' इति वचनस्थोत्तराशब्देन स्थन्तरयोन्युत्तरयोरुत्तराग्रन्थपठितयोश्चोत्त- रयोर्ग्रहणमुतोत्तरार्गन्थपठितयोरेवेति संदेहे,-उत्तरशब्दस्य 'प्रशस्ततरमुत्तरं बर्हिषः सादयति' इत्यादौ संबन्धिशब्दत्वदर्शनाद्यैव योनेः परतः पठिता सैवोत्तरा, ततश्च योनिग्रन्थे रथन्तरयोनेः परतो बृहद्योनेः पाठात् तस्यामृचि स्थन्तरस्य गानम्, उत्तराग्रन्थे च रथन्तरयोनेः परतो 'न त्वा वामन्यो दिव्यो न पार्थिवः' इत्यस्यामपि विकल्पेनेति प्राप्ते-उत्तराशब्दस्य उत्तराग्रन्थपठितोत्तरास्वेव वैदिकप्रयोगादसंबन्धिकतया रूढोऽयं शब्द इति निश्चयः, ततश्चोत्तराशब्दे- नात्रोत्तराग्रन्थे पठितयोरेव झटित्युपस्थितिः कृतेति तत्रैव स्थन्तरं गेयं न बृहद्योनौ इति सिद्धान्तितम् । एवं च तत्र यथा संबन्धिशब्दस्य तत्तत्संबन्धिप्रतीतिसापेक्षप्रवृत्तिकृतं दुर्बलत्वं, संज्ञाशब्दस्य निरपेक्षप्रवृत्तिकृतं प्रबलत्वं, तथा प्रकृते,__योगार्थसापेक्षप्रवृत्तिकयौगिकापेक्षया संज्ञाशब्दस्य तदनपेक्षप्रवृत्तिकतया प्रबलत्वम् । विलम्बेलोपस्थापकत्वशीघ्रोपस्थापकत्व- योर्दौबल्यप्रावल्ये प्रयोजके इति पर्यवसानादिति भावः ।
ननु फलस्यापि 'कर्मवत् कर्मणा__' इति सूत्रे क्रियाशब्देन व्यवहारात्, साध्यत्वेन प्रतीयमानत्वादस्त्यादौ सत्तादैरेव क्रियात्वोपपादनाच्च तस्यापि सर्वत्र क्रियाशब्देन ग्रहणे बाधकभाव इत्याशयेनाह__किं च फलांशेति । क्वचित् तथा- भूतानि = देवदत्तस्तण्डुलं पचती'त्यादौ कारकाणि भावनां प्रति
विशेषणतापन्नानीत्यर्थः । कृतन्दते कारकाणां भावनां प्रति विशेष्यत्वात् क्कचिदिति । भावनायां कारकान्वये विशेषातिदेशाध्यायाधिकरणन्यायं साधकतयोपन्यस्यति-न हि सिक्षुक इति । तथा च कारकाणां नित्यपरतन्त्राणां विशेष्याकाङ्क्षायां फलांशस्य तथान्वययोग्यत्वेऽपि विशेष्यकाङ्क्षायां तस्यापि न हि भिक्षुक इति न्यायेन भावनायामेवान्वयमङ्गीकुर्वन्ति न्यायविदः, तत्तुल्यतया कारकाणामपि भावनायामेवान्य उचित इति तात्पर्यार्थः । एवं च = भावनायामेव कारकान्वयनियमे च । कारकादीत्यादिपदेन धात्वर्थफलांशपरिग्रहः । तस्या- मेव = विशेषणीभूतभावनायामेव । एवेन__फलांशव्यवच्छेदः ।
ननु विशेषणत्वाविशेषात् फले एवौदनस्य पक्तेत्यादौ कारकान्वयोऽस्तु, एवं च तदनुरोधात् फलोपस्थितेरेवं कारकान्वयबोधं प्रति हेतुतायाः त्कृप्तत्वादोदनस्य पाक इत्यादावपि फलेऽन्वयो नानुपपन्न इति चेन्न, कारकीभूतधात्वर्थस्य भावनायामनन्वयापत्तेः, न हि स्वयमेव स्वकारकं, फलांशस्य भावनां प्रति करणत्वेनान्वये तत्र कारकान्वये वाजपेयाधिकरणभङ्गापत्त्या करणान्तरोप- संग्रहेण प्रयोगविधेरबोधकतापत्तेश्चेत्यादिकं बृहद्भूषणेऽनुसंधेयमित्याशयेनाह__ भूषणे प्रपञ्चितमिति । तस्मात् पाक इत्यादावोदनस्येत्यादिकारकान्वयसिद्धये भावनाया वाच्यत्वमावश्यकमिति सिद्धम् ।
प्रकारान्तरेण कारकाणां भावनान्वयनियमं साधयतामन्येषां वैयाकरणानां मतमाह__केचित्विति । अन्वयबोधाकाङ्क्षानिवृत्त्योरिति । अन्वयबोधस्या- काङ्क्षानिवृत्तेश्चेत्यर्थः । 'भूतले घट' इत्यत्र भूतलनिरूपितमाधेयत्वमेकत्व- विशिष्टो घट इत्यन्वयबोधस्य परमते, स्वमते च भूतलाभिन्नमधिकरण- मित्याद्यन्वबोधस्य, देवदत्तो घटमित्यत्र घटवृत्तिकर्मत्वमेकत्वविशिष्टो देवदत्त इत्यन्वयबोधस्य परमते, स्वमते च घटाभिन्नं कमंत्याद्यन्वयबोधस्योदयेऽपि वाक्यघटकयावत्पदार्थानां परस्परमन्वयबोधानुदय इति बोध्यम् । न च क्रिया- रूपार्थाध्याहारेणैव शाब्दबोधादेः संभवादलं तद्वाचकपदाध्याहारेणेति वाच्यम्, पदजन्यपदार्थोपस्थितेरेव शाह्दोपयोगित्वात् पदानां संभूयान्वयबोधकत्व- व्युत्पत्तेश्च इत्याहुरित्यस्वरससूचनम्, तद्वीजं तु फलान्वयनियमेनाप्युपपत्तौ भावनान्वयनियमालाभ इति ।। 17 ।।
का:17
स्वयमुपपत्तिमिति । 'भूतले न घट'इत्यतो भूतलवृत्तित्वाभाववान् घट इति
बोधोदयान्न क्रियापदापेक्षा, एवं 'पर्वतो वह्निमान् भवितुमर्हति धूमान्महानसवत्' इति वेदान्त्युक्तन्यायान्तर्गतप्रतिज्ञावाक्ये क्रियापदप्रयोगो वृथेति क्कचित् तर्कग्रन्थे स्थितं__तद्दूषयन्नुपपत्तिमाहेत्यर्थः । नञादिष्वित्यादिपदाग्राह्यमाह__भूतले घट इत्यादिपदादिति । चतुर्थ्याः स्पृहीति । 'पुष्पेभ्य' इति चतुर्थ्यन्तमात्रप्रयोगे 'स्पृहयती'ति शब्दाध्याहार एव चतुर्थ्याः साधुत्वार्थमनुस्रियते, न तु तत्समानार्थ- कधात्वन्तरघटिपदाध्याहारो, नाप्यर्थाध्याहारो__लैयायिकैस्तत् त्यज्यतामित्यर्थः ।
अर्धजरतीयमिति । जरत्या अर्धमित्यर्धजरती तत्सदृशमर्घजरतीयम् । 'समासाच्च तद्विषयात्' इति छः । यथा जरत्या अर्ध कामयतेऽर्धन तथेत्यर्थः ।। 18 ।।

का:18
विविच्य = पृथग्भूय । इतराविशेषणत्वेनेति यावत् । इत्यत्रापि । गुणभूतेति__क्तप्रत्ययः कर्मसामान्ये इति पक्षे । 'तत्र भाव' इति पक्षेऽपि तत्रैव विशेषणतामापन्नेत्यर्थः । कथं तत्रान्वय इतीति । पदार्थः पदार्थेनैवेति व्युत्पत्तेस्तत्रान्वयस्यासंभवादिति भावः । अन्वयाभ्युपगमादिति । इदं च समर्थसूत्रे भाष्ये स्पष्टम् । हरिरप्याह__
'संबन्धिशब्दः सापेक्षा नित्यं सर्वः समस्यते ।
वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ।।' इति ।
समासे तद्घटकपूर्वपदे वा प्राचीनताकिकमते शक्तेर्लक्षणायाश्चाभावेन गुरुर्न पदार्थैकदेश इति स्थलान्तरमनुसरति__चैत्रस्य नप्तेति । जन्यशरीर- जन्यशरीरं नप्तृपदार्थः । तदेकदेशजन्यत्वे चैत्रनिरूपितत्वादिरूपषष्ठ्य- न्तार्थान्वयः । न च षष्ठ्यर्थसंबन्धस्य विशेष्ये एवान्वयोऽस्तु किमेकदशेऽन्वय- स्वीकारेणेति वाच्यम्, चैत्रस्य पुत्रेऽपि तथाविधप्रयोगापत्तेः, तस्यापि पितामहजन्यजन्यत्वात्, चैत्रनिरूपितजन्यत्वात्मकसंबन्धाश्रयत्वाच्च, न च प्रयोज्यत्वं परम्पराजन्यत्वमेव संबन्धस्तत्र षष्ठ्यर्थ इत्यभ्युपगमान्न प्रयोगाति- प्रसङ्ग इत्यत आह__इत्यादाविवेति । आदिना 'घटादन्यः' 'घटात् पृथगि'त्यादिपरिग्रहः । अन्यपदार्थैकदेशे भेदे पञ्चम्यन्तार्थघटप्रतियोगित्वादेः, पृथक्पदार्थैकदेशे पृथक्त्वे पञ्चम्यन्तार्थघटावधित्वादेरन्वय इठ्ट इति भावः । यद्यपि सर्वत्रैकदेशघटितपरम्परासंबन्धेनान्वय इति पक्षान्तरमपि समर्थसूत्रभाष्ये
उक्त, हरिरप्याहः__
'समुदायेन संबन्धो येषां गुरुकुलादिना ।
संस्पृश्यावयवांस्ते तु युज्यन्ते सह ।।' इति ।



तथाप्युक्तस्थले एकदेशे एवाकाङ्क्षासत्त्वादनुभवानुरोधाच्च प्रथमपक्ष एवात्रोररीकृतः । अत एव देवदत्तस्य गुरुकुलमित्यादिवाक्यजन्यशाब्दबोधानन्तरं गुरुर्देवदत्तीयो न वा, जन्यत्वं चैत्रीयं न वेत्यादिसंशयानुत्पत्तिश्चाञ्जस्येन संगच्छते । विशेष्ये एवैकदेशघटितपरम्परासंबन्धेनान्वय इति पक्षे तु__'भाव- नायामेवान्वय' इत्यस्य भावनायामेव साक्षात् संबन्ध इत्यर्थः । स च विशेष्यभूतभावनायां संबन्धघटितायां वा, एवं च तादृशनियमेन भावनाघटितसंबन्धं विनान्यत्रानन्वय एव व्यावर्त्यत इति बोध्यम् । उक्तमर्थमन्यत्राप्यतिदिशति__एवमिति । भोक्तु पाक इति । 'तुमुन्ण्वुलौ__' इति सूत्रेण विहितस्य तुमुनः क्रियायोगे एव विधानादसत्त्वभूतधाूपस्थापितक्रियाया- मन्वयात् साधुत्वं बोध्यमित्यर्थः । एवं 'भुक्त्वा पाक' इत्यत्रापि क्त्वाप्रत्यय- स्यापीति भावः । भाष्यप्रदीपोद्दयोतकृतस्तु__'उपपदामतिङ्' 'गतिकारकोप- पदात्__' इति सूत्रभाष्याद् भोक्तुं पाक इत्यादेरसाधुत्वं लभ्यते तथा हि 'उपपदम्__' इति भाष्ये हि तत्रातिङ्ग्रहणस्य 'कारको व्रजती'त्यादिके प्रत्युदाहरण सुप्सुपेति वर्तत इत्युक्त्वा स्वण्डिते तिङित्यनेन तिङन्तार्थो लक्षणया गृह्यते, तथा च प्रधानभूततदर्थक्रियावाचकशब्दस्य समासप्रतिषेधो- ऽतिङित्यनेन तिङन्तार्थो लक्षणया गृह्यते तथा च प्रधानभूततदर्थक्रियावाचक- शब्दस्य समासप्रतिषेधोऽतिङित्यनेन क्रियते । एवं च 'सुप्सुपे'त्यस्यानुवृत्तावपि 'कारको गत' इत्यातद्व्यावर्त्य भविष्यतीति तात्पर्यकम्__'अतिङिति तदर्थप्रतिषेधः' इत्युक्तम्, तदन्तरं चो'पपदमक्रिये'ति स्पष्टप्रतिपत्तये 'वक्तव्यम्' इत्यक्तं, तस्याप्युक्त एवार्थः । 'अथ 'अक्रिया' इत्यस्य किं प्रत्युदाहरणम्' इति प्रश्नोत्तरं प्रत्युदाहरणे प्रदर्शिते 'नैतत् क्रियावाचि' इति तत्खण्डनं कृतं, तस्यायमाशयः,- अय 'तमुन्ण्वुलौ इति सूत्रे ण्वुलेव न भवति, तत्र क्रियार्थायाम् इति स्त्रीलिङ्गनिर्देशेन तत्फलक्रियाया एव लाभसंभवे क्रियाग्रहणसामर्थ्यात् प्रत्यासत्त्या च क्रियायोः सजातीयत्वलाभे प्रत्ययार्थविशेषणतानाश्रयसाध्यता- मात्रापन्नक्रियावाचकपदे एव तुमुनादिविधानात् अत एव सिद्धान्ते तत्र न समासापत्तिः । किं च क्रियावाचकत्वाभावात् समासप्रतिषेधो न, तुमुन्ण्घुलौ तु भवत इत्यस्य वैषम्यस्यानुचितत्वं च । न च गतशब्दस्यानुपपदत्वान्न समासः, तस्य प्राधान्येन क्रियावाचकत्वाभावात्, धातोस्तु कृदर्थसंसृष्टार्थकतया निष्कृष्य पदार्थान्तरेणैकार्थीभावासंभान्न स इति वाच्यं__'येन विधिस्तदन्तस्य'
'अनुपसर्जनात्' 'समर्थः पदविधिः' इति सूत्रभाष्यविरोधात्, तत्र हि__निष्कृष्ये- कार्थीभावविरहेऽपि तद्धितसमासवृत्तेरभ्युपगमात्, तथा 'येन विधिः__' इति सूत्रभाष्ये__परमगार्ग्यस्यापत्यमित्यर्थे गार्ग्यशब्दात् प्रत्ययग्रहणपरिभाषया यञन्तत्वप्रयुक्तो 'यञिञोश्च' इति फगित्युक्तम् ।
'अनुपसर्जनात्' इत्यत्रैतदधिकाराभावे तदन्तविध्यभावेन कुम्भकारैकदेश- कारशब्दस्यैवाणन्ततया तत एव ङीपि अनुपसर्जनस्त्रीप्रत्यये तदादिनियम- प्रतिपेधैऽपि कदाचित्कारीशब्दाद् ढक् स्यादित्युक्तम् ।
'गतिकारकोपपदात्__' इत्यत्र भाष्ये तत्र शूत्रे कृदग्रहणाभावे तिङन्तेन समासाभावाद्यत्क्रियायुक्ता इत्येन निष्कौशाम्ब्यादेर्वारणाद्, गत्यादिभ्यः परस्य क्रियावाचकृदन्तस्यैवोत्तरपदस्य लासंभवे कृदग्रहणं व्यर्थमित्याशङ्कायां__ यत्कियेत्यस्य प्रभवनमित्यत्रैव स्यात्, क्रियायाः प्राधान्यात्, न तु 'प्रणायकः' 'प्रणी'रित्यादौ क्रियाविशेषणबोधजनकेऽतः कृदग्रहणं कृदन्तमात्रसंग्रहार्थ- मित्युक्तम् । तदुपादनसामर्थ्याद्विशेषणीभूतक्रियकेऽपि प्रवृत्तिरिति भावः । क्रियावाचकशब्दग्रहणे प्रधानीभूतसाध्यमात्रावस्थक्रियाग्रहणं कृदग्रहणं ज्ञापयति, क्रियारूपार्थग्रहणे तु अतादृश्या अपि तस्या ग्रहणमतः कारकविभक्ति- कृत्वसुजादयः सिद्धावस्थापन्नगुणीभूतक्रियायामपि भवन्ति, नन्वेवं प्रपचतितरा- मित्यादावुत्तरपदप्रकृतिस्वरानापत्तिः, कृदग्रहणासत्त्वे तु साध्यावस्थापन्नक्रियामात्र- बोधकोत्तरपदस्यासंभवादधिकार्थे प्रणायकादाविवात्रापि स्वरप्रवृत्तिर्निष्प्रत्यूहैव, प्रभवनमित्यत्रापि न साध्यावस्यैव क्रिया प्रतीयते । तदुक्तं भाष्ये_'यदि कृदग्रहणं क्रियते आमन्ते स्वरो न प्राप्नोति, इत्यादीति चेन्न । 'तिङि चोदात्तवती'ति सूत्रस्थतिङ्ग्रहणप्रत्याखायादन्ययपूर्वपदप्रकृतिस्वरं परत्वाद्वाधित्वा 'प्रे'त्यस्य निधातप्रवृत्तौ__ नार्थस्तत्रोत्तरपदप्रकृतिस्वरप्रवृत्त्या, तस्मात् कृदग्रहणं कर्तव्यम्' इत्यनन्तरं 'यदि कृदग्रहणं क्रियते आमन्ते स्वरो न प्राप्नोति' इत्यादिः सर्वोऽपि ग्रन्थः शङ्कान्त एव, समाधिस्त्वयमेव निगूढः । एवं च भोक्तुं पाक इत्यद्यप्यनिष्टमेवेति प्राहुः । पूर्वोत्तरकाले इति । क्रियार्थक्रियावाचके उपपदे, अर्थात् फलीभूतक्रियावाचकधातोस्तुमुनण्बुलौ विधीयेते, फलीभूता च क्रिया उत्तरकालवृत्तिरेवेति भावः ।
द्विर्वचनमित्यादिति । आदिपदाद् 'द्विरणिवधिर्द्विरावृष्प्रयोग' इत्यादेः परिग्रहः । अतिप्रसंङ्गः = द्विःपाकावित्यादिप्रयोगातिप्रसङ्गः । अनभिधाना-
दिति । तादृशप्रयोगात् क्रियाजन्मगणनाप्रतीतेरित्यर्थः । तदुक्तं भाष्ये__द्वौ पाकावित्यत्र कस्मान्न भवति, नेतत् क्रियागणनम्, अभिमुखी प्रवृत्तिरभ्या- वृत्ति'रिति, सा च जन्मरूपा, एवं नैतत् क्रियाजन्मगणनमिति तदर्थः । क्रियाजन्मगणनार्थकत्वे तु द्वौ पाकाविति द्विवचनापत्तिः । अत एव द्विष्प्रयोग इत्यत्र द्विवचनं न ।
द्विष्प्रयोगो द्विर्वचनमिति प्रयुज्यत इति प्रयोगः, एवञ्च साध्यमात्रस्वभावा धातूपस्थाप्या क्रिया तत्रेति तत्समानार्थकद्विर्वचनशब्देऽपि धातूपात्ता तादृश्येव क्रिया, प्रत्ययस्तु बाहुलकात् कर्मणि । अत्र आहुरित्यनेनास्वरसः सूचितः, तद्वीजं तु भावार्थकद्विरावृत्तिरित्यादेस्तथाप्यनिर्वाहः, 'द्विर्वचनेऽचि' इत्यादिप्रयोग- दर्शनात् क्रियामात्रग्रहणस्यैव न्याय्यत्वम् । क्रियाग्रहणं तु स्पष्टार्थमुत्तरार्थवेति स्पष्टमन्यत्रेति ।। 20 ।।

का:20
आख्यातशक्तिग्रहवतामिति । 'तिबादिप्रत्यये' भावनाशक्ता इति शक्रिग्रहवताम् । बोधात् = तिबादिप्रत्ययाद् भावनाबोधात् । तन्निबन्धनम् । विशेष्यविशेषणभावसंबन्धनिमित्तकमित्यर्थः । यथाश्वत्वजातिप्रवृत्तिनिमित्तको दन्त्यसकारघटितोऽस्वशब्दस्तुरगेऽसाधुर्धनराहित्यप्रवृत्तिनिमित्तकस्तु साधुः, ताल- व्यशकारघटितस्तु तत्रैव वैपरीत्येन साधुरसाधुश्च भवति । ननु व्याकरणं साधुत्वान्वाख्यायकमेव न तु शक्रिग्राहकमत एव 'अथ शब्दानुशासनम्' इत्येव महाभाष्ये उक्तम्, 'सिद्धे शब्दार्थसंबन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः' इति च, न त्वर्थबोधकमित्यादि,__
'साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ।'
__इति वाक्यपदीयेऽपि__'साधुत्वज्ञानविषया' इत्येवोक्तमित्याशङ्कां निराकुर्वस्तात्पर्यार्थमाह__अयमर्थ इति । अयम् = वक्ष्यमाणः । तत्रैव = साधुशब्दे एव अवच्छेदकतया । बोधकतावच्छेदकतया । शक्तित्वमिति । बोधकता = बोधजनकता । जनकतायाश्चावच्छिन्नत्वनियमेन तदवच्छेदकतया धर्मकल्पनावश्यकीति तस्यैव शक्तित्वं युक्तम् । पुनः__शब्दस्त्वर्थे । शक्तत्वं साधुत्वमित्येकमेवेतीति । साधूशब्देभ्य एव बोधोत्पत्त्यङ्गीकारेण शक्तः साधुमात्रवृत्तितया शक्तत्वमेव साधुत्वमिति भावः । तद्रीत्या = मीमांसकरीत्या ।
साधुत्वनिर्णय एवेति । तथा च व्याकरणस्य शक्तिनिर्णायकत्वस्य निष्प्रत्यूहतया 'लः कर्मणि__' इति व्याकरणविरोधाद् भावनाभिप्रायेण तिङ्प्रयोगोऽसाधुरेवेति तात्पर्यम् । अतिरिक्तेति । साधुत्वापेक्षयाऽतिरिक्तेत्यर्थः । साधुत्वमनपभ्रष्टते- त्यादिरूपं, शक्तिरिच्छाविशेषः, पदार्थान्तरं वा । अत एव साधुः शक्त इत्यादि- व्यवहार उपपद्यत इति भावः । स्यादेवेति । व्याकरणस्मृतेः साधुत्वज्ञापनार्थं प्रवृत्तत्वेऽपि साधुत्वस्य पूर्वोक्तरीत्यार्थविशेषनिबन्धनत्वेनार्थवशसंपन्नमेव शक्ति- निर्णायकत्वमिति व्याकरणविरोधाच्चतुर्थ्यर्थे तृतीयाप्रयोगवद् भावनायां तिवादि- प्रत्ययस्यासाधुत्वं स्यादेवेति तात्पर्यार्थः ।
नन्वेवं महामुनिजैमिनिसूत्रविरोधेन पाणिनिस्मृतिर्बाध्येति चेन्न, साधुत्वांशे पाणिनिस्मृतेर्बलवत्त्वात्, साधुत्वानुशासनार्थमेव प्रणीतत्वात् । वस्तुतस्तु जैमिनीयवचनव्याख्यातृग्रन्थविरोधेऽपि तत्सूत्रविरोधलेशोऽपि नावरति, तथा हि__'भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते'इति हि भावार्थाधिकरणे जैमिनिसूत्रम् । "दद्याज्जुहुयादित्यादयः कर्मशब्दा भावार्थाः = प्राधान्येन क्रियार्थकाः, 'भावप्रधानमाख्यातम्' इति निरुक्तात्, अतस्तेभ्यः क्रिया प्रतीयेत__प्राधान्येन प्रतीयेत, ही = प्राधान्याद्धेतोः । एष एव = क्रियारूप एवार्थो विधीयते न तु द्रव्यरूपः क्रियायाश्चाशुतरविनाशित्वात् कालान्तरभावि- फलजनकता न संभवतीति द्वारमपूर्व कल्प्य"मिति तदर्थः । एतत्सूत्राद् भावना प्रत्ययार्थो न कर्तेत्यादिकं तु न लभ्यते इति विभावनीयमिति दिक् । प्रकारणात् = दर्शपूर्णमासप्रकरणात् । तत्प्रकरणे नानृतमित्यस्य पाठात् । तच्च = प्रकरणप्राप्तं क्रत्वर्थत्वं च । बाध्येतेति । तथा च क्रतावपभाषणे क्रतुभ्रेष- प्रायश्चिताचरणरूपसकलयाज्ञिकमीमांसकशिष्टाचारविरोधः स्यात्, अतो नेष्टापत्तिः कर्तु शक्येति भावनावाचकत्वमेव विबादीनामभ्युपेयम् । न चैवं 'लः कर्मणि__' इति व्याकरणस्याप्रामाण्यमिति वाच्यम्, वृद्धयादिपदस्य लोके आकारादिबोधकत्वेनादृष्टस्यापि स्वशास्त्रे तत्र वृद्धयादिपदं परिभाषितम्, एवं च व्याकरणस्य सर्वशक्तिनिर्णायकत्वाभावेनादोषात्, किं चासन्नेव लकारः कल्पित- स्तथैव कर्तृकर्मवाचकत्वस्यापि काल्पनिकस्यापि संभवात्, यत्र तु न्यायविरोध- स्तत्र लोकवेदयोरपि न तदुक्तार्थाभ्युपगमः, न चैतावतापि शाश्त्रस्याप्रामाण्यम्, अर्थवादानामिव तात्पर्यार्थे प्रामाण्यनिर्वाहात्, 'जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू' इत्यादौ वाक्यात् पुरुषार्थत्वसिद्धये कर्तुर्वाच्यत्वमावश्यकमित्युक्ता प्रतिबन्दिरपि
नेति मीमांसकोक्तमेवाश्रयितुं युक्तमिति भावः । तिङर्थस्य विशेषणत्वेऽपि श्रुत्यर्थत्वानपायात् कथं न निषेधस्य क्रत्वर्थत्वमतस्तदुपपादयति__न हि गुणेति । विशेष्ये एवङ्गित्वस्य न्याय्यत्वाद् विशेषणेऽङ्गसंबन्धे प्राधान्यमप्राधान्यं च विरुद्धद्वयमापद्येत, अत एव 'सोमेन यजेते'त्यत्र सोमस्य यागे करणत्वेनान्वयो निराकृतः सोमसाध्येन यागेनेति मीमांसकैः . ननु धात्वर्थभावनापि कथं निषेधेनान्वयं लभते, तस्या अपि प्रत्ययार्थकर्तृसम्बन्धत्वादित्याशङ्क्याह__ भावनात्विति । प्रधानमिति__प्रथमान्तं भावनाविशेषणं, तथा च विशेषणत्वे- नेतरान्वितस्यान्यत्र विशेषणतयान्वयासंवेऽपि तिङर्थ प्रति विशेष्यायास्तस्या नञर्थे विशेषणतयान्वयो नानुपपन्न इति सा ग्रहीतुं समर्थेवेति भावः । एवं च निषेधस्य तद्भावनाया वा कैमर्थक्यात् प्रकरणात् क्रत्वर्थक्यात् प्रकरणात् क्रत्वर्थतैवेति भावः । श्रुतिप्रकरणयोरङ्गत्वग्रहकत्वसंभवे एव श्रुतिरेव ग्राहिका वलीयस्त्वात्, प्रकृते तु नैवमिति तात्पर्यम् । नन्वेवं 'न हिस्यात् सर्वाभूतानि' 'न कलञ्जं भक्षये'दित्यादिनिषेधानामपि श्रुत्या पुरुषार्थत्वं न स्यात्, श्रुत्युपस्थित- कर्तुः क्रियाविशेषणत्वात् । यदि च तत्रान्यस्याङगिनोऽसंभवात् विशे,णीभूत- कर्तुरपि निषेधोऽङ्गमिति चेदुक्तनियमव्यभिचारेण 'नानृतं वदे'दित्यत्रापि निषेधः कर्तुरङ्गं स्यादत आह__अस्तु वेति । यद्वा श्रुत्यपेक्षया विलम्बेन विनियोजकतया प्रकारणस्य दौर्वल्यं क्लुप्तं, श्रुतेरितरनैरपेक्ष्येण प्रकारणात् पूर्वमेव विनियोजकत्वेन प्राबल्यात्, अतः प्रकृतेऽपि प्रबलायाः श्रुतेः प्रकरणबाधकत्वमभ्युपेत्येत्थं परिहारः कृतः, वस्तुतस्तु प्रमाणयोविरोधे एव बलाबलचिन्ता, अन्यथा वक्ष्यमाणरीत्या जञ्जभ्यमानाधिकरणविरोधः, प्रकृते तु श्रुतिप्रकारणाभ्यामविरोध एवेत्याह__अस्तु वेति । क्रतुयुक्तपुरुषधर्म इति । अस्य 'श्रुतिप्रकरणाभ्या'मित्यादिः । तत्रानुरूपं दृष्टान्तमाह__जञ्जभ्यमान इति । तत्र यथाऽविरुद्धाभ्यां वाक्यप्रकारणाभ्यामुक्तमन्त्रजपस्य क्रतुयुक्तपुरुषधर्मत्वं, तथा श्रुतिप्रकरणयोरनृतनिषेधस्यापीत्यर्थः । तदुक्तं भट्टपादैरपि__
?R 'स्त्रयुपायमांसभक्षादिपुरुषार्थमपि श्रितः ।
प्रतिषेधः कतोरङ्गमिष्टः प्रकरणाश्रयात् ।।' इति ।
'भक्षादी'ति नरुंसकद्वितीयान्तं, तद्विषयीकृत्य यः प्रतिषेध इत्यर्थः । अत एव 'यदर्था प्रकृतिस्तदर्थः प्रतिषेध' इति नियमस्य 'नानृतं वदे'दित्यत्र भङ्गो न । वस्तुत उक्तभट्टोक्त्या तादृशनियमो न सार्त्रिक इति बोध्यम् । अनारभ्याधीतो
नानृतं वदेदिति निषेधस्तु 'परावपज्ञा ऋषयो यद्वा नस्तद्वा न इति प्रयोक्तव्ये यर्वाणस्तर्वाण इति प्रयुञ्जाना यर्वाणस्तर्वाणो नाम बभूवुर्याज्ञे कर्मणि पुनर्नापभाषन्ते' इति पस्पशाह्निकस्थभाष्यस्वरसादर्थानृतपर एव अत एव भाष्यात्, 'ते 'असुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः' इति क्रतुप्रकारणपठितभाष्यलिखितश्रुत्यन्तराच्च दर्शपूर्णमासप्रकारणपठितो नानृतमिति निषेध उभयविधस्याप्यनृतस्येति ध्येयम् । तदेतद् ध्वनयन्नाह__भूषणे प्रपाञ्चित- मिति । अपभ्रंशवदिति । यथाऽपभ्रंशानां साधुत्वभ्रमाद्बोधकत्वेष़प्यसाधुत्वं तथा भावनाबोधकत्वेऽपि तस्यां तिबादेरसाधुत्वं स्यादेवेत्यर्थः । असाधुत्वंस्यादिति । न चैतदनुशासनस्य निर्मूलत्वेन तिबादेर्भावानाबोधकत्वेऽपि साधुत्वं निराबाधमेवेति वाच्यम् । 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इति श्रुतेः__
'पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् ।
सर्वोपकारकं ग्राह्यं कृत्स्नं, त्याज्यं न किचन ।।'
-इति पराशरोपपुराणादेश्च मूलत्वात् । न च लकारवत् कर्त्राद्यर्थकत्वमपि कल्पितमिति वाच्यम्, सर्वत्र प्रकृतिप्रत्ययविभागं कल्पितं तत्तदर्थ चादायैव साधुत्वबोधनात् । ज्ञानं न हेतुरिति तद्वयतिरेकेऽपि शाब्दबोधानुभवात् । तस्य हेतुत्वाभावेऽपि असाधुत्वज्ञानसत्त्वे शाब्दबोधानुदयात् तस्य प्रतिबन्धत्त्वं कल्पनीयम् । एवं च भावनायामसाधुस्तिबादिरिति ज्ञानसत्त्वे कथं ततस्तद्वोधः, न च तदा तद्बोधो न जायत एव, अपि त्वसाधुत्वज्ञानविरहदशायामेव तद्बोध इति वाच्यं, तदापि बोधस्यानुभवसिद्धत्वादित्याशङ्कां निराकरोति__तव्द्यति- रेकेति । साधुत्वव्यतिरेकनिर्णय इत्यर्थः । वक्ष्याम इति । साधुत्वज्ञानरहितानाम- साधुत्वज्ञानवतामपि गगर्यादिशब्देभ्यो बोधस्य सर्वानुभवसिद्धतया साधुत्वज्ञानं न हेतुस्तद्वयतिरेकज्ञानं च न प्रतिबन्धकमिति वक्ष्यत इति नः सर्वेष्टसिद्धिरिति भाव इति शिवम् ।। 21 ।।
केशवाङ्गजविप्रस्य हरिरामस्य मिर्मितौ ।
पूर्णो भूषणटीकायां धात्वर्थाख्यातनिर्णयः ।।
इति श्रीमद्वैयाकरणभूषणटीकायां कालोपनामकहरिरामविरचितायां
धात्वाख्यातसामान्यार्थनिरूपणं समाप्तम् ।।
_____