वैयाकरणभूषणसारः (काशिकाटीकासहितः)/लकारार्थनिर्णयः

वैयाकरणभूषणसारः (काशिकाटीकासहितः)
लकारार्थनिर्णयः
[[लेखकः :|]]

अध लकारार्थनिर्णयः
का: 21
प्रत्येकमिति । एकैकस्येत्यर्थः, वीप्सायामव्ययीभावात् । दशलकाराणामिति । 'दिक्संख्ये संज्ञायाम्' इति समासः, सप्तर्षिवदियं लडादीनां संज्ञेति भावः । अवयवावविभावसंबन्धे षष्ठी, प्रत्येकमित्यत्रान्वयः । अर्थमिति__ सामान्या- भिप्रायेणैकवचनम् । निरूपयतीति । लकारसामान्यार्थज्ञाने सति लकारविशेषार्थजिज्ञासादेयात् । तथा च प्रसङ्गसंगत्या तन्निरूपणमिति बोध्यम् । वर्तमानत्वं लक्षयति-प्रारब्धेति । प्रारब्धस्तत्तत्फलानुकूलव्यापारध्वंसासमान- कालिकतत्त्फलानुकूलकृतिविषयीभूतो योऽपरिसमाप्तस्तत्तत्फलानुकूलचरमक्रिया- ध्वंसप्रागभावाधिकरणकालवृत्तिः,__प्रागभावानङ्गीकारे तु__तादृशध्वंसा- नधिकरणकालवृत्तिरित्यर्थेऽवसेयः, एतादृशो यः क्रियात्मकोऽर्थस्तत्तत्फलानुकूल- व्यापारसंतानात्मकक्रियारूपपतदधिकरणत्वोपलक्षितसमयत्वमित्यर्थः । वर्तमानत्वस्य कालगततत्वेन सर्वानुभवसिद्धत्वात्, अत एवाख्यातार्थः काल इति प्रवादऽपि संगच्छते, भूषणेऽप्यत एवेत्थमेवोक्तम् । "भाष्ये न्याय्या त्वेषा वर्तमानकालताऽऽरम्भानपवर्गादवश्यं भुञ्जानो हसति जल्पति पिबति निमिषति चे"त्युक्तम् । नान्तरीयकत्वात् तासां न विच्छेदकत्वमिति हसनादिदशयामपि 'भूङ्क्ते' इति प्रयोगोपपत्तिः, यद्वा तासामपि तत्तद्धात्वर्थफलानुकूलत्वेन भुज्यादिधात्वर्थत्वविवक्षेति तद्भाव इति कैयटः । अनेकदिनादिसाध्यग्रन्थाध्ययनसमये भोजनगमनादिनानाविधक्रियाणामपि तथाविधित्वमिति भावः, अत एव संहिताद्यध्ययनसमप्तिपर्थन्तं 'देवदत्तः संहितां पठती'त्यादिप्रयोगोपपत्तिः, परं तु पठधात्वादेस्तथाविधवहुतरव्यापारवाचकत्व- कल्पनायां गौरवात् कण्ठाद्यभिधातादिव्यापारेष्वल्पेष्वेव शक्रिरुचितेति पूर्वोक्तमेव सम्यगिति प्रतिभाति, जतताडनाद्यनेकक्रियाणां तदनुकूलत्वे मानाभावाच्च संहिताद्यध्ययनम्भक्षणतत्समाप्तिक्षणान्तरालिकसमये निरुक्तवर्तमानत्वसत्त्वादुक्त- प्रयोगनिर्वाहः, उक्तभाष्यस्याप्येतादृवर्तमानत्वपरिग्रहे तात्पर्यम्, प्रारब्धा- परिसमाप्तत्वञ्च विशेषणं न तूपलक्षणं तेनातीतादिक्रियायामपि तत्तत्कालवच्छेदेन प्रारब्धापरिसमाप्तत्वसत्त्वेन पचतीति प्रयोगापत्तिर्न, अन्यथा तु स्यात् तदाप्राप्तेः, प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वमिति भूषणग्रन्थपर्यालोचनयेदं तत्तत्कालोपलक्षकमात्रं न तु तस्य शाब्दबोधे भानम्, शाब्दबोधे तु
वास्तवमेतीदृशवर्तमानत्वं यत्र स कालस्तत्कालत्वेन भासते, अतस्तत्कालत्वेनैव लड्वाच्यता, परं तु एवंरीत्या कालगतभूतत्वानद्यतनत्वादेरपि लिडादिप्रयोगे भानानापत्तिः । तेषामनुभवबलाच्चेद् भानमिति तेषां लिडादिवाच्यतेति चेत् प्रकृतेऽपि तथेति प्रतिभाति । अत एव वर्तमानकालिकी पचिक्रियेति बोधं वर्णयन्ति प्रामाणिकाः । पपाचेत्यादिजन्यबोधे सति भूतत्वानद्यतनत्वादि- संशयानुदयात् तस्य वाच्यते प्रकृतेऽपि तुल्यम् । अतीतादिसमये पाककर्तरि__ वर्तमानसमये तत्कर्तृत्वशून्ये__देवदत्तादावपाक्षीत्, पक्षयति देवदत्तो न पचतीति प्रयोगानुपपत्तिश्च । चैत्रकर्तृकपाकसामान्याभावस्य बाधितत्वात्, उक्तविधवर्तमानस्यावाच्त्वे तु अन्वयितावच्छेदकचैत्रकर्तृकवर्तमानपाकत्वावच्छिन्न- प्रतियोगिताकाभावस्याबाधितत्वान्नानुपपत्तिरुक्तप्रयोगस्य, प्रतियोगिप्रसिद्धिश्चान्तत आहार्यारोपरूपैवेति ध्येयम् । अग्निर्दहतीत्यादौ निरुक्तप्रारब्धत्वस्यारोपात्, 'श्रृणोत ग्रावाणः' इति श्रुतिबलात् सर्वस्यैव चैतन्याद्वोपपत्तिर्बोध्या, तत्तत्फलानुकूलक्रियाध्वंसानाधिकरणतदनुकूलक्रियाधिकरणसमयरूपाद्यक्षण- सम्बन्धरूपं वा प्रारब्धत्वं निवेश्यम् । अत्र पक्षे गौरवाल्लघुवर्तमानत्वमाह-भूतेति । तथा च भूतभविष्यद्भिन्नकालात्वं वर्तनामत्वमित्यर्थः । तत्र भूतत्वं वर्तमानध्वंसप्रतियोगित्वम् । भविष्यत्त्वं वर्तमानप्रागभावप्रतियोगित्वम्, वर्तमानत्वं च ध्वंसादौ प्रकृतप्रयोगाधिकरणकालवृत्तित्वम्, प्रकृतप्रयोगाधिकरणकालश्च प्रहरदिनाद्यात्मको बुद्धिस्थस्तत्र तत्र विशिष्य निवेश्यः, तेन तदधिकरणप्रहराद्यात्मककालान्तर्गतासु कासुचिद् घटिकास्वपि तदधिकरणकिञ्चित्कालवृत्तिध्वंप्रतियोगित्वादिसत्त्वेऽपि भूतभविष्यद्भिन्नत्वस्य नासंभवः, अत्र बूतत्वादिकं परिचायकमेव भेदप्रतियोगिकालविशेषस्य, तत्तत्काल- भेदविशिष्टकालत्वावच्छिन्ने एव तु शक्तिः, तादृशभेदस्यापि शाब्दबोधे भानानङ्गीकार तु भेदान्तं परिचायकं, तत्तत्कालत्ववत्येव शक्रिरिति बोध्यम् । भिन्नत्वं वेत्यत्र वाशब्देनानास्थवेदिता । तन्मूलं तु वर्तमानभविष्यद्भिन्नत्वं भूतत्वमित्याद्यपि वक्तुं शक्यं, विनिगमनाविरहात्, तथा च न भूतादिभेदघटितं वर्तमानत्वं वक्तव्यं, किं तु भूतत्वादिवद्वर्तमानत्वमप्युक्तभेदाघटितमेवेति । अधिश्रयणादिति । अधिश्रयणमादिर्यस्याघःश्रयणमन्तो यस्येति बहुव्रीहिद्वये सति कर्मधारयः, अन्यपदार्थः समूहः । कर्मधारयेऽपि स एव विशेष्यः । तादृशसमूहान्तर्गतमध्ये इत्यर्थः । तत् = उक्तपूपवर्तमानत्वम् । न'न्वात्मास्ति'
'पर्वताः सन्ती'त्यादिप्रयोगानुपपत्तिः, तत्रात्मधारणानुकूलव्यापारस्य नित्यतया- साध्यत्वाभावात् क्रियात्वाभावात्, तद्धर्मस्य प्रारब्धापरिसमाप्तत्वरूपवप्तमानत्वा- भावदित्याशङ्गां निराचष्टे__आत्मेत्यादिना ।
तद्विशिष्टस्य = तादृशजक्रियाविशिष्टस्यात्मादिकर्तृकोक्तव्यापारस्येत्यर्थः । उत्पत्त्यादिकमित्यत्र आदिपदात् समाप्तेस्तत्तत्कालभेदस्य च परिग्रह । तथा चात्मादिकर्तृकोक्तव्यापारस्य नित्यतयोत्पत्त्यादिविरहेऽपि तत्तत्कालिकराजक्रिया- विशिष्टस्य तस्योत्पत्त्यादिमत्तया निरुक्तवर्तमानत्वं सूपपदमिति भवाः । तत्र 'वर्तमाने लट्' सूत्रस्थभाष्यं प्रमाणयति__उक्तं च भाष्ये इति । तिष्ठतेरधिकरणमिति । तत्र कैयटोपाध्यायोऽपीत्थं व्याचष्ट__'तत्र शज्ञां स्थिति- र्भूतादिभेदेन भिन्ना पर्वतादिस्थित्यादेर्भेदिकेति क्रियारूपत्वं कालत्रययोगश्चोप- पद्यते' इति । अन्यथा पर्वतादिस्थितीनां सदृशावयवत्वात् पूर्वापरीभूतावयवक- समूहत्वरूपक्रियात्वानुपपत्तिः, एवं तासां दुरबधारभेदतया कालभेदानुपपत्तिश्च स्यादिति भावः । क्रियायाः कालरूपत्वे,__क्रियाः तिष्ठतेरधिकरणन् = कालिकसंबन्धेनाधिकरणमित्यर्थकतया यथाश्रुतमेव साधु । 'प्रकृतिपरिणामभूतो- ऽतिभङ्गुरोऽविभुःक्षणरतद्धारात्मक एव काल' इति मते तु__क्रियापदस्य तत्परिच्छेदककालपरत्वेन तदीयकालस्य पर्वतादिस्थितावात्मसत्तायां चाधेयतासंबन्धेनारोप इत्याशयकं बोध्यम् । परतो सिद्यत इति । सर्व = आत्मासत्तादिकं सर्व, परतो सिद्यते =परत एव सिद्यते, भेदसाधकं स्वातिरिक्तमेव । आत्मा तु = स्वस्वरूपं तु, न विकल्पते = स्वतो भेदकं भवति । पररूपेण भिद्यत इत्यस्योक्त एवार्थो हेलाराजीये स्पष्टः ।
तम आसीदिति । तमोऽज्ञानं तस्य सर्वदा सत्त्वेन भूतकालार्थकप्रत्ययप्रयोगोऽपीत्थमेव निर्वहति । एवमेव 'पिहितमज्ञानेनावृतमासी' दित्यादावपि बोध्यम् । वर्तमानत्वादीति । वर्तमानकालादीत्यर्थः । ननु लडादेर्द्योतकत्वं शत्तयुद्बोधकत्वरूपं वाच्यं, तच्च धातोर्वर्तमानत्वादौ शक्ति विना न संभवति, एवं च बहूनां धातूनां तत्र शक्तिकल्पनायां गौरवादल्पतरप्रत्ययाना- मेव वाचकत्वमेव स्यान्न तु द्योतकत्वमित्यत आह__क्रियासामान्येति । वाचकस्येत्यनन्तरं 'धातो'रिति शेषः ।
तद्विशिष्टे इति । वर्तमानत्वादिविशिष्टक्रियायामित्यर्थः । तात्पर्यग्रहकत्वेनेति । विशिष्टलक्षणायां तात्पर्यग्रहकत्वमेव प्रकृते द्योतकत्वमिति
भावः । लक्षणास्वीकाराच्च न शक्तिकल्पनाप्रयुक्तं गौरवं, वृत्तिद्वयेनैकशब्दजन्य- बोधानभ्युपगमाद्विशिष्टलक्षणानुसरणं, 'गङ्गायां मीनघोषौ स्त' इति वाक्य- घटकगङ्गापदाच्छक्तिलक्षणाभ्यामुपस्थितप्रवाहतीरयोर्बोधानुभवाद्वृत्तिद्वयविरोधे मानाभाव' इति मताभ्युपगमे तु वर्तमानत्वादावेव लत्रणेति बोध्यम् । लडादेर्वर्तमानत्वादिवावकत्वपक्षे तु कर्त्रादेर्लडादिवाच्यत्वं न स्यात्, विशेषेण सामान्यबाधात्, तथा च 'चैत्रमैत्रौ पचत' इत्यादौ कर्तुरभानात् तद्गतद्वित्वाद्यप्रतीतौ द्विवचनबहुचनानापत्तिः, शबाद्यनुपपत्तिः, तृतीयापत्तिश्च__ चैत्रादिपदात् स्यात्, कर्तुरमभिधानात्, अतो द्योतकतापक्ष एव युक्तः । यद्यपि निरवकाशत्वमेवं सति कर्त्रादीनां स्यात्, लोडादिस्थलेऽपि विध्याद्यर्थैर्बाधात्, किं च तक्रकौण्डिन्यन्यास्य विधेयविषयतयाऽर्थस्य समर्थसूत्रस्थभाष्यप्रामाण्यदविधेय- तया बाधप्रसक्तिरेव न, स्प्टं चेदं 'नित्यं कौटिल्ये गतौ' इत्यादि सूत्रे भाष्यप्रदिपोद्द्योतादाविति स पक्षेऽपि सूपपदस्तथापि वाचकतापक्षे प्रत्ययार्थतया प्राधान्यापत्तिः, तदर्थ 'प्रकृतिप्रत्यययो'रिति नियमसंकोचः कल्पनीयः, द्योतकतापक्षे तु 'हेतुमति च' इति सूत्रभाष्यप्रामाण्येन द्योत्यार्थस्य विशेषणत्वनियमसिद्धौ,__प्रत्ययवाच्यविषयस्य 'प्रकृतिप्रत्यययो'रित्यस्यावतार एवात्र नेति न संकोचकल्पनाप्रसक्तिः, स्पष्टं चेदं 'मञ्जूषादा'वित्ययं पक्ष एव साधीयानिति बोध्यम् । अत एवात्राप्यग्रे 'इत्यपि' पक्षान्तर'मिति__'अपि' पदघटितमस्वरससूचकमुक्तम् । तद्रूपम् = वर्तमानत्वादिरूपम् । लडादिवाच्य- मिति । वाचकतावच्छेदकं लट्त्वलिट्त्वादिकं, तदपि लडादेशे तिबादावनुभवसिद्धमेव, तच्च तत्रारोपितम्, अत एव__'यजेते'त्यत्रास्त्यंशद्वयम्, आख्यातत्वं, लिङ्त्वं च, तत्र लिङ्त्वेन शाब्दी भावनाभिधीयत"इति मामांसकग्रन्थः संगच्छते । अन्ये तु तिबादिकमेव तथा, लट्त्वादिज्ञानविधुरस्यापि शाब्दबोधोत्पत्तेः, तत्तदानुपूर्वीविरोषस्य तद्बोधे तात्पर्यग्राहकत्वाच्च न 'पक्ष्यती'त्यादौ 'वर्तमानत्वादिबोधापत्तिरित्याहुः ।
अनद्यतने भूते इति . अद्य भवोऽद्यतनस्तद्भिन्नकालवृत्तिः परोक्षा या क्रिया तदर्थकाद्धातोर्लिडिति सूत्रार्थः । एवमेव 'अनद्यतने लुट्' इत्यादौ व्याख्यानं बोध्यम्, एवं चैतन्मते तदर्थबोधको लिडित्यर्थः, पक्षान्तरे तु तद्वाचक इत्यर्थः । क्रमेण 'अनद्यतन' इत्यादिविशेषणप्रयोजनमाह__तेनेत्यादिना । तेन__अनद्यतन इत्यादिविशेषणोपादानेन । 'अद्यतने भूते' इत्यादिसप्तम्यन्तयुगलत्रिकस्य 'न
लिट्प्रयोगः' इत्यनेनान्वयः । एताद्दशविषयतेति । एतादृशब्दाभिलप्यमानविषय- तेत्यर्थः, ज्ञाने वक्तृवृत्तित्वं निवेश्यं, तेनान्यवृत्तितादृशज्ञानविषयत्वेऽपि 'अयं पपाचे'त्यादिप्रयोगस्य नानुपपत्तिः । अव्यावर्तकमिति । कस्याश्चित् क्रियायाः प्रत्यक्षविषयत्वे तथाविधाभिप्रायेण तादृशप्रयोगव्यावर्तनाय 'परोक्षे' इति सार्थकं भवेत्, क्रियामात्रस्य पारोक्ष्ये तु तन्निरर्थकमित्याशङ्कते इत्यर्थः । 'अपरिद्दष्टे'ति पाठमाश्रित्य,__पूर्वापरीभूता अवयवा यस्याः,__अत एव__पिणडीभूता निदर्शयितुं न शक्या, पूर्वापरीभूतावयवकत्वेन पिण्डीभावस्यैवाभावादिति__भाष्यस्य व्याख्यानमनुसृत्य समाधत्ते__पिण्डीभूताया इति । अवयवशः = एकैकस्यावयवस्येत्यर्थः, संख्यैकवचनाच्च' इति शस् । प्रत्यक्षत्वसंभवादिति । तथा च क्रियावयवानां वक्त्रपरोक्षत्वदशायां लिट्प्रयोगस्य साधुत्वव्यावर्तनाय तदावयकमेवेति भावः । अवयवनामपि परोक्षत्वे बाधकमाह__अन्यथेति । दर्शनकर्मता न स्यादितीति । तथा च प्रामाणिकस्य तादृशप्रयोगस्यानुपपत्तिरिति भावः
प्रकारान्तरेण परोक्षपदं सार्थकयतामन्येषां मतमाह__व्यापाराविष्टानामिति । व्यापारविशिष्टानामित्यर्थः । नोक्तदोष इति । व्यापाराविष्टसाधनानां वक्तुः प्रत्यक्षदशायाम् 'अयं पपाचे'ति प्रयोगवारणार्थतया सार्थक्ये सत्यव्यावर्तकत्वरूपो दोषो नेत्यर्थः । व्यापारस्य विशेषणविधया निवेशप्रयोजनमाह__अयं पपाचेति । कर्तुः प्रत्यक्षदशायां तादृशप्योगानुपपत्तिरिति 'व्यापाराविशिष्ट'निवेशः । वक्तुः- प्रत्यक्षाविषय कर्तृकस्थले 'चैत्रः पपाचे'त्यादावेव लिट्प्रयोगः स्यादिति भावः । अत एवेदंशब्दधटितानुधावनम् । अपि वदन्तीत्यनेनारुचिसूचनं कृतं, तद्बीजं तु क्रियायामेव परोक्षेतिविशेषणान्वयेऽप्युक्तरीत्या सार्थकत्वे संभवति तथाविधसाधनान्वयानौचित्यं, 'धातोः' इत्यधिकारात् क्रियायाः शीघ्रोपस्थितेरित्यादिकमवसेयम् । भाष्यप्रदीपोद्द्योतादिकृतस्तु__, "शतपत्रभेदनकर्त्तृरतिसनिकृष्टस्यापि स्वाङ्गुल्यादिगतक्रियाभेदादेरनवगमेन,__ पदार्थसौक्ष्म्यवत् सूक्ष्मकालावच्छिन्नत्वस्यापि प्रत्यक्षप्रतिबन्धकतया,__क्रियावया- नामपि प्रत्यक्षत्वं न संभवति, आश्रयनाशाजन्यगुणनाशस्य विरोधिगुणप्रयुक्तत्व- मिति नियमे मानाभावेन विभागानभ्युपगमेन क्रियाणां त्रिक्षणावस्थायित्वं मन्यन्ते, तथा हि प्रथमे क्षणे क्रियोत्पत्तिस्ततो द्वितीये पूर्वसंयोगनाशस्तृतीये उत्तरदेश- संयोगोत्पत्तिश्चतुर्थे क्रियाया नाशः, स्वजन्यसंयोगनाशहेतोः पूर्वक्षणे सत्त्वात्, एवं सूक्ष्मकालावच्छिन्नत्वम् ; यैस्तूत्तरदेशसंयोगोत्पत्तिर्द्वितीयक्षण एवाङ्गीक्रियते, पूर्वदेशसंयोगनाशात्मकत्वस्वीकारात् तस्य,__तन्मते तस्याः क्षणावस्थायित्वेन सुतरां सूक्ष्मकालावच्छिन्नत्वम् । अत एव 'क्रिया नामेयम्__' इत्यादि भाष्यम्,__ 'अपरदृष्टे' इतिपाठाभिप्रायेण "परेण = प्रधानेन प्रत्यक्षात्मकप्रमाणेनात्यन्त- मदृष्ट-अअवयवरूपेण समूहरूपेण चेत्यर्थ" इति व्याख्यातं 'निष्ठा' इति सूत्रे कैयटोपाध्यायैः । 'पिण्डीभूत'इति त्वाशुतरविनाशिनां क्रमिकाणां मेलानासंभवात् पिण्डीभावासंभवतात्पर्यकमेव, तस्मादुत्तरदेशसंयोगादिरूपफलानुमेयैव सर्वाऽपि क्रियेति भूवादिसूत्रभाष्यादौ स्पष्टं, 'पश्य मृगो धावती'त्यस्य-दृशेर्ज्ञान- सामान्यार्थकत्वेन संयोगात्मकफलविषयकदर्शनविवक्षया वोपपत्तिः । एवं च व्यर्थमेव परोक्षपदोपादानमित्याशङ्क्य__व्यापाराविष्टानामिति पक्षमेवाङ्गीचक्रुः, मनोरमायामप्ययमेव पक्षः स्थितः । यद्यपि क्रियाया अप्रत्यक्षत्वे तद्विशिष्टसाधनप्रत्यक्षं दुरुपपादमतस्तद्वैयर्थ्य तदवस्थमेव, तथापि व्यापारवैशिष्ट्यसमये साधनापारोक्ष्यस्य विवक्षितत्वान्नोक्तदोष इति भावः ।
कथंताया हेतुमाह__स्वक्रियाया इति । प्रत्यक्षत्वात् = स्वात्मकवक्तुरवश्यं
प्रत्यक्षविषयत्वात् । पक्षान्तरे कियाविष्टसाधनस्य स्वप्रत्यक्षत्वादिति हेतुरुन्नेयः । ननु विषयान्तरसंचाररूपव्यासङ्गादिना स्वव्यापारस्य, व्यापारविशिष्टस्य च स्वप्रत्यक्षविषयत्वाभावरूपपारोक्ष्यसंभवान्न लिट्प्रयोगासंगतिरित्याशङ्क्य भूतत्वाद्यसंभवनिबन्धनां तामाह__व्यासङ्गादिनेति । अत एव 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' इति प्रयोग उपपन्नः । अनद्यतनेति । किरणावलीकर्मकविस्तारानुकूलव्यापारावच्छेदेनाद्यतनभिन्नत्वाभावात्, अतीतकाल- संबन्धाभावाच्चेत्यर्थः । इदं चा'नद्यतनत्वमतीतत्वं च द्वयं कालाघटितं क्रियाविशेषण'मिति मतमाश्रित्याभिहितम् । 'अद्यतनभिन्नातीतकालस्य क्रियाविशेषणत्व'मिति निष्कृष्ठभाष्यमते तु__तादृशक्रियायामद्यतनभिन्नातीतकाल- संबन्धाभावादिति हेतुर्बोध्यः । अनद्यतनकालवृत्तित्वातीतकालवृत्तित्वयोरिति वा भूतानद्यतनातीतत्वयोरित्यस्यार्थो बोध्यः । अत्र क्रियायामनद्यतनभूतकाल- संबन्धस्य, परोक्षत्वस्य चारोपदुपपद्यत एव लिट्प्रयोगः, आरोपप्रयोजनं तु सुकरत्वशीघ्रनिर्वर्त्यत्वांदिबोधनम्, तत्फलं त्वध्येतणां पदार्थतत्त्वनिश्चयफल- कैतद्ग्रन्थं ज्ञातुं सोत्कण्ठानामाह्लादः, परोक्षत्वारोपोऽप्येतत्फलकः, अनायासेन ग्रन्थनिर्माणमप्यत्र व्यङ्ग्यम् । एवमेव 'इदं नु कदा गन्ता यैवं पादौ निदधाति', देवे वृष्टे__'देवश्चेद्वृष्टः संपन्नाः शाल्यः' इत्यादिप्रयोगोपपत्तिः । आद्ये अद्यतनेऽप्यनद्यतनत्वारोपः, अतिविलम्बगमनप्रत्यायनं प्रयोजनम्, अन्त्ये हेतुभूत- मेघोत्पत्तिगतमतीतत्वं वृष्टौ, तद्गतमतीतत्वं च शालिसंपत्तावारोप्यत इति भूते क्तः । अत एव मेधोत्पत्त्यनन्तरकालेप्युक्तप्रयोगनिर्वाहः । एतेन कार्यसंपत्तितादात्म्यस्य कारणीभूतापूशालिसंयोगेऽध्यासात् तस्यातीतत्वेन वृष्ट्यनन्तरं तथाविधप्रयोगोपपादनेऽपि मेधोत्पत्त्यानन्तरं तदुपपादनासंभव इति शङ्का निरस्ता । एवं ग्रामान्तरं जिगमिषुभिः स्थलविशेषे कूपसत्तानिर्णय- वद्भिर्भाविनि तल्लाभे'कूपो भविष्यति'. अतीते__'कूपोऽभू'दिति प्रयुज्यते, तत्रापि लाभगतभावित्वादेरारोप एव तत्प्रयोगनिर्वाहक इति 'क्षिप्रवचने लृट्', 'लुङ्' इत्यादिसूत्रभाष्ये__इति परे प्रतिपन्नाः ।
ननु श्वो भाविनीत्ययुक्तम्, तृतीयादिदिनभाविन्यपि पाकादौ पक्तेत्यादि- प्रयोगस्येष्टत्वात् । श्व इत्स्य निर्मूलत्वाच्चेत्याशङ्कमान आह__अनद्यतन इति । तथा च तदुपलक्षणं वृत्त्यनुरोधेन तु तदुक्तिरिति भावः । भावित्वं =
भविष्यत्त्वं, तच्च__वर्तमानप्रागभावप्रतियोगिसमयत्वम् । तत्र प्रमाणमाह__ 'अनद्यतन-' इति । तत्र 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते, एवं च 'पक्ते'त्यत्रानद्यतनभविष्यत्कालिकी एककर्तृका पचिक्रियेति बोधः,श्वःपदाद्युप- पस्थापितकालविशेषस्य क्रियायामन्वयो, न प्रत्ययार्थघटकप्रागभावे, न वा तदर्थकर्त्रादौ, प्रागभावस्य पदार्थैकदेशत्वेन 'पदार्थः पदार्थेने'ति व्युत्पत्तिविरोधात्, परश्वे भाविनि, परश्वः पक्तरि च-'श्वो भविता'. 'श्वः पक्ते'त्यादिप्रसङ्गाच्च । परश्व आद्यक्षणप्रारब्धपाकादिस्थले परश्वः पक्ता, परश्वो भवितेत्यादेरनुपपत्तेश्च, परश्वस्तनसत्तादेः प्रागभावे श्वस्तनत्वबाधात् । अन्त्ये तथाविधपाकादिप्रागभावे परश्वस्तनत्वबाधात्, चरमपक्षे श्वःपक्तरि 'परश्वः पक्ते'त्याद्यापत्तेस्तस्याधिकरणकारकत्वेन क्रियान्वयस्यैव न्याय्यत्वाच्च । ननु क्रियायामन्वयाभ्युपगमेऽपि श्वोबाविनि 'परश्वो भविते'ति प्रयोगापत्तिः, धात्वर्थ- सत्तायां परश्वस्तनत्वस्याबाधात्, न च तत्कर्तृकधात्वर्थत्वावच्छेदेन तदन्वयाभ्युपगमान्नेयमापत्तिरिति वाच्यम्, श्वोभाविन्यपि 'श्वो भविते'ति प्रयोगानापत्तेः, परश्वस्तनतदीयसत्तायाः श्वस्तनत्वाभावदिति चेन्न । तत्रोत्पत्त्यर्थः एव धातुतः प्रतीयत इत्युभवात्, श्वःपदाद्युपस्थापितकालवृत्तित्वस्य स्वनिरूपककालोत्पत्तिकत्वविशिष्टाश्रयत्वसंबन्धेन वा क्रियायामन्वयोपगमादुक्त- दोषो निरसनीयः । अनद्यतनभविष्यत्यपि भविष्यत्त्वमात्रविवक्षायां लृडेव, 'सावणको नाम मनुर्भवान् भविष्यति' इत्यादौ यथा, एवमनध्यतनभूतेऽपि भूतत्त्वमात्रविवक्षायां लुङ्, यथा 'सुरथो नाम राजाभूत्' इत्यादौ, अत एवानद्यनत्वादेर्वाच्यत्वाङ्गीकारः । वस्तुतस्तस्य प्रयोगसाधुत्वनिमित्तत्त्वाभ्युपगमे तु 'इयं नु कदागन्ता' 'भवान् भविष्यति' इत्यादिप्रयोगानिर्वाहात् । एवं प्रहरानन्तरमद्यैव गमनकर्तरि देवदत्ते__'गमिष्यति देवदत्तो न गन्ता' इत्यादि- प्रयोगानुपपत्तेश्च भविष्यकालिकदेवदत्तकर्तृकगमनाभावस्य बोधनीयस्य वाधात् । अनद्यतनत्वस्य वाच्यत्वे तु तद्विशिष्टिभविष्यत्कालिकतादृशक्रियाभावस्या- बाधादुक्तप्रयोगोपपत्तिरिति बोध्यम् । एवमादौ भविष्यत्त्वमात्रविवक्षायां लृट् । ततः श्वःशब्दयोगेऽनद्यतनत्वप्रतीतावपि न तस्य निवृत्तिरन्तरङ्हसंस्कारस्यानिवर्तनात् । अत एव 'श्वो यक्ष्ये' इत्यादिप्रयोगोपपत्तिः । 'लृट् शेषे च' इतीति । अत्र 'भविष्यति गम्यादयः' इति सूत्राद् 'भविष्यति' इत्यनुवर्तते । क्रियार्थक्रियावाचकपदासत्त्वं शेषपदार्थः, 'तुमुन्ण्वुलौ क्रियायाम्-' इति
सूत्रोत्तरमेतस्य पाठात् । चकारात् तत्सत्त्वेऽपि लृट् । समयोत्पत्तिमत्त्वमिति । उत्पत्तौ श्वःपदादिप्रतिपाद्यकालविशेषसंबधान्वयेन श्वोभाविनि 'परश्वो भविते'त्याद्यतिप्रसङ्गो न, एतदर्थमेवोत्पत्त्यनन्तरभावः, अन्यथोत्पत्तिमत्त्वस्थाने वृत्तित्वमेव निवेशनीयं स्यात् । तदनन्तर्भावे तु पूर्वोक्ता रीतिरेवानुसर्तव्या ।
विध्यादाविति । आदिना निमन्त्रणादीनां तत्सूत्रोक्तानां परिग्रहः ।
प्रार्थनेतीति । प्रार्थनस्यादिः प्रार्थनमादिर्यस्येति तत्पुरुषवहुव्रीह्योस्तन्त्रेण निर्देश इत्याशयेनाह__आदिना विध्याद्याशिष इति । तत्राशिष्युदाहरति__यथा भवत्विति । आशीः प्रयोक्तृनिष्ठा हितविषयिणीच्छा, तस्या विषयतासंबन्धेन कारकविशिष्टक्रियायामन्वयः, तथा भावात्तदुदाहरणानुपन्यासः । ननु विध्याद्यर्थानिर्णये कथं लेट्लोटोरर्थनिर्णय इत्यत आह__एतयोरिति । तन्निर्णयेन = लिङर्थनिर्णयेन विध्यादीनां लिङविधायके एवोपादानात् तत्रैव तदर्थो निर्णेष्यत इति तात्पर्यम् ।। 22 ।।

का:22
लङादिक्रमेणेति । लङादीनां क्रमो लङादिक्रमस्तेन । तेषां क्रमस्तु लोकप्रसिद्धः । ह्योभूतत्वविवक्षणे दिनादिव्यवहितभूतकाले न स्यादतस्तदुपलक्षणमित्याह__अनद्यतने भूत इति । तत्र प्रमाणमाह__'अनद्यतने लङ्' इतीति ।
भृत्यादेरिति निकृष्टोक्तिः__स्वसमानोत्तमयोः प्रवर्तनायामतिव्याप्तिवारणाय । आज्ञप्यत्वेन निकृष्टत्वं विवक्षितमिति बोधयितुं-भृत्यादेरिति । अत एव स्वापेक्षयाधिकवयस्कभृत्यादिप्रेरणायाः संग्रहः । प्रवर्तनं च प्रेरयित्रभिलषित- विषयकं बोध्यम् । इयमेवाज्ञेत्युच्यते । अप्रवृत्तप्रयोज्यस्य तदभिलषिताज्ञातोपायप्रवर्तनमुपदेशः । यथा 'स्वर्गकामो यजेत' यथा वा 'अनेन पथा याहि' इति । आद्ये स्वर्गोऽभिलषितः । अन्य्ते काश्यादिप्राप्तिः । आवश्यके इत्यस्य 'श्राद्धभोजनादा'विति शेषः । कामचारेति । स्वाभिलषिते कामचारेण प्रवर्त्यप्रवर्तनम्, कामचारश्च प्रवर्त्यस्यैव' । प्रवृत्तस्य प्रयोज्यस्य निवृत्तिप्रतिबन्धद्वारा तद्धिते प्रवृत्तिप्योजिकोक्तिरनुज्ञा,__आरब्धं कुर्वेवेत्येवमात्मिका । 'तथा कुरुष्व यथा हितम्' इत्युक्तिरप्यनुज्ञैव । एतत् सर्वमामन्त्रणपदेनोपलक्ष्यते ।
सत्कारपूर्वको व्यापार इति । यथा 'मां पाठय' इति । एषैवाभ्यर्थनेति गीयते । प्रार्थना तु स्वाभिलषितवस्तुदानादिप्रवतिकोक्तिः । एतच्चतुष्टयेति । अधीष्टान्तचतुष्टयानुगतं यत् प्रवर्तनात्वं तेनेत्यर्थः । स्वाभिलषितदानादि- विषयकेच्छा प्रार्थनं, तच्च न प्रवृत्तिजनकमन्यथासिद्धत्वादित्यभिप्रेत्य__ चतुष्येत्युक्तम् । वक्ष्यमाणहरिकारिकायां चतुर्णामित्यप्येवमेव, पूर्वोक्तस्वरूपत्वे तु पञ्चानुगतेति बोध्यम् । एवं कारिकास्थचतुर्णामित्यपि प्रार्थनस्योपलक्षणं बोध्यम् ।
प्रवर्तनेति । प्रवर्तनाया रूपं-प्रवर्तनात्मित्यर्थः । तत्रैव = प्रवर्तनात्ववत्येव । प्रवर्तनात्वमखण्डोपाधिः । आकृत्यधिकरणन्यायेन धर्ममात्रशक्तिरिति मते तु यथाश्रुतमेव साधु । अथवा तत्रैव = तस्मिन् सत्येव । एवं च तद्विषिष्ट विधानवाभः । न्यायेति । विधिपदार्थविवरणार्थमित्यर्थः । यद्वा विध्याद्यनुगतप्रवर्तनात्वरूपेण वाच्यतेति बोधनार्थमित्यर्थः । ननु लोकव्युत्पत्त्यैव तदवगमो भविष्यतीत्यत आह__प्रपञ्चार्थमिति । आदित__आदावित्यर्थः । आद्यादित्वात्तसिः । तथा च 'प्रवर्तनासंप्रश्रयोलिङ्' इति सूत्रं कर्तव्यमिति भावः । प्रवृत्तिजनकेति । प्रवृत्तिजनकं यज्ज्ञानं तद्विषयतावच्छेदकमित्यर्थः । भवति हि यागो मदिष्टसाधनमिति ज्ञानं प्रवर्तकं,-तदीययागनिष्ठविशेष्यतात्मक- विषयतानिरूपकत्वरूपं तदवच्छेदकत्वमिष्टसाधनत्वस्येत्यर्थः । तादृशज्ञानीयविशेष्यतानिरूपितप्रकारतालाभार्थ विषयत्वमपहाय विषय- तावच्छेदकत्वानुसरणम् । एतेनेष्टसाधनत्वे तादृशज्ञानविषयतायाः स्वरूप- संबन्धरूपावच्छेदकत्वं न संभवति, यागविशेष्यताया इष्टसाधनत्वप्रकारता- निरूपिताया इष्टसाधनत्वानवच्छेद्यत्वादिति दूषणं निरस्तम् । तच्च = उक्तविधिप्रवर्तनात्वं च । तदेव = इष्टसाधनत्वमेव, तादृशप्रवर्तनात्वप्रकारेण बोधाननुभवे तूपलक्षणीभूय वाच्यतावच्छेदकत्वं तस्येति बोध्यम् । अन्यथा पुनार्विशेषणीभूय तदवच्छेदकत्वं बोध्यम् । मीमांसकानां पुनर्विशेषणत्वपक्षे निर्भरो दृश्यते । ननु कृत्यसाध्यतानिश्चयविषयसुमेर्वानयानादौ प्रवृत्तिवारणाय कृतिसाध्यताज्ञानस्यापि प्रवृत्तिहेतुत्वभभ्युपेयम् । न च कृत्यसाध्यतानिश्चयस्य प्रतिबन्धकत्वकल्पनयैवोपपत्तावलं कृतिसाध्यताज्ञानस्य हेतुतयेति वाच्यम् । तादृशनिश्चयाभावत्वेन कारणत्वापेक्षया कृतिसाध्यताज्ञानत्वेन कारणत्वे लाघवात् तत्कल्पनस्यैवोचितत्वादित्याशङ्क्य निराचष्टे__यद्यपीत्यादिना । एतत् =
प्रवर्तनात्वम् । लोकत एवावगम्यत इति । यागो मत्कृतिसाध्यः, मत्कृतिसाध्यत्वविरोधिधर्मानधिकरणत्वादित्याद्यनुमानेनेत्यर्थः । स्वर्गादीष्ट- साधनत्वं तु न लोकतोऽवगन्तुं शक्यते अपि तु वेदेनैवेति__तत्र शक्तिकल्पनावश्यकीति भावः । अन्ये तु कृतिसाध्यताज्ञानं न प्रवर्तकं, तदसाध्यत्वेन निश्चिते प्रवृत्तिस्तु न, तत इष्टाभावेन वृथा श्रमजनकत्वेन द्वेषात् । 'चिकीर्षानुरोधेन तत्र शक्तिकल्पनमावश्यकमन्यथा कृतिसाध्यताज्ञानविरहेण कृतिसाध्यत्वप्रकारकेच्छात्मकचिकीर्षानुपपत्ते'रिति तु न शङ्क्यम्, लोकत एव तदनुगमेन चिकीर्षोपपत्तेः । न चानिष्टजनके उदासीने च 'कष्ट कर्मे'ति न्यायेन वृथा श्रमजनकत्वेन द्वेषादेवाप्रवृत्त्युपपत्ताविष्ट- साधनताज्ञानस्यापि प्रवृत्तिहेतुतानापत्तिरिि वाच्यम्, इष्टाजनके आन्तरालिकश्रमे द्वेषाभावदशायामप्रवृत्तेः सर्वसिद्धतया तदनुरोधेन तज्ज्ञनस्य तद्धेतुत्वादित्याहुः । ननु मधुविषसंपृक्तान्नभोजनादौ प्रवृत्तिकरणाय बलवदनिष्टाजनकत्वज्ञानस्यापि प्रवृत्तिहेतुत्वं कल्पनीयं, तथा च तत्रापि शक्तिरावश्यकीत्याशङ्कां निराकुरुते__ बलवदिति । बलवदुत्तया यागपाकादेरपि नान्तरीयकाल्पदुःखजनकतया यागादौ प्रवृत्त्यनापत्तिनिरस्ता । द्वेषाभावेनेति । वह्णायाससाध्ये बहुतरदुःखजनकतया प्रवृत्त्यनापत्त्या बलवदनिष्टाजनकत्वज्ञानं न प्रवृत्तिहेतुः, अपि तु तज्जन्यदुःखविषयकद्वेषप्रयुक्तस्तद्विषयकद्वेषस्तत्र प्रवृत्तौ प्रतिबन्धकस्तदभावो हेतुरित्यवश्यमाश्रयणीयम् । यागादिजन्यस्वर्गादिफले रागौत्कट्येन यागादिजन्यदुःखे द्वेषानुत्पादेन तत्र प्रवृत्तिनिष्प्रत्यूहैव, एवं च तदभावादेव भधुविषसंपृक्तान्नभोजने प्रवृत्तिनिर्वाहे__तेनान्यथासिद्धं बलवदनिष्टा- जनकत्वज्ञानं__ न प्रवृत्तिहेतुरित्यर्थः । ननु नान्तरीयकदुःखाधिकदुःखाजनकत्वं_ बलवदनिष्टाजनकत्वं, तज्ज्ञानस्य हेतुतया न बह्णायाससाध्ये प्रवृत्त्यनापत्तिस्तज्जन्यबहुतरदुःखास्यापि बलवत्त्वाभावात्, न चावश्यकद्वेषाभावेन तस्यान्यथासिद्धिरिति वाच्यम्, स्वतन्त्रान्वयव्यतिरेकशालितयोक्तज्ञानस्य हेतुत्वावश्यकत्वात् । द्वेषाभावदशायां तथाविधज्ञानं विना प्रवृत्त्यापत्तेश्चेत्या- शङ्क्य व्भिचारान्न हेतुत्वं तस्येत्याह__आस्तिकेत्यादिना । आस्तिकत्वोत्कीर्तनं परकीयसुन्दरीगमने नरकसाधनताज्ञानसत्त्वावश्यकत्वसूचनाय, तेन तथाविधज्ञानविधुरनास्तिकस्य परकीयकामिनीप्रवृत्तौ न व्यभिचारस्तस्य बलवदनिष्टाजनकत्वज्ञानस्यापि संभवादिति शङ्काव्युदासः ।
'दशाया'मित्यन्तेन तदभावदशायां प्रवृत्तौ नरकाजनकत्वज्ञानस्य भ्रमरूपस्य संभवेन तस्य व्भिचाराभावेऽपि न क्षतिरिति सूचितम् । व्यभिचारा् = व्यतिरेकव्यभिचारात् । तथा च नियतान्वयव्तिरेकावसिद्धौ, क्काचित्कान्वय- व्यतिरेकौ त्वकिचित्करौ, तादृशज्ञानं विना द्वेषाभावदशायां प्रवृत्ताविष्टापत्तिश्चेति भावः । उपसंहरति__तस्मादिति । कृतिसाध्यत्वस्य लोकावगतत्वात्, बलवदनिष्टाननुवन्धित्वस्य च प्रवृत्त्यनुपयोगादित्यर्थः । इष्टेति । इष्टसाधनत्वमेवात्र प्रवर्तनात्वेन वाच्यमित्यर्थः, यथाश्रुतं तु न संगच्छते, कृतिसाध्यत्वस्यापि प्रवर्तनात्वात् । कृतिसाध्यताज्ञानस्य हेतुत्वाभावाभिप्रायको वायं ग्रन्थः । पुंसामिति । पुंसां = प्राणिनाम् । इष्टाभ्युपायत्वात्__ इष्टाभ्युपायत्वम् = इष्टसाधनत्वं__तस्मात् । अन्यः प्रवर्तको न = प्रवर्तकज्ञानविषयो न, अपि त्विष्टसाधनत्वमेव तथेत्यर्थः । कृतिसाध्यताज्ञानन्त्वन्येतुमतरीत्या प्रवृत्तिहेतुरेव नेति बावः । ननु कथं तस्य प्रवर्तनापदव्यवहार्यत्वमत आह__प्रवृत्तीति । प्रोपसृष्टवृतेर्हेतुमण्णिजन्ताद् भावे युचि निष्पन्नप्रवर्तनापदं प्रवृत्तिप्रयोजकव्यापारपरमिति भावः । अत एव 'सर्व इमे स्वभूत्यर्थ यतन्ते' इति 'हेतुमति च' इति सूत्रे भाष्ये उक्तम् । अत्रदं बोध्यम्__'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादौ देवतोद्देशेन द्रव्यत्यागो यज्यर्थः फलं' तस्य तदर्थकृत्यादिरूपभावनां प्रति करणत्वेनान्वयः, तस्यामेवेष्टसाधनत्वान्वयः, एवं च भावनादतस्येष्टकरणत्वस्य लिङाभिधानेऽपि भावनाभाव्यनिवर्तकत्वरूपभावनानिरूपितयागनिष्ठकरणत्वस्यानभिहिततया तत्समानाधिकरणज्योतिष्टोमादिपदात् तृतीयासिद्धिः, ज्योतिष्टोमादिनामधेयमपि यागस्यैव, तद्घटितकर्मकलापे तथा व्यवहारस्तु गौणस्तस्य स्वर्गकरणत्वव्यवहारोऽप्येवमेवेति । अयं भावः__इष्टसाधनत्वज्ञानस्य प्रवृत्तिसामान्ये हेतुत्वात् तस्यैव विधिप्रत्ययार्थत्वमुचितं, न तु लिङादिघटितप्रयोगादिरूपप्रवर्तानायाः, तस्या वाच्यत्वपक्षेऽपि आप्तोक्तया तया इष्टसाधनत्वमनुमायैव प्रवृत्तिरित्यवश्यमभ्युपेयम्, तथा च यजेतेत्यादिवाक्यजन्यबोधोत्तरं सर्वत्र तदनुमितितत्साधनसामग्रीकल्पनायामति- गौरवं, व्याप्त्यादिमतिविधुराणामनुभवसिद्धप्रवृत्त्यनिर्वाहश्च,
न चैतन्मते बहुवित्तायाससाध्यज्योतिष्टोमादौ 'ज्योतिष्टोमेने'त्यादिवाक्यात् प्रवर्तकज्ञानानिर्वाहः, विशिष्य स्वर्गादिरूपफलसाधनताज्ञानस्यैव तत्रापेक्षितत्वात्,
यजेतेत्यादितश्चेष्टसाधनं यागो यागाविषयिणी प्रवर्तनेत्यादिबोधस्यैवोत्पत्तेः, स्वर्गत्वाद्यवच्छिन्नसाधनत्वशक्तौ शत्तयानन्त्यमिति वाच्यं, तदादिन्यायेनेच्छा- विषयत्वावच्छेदकत्वेनोपलक्षणीभूतेन स्वर्गत्वादीननुगमय्य तदवच्चिन्ने साधनत्वे शक्तिस्वीकारेणादोषात्, चिकीर्षादिनान्यथासिद्धिस्तु न, व्यापारेण व्यापारिणो- ऽन्यथासिद्धत्वाभावात्, अन्यथा संनिकर्षेणेन्द्रियस्यापि प्रत्यक्षं प्रत्यन्यधासिद्धया- ऽकारणात्वापत्तेः, स्वतन्त्रान्वयव्यतिरेकितयेन्द्रियं नान्यथासिद्धमिति चेत्, प्रकृतेऽपि तुल्यम्, नन्विदं 'नेष्टसाधनं तस्मात् त्वं कुर्वि'ति प्रयोगानुपपत्तिः, पौनरुत्तयापत्तेः । न चेदं पौनरुत्तयमेकान्तत इष्टसाधनत्वबोधनाय, किं च प्रवर्तनात्वेनेष्टसाधनत्वस्य लिङादिवाच्यतया न पौनरुत्तयमेवेति वाच्यं, तस्मादित्यस्यानन्वयापत्तेः, अभेदे हेतुहेतुमद्भावासंभवादिति चेन्न, कुर्वित्यस्यावश्यकर्तव्यार्थकतयाऽदोषात्, परमतेऽप्य'त्र मया प्रवर्तितोऽतस्त्वमिदं कुर्वि'त्यत्रेत्थमेव वाच्यत्वाच्च, न च 'शज्ञा प्रवर्तितोऽह'मित्यादिव्यवहारात्__ प्रवर्तना प्रवर्तकपुरूपनिष्ठा__सैव विधिप्रत्ययेनोच्यते, अत एव 'विधिनियोग'इति वात्स्यायनोऽप्याह, इष्टसाधनत्वन्तु न प्रवर्तकपुरुषनिष्ठमिति न तल्लिङादिवाच्यमिति वाच्यम्, इष्टसाधनत्वस्यापि स्वज्ञापनवत्त्वसंभन्धेन प्रवर्तकनिष्ठत्वादिष्टसाधनताज्ञानस्यापि तन्निष्ठत्वात्, प्रवर्त्येष्टसाधनत्वं ज्ञात्वैव वाक्यप्रयोगकरणात्, लिङाद्यन्तप्रयोगरूपव्यापारस्यापि 'ज्योतिष्टोमेने'त्यादि- प्रवर्तकवेदनिष्ठत्वात्तदभावाच्च, तद्बोधाननुभावाच्च, लाघवात्प्रवृत्त्यनुकूलधर्मस्यैव प्रवर्त्तनापदार्थत्वं, न तु प्रवर्त्तकनिष्ठत्वस्य तत्रान्तर्भाव इत्यस्यापि वक्तुं शक्यत्वाच्च, न च तथा 'हेतुमति च' इति सूत्रे भाष्ये__'पृच्छतु मा भवानित्यत्र णिच् कस्मान्न भवति' इति प्रश्ने,__उत्तरम्__'अकर्तृत्वात्' इति । क्रियाविशिष्टप्रेरणायां णिच्, 'हेतुमति च' इति सूत्रेण हेतुव्यापारे णिज्विधानात्, कर्तुः प्रयोजकस्य हेतुत्वान्निष्क्रियद्रव्यमात्रप्रेरणायां लोङ्विधानादिति तदाशयः, तदुक्तम्__ 'द्रव्यमात्रस्य तु प्रैषे पृच्छयादेर्लोड् विधीयते ।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ।।' इति ।
प्रयोजनं = प्रयोगः, प्रेरणमिति यावत्,न च सक्रियस्य प्रेरणा निरर्थकेति वाच्यम्, आलस्यादिना विरामाभावशङ्कया तत्सार्थक्यात्, ननु संभाविततत्तत्क्रियाकर्तृत्ववानेव प्रेष्यते, तत्र णिच् प्रत्यय इष्यते, 'तत्प्रयोजक' इत्यत्र तत्पदेन व्यापाराविष्ट एव गृह्यते इत्यत्र नाग्रह इत्यशयेन 'अथापि
कथंचित् कर्ता स्यादेवमपि न दोषः, लोटोक्तत्वादस्मिन्न भविष्यति' इति द्वितोयमुत्तरमुक्तं तद्विरोधः, इष्टसाधनत्वस्य लोटोक्तत्वेऽपि तस्य णिजर्थत्वाभावेन तदसंगतेः स्पष्टत्वादिति वाच्यं, लोटा प्रवर्तनात्वेन रूपेण प्रवर्तनासामान्यस्योक्तेरित्याशयात्, यद्वा लोटोक्तत्वं गम्यमानं, तथा च लोडन्तप्रयोगेण शाब्दबोधोत्तरं प्रेरणायाः प्रतीयमानत्वान्न णिजिति तात्पर्यादित्याहुर्मंण्डनमिश्रानुयायिनः ।
अन्ये तु मीमांसकाः शाब्दकाश्चोक्तभाष्यादिबलात् प्रवर्तनेष्टसाधनत्वातिरिक्तैव विङाद्यर्थ इति प्रतिपन्नाः, स च द्योत्यैव, पचेतेत्यादितो विनापि प्रत्ययं तत्प्रतीतेः, अत एव तस्या धात्वर्थविशेषणत्वं, द्योत्यत्वेऽपि तस्या विशेष्यत्वमिति तु न, द्योत्यार्थानां विशेषणताया एव 'हेतुमति च' इति सूत्रभाष्यसिद्धत्वेन युक्तत्वात्, किं च तस्या विशेष्यत्वे प्रवर्त्यस्य प्रधान- धात्वर्थव्यापाराश्रयतयाऽकर्तृत्वे तत्र पचेतेत्याद्यनुपपत्तिः, किं च 'स्वाध्यायोऽध्येतव्य' इत्यादिवाक्यात् प्रवर्तनाविशेषणकस्यैव बोधस्योत्पादेन सर्वत्र तस्या विशेषणत्वस्वीकारस्यैवोचितत्वाच्चेति प्राहुः ।
यत्तु प्राभाकराः- आशुतरविनाशिनो यागादेः कालान्तरभाविस्वर्गादि- साधनत्वस्य ग्रहीतुमशक्यत्वान्नेष्टसाधनत्वं विध्यर्थः, द्वारानुपस्थित्या च न परंपरया साधनत्वस्यापि ग्रहः संभवति, योग्यताज्ञानस्य शाब्दबुद्धिहेतुत्वात्, सा-चान्वयप्रयोजकरूपवत्त्वं, यथा 'घटेन जलमाहरे'त्यत्र सच्छिद्रेतरघटत्वं, न चैवमपि साधनत्वसामान्येन बोध उपपद्यत एवेति वाच्यं, एकाविशेषबाधे सामान्यज्ञानस्य तदितरप्रकारकत्वनियमात्, तस्मात् कार्यत्वरूपेणापूर्व लिढादिशक्यं, कार्यत्वरूपेण घटादौ शक्तिग्रहात् योग्यतावशादपूर्वव्यक्तिलाभः, न हि यागविषयकं कार्यमपूर्वादन्यत् संभवति, न च ज्ञानादिकं तादृशं संभवत्येवेति वाच्यं, कार्ये स्वर्गकामस्य नियोज्यनियोजकभावलक्षणान्वयाङ्गीकारेणादोषात्, तथा हि कामी नियोज्यो, नियोजकं कार्य, नियोजकत्वं तत्कामिकार्यतया प्रतीयमानत्वम्, अत्र चान्वयप्रयोजकं काम्यसाधनत्वं, न हि कामी काम्यादन्यत् काम्यासाधनत्वेन ज्ञातं कार्यतयावैति । यागविषयकज्ञानादिकं न काम्यस्वर्गादिसाधनमतो योग्यताबलाद्यागविषयकं कार्य स्वर्गकामीयं, स्वर्गकाप्रो यागविषयककार्यवानिति वा शाब्दानुभवो जायमानोऽपूर्वालम्बनो भवति, एवं च काम्ये क्लृप्तशक्तिर्लिङगदिर्निमित्तिकयोर्निषेधे चाऽपूर्ववाचकः, फलाश्रवणाच्च तत्र
फलालाभः, वैदिककर्मण्युद्देश्यत्वेन बोधितापूर्वमुद्दिश्यैव हि प्रवर्तते, एवं च काम्ये फलावाप्तिरानुषङ्गिकी, नित्येऽप्यपूर्वस्योद्देश्यस्य सत्त्वा् प्रवृत्तिः, तस्मात् कृत्युद्देश्यरूपं कार्यमेव शक्यमिति प्रोचुः ।
अत्र तार्किकादयः प्रत्यवतिष्ठन्ते,__अपूर्वस्य वाच्यत्वे मानाभावः, न चोक्तानुपपत्तिरेव मानाम्, एकविशेषबोधेऽपि सामान्यपूपेणैव तदितरबोधः, 'घटेन जलमाहरे'त्यत्र हि योग्यतया वस्तुतो यश्छिद्ररहितो घटः स घटत्वेनैव बोधविषयो भवति, न तु सच्छिद्रेतरत्वविशिष्टघटत्वेन, तदुपस्थापकाभावात्, न च लक्षणया घटपदेनैव तेन रूपेणोपस्थितिर्मानाभावात्, न चान्वयप्रयोजक- रूपत्त्वपूपयोग्यताज्ञानस्य हेतुतया तदुपस्थितिरावश्यकीति वाच्यं, वृत्त्या पदजन्यपदार्थोपस्थितेरेव शाबद्बोधहेतुतया तेन रूपेण भानासंभवात्, उपस्थिताबाधितपदार्थान्तरभानप्रसङ्गाच्च, एवं च साधनत्वसामान्य- बोधानुपपत्तिः, ननु तथाप्यशुतरविनाशिनः कालान्तरभाविफलजनकत्वे फलसमयस्यापि व्यापारजनकत्वस्य योग्यतयाऽपूर्वानुपस्थितौ तादृगयोग्यता- ज्ञानासंभवाद्यगादावपीष्टसाधनत्वं ग्रहीतुमशक्यमेवेति चेन्न, द्रवद्रव्यत्वस्य करकात्मकजलेऽपि सत्त्वेन तदभिप्रायक'पयसा सिचती'तिवाक्यस्यापि योग्यत्वापत्त्या तज्ज्ञानदशायां 'सेको नैतज्जलकरणक' इति बाधकप्रमासमयेऽपि तज्जलकरणकशाब्दबोधापत्त्या चान्वयप्रयोजकरूपवत्त्वस्य योग्यतात्वानभ्यु- पगमात्, अपि तु तत्पदार्थे तत्पदार्थवत्त्वस्यैव तत्त्वाभ्युपगमात्, संशयनिश्चय- साधारणतज्ज्ञानस्यैव कारणतया तन्निश्चयासंभवेऽपि संशयात्मकतज्ज्ञानस्य संभवात्, कार्यताज्ञानस्य लोके प्रवतकत्वदर्शनात्, कार्यत्वेनापूर्वमेव विध्यर्थ इत्यपि न युक्तं, कृतिजन्यत्वरूपस्य धात्वर्थनिष्ठस्यैव प्रवर्तकत्वादपूर्वस्य तथात्वसंभावनापि न, तादृशस्य लोकत एव संभवाच्चेत्याद्युक्तमेवेति । यतु__ निष्फले सन्ध्यावन्दनादौ बाधादिष्टसाधनत्वं न विध्यर्थ इति, तन्न, प्रवृत्तिमात्रे इष्टसाधनताज्ञालस्य हेतुतया तत्र प्रवृत्त्यनुपपत्तेः । न च वेदबोधितापूर्वोद्देशेनैव प्रवृत्तिरिति वाच्यं, तद्रूपमेवेष्टमादायोष्टसाधनत्वस्य विध्यर्थत्वोपपत्तेः । वस्तुतः__सुखदुःखाभावान्यतररूपत्वाभावेनेष्टसाधनत्वाभावेन च तदुद्देशेन प्रवृत्तिर्न संभवत्येन, न च वेदबोधितत्वान्निष्फवेऽपि प्रवृत्तिः, निष्फलत्वज्ञानदशायां वेदबोधितत्वज्ञानेऽप्यप्रवृत्तः, तदुक्तं 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति, तस्मात् प्रत्यवायपरिहार फलं नित्येऽपि भवति । न च__

'अफलाकाङक्षिभिर्यज्ञो विधिदृष्टो इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ।।'
__इति भगवद्रगीताविरोध इति वाच्यम् ।
'यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् ।
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।।
कर्तव्यानीति मे पार्य ! निश्चितं मतमुत्तमम् ।।'
__इत्यष्टादशाध्याये पावनत्वोक्तेः । सङ्गः = कर्तृत्वाभिमानः, तथा चानुद्दिष्टस्यापि प्रत्यवायपरिहारस्य फलत्वेन फलामुसंधानं विनापि क्रियामाणस्य पावत्वं भवतीति भावः । अत एव नित्यज्योतिष्टोमादेः स्वर्गादिसिद्धये करणेऽपि नित्यप्रयोगसिद्धिरिति सिद्धान्तः संगच्छते । नित्यस्य सर्वथा निष्फलत्वनियमे तु तदसंगतिः स्पष्टैव, किं चार्थवादिकमपि फलं रात्रिसत्रन्यायेन तत्र वक्तुं शक्यं, रात्रिसत्रे हि 'ज्योतिर्ज्योति'रित्यादिकफलशून्यवाक्यबोधिते 'प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती'त्यर्थवादोक्तं प्रतिष्ठात्मकं फलं स्वीकृतं, तद्वदत्रापि,__
'सन्ध्यामुपासते ये तु सततं संशितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं समातनम् ।।'__
__इत्यर्थवादोक्तफलसंभवः, अन्यथा एतस्य__
'एतत् सन्ध्यात्रयं प्रोक्तं ब्राब्मण्यं यदधिष्ठितम् ।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ।।'__
__इत्यस्य वचनस्य च वैयर्थ्यापत्तिः । न च स्तावकत्वमात्रेणोपयोग इति वाच्यं, 'सर्वेभ्यः कामेभ्यो दर्शबूर्णमासौ, सर्वेभ्यः कामेभ्यो ज्योतिष्टोम' इत्येतयो- रपि तथात्वापत्तेः, न च चतुर्थीसाचिव्येन फलबोधकत्वम्, 'ऊर्जोऽवरुध्यै' इत्यत्रेवार्थवादत्वेनैवोपपत्तोः, किं च स्तावकत्वेनोपयोगेऽपि स्तुतिवैयर्थ्य दुर्वारमेव, प्ररोचनार्था सेति न शङ्कयं, प्ररोचनाया एव निष्फलत्वापत्तेः, 'बहुदुग्धेयं धेनु'रिति वाक्याप्रामाण्यज्ञानसत्त्वे तद्वाक्यादिव, अर्थवादानामप्रमाण्यं जानतः प्रवृत्त्यसमवेतप्रवृत्तिफलकताया स्वीकर्तुमशक्यत्वात्, ननु स्वर्गाद्यर्थकतायामप्रामाण्येऽपि तत्तात्पर्यविषयीभूतप्राशस्त्ये प्रामाण्यं संभवत्येवेति चेन्न, तत्तत्फलसाधनत्वातिरिक्तप्राशस्त्यस्य कुत्राप्यकल्पनात्, तज्ज्ञानस्य प्रवृत्त्यनुपयोगाच्च, तस्मात् स्वार्थे एवैषां प्रामाण्यमभ्युपगन्तव्यम्, एवं च 'सन्ध्यामुपासीते'ति विधित इष्टावगमेऽपि अवान्तररूपेण बोधनद्वारा
शीघ्रेत्पत्तिप्रत्यायनद्वारा वा प्रवृत्तिविशेषसंपत्तिफलका अर्थवादा इति ध्येयम् । अत एव 'सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात्' इति सर्वशक्त्यधिकरण- पूर्वपक्षसूत्रे 'काम्यं यथा फलायोपदिष्टं तथा नित्यमपि' इत्युक्तं भट्टाचार्यैः । न च नित्येऽपि फलजनकत्वस्वीकारे नित्यत्वहानिरिति वाच्यं, प्रत्यवाय- परिहारातिरिक्तफलाजनकत्वरूपस्य, प्रत्यवायकारणीभूताभावप्रतियोगित्वरूपस्य वा नित्यत्वस्याक्षतत्वात् । काम्यत्वमपि स्यादित्यपि न, इष्टापत्तेः, प्रत्यवायपरिहीरातिरिक्तफलजनकत्वम्, उक्तनित्यभिन्नत्वविशिष्टफलजनकत्वं काम्यत्वमित्यभ्युपगमाद्वा । ननु यत्रार्थवादिकं फलं नास्ति तत्र प्रत्यवायपरिहारस्य फलत्वं न युक्तं, दुरितध्वंसरूपस्य तस्य सुखदुःखाबावान्यत्वादिष्टाजनकत्वाच्चेच्छाविषयत्वाभावात्, न च प्रत्यवाय- परिहीरस्य दुःखानुत्पादफलकत्वादिष्टत्वमिति वाच्यं, प्रागभावरूपस्य तस्योक्तक्रमेणेच्छाविषयत्वरूपफलात्वाभावात् । न च दुःखात्यन्ताभाव एव फलतामाप्नोत्विति वाच्यम्, प्रागभावात्यन्ताभावयोविरोधेन तदा तस्य तत्रासत्त्वादिति चेन्न, तयोविरोधस्य दीधितिकारेणैव तिरस्कृतत्वात्, न च तथापि तस्य नित्यतया तज्जनकत्वासंभवः स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वे यदव्यवहितोत्तरक्षणे यत्सत्त्वं यदसत्त्वे यदसत्त्वमित्येवंरूपस्य योगक्षेमसाधारण- जन्यजनकभावस्य संभवादित्यलं पल्लवितेन । [अत एवान्तरा श्यामदशायामत्यन्ताभावविषयको 'रक्तं रुपं नास्ती'ति प्रत्यय उपपद्यते, ध्वंसाद्यवलम्बन एवासाविति चेन्न, मध्ये रक्तेऽपि तथाप्रत्ययप्रसङ्गादिति दिक् ।]
'न कलञ्जं भक्षये'दित्यादौ नञ्समभिव्याहृतलिङादेरनिष्टसाधनत्वमर्थो, नञ् तात्पर्यग्राहको, न त्वभावार्थकः, कलञ्जभक्षणादावपि तृप्त्यादिरूपेष्ट- साधनत्वसत्त्वेन तदबावस्य बोधयितुमशक्यत्वात्, नापि कलञ्जभक्षणाभाव इ,्टसाधनमिति बोधः स्वीकर्तु युक्तः, प्रत्ययार्थप्रकृत्यर्थयोरन्तरा पदार्थान्तर- प्रवेशस्याव्युत्पन्नत्वात्, 'नानुपमृद्य प्रादुर्भावा'दित्यादावप्यारोपितप्रादुर्भावहेतुकत्व- बोधस्यैव शब्दतोऽङ्गीकारेण न प्रकृतिप्रत्ययार्थमध्यनिवेशो नञर्थाभावस्येति बोध्यम् । प्रादुर्भावाभावहेतुकत्वबोधस्तु मानसः, किं च तथाबोधाङ्गीकारे कलञ्जभक्षणादेनिवृत्तिजनकज्ञानानुत्पादनेन नञ्घटिततादॉसवाक्यस्य निवर्त- कत्वानुपपत्तिः, न च यदभावो यस्येष्टसाधसतया बोध्यते तत्तस्यानिष्टसाधनमिति
व्याप्त्या कलञ्जभक्षेणेऽनिष्टसाधनत्वानुमानान्नोक्तदोष इति वाच्यम्, अप्रयोजकत्वात्, ग्रीष्मसमये सूक्ष्मकम्बलाद्यभावस्य सुकविशेषजनकत्वबोधेऽपि तस्यानिष्टसाधमत्वाभावात्, सूक्ष्मकम्बलादेः शीतसमयेऽनिष्टजनकत्वाभवेऽपि ग्रीष्मकाले दुःखात्मकानिष्टजनकत्वस्यानुभूयमानतयोक्तव्याप्तेः सुस्थत्वमिति चेतथापि वाक्यस्य साक्षान्निवर्तकज्ञानजनकत्वानिर्वाहः, त्तथाविधव्याप्तिप्रति- संधानशून्यस्यानुमित्यनुपपत्तिश्च, किं च विधिनिषेधवाक्ययोस्तथा सत्येकार्थत्व- मेव स्यात्, तच्च न युक्तम्__
'अन्तरं यादृशं लोके ब्रह्माहत्याश्वमेधयोः ।
दृश्यते तादृगेवेदं विधानप्रतिषध्योः ।। इति ।'
यन्मते इष्टसाधनत्वातिरिक्तप्रवर्तना लिङाद्यर्थः, तन्मते निवृत्यनुकूल- व्यापाररूपनिवर्तनां लिङादिः प्रतिपादयति, नञ् द्योतकः, नञः स्वसंबन्धि- प्रतिपक्षबोधकत्वस्वभावात्, अत एवास्तीत्यनेन संबध्यमानो नञ् सत्त्वप्रतिपक्ष- भूतमसत्त्वं गमयति ।
परे तु 'न कलञ्ज'मित्यादावारोपितं कलञ्जभक्षणं प्रवर्तनाविषय इति वाच्योऽर्थः, कलञ्जभक्षणाभावः प्रवर्तनाविषय इत्युदीच्यो मानसबोधः, 'तत्तु समन्वयात्' इति सूत्रभाष्ये शङ्कराचार्या अपि__'न ब्राह्मणं हन्या'दित्यादौ हन्त्यर्थानुराग्येष नञ्, एष एव च नञ्स्वभावो यत् स्वसंबन्धिनोऽभावबोधनं, निषेध्याभावबुद्धिश्च निषेध्यविषयौदासीन्ये कारणमित्याहुः । औदासीन्यं = निवृत्तिः । प्रवृत्त्यभावसमानाधिकरणो 'निवर्तते' िति पदगम्यः क्रियाविशेषो निवृत्तिर्न तु प्रवृत्त्यभावरूपा, निवृत्त्यभावस्य प्रवृत्तिरूपतापत्तेः, विनिगमनाविरहात्, तस्मात् प्रवृत्तिवन्निवृत्तिरपि पदार्थान्तरमेवेति प्राहुः ।
अन्ये तु__पूर्वमुपवणितमुदीच्यबोधमेव वाक्यार्थबोधमङ्गीचक्रुः, एतन्मते नानुपमृद्य प्रादुर्भावात्'पटो न दण्ड'दित्यादाविव व्युत्पत्तिवैचित्र्येण प्रकृतिप्रत्यययोरन्तरा नञर्थाभावस्य प्रवेशाङ्गीकारान्नानुपपत्तिरितिध्येयं । ननु गङ्गास्रानादितोऽपि स्वर्गात्पत्तेः पुराणप्रसिद्धतया 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादिश्रुत्या दर्शपूर्णमासादेरपि स्वर्गसाधनत्वबोधनेन तद्व्यभिचारेण ज्योतिष्टोमादौ तत्साधनत्वबाधात् कथं तद्बोधनीयमिति चेदत्राहुर्भूषण- कारादयः,__विजातीयस्वर्गसाधनत्वे एव शत्तया तादृशस्वर्गसाधनत्वमेव तेन वाक्येन बोध्यते, तच्च तत्राबाधितमेव, यद्यपि 'स्वर्गकामे'ति समुदायान्तर्गत__
'स्वर्गपदसमुत्थापितस्वर्गसाधनत्वमेव प्रत्यासत्तिन्यायेन लिङ्शख्यमित्यनुमन्यन्ते निबन्धकृत, स्वर्गपदं च स्वर्गत्वेनैव बोधकं न तु विजातीयस्वर्गत्वेनेति नोक्तरीत्या विजातीयस्वर्गसाधनत्वे शक्तिसंभवस्तथापि वाक्यान्तरपर्यालोचनसाचिव्येन विजातीयस्वर्गसाधनत्वे मनसोपस्थिते शक्तिग्रहसंभवेन नानुपपत्तिः, हर्यादिपदवन्नानार्थत्वमिष्टमेवेति । रामकृष्णभट्टाचार्यास्तु__न वैजात्यान्तर्भावेण शक्तिरपि तु स्वर्गसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वेऽबावे च खण्डशः शक्तिस्तादृशावच्छेदकत्वस्य विजातीयस्वर्गसमानाधिकरणाभावप्रतियोगितावच्छेद- कत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन लिङ्पादर्थेऽभावेऽन्वयः,__तेन वैजात्यस्य पूर्वमनुपस्थितावपि न क्षतिः, उक्तसंबन्धेन स्वर्गसमानाधिकरणाभाव- प्रतियोगितावच्छेदकत्वाभावश्च तादृशावच्छेदकत्वविशेषाभावो न तु तत्सामान्याभावः, स च ज्योतिष्टोमत्वादावबाधित एव, तादृशावच्छेदकत्वा- भावस्य स्वाश्रयज्योतिष्टोमत्ववत्त्वसंबन्धेन ज्योतिष्टोमादावन्वय इति न 'पदार्थः, पदार्थेने'त्यादिव्युत्पत्तिविरोधः । गुरुधर्मस्य प्रतियोगितावच्छेदकत्वपक्षे 'कम्वुग्रीवादिमान्नास्ती'ति वाक्याद् घटत्वावच्छिन्नप्रतियोगितावकत्वसंबन्धेन नञर्थाभावेऽप्यन्वयबोधस्याभ्युपगमात्, अत एव यत्किंचिद्घटवति न तादृशवाक्यप्रयोगः प्रामाणिकः, अपि चान्वयितावच्छेदकावच्छिन्नप्रतियोगिता- कत्वव्युत्पत्तिर्नञ्समभिव्याहारविषयेति न तद्विरोध इति__समादधिरे ।
नव्यतार्किकास्त्वन्यथासिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्तितावच्छेदक- धर्मवत्स्वर्गकत्वमेव स्वर्गकारणत्वं, तादृशधर्मश्चोत्तरकाले कल्प्यो जातिविरोषः, __शाब्दबुद्धौ नियतोत्तरवर्तितावच्छेदकत्वात्मकसामान्यधर्मेण भासते, तादृशं स्वर्गकारणत्वं च योगेऽबाधितमेव, नियोत्तरवर्तितावच्छेदकत्वं च__हेतु- तावच्छेदकधर्मावच्छिन्नतद्वयापारान्यतराभावाधिकरणतीविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरूपकतानवच्छेदकत्वम्, अधिकरणतावैशिष्ट्यं च__'स्वावच्छेदक- क्षणाव्यवहितोत्तरक्षणावच्छिन्नस्वाश्रयनिष्ठत्व'संबन्धेन । भवति ह्येतादृशं दण्डनियतोत्तरवर्तितावच्छेदकत्वं घटत्वे उत्पत्तिक्षणावच्छिन्नकपालनिष्ठ- घटाधिकरणतायां दण्डत्वावच्छिन्नतद्व्यापारान्यतराभावाधिकरणतावैशिष्ट्येनोक्त- संबन्धेनापि तूत्पत्तिक्षणावच्छिन्नघटाद्यधिकरणतायामेव तन्निरूपकतानव- च्छेदकत्वस्य घटत्वे सुस्थत्वात् । अथवा स्वर्गनिष्ठधर्मावच्छिन्ननियत- पूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम्, नियतपूर्ववर्तितावच्छेदकत्वं च
स्वर्गनिष्ठधर्मावच्छिन्नाव्यवहितपूर्वकालावच्छेदेन तदधिकरणनिष्ठाभावप्रतियोगिता- नवच्छेदकधर्मवत्त्वरूपदैशिकव्यापकतायाः स्वाश्रयत्व__स्वाश्रयनिरूपितव्यापार- त्वान्यतरसंबन्धेनावच्छेदकत्वम्, अन्यतरसंबन्धेन तथाविधव्यापकतावच्छेदकत्वं च तेन संबन्धेन तथाविधव्यापकतानतिरिक्तवृत्तित्त्वादिरूपं बोध्यम् । ज्योतिष्टोमत्वादेः स्वायनिरूपितव्यापारत्वसंबन्धेनादृष्टात्मकव्यापारगततादृश- व्यापकतावच्छेदकत्वसत्त्वात् स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेद- कत्वं निराबाधमेव, एतेन नियतोत्तरत्वाद्युक्तकारणत्वस्य विध्यर्थतामते यागधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुताभ्युपगन्तव्या । तदपेक्षया तद्घटकनियतोत्तरवर्तितावच्छेदकधर्मवत्त्वात्मकयागसाध्यत्वप्रकारकस्वर्गधर्मिकज्ञानस्य हेतुत्वे तादृशसाध्यत्वस्य विध्यर्थत्वे च लाधवमितोष्टसाधनत्वस्य विध्यर्थत्वं, प्रवृत्तिप्रयोजकत्वं च भज्येतेति दूषणं निरस्तम्, व्यापकताघटुतकारणतायाः साध्यताऽघटुततया लाघवेन प्रवर्तकत्वादिसंभवात् कादृशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकस्य प्रवेशात्, यत्र तस्य विशिष्यानुपस्थितिः कारणं च न्यूनवृत्तिनातिप्रसक्तेन वा धर्मेणोपलक्षितं, तत्र शब्दात्, कारणत्वग्रहानुपपत्तिर्न, ननु तथापि तद्धर्मप्रकार- केच्छाधीना प्रवृत्तिस्तद्धर्मावच्छिन्ननिरूपितसाधनताधीप्रयोज्येति 'ज्योतिष्टोमे' त्यादिवाक्यात् स्वर्गत्वोपलक्षितवैजात्यावच्छिन्ननिरूपितसाधनताज्ञानसत्त्वेऽपि__ स्वर्गत्वावच्छिन्ननिरूपितसाधनताज्ञानविरहेण स्वर्गत्वप्रकारकेच्छाधीनप्रवृत्त्यनुप- पत्तिरिति चेन्न, वह्नित्वादिप्रकारकेच्छातोपि__तृणादिसमवधानेऽभ्रान्तप्रवृत्तेरानु- भविकत्वाद् भूयः सुखार्थिनामपि भ्रान्तिरहितानां क्रियाविशेषे प्रवृत्तेश्च, तद्धर्म- प्रकारकफलेच्छाधीनप्रवृत्तौ तद्धर्मप्रकारेण भासमाननिरूपितसाधनताज्ञान- स्यैवापेक्षित्वात्, न हि वह्लित्वादिकं तृणादिजन्यतावच्छेदकं, तृणादिकं विनापि जायमाने वह्नौ सत्त्वात्, भूयस्त्वादिकमर्थवशसंपन्नतया न कस्यापि जन्यतावच्छेदकं, घटत्वावच्छिन्नार्थि तन्त्वादावपि प्रवर्तेत, तन्त्वादेरपि घटत्वाद्युपलक्षितजन्यसत्त्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्नसाधनतावत्त्वादिति न शङ्क्यं, फलानुपधाननिश्चयस्य स्वातन्त्र्येण प्रतिबन्धकत्वात्, फलोपधायकतात्मकसाधनत्वस्य लिङादिशक्यतया न घटकामस्तन्तुमुपाददीतेति प्रयोग इति प्राहुरिति कृतं पल्लवैः ।
'हेतुहेतुमतोर्लिङ्' इत्यस्योदहरणमाह__यो ब्राह्मणायेति । अवगोरणं =
हननार्थ दण्डाद्युद्यमनम् । 'ब्राह्मणाये'ति__'पत्ये रेति' इतिवत् संप्रदानत्वाच्चतुर्थी, तथा च यत्कर्तृकं ब्राह्मणोद्देश्यकं दण्डाद्युद्यमनं तद्देतुकतादृशपुरुषकर्मकयमदूतकर्तृकशतयातना इति वाक्यार्थबोधः । कारक- विशिष्टतादृशक्रियाया यातनारूपक्ियायां हेतुहेतुमद्भावसंबन्धेनान्वयो न तु हेत्वाद्यर्थकत्वं लिङः, हेतुहेतुमद्भूतक्रियार्थकधातोर्लिङिति सूत्रार्थात्, तेन संबन्धेनान्वयबोधे तात्पर्यग्राहकत्वेनैव सूत्रस्य सार्थक्ये तत्र शक्तिकल्पना- योगात् ।
भूतमात्रे इति । मात्रशब्दोऽवधारणे इत्यभिप्रेत्याह__भूतसामान्य इति । भूतत्वरूपसामान्यधर्मेण विवक्षायां, न तु विशेषरूपेण विवक्षायामित्यर्थः । तत्र मानमाह__भूते इत्यधिकृत्येति । क्रियाया'मित्युपलक्षणं, क्रियाधिकरणासमये इत्यपि बोध्यम् । भूतत्वस्य प्रत्ययार्थत्वपक्षे तु पूर्वोक्तस्थले'अबूद् घट'इत्युत्पत्त्यर्थकप्रयोगनिर्वाहेऽपि विद्यमानत्वे सत्तार्थकतादृशप्रयोगोऽपि स्यात्, वर्तमानत्वं सप्रतियोगिसमयवृत्तित्वस्य तदानी घटे सत्त्वात्, क्रियायां तदन्वये तु न दोषः, घटकर्तृकात्मधारणानुकूलयावद्द्रव्यव्यापारसमूहे तस्यासत्त्वात्, तादृशभूतत्वस्य बुद्धिस्थधातुवाच्ययावदवयवसमूहे एवाधारधेयभावसंबन्धेनान्वया- भ्युपगमात् । उत्पत्तेस्तात्पर्यविषयत्वेऽप्युत्पत्त्यव्यवहितोत्तक्षणे 'घटोऽभू'दिति प्रयोगानुपपत्तिर्द्रष्टव्या कर्त्रादावन्वयाभ्युपगमे ।
इति बोध इति । तादृशसमयवृत्तित्वं भूतत्वमिति पक्षे विद्यमानध्वंप्रतियोगिसमयवृत्तिरत्याद्याकारको बोधोऽवसेयः । ्यमत्रेति । अयं = बुद्धिस्थो वक्ष्यमाणः । 'संग्रह'__इत्यस्य 'द्र्टव्य'__इत्यनेन संबन्धः । आद्य इति । अद्यतन इत्यर्थः । भैदादिति । तथा चाद्ये 'अपाक्षीद् देवदत्तः' 'पचति' 'पक्ष्यती'ति त्रिविधप्रयोगोऽपि दृश्यते । अन्त्यो = अनद्यतनः ।
अनयोः = भूतभविष्यत्कालयोः । लङिति । 'लिङ्निनित्ते__'इति सूत्रेण विवक्षिते इत्यर्थ इति केचिद् ब्रुवते । वस्तुतस्तु भूतत्वस्येवानद्यतनत्वस्यापि बोधस्यानुभवसिद्धतयानभूतत्वेन विवक्षित इत्येव व्याख्योचिता, अन्यथा भूतत्वेऽपि शक्तिन सिध्येत्, वस्तुगत्या तादृशबूतकालवृत्तिर्या क्रिया तदर्थकधातोर्लृङ् इत्यर्थस्वीकारेणैवातिप्रसङ्गाभावात् युक्तयन्तरमिति प्रागुक्तमनुसंधेयम् । तत्रैव = अनद्यनभूतत्वे विवक्षिते सत्येव । ताद्दशे भविष्यतीति । अनद्यतन- भविष्यतीत्यर्थः ।
भूते भाविनीति । हेतुहेतुमद्भावे = हेतुहेतुमद्भावादौ सति, भूतकाले भविष्यत्काले इत्यर्थः । तत्र प्रमाणमाह__'लिङ्निमित्ते' इत्यादिना । सुवृष्टिरिति । सुवृष्टिभवनं सुभिक्षबवनस्य हेतुः,सुभिक्षभवनं हेतुमदिति तत्समर्पकाभ्यामुभाभ्यमापि धातुव्यक्तिभ्यां लृङ् । हेतुहेतुमद्भावः स्वरूपसन्निमित्तं, न तु तत्रापि शक्तिः, शाब्दबोधेऽभानात् । एवं क्रियानिष्पत्तिरपि मानान्तरगत्य, न तु वाच्या । ननु सुवृष्टिभवनसुभिक्षभावनयोः साधनवैकल्यान्न- यतानुत्पत्तिः स्वयमवगत्य प्रतिपाद्यते तत्र भविष्यत्वादैवानुत्पत्तिः, उत्पन्न एव सत्त्वादिक्रमेण भूत इत्युच्यते, सामग्रीसमवधाने संभावितोत्पत्तिकश्च भविष्यन्नित्युच्यते, अत च साधनाभावात् संभावितापि न तदुत्पत्तिरिति चेन्न, अभूते अभविष्यति इत्यपि भूतत्वभविष्यत्त्वे, आरोप्येते निषेधप्रतियोगित्वायेति दोषाभावात् ; सुभिक्षभवने हेतु सुवृष्टिभवनं संभावयत एव हि तदुक्तः, एवं हि क्रियानिष्पत्तिः प्रतिपादिता भवति । अत्र भूतत्वाद्यभावनिश्चयसत्त्वेऽपि भूतत्वादिप्रकारकबोध आहार्यारोषात्मक एवावश्यमभ्युपेतव्यः । अन्यथा गते वाधनिश्चयस्य भसब्दबोधं प्रत्यप्रतिबन्धकत्वे त्वनाहार्यारोपात्मकोऽपि संभवति, युक्तं चैतत्, अन्यथा 'मुखं चन्द्र' इत्याज्यभेदरूपकादौ, प्रहसनादौ च बाधनिश्चयसत्त्वेऽप्यनुभवसिद्धशाब्दबोधापलापापत्तिः, कलहादो मिथ्याभिलापा- वचनाच्छाब्दबोधानुपपत्तिश्च, तत्र शाब्दबोधानुगमे क्रोधानुपपत्तिः, एवम्-'एष वन्ध्यासुतो याती'त्यादिवाक्याच्छाब्दबोधानुपगमे सहृदयाह्लादानुपपत्तिः, ननु 'मुखं चन्द्र' इत्यादौ चन्द्रादिपदं चन्द्रदिसदृशे लाक्षणिकं, तस्य चाभेदोऽबाधित एव मुखे बुध्यते, एवं मिथ्याभिशापस्थले 'एष वन्ध्यासुत' इत्यादौ च शब्दात् पदार्थोपस्थितौ मानसो विशिष्टबोधस्तेन क्रोधादेर्नानुपपत्तिरिति चेन्न, एवं हि 'चन्द्रसदृशं मुखं' 'चन्द्रो मुख'मित वाक्ययोरनुभवसिद्धविलक्षणबोधजनकत्वानुप- पत्तिः, अभिशापवचनादिस्थलेमानसबोधाङ्गीकारे सर्वत्रैव तथात्वापत्तौ शब्दप्रामाण्योच्छेदापत्तेश्च, अत एव खण्डनकृताप्युक्तम्__
'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति च ।' इति ।
न चैवं योग्यताज्ञानस्य शाब्दबोधहेतुत्वानुपपत्तिः, इष्टापत्तेः, । न चैवं 'सेको वह्निकरणकः' इति वाधनिश्चयसत्त्वेऽपि शाब्दबोधापत्तिः, इष्टापत्तेः, शाब्दबोधं प्रि वाधनिश्चयस्य प्रतिबन्धकत्वमनङ्गीकुर्वद्भिर्योग्यताज्ञानस्य हेतुतां स्वीकुर्वद्भिः परैरप्याहार्ययोग्यताज्ञानात् शाब्दबोधाङ्गीकाराच्च, न चैवं सति
प्रवृत्तिरापादनार्हा वाधनिश्चयेन तत्र बोधेऽप्रामाण्यज्ञानजननेनागृहीता- प्रामाण्यकज्ञानस्यैव प्रवृत्तिजनकत्वादित्यलं पल्लवितेन । लृङ्समभिव्याहारे धातोर्लृङो वाभावोऽप्यर्थः, अभावे धात्वर्थव्यापारसायान्वयः, अभावयोश्च प्रयोज्यप्रयोजकभावसंबन्धेनान्वय इत्यभिप्रेत्याह__अत्र वह्न्यभिन्नेति । अर्थान्तरे- ऽपीति । यथा 'लट् स्मे' इत्यादिना भूतादावपि लडादेर्दर्शनादित्यर्थः । दर्शनान्तररीत्येति । स्वमते तु सर्वस्मिन्नुक्तेऽर्थे शक्तिरेव, न तु लक्षणेति बोधयितुं 'दर्शनान्तररीत्ये'त्युक्तम् । प्रसङ्गाल्लडादिक्रमनियामकमाह__एतेषामिति । एतेषां = लकाराणाम् । अनुबन्धक्रम एवेति । अनुबन्धान्म् = अकाराद्यनुबन्धानाम् । उक्तेऽर्थे मीमांसकव्यवहारमपि प्रमाणयति__अत एवेति । डित एवादौ तु न गणिताः, 'वर्तमाने लट्' इत्यादिना पाणिनिना प्राक् टितामेव निर्देशात् । लकारेति । लकारविशेषाणां लडादीनामर्थ इत्यर्थः ।। 23 ।।

का:23
इति क्षिवैयाकरणभूषणसारव्याख्यायां लकारविशेषार्थनिरूपणं समाप्तम् ।।