वैयाकरणभूषणसारः (काशिकाटीकासहितः)/सुबर्थनिर्णयः

वैयाकरणभूषणसारः (काशिकाटीकासहितः)
सुबर्थनिर्णयः
[[लेखकः :|]]

सुबर्थमाहेति । पदत्वप्रयोजकतिङर्थनिरूपणानन्तरं तत्परयोजकसुबर्थ- निरूपणमिति भावः । ननु द्वितीयादीनां 'कर्मणि द्वितीया' इत्याद्यनुशासनबलात् कर्मादीनां तदर्थत्वलाभो नाक्षये विध्यभ वादित्याशङ्कामपनिनीषुराह-तथा हीत्यादिना । तच्चेति । तत् = कर्म । चकारस्त्वर्थे ।
कर्तुरीप्सिततममिति । 'कर्तुरीप्सिततमम्-' इति सूत्रेणतस्य कर्मसंज्ञाविधानात् । नन्वभिप्रेतरूढेप्सितशब्दात्तमप्यतिशयिताभिप्रेतरूपार्थ एव लभ्यते, नाश्रय इत्याशङ्क्याह-क्रियाजन्येति । तथा चाप्नीतेः संबन्धार्थकात् सन्नन्तात् कर्मणि वर्तमानकाले 'मतिवुद्धिपूजार्थेभ्यश्वे'ति क्ता त ईप्सितशब्दः क्रियाशब्द उपात्तो नाभिप्रेतार्थको रूढशब्दः तथा मति भूड्क्ते' इत्यादौ पयआदे- रपि कर्मसंज्ञापत्तिः, विशिष्टभोजनस्याभिप्रेतत्वेन तस्यानभिप्रेतत्वस्य वक्तुमशक्यत्वात्, अत एव कृतभोजनोऽपि पयोवाभेच्छया भोजने प्रवर्तत इति लोकसिद्धम्, एवं__क्रियाशब्दादरे तु प्रकृष्टोपकारकत्वमात्रविवक्षायां क्रियाजन्यफलाश्रयत्वेऽपि तत्त्वेनानुद्देश्यतया न कर्मत्वापत्तितादवस्थ्यम्, स्पष्टं चेदं प्रकृतसूत्रभाष्यादौ । 'वारणार्थानाम्-' इति सूत्रभाष्ये चायं क्रियाशब्द इति स्पष्टम् । 'कर्तुरीप्सिततमम्-' इत्यत्र 'कर्तु'रिति 'क्तस्य च वर्तमाने' इति कर्तरि
षष्ठी, तथा च कर्तुः समभिव्याहृतधात्वर्थव्यापाराश्रयस्याप्तुं = संबद्धुमिष्टतमं कारकं कर्मसंज्ञामिति सूत्रार्थः, कर्तुः संबन्धश्च कर्तृपदार्थविशेषणीभृतक्रियाद्वारक एव ग्रहीतुमुचितः, उपस्थितत्वात्, स च तज्जन्यफलाश्रयत्वरूपः, तथा चेप्सिततमत्वं = तादृशव्यापारप्रयोज्यसमभिव्याहृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वं पर्यवसन्नम्, 'प्रयोज्यत्व'निवेशो दुह्यादेविभागाद्यनुकूलव्यापारानुकूलव्यापारार्थकत्वे पयआदेः कर्मत्वसिद्धिफलक इत्यन्यत्र विस्तरः ।
ननु क्रियाघटितक्रियाप्रयोजकत्वादिसंबन्धस्य कारकान्तरेऽपि सत्त्वे कथं तथाविधफललाभोऽत आह-क्रियाजन्येति । संज्ञान्तरविधानादिष्टानुरोधाच्चोक्त संबन्ध एव गृह्यते इति भावः । अथवा-'ननु सना इच्छाया बोधनादीप्सिततम- पदेन तादृशफलवत्त्वेनोद्देश्यस्यैव लाभात् क्रियाजन्यफलाश्रयमात्रोक्तिरसंगतेत्या- शङ्क्याह__क्रियाजन्येति । कर्मण एव = तादृशफलाक्षयस्यैव । तथा च तादृशफलवत्त्वेन कर्तुरुद्देश्यत्वं तादृशसंज्ञायामेवोपयोगि, न तु वाच्यकोटौ तस्यान्तर्भाव इति बावः । तत्र युक्तिमाह__'तथा युक्तं च__' इति । इत्यादी-त्यादिपदाद् 'गतिबुद्धि-' इत्यादेः परिग्रहः, एतत्सूत्रविहितकर्मसंज्ञा- साधारण्यार्थ तादृशफलाक्षय एव द्वितीयादेः शक्तिरिति भावः । संग्रहादिति । फलस्यापि हेतुत्वेन विवक्षायां पढ्चमी । एवमेव = द्वितीयादेरुक्तार्थकत्व- कल्पनमेव । ईप्सादेः शाब्दबोधे भानेनैवमेव युक्तमित्ययुक्तमित्याशङ्क्याह__ ईप्सितेति । ईप्सितत्वानीप्सितत्वयोरित्यर्थः । ननु तथापि क्रियाजन्यफलविशिष्ट एवाश्रये शक्तिर्लभ्यते, न तु केवलाश्रय इत्याशह्कां निराकरोति-तथा चेत्यादिना । तथा च = क्रियाजन्यफलाश्रयस्य कर्मत्वे च । परे तु तादृ- फलाश्रयत्वेनेच्छेद्दोश्यत्वस्यापि वाच्यत्वमावश्यकमत एव 'पयसौदनं भुङ्क्ते' इत्यादौ तथाविधफलाश्रयस्यापि पयआदेस्तादृशोद्दोश्यत्वविरहान्न कर्मत्वमिति प्राहुः । नन्वाश्रयत्वस्य निरूपकादिभेदाद् भेदेन शक्त्यानन्त्यं स्यादित्यत आह__तत्त्वं चेति । आश्रयत्वं चेत्यर्थः । 'शक्तेर्भेद एवे'ति भाष्यसिद्धान्ते त्वाश्रयतात्वेनाश्रयतानामनुगमो बोध्यः । नव्यमते तु कर्मत्वरूपशक्तिमत्त्वेनाश्रयः शक्य इति ध्येयम् । उत्पत्त्याश्रयत्वादित्यादौ 'कर्मते'त्यस्यानुषङ्गेणान्वयः । उत्पत्तेर्धात्वर्थत्वादिति । निरूपितमेतत् प्राक । जानात्यादेर्ज्ञानादिमात्रार्थकतया घटादेः क्रियाजन्यफलाश्रयत्वाभावात् कर्मत्वानुत्पत्तिरित्याशङ्कां पूर्वोक्तावरण- भङ्गानुकूलव्यापारार्थकतामाश्रित्य परिहरति-जानातीत्यत्रेति । 'घटं
जानाती'त्यादावित्यर्थः, 'घटादे'रिति शेषः । अतीतानागतयोः फलाश्रयत्वनुप- पत्तिः, असत आश्रयत्वाभात्, न च ज्ञानसमये तज्जन्यावरणभङ्गस्यातीतादि- घटेऽसत्त्वेपि तद्धटादिसमयावच्छेदेन तदाश्रयत्वमक्षतमेवेति वाच्यम् । व्यापारस्य स्वशून्योत्तरकालिकफलारन्भकत्वासंभवात्, एवं स्वपूर्वकालिकफलारम्भकत्वा- संभवाच्च, कार्याव्यवहितपूर्वक्षणवर्तिन एव फलारम्भकत्वादित्याशङ्कां परिहरति __अतीतेत्यादिना । कालान्तरे फलारम्भकत्वासंभवेऽपि व्यापारेण स्वाव्यवहितोत्तरकाल एवोत्पादितावरणभङ्गात्मकफलाश्रयता स्वीक्रियते, नैयायिकैरतीतानागतयोविषयतया ज्ञानाश्रयता यथाङ्गीक्रियते तथेति भावः । अन्यथा 'यथापूर्वं न जानामी'त्यस्य मतद्वयेऽप्यापत्तिः, तदानीं तत्रावरणभङ्गस्य ज्ञानस्य च स्वरूपविषयतासंबन्धावच्छिन्नप्रतियोगिताकाभावसत्त्वात् । आवरण- भङ्गे ज्ञाने चाधेयत्वविषयितासंबन्धावच्छिन्नस्यातीतघटोदेर्भावस्य सत्त्वाच्च । नञा कारकविशिष्टक्रियाभावप्रतिपादनमिति स्वमते आवरणभङ्गाद्यभावबोधा- संभवेऽपि तदभावप्रयुक्तकारकविशिष्टक्रियाया अभावस्य आरोपितक्रियाया बोधसंभवात् तादृशप्रयोगापत्तिः । तत्र विषयतासत्त्वेऽपि विषयतया ज्ञानाश्रयत्वे विवादादाह__सत्कार्येति । अत एव 'घटो जायते' इत्यत्र घटस्य क्रियाजनकत्वरूपं कारकत्वं, कर्तृत्वं चोपपद्यते, अन्यथासतस्तदनुपपत्तिः । तत्र भर्त्तृहरिसंमतिमाह-उक्तं चेति । सैव = तिरोभावरूपैव । नास्तिता = नाष्टता । लब्धेति । लब्धः क्रमो येन तादृशे तिरोभावे सतीत्यर्थः तदुत्पत्तिगतवर्त्तमानत्वनिबन्धनो नश्यतीति व्यवहारः, तदनन्तरम्-अनष्टेति तदर्थः । लब्धक्रम' इत्यनेन व्यापाररूपतावेदिता । प्रतीयत इत्यनेन प्रतीतिः प्रमाणत्वेनोक्ता । तिरोभावो नाम सूक्ष्मरूपेणावस्थानमेवं च तत्रावरणभङ्गाश्रयत्वस्य नानुपपत्तिः, एवमनागतेऽपि द्रष्टव्यम् ।
फलाश्रयत्वादिति । तदाश्रयत्वेनोद्देश्यत्वादित्यपि बोध्यम् । विभागस्य प्रयोगेऽपीति । फले धातूपात्तत्वानिवेशाद् विभागरूपफलशालित्वात् प्रयोगस्यापि कर्मत्वापत्तिरिति भावः । कर्मसंज्ञाया बाधेनेति । परत्वाद् बाधेनेत्यर्थः । आकडारीयत्वात् संज्ञयोरपि बाध्यबाधकबाव इति भावः । ननु फलाश्रयत्वकर्मसंज्ञयोर्मध्ये संज्ञाया एव नियामकत्वमित्यत्र किं बीजं, किं च संज्ञानियामकत्वेनावश्यकतादृशफलाश्रयत्वस्यैव द्वितीयानियामकत्वमस्त्वित्या- शङ्क्याह__द्वितीयोत्पत्ताविति । फलाश्रयत्वस्य नियामकत्वे दूषणमाह__
अन्यथेति । कृष्णपदाद् द्वितीयापत्तेरिति । कृष्णस्य पाचयतिधात्वर्थव्यापार- प्रयोज्यविक्लित्त्यनुकूलव्यापारात्मकफलाश्रयत्वाद् द्वितीयान्तस्य साधुत्ं स्यादित्यर्थः । अणिजन्तधात्वर्थव्यापारप्रयोज्यफलाश्रयत्वस्यैव द्वितीयानियाम- कत्वाभ्युपगमान्नेयमापत्तिरिति शङ्कानिराकरणाय 'गमयति कृष्णा'मित्यादि- दृष्टान्ताभिधानम् । तथा च पूर्वोक्तरीत्यभ्युपगमे 'गमयति कृष्णा'मित्यत्रापि द्वितीयान्तस्य साधुत्वं न स्यादिति भावः । ननु नोक्तस्थले द्वितीयान्तस्य साधुत्वमापादयामि, किं तु तादृशप्रयोगाच्छाब्दबोधमित्याशङ्कामिष्टापत्त्यापहरति __शाब्दबोध इति । शाब्दबोधः = चैत्रक्तृकं चैत्रकर्मकं गमनमित्याद्याकारकः शाब्दबोधः । चैत्रश्चैत्रमित्यत्रेति । चैत्रश्चैत्रं गच्छतीत्यत्रेत्यर्थः । तथाव्युत्पन्नानामिमि । तस्मिन् वाक्ये तादृशबोधजनकत्वग्रहवतामित्यर्थः । तादृशवाक्यादुक्तः शाब्दबोधो नानुभवसिद्ध इत्यत इष्टापत्तिरयुक्तेत्याशङ्क्य परिहरति-उच्यतां वेति । स्वीक्रियतामित्यर्थः । प्रकारतासंबन्धेनेति । प्रकारतासंबन्धः कार्यतावच्छेदकः, कारणतावच्छेदकसंबन्धस्तु धात्वर्थव्यापारा- नधिकरणाश्रयनिष्ठविशेष्यता । तथा च 'प्रकाररतासंबन्धेन तादृशफलबोधे तादृशविशेष्यतासंबन्धेन विभक्तिजन्योपस्थितिः कारण'मिति कार्यकारणभावः पर्यवसन्नः, 'धात्वर्थव्यापारानधिकरणे'त्यादिग्रन्थश्चोक्तसंबन्धप्रदर्शक एव, चैत्रो ग्रामं गच्छती'त्यत्र ग्रामरूप आश्रये तादृशविशेष्यतासंबन्धेन द्वितीयाजन्योप- स्थितिरिति, अतस्तत्र धात्वर्थसंयोगरूपपफलस्य प्रकारतासंबन्धेन बोधनिर्वाहः, उपस्थितौ विभक्तिजन्यत्वनिवेशाद् 'गम्यमानो ग्राम' इत्यत्र नान्वयव्यभिचारः, 'चैत्रश्चैत्र'मित्यत्रातिप्रसङ्गव्यावृत्ति दर्शयति-प्रकृते चैत्रस्येति ।
उक्तप्रायत्वात्__क्रियाजन्यफलाश्रयस्येत्यनेनोक्तप्रायत्वात् । तत्र 'धात्वर्थ- फले'त्यनुक्तत्वात् 'प्रायः'पदोपादानम्, अत एव यदा पुष्ठार्थ माषभक्षणाय माषक्षेत्रे़श्वो बध्यते तदा 'माषेष्वश्वं बध्नाती'त्यत्र बन्धनप्रयोज्यभक्षणरूप- फलाश्रयत्वेऽपि माषाणां न कर्मत्वम् । प्रयागस्य कर्मत्वसंभावनाऽसंभवोक्ति- र्विभागो गच्छत्याद्यर्थो न भवतीत्यभिप्रेत्य । अपादानप्रकरणे वक्ष्यमाणरीत्या तस्य तदर्थत्वे त्ववधिनिष्ठसंबन्धस्य फलतानवच्छेदकतयोक्तदोषपरिहारोऽवसेयः ।
प्रकारान्तरेण स्थलद्वये दोषं वारयतां नैयायिकानां मतं दूषयितुमुपन्यस्यति- नैयायकास्त्विति । परसमवेतत्वमिति । आद्यदोषवारणाय परसमवेतत्वं द्वितीयावाच्यमुपाददते = स्वीकुर्वन्तीत्यन्वयो, द्वितीयदोषवारणाय धात्वर्थ- तावच्छेदकत्वं फले विशेषणमुपाददत इत्यपरोऽन्वयः । विभागस्य गमधात्वर्थतावच्छेदकत्वाभावान्न 'प्रयागात् काशी गच्छती'त्यत्र प्रयोगेऽति- प्रसङ्गः । धात्वर्थतावच्छेकं च धातुशक्यांशे विशेषणतापन्नत्वम्, द्वितीयावाच्य- परसमवेतत्वस्य फले तदाश्रयादावन्वयेऽपि नोक्तदोषवारणसंभवः, संयोगग्रामादौ चैत्रभिन्नसमवेतत्वसत्त्वादित्यत आह-परसमवेतत्वमिति । धात्वर्थक्रियाया- मन्वेतीति । फलजनकसमभिव्याहृतधात्वर्थक्रियायामन्वेतीत्यर्थः । स्वपदं यत्फलव्यक्तिमत्त्वेन कर्मत्वमभिमतं तद्वयक्तिपरम्, तेन 'पचन्तं चैत्रं मैत्रो गच्छति'त्यत्र च पाकक्रियायां चैत्रसमवेतायां संयोगानुकूलक्रियायां च चैत्रभिन्नसमवेतत्वाभावेऽपि न चैत्रपदाद् द्वितीयानुपपत्तिः । द्वितीयस्थले समभिव्याहृतगम्युपात्तसंयोगजनकक्रियायां स्वसमवेतायां स्वभिन्नसमवेतत्वा- भावेऽपि मैत्रप्रतियोगिकचैत्रानुयोगिकसंयोगव्यक्तिजनकक्रियायां तस्याक्षतत्वान्नानु- पपत्तिः । परो = भेदवान्, तत्समवेतत्वमित्यर्थः, 'चैत्रो ग्रामं गच्छती'त्यत्र व्युत्पत्तिवैचिव्येण भेदवत्समवेतत्वैकदेशे भेदे द्वितीयाप्रकृत्यर्थग्ामस्य प्रितयोगितानिरूपितानुयोगितासंबन्धेनान्वयः, ससंबन्धिकत्वाच्च पदार्थैकदेशेऽपि भेदे 'देवदत्तस्य पिते'त्यादौ देवदत्तनिरूपितत्वस्य पितृपदार्थैकदेशे जनकत्वे इवान्वयो नानुपपन्नः, तदन्वितभेदवत्समवेतत्वस्य क्रियायामाश्रयत्वसंबन्धेनान्वयः, 'चैत्रेण गन्यते ग्राम' इत्यत्राख्यातार्थः परसमवेतत्वं, यत्र फलाश्रये कर्मणि प्रत्ययस्तस्य तद्घटकभेदे ग्रामादेः प्रतियोगितयान्वयः, न च चैत्रेऽपि द्वित्वादिनाचैत्रभेदसत्त्वा'च्चैत्रश्चैत्रं गच्छती'ति दुर्वारमेव,
प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रकृत्यर्थस्य द्वितीयार्थभेदे- ऽन्वयाङ्गीकारे 'देवदत्तो द्रव्यं गच्छति' 'मल्लो मल्लं गच्छती'त्याद्यनुपपत्तिः, देवदत्ते द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदस्य, मल्ले मल्लत्वावच्छिन्नप्रतियोगिताक- भेदस्य चासत्त्वात्, न च वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नप्रियोगितात्वस्यैव संबन्धताङ्गीकारान्न 'चैत्रश्चैत्रं गच्छती'त्यस्यापत्तिरिति वाच्यं, तादृशी प्रतियोगिता प्रकृत्यर्थतावच्छेदकावच्छित्रैव संभवतीति देवदत्तो द्रव्यमित्यादावनुपपत्तितादवस्थ्यादिति चेन्न, तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्व- संबन्धेन प्रकृत्यर्थस्यान्वयाङ्गीकारादुक्तदोषाभावात् । एवं चैत्रेण ग्रामो गम्यते' इत्यत्र परसमवेतत्वमाश्रयश्च कर्माख्यातार्थः, तार्किकमते आश्रयत्वं च कर्माख्यातार्थ इति बोध्यम्, परसमवेतत्वघटकभेदे ग्रामादिकर्मणस्तद्वयक्तित्वा- वच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयः, तेन 'चैत्रश्चैत्रेण गम्यत' इत्यस्य नापत्तिः, न वा 'चैत्रेण द्रव्यं गम्यते' 'मल्लो मल्लेन गम्यत' इत्यस्यानुपपत्तिः, अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्यैव संसर्गत्वमिति व्युत्पत्तिस्तु नञुपस्थाप्याभावशाब्दबोधविषयिणीति भावः । न चोभयकर्मजसंयोगस्थले चैत्रानुयोगिकसंयोगजनकमैत्रवृत्तिक्रियायां चैत्रभिन्नसमवेतत्वस्य निरावाधतया तद्दोषस्तदवस्थ इति वाच्यम्, अन्यनिष्ठक्रियायां चैत्रभिन्नसमवेतत्वसत्त्वेऽपि चैत्रनिष्ठसंयोगजनकचैत्रभिन्नसमवेता याऽन्यनिष्ठक्रिया तदाश्रयत्वस्य चैत्रेऽसंत्त्वात् 'चैत्रश्चैत्रं गच्छती'त्यस्य चैत्रकर्तृकक्रियायां चैत्रान्यसमवेतत्वा- भावाच्चैत्रायसमवेतक्रियाजन्यसंयोगवत्त्वस्य चैत्रेऽसत्त्वा'च्चैत्रेण गम्यत' इत्यस्यापत्तेरयोगादित्यन्यत्र विस्तरः । यद्वा-भेद आधेयत्वं चार्थः, तत्र भेदे प्रकृत्यर्थस्य पूर्ववदेवान्वयः, भेदस्य सामानाधिकरण्यसंबन्धेन व्यापारे, आधेयत्वे च प्रकृत्यर्थस्य, एवं च 'ग्रामं गच्छति चैत्र' इत्यतो ग्रामवृत्तिसंयोगजनको ग्रामप्रतियोगिकभेदसमानाधिकरणो यो व्यापारस्तदाश्रयश्चैत इति बोधः । 'चैत्रेण ग्रामो गम्यत' इत्यश्चैत्राश्रयकग्रामभेदसमानाधिकरणव्यापारप्रयोज्यसंयोगाश्रयो ग्राम इति बोधः ।
ननु परसमवेतत्वस्य फलादावेवान्वयः स्यात्, तथा चातिप्रसङ्गतादवस्थ्यमत आह__तथैव कार्येति । विशेष्यतासंबन्धेन द्वितीयाद्यर्थपरसमवेताक्रियानिष्ठबोधं प्रति स्वविशेष्यतासंबन्धेन धातुजन्योप- स्थितिः कारणमिति कार्यकारणभाव इत्यर्थः । द्वितीययेत्युपक्षणं सुब्विभक्तेः, तेन
'चैत्रो ग्ामाय गच्छती'तिवच्चैत्रश्चैत्राय गच्छति' 'चैत्रेण ग्रामस्य गमन'मितिबच्चैत्रेण चैत्रस्य गमन'मित्यादिन प्रयोगः, तथा च परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वमेतन्मते पर्यवसन्नमित्याशयेन तदुपादयति __तथा च चैत्रस्तण्डुलमिति । 'धात्वर्थतावच्छेदके'त्युक्तिर्विक्लित्तेर्धात्वर्थ- तावच्छेदकत्वसत्त्वप्रकटनाय, न तु तेन रूपेण शाब्दबोधे भानं, तदवच्छिन्ने शक्यभावात्तेन रूपेण बोधाननुभवाच्चेति बोध्यम् । नन्वतिप्रसङ्गनिरासाय गुरुभूतपरसमवेतत्वे शक्तिः कल्पनीयैवेत्यत आह__अतिप्रसङ्ग इति । तत्तादवस्थ्यात् = अनिष्टस्थले द्वितीयातिप्रङ्गतादवस्थ्यात् । 'चैत्रश्चैत्रं गच्छती'त्यतिप्रसङ्गस्योक्तरीत्याऽसंभवादन्यत्रातिप्रसङ्गमाह__पाचयति कृष्ण- मिति । इत्यापत्तेरिति । प्रयोज्ये कृष्णे स्वभिन्नप्रयोजकसमवेतक्रियाजन्यणिजन्त- धात्वर्थतावच्छेदकीभूतप्रकृत्यर्थक्रियात्मकफलशालित्वरूपकर्मत्वसत्त्वाद् द्वितीया- पत्तिरित्यर्थः, दृष्टान्तोपादानं पूर्ववत् । कर्मकर्तरि द्वितीयातिप्रसङ्गमुपपादयति __विक्लित्त्यनुकूलेति । विक्लित्त्यनुकूलस्तण्डुलान्यसमवेतोऽग्रिसंयोगरूपो धात्वर्थः__पचधात्वर्थस्तज्जन्यफलेत्यर्थः, अत्राग्रिसंयोगो धात्वर्थतया विविक्षत इत्यभिप्रेत्येदं दूषणम् । 'कर्मकर्तरि फलमात्रस्य धात्वर्थत्वं, िक्लित्यनुकूलतण्डुसमात्रवृत्तिव्यपारस्य धात्वर्थत्व'मिति पक्षे नेदं दूषणमिति बोध्यम् । इष्टान्वयेति । परत्वं द्वितीयादिप्रकृत्यर्थप्रतियोगिकमेव बुध्यते,नान्यप्रतियोगिकं, परसमवेतत्वस्य तादृशक्रियायामेवान्वयो न त्वन्यत्रेति द्विविधनियमनिवार्हाय । तत्तत्कार्यकारणभावस्वीकारे गौरवाधिक्यादित्यर्थः ।
सामान्यप्रकारकज्ञानस्य विशेषरूपेण जिज्ञासाहेतुत्वाद्विशेषरूपेण ज्ञानेच्छायां सत्यां प्रसङ्गसङ्गत्या कर्म विभजते__एतच्च सप्तविधमिति । निर्वर्त्यमिति । तदीप्सिततमं कर्म निर्वर्त्य विकार्य प्राप्यं चेति त्रिधा मतमिति योजना । अन्यत्तु = ईप्सिततमभिन्नं तु । चतुविधत्वमाह__ औदासीन्येनेति- ईप्सितत्वभावे द्वेष्यत्वाभावे च सति यत् प्राप्यं क्रियाजन्यफलाश्रय इत्यर्थः । अनीप्सितम् = द्वेष्यम्, संज्ञान्तरैः = अपादनादिसंज्ञाभिः, अनाख्यातम् = अविवक्षितम्, तथा चाकथितमितिसूत्रेण कर्मसंज्ञकमिति । अन्यपूर्वकमिति । अन्यसंज्ञापूर्वकं, यथा 'क्रूरमभिक्रुध्यती'त्यत्र 'क्रुधद्रुहेर्ष्या__' इति संप्दानसंज्ञा प्राप्ता । निर्वर्त्यादित्रयस्य सक्षणमाह__यदसदिति ।
प्रकृत्युच्छेदेति । प्रकृतिभूतस्यात्मन उच्छेदं__संभूतं = प्राप्तम्, भू
प्राप्तवित्यस्मात् कर्तरिक्तः, प्रकृतेः = काष्ठादेः । क्रमेणोदाहरणान्याह__घटं करोतीति । आद्यम् = निर्वर्त्यम् = घटस्यासत एवोत्पत्तिर्नैयायिकमते । सांख्यादिमते स्वमते च सत एव, तदुक्तं हरिणा__
'उत्पत्तेः प्रागसद्भावो बुद्धयवस्थानिबन्धनः ।
अविशिष्टः सताऽन्येन कर्ता भवति जन्मनः ।।
कारणं कार्यभावेन यदा वा व्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ।।
यथाऽहेः कुटिलीभोवो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सतामेके प्रचक्षते ।।' इति ।
प्राप्यलक्षणमाह-क्रियाकृतेति । दर्शनादिति । प्रत्यक्षात् । निर्वर्त्थे स्वरूपलाभात्मको विशेषः प्रत्यक्षगम्यः, विकार्येऽपि क्कचित् स्वरूपलाभः, क्कचिद्गुणान्तरात्मकः, अनुमानाद्यथा पुत्रः सुखमनुभवति, अत्र हि मुखप्रसादेन सुखानुमानं भवति, स्पष्टं चेदं 'कर्मण्यण' कैयटादौ । द्वितीयम् = विकार्यम् । अत्र काष्ठसुवर्णयोरेव विकार्यता, भस्मकुण्डलयोस्तुकाष्ठसुवर्णयोः परिणमित्वविवक्षाऽयोरपि निर्वर्त्यतैवेति बोध्यम् । केचित्तु__
'सती वा विद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ।।'
'प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा ।
निर्वर्त्य च विकार्य च कर्म शास्त्री प्रदर्शितम् ।।'
__इति वाक्यपदीयाद् 'घटं करोती'त्यत्र घटस्य प्रकृतिः सत्यपि परिणामित्वेन न विवक्षितेति घटस्य निर्वर्त्यतैव, 'भस्म करोती'त्यत्र भस्म प्रकृतिः__काष्ठरूपा-भस्मदशायामविद्यमाना विवक्षितेति भस्मनो विर्वर्त्यतैव, 'एवं मृदं घटं करोतीत्य'त्र प्रकृतेःपरिणामित्वाविवक्षायाम् । [एवं विकार्यतेवेति स्वीचक्रुः] । 'काष्ठं भस्म करोति' 'सुवर्ण कुण्डलं करोती'त्यादौ कृधातोर्विकारानुकूलव्यापारपूर्वकोत्पत्त्यनुकूलव्यपारोऽर्थः, 'काष्ठं विकुर्वन् भस्मोत्पादयती'ति प्रतीतेः, अत उभयोरपि कर्मत्वनिर्वाहः, आद्ये उच्छेदरूपो विकारः, अन्ये आकारविशेषात्मकः स घटस्य । स्वातन्त्र्यस्येतरानधोन- त्वरूपस्याक्षयणे 'देवदत्तेन पाचयति मित्रदत्त' इत्यादौ प्रयोजकादीनतया कतृत्वानापत्तिरित्याशङ्कापनोदार्थ विवक्षितार्थमाह__स्वातन्त्र्यं चेति ।
धातूपात्तेति । प्रकृत धातूपात्तेत्यर्थः,यत्किञ्चिद्धातूपात्तरयाव्यावर्तकत्वात् । व्यापारश्च प्रधानीभूतो ग्राह्यः, तेन नयतेः, संयोगानुकूलव्यापारानुकूल- व्यापारार्थकत्वे 'देवदत्तो ग्राममजां नयती'त्यत्राजाया न कर्तृत्वम् । न च कर्मसंज्ञया बाधान्न तदापत्तिरिति वाच्यं, 'कर्तुरीप्सिततमम्__' इति कर्मसंज्ञाया'श्चैत्रस्तण्डुलं पचती'त्यादौ तण्डुलादौ लब्धावकाशतयाऽपवादत्वा- भावात्, परत्वाभावाच्च, प्रत्युत परत्वात् कर्तृसंज्ञैव वाधिका स्यात्, कर्तृत्वविवक्षायां च न 'अकथितम्__' इत्यस्य प्राप्तिः ।
'दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुविशासिगुणेन च यत् सचते तदकीतितमाचरितं कविना ।।'
__इति परिगणनवार्तिके नयत्यादेरपाठाच्च, प्राधान्यं च कर्तृप्रत्ययसमभि- व्याहृततत्तद्धातुजन्यबोधीयतत्तद्धात्वर्थनिष्ठवशेष्यतानिरूपितप्रकारतानाश्रयत्वम्, 'पक्कस्तण्डुलो देवदत्तेने'त्यत्र व्यापारस्य फलं प्रति विशेषणत्वाद्देवदत्तस्य कर्तृत्वानापत्तिरिति 'कर्तृप्रत्ययसमभिव्याहारे' इति । स्वतन्त्रपदस्य निरुक्तार्थकत्वे मानमाह__धातुनोक्तेति । 'धातुनोक्तक्रिये कारके कर्तृता नित्यमष्यते' इति योजना । नन्वेतादृशस्वातन्त्र्याश्रयणे 'स्थाल्यां पचती'त्यादावपि स्थाल्यादेः कर्तृत्वापत्तिः, पचधातूपात्तधारणाद्यात्मक- व्यापाराश्रयत्वादित्यत आह__अत एव यदेति । अत एव उक्तस्थले स्थाल्यादावतिप्रसङ्गादेव । नच निरवकाशाभिरधिकरणादिर्सज्ञाभिः कर्तृसंज्ञाया बाध इति वाच्यम्, कर्तृसंज्ञाविषयेऽप्यधिकरणसंज्ञा प्राप्ता तस्या अपि निरवकाशतया पर्यायतापत्तिरित्या शयात् । यदा यो धातूपात्तव्यापाराश्रयः स तदा कर्तेति स्वीकारे एकस्य कर्तृत्वकर्मत्वयोः संभवे 'कर्तृकर्मव्यपदेशा'दित्यधिकरणविरोधमाशङ्क्य परिहरति__नन्वेवमिति । एवम् = अकस्य कर्तृत्वकर्मत्वोभयाङ्गीकारे । तस्येति । तस्य = मनोमयत्वादिगुणयुक्तस्य, एतमितइत्यादिश्रुतौ कर्तृकर्मव्यपदेशो विरुद्ध इति संबन्धः । एतमिति । प्रकृतं मनोमयत्वादिगुणकमुपास्यमानमात्मानं कर्मत्वेन प्राप्तिकर्मत्वेन व्यपदिशति__अङिसंभवितास्मीति । शारीरमुपासकं कर्तृत्वेन = प्राप्तकर्तृतः, 'अभिसंभवितास्मी'त्यस्य 'प्राप्तास्मी'त्यर्थात् । 'न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्त' इति शङ्करभाष्यम्, अत्राभिसंभवितास्मीति 'कर्तृत्वेने'त्यत्र व्यपदिशती'त्यस्यानुषङ्गेणान्वयः, सत्यां
गतावित्यादिनात्मानमा'त्मना हन्ती'त्यादिविदौपाधिकभेदकल्परनागतिकरूपा न युक्तेति सूचितम्, 'संभवितास्मी'ति समुपसृष्टात् प्राप्त्यर्थकाद्भवतेरात्मनेपदिनो व्यत्ययेन लुटः स्थाने परस्मैपदम्, एकस्य समयभेदेन संज्ञाद्वयसंभवेऽपि न युगपत्, प्रकृतश्रुतौ तु युगपदेव संज्ञाद्वयप्रयुक्तकार्यद्वयोपलम्भो विरुद्ध इत्यशयेन समाधत्ते__उच्यत इत्यादिना । ज्ञेयत्वे = 'मनोमय' इत्यादिना ज्ञेयत्वेन बोधितत्वे । कर्मत्वं वाच्यमिति । 'एत'मित्यनेन कर्मत्वं वाच्यमेतच्छब्दस्योप- क्रान्तपरामर्शकत्वादिति भावः । बाधादिति । परत्वादिति भावः । कर्मणः कर्तृत्वे दूषणान्तरमंप्याह__कर्मकर्तृतायामिति । 'संभवितास्मी'ति न सुद्धे कर्तरि लकारः, अपि तु कर्मकर्तरीति भावः । तथा च__एतमितः प्रेत्येति पूर्ववाक्ये कर्मतया निर्दिष्टस्य कर्तृत्वमिति न युगपत्संज्ञाद्वयमिति यगाद्यापत्तिरिति । यगाद्यापत्तिरिति । 'आदि'पदग्राह्यात्मनेपदापत्तिरिति भावः । व्यत्ययं विनैव निर्वाहे तदभ्युपगमो न युक्त इत्यशयः । भैदहेतुरिति । जीवपरमात्मनोरे- भेदहेतुरित्यर्थः । तथा च 'मनोमय' इत्यादिपदेन परमात्मैव निर्दिष्ट इति सिद्धमिति नोक्ताधिकरणविरोध इति तात्पर्यार्थः । एवं च = धातूपात्तव्यापाराश्रयत्वस्य कर्तृत्वे च । अत एव 'घटो भवती'त्यत्र घटीयव्यापाराश्रयः कर्तेति कर्तृलक्षणयोगाद् घट एव कर्तेति कल्पतरुकारैरुक्तं च संगच्छते । अत एव बाधलक्षणेऽस्थियज्ञे 'क्रत्वर्थ तु क्रियते गुणभूतत्वात्' इति क्रत्वर्थाभ्युच्चयाधिकरणे न चैतन्यापेक्ष्यं कर्तृत्वं काष्ठादीनामपि ज्वलनादौ कर्तृत्वाद्, यस्यैवान्यापेक्षयाख्यातोपात्तव्यापारसमवायः स कर्ता, तस्माच्छुक्रान्व- रम्भणादिकर्मास्थिभिः कर्तव्यमिति सिद्धान्तितम् । 'शुकं यजमोनोऽन्वरभते'त्यादौ यत्र यजमानो गुणभूतस्तत्कर्म सत्रिणां मध्ये कश्चिन्मृतस्तदस्थिभिः सहेतरैर्जीवद्धिरारब्धसत्रैः कर्तव्यमुक्तस्वातन्त्र्यरूपकर्तृत्वस्य तत्रापि संभवादिति तत्रत्यसिद्धान्ताशायः । पूर्वमीमांसायां दशमाध्याये प्रथमचरणे स्पष्टमिदम् । कारकचक्रेति । समभिव्याहृतधात्वर्थव्यापारकसमुदायेत्यर्थः, तच्च 'देवदत्तः काष्ठैस्तण्डुलं स्थाल्यां पचती'त्यादौ देवदत्तस्यैवेति तस्मिन्नेव लकारः ।
उक्तापक्षया लाघवमभिप्रेत्याह__कृतीति । प्रकृतधात्वर्थव्यापारानुकूलकृत्या- श्रयत्वं तद्धात्वर्थकर्तृत्वमित्यर्थः । तेनान्यव्यापारानुकूलकृतिमादाय नातिप्रङ्गः, आश्रयत्वं समवायेन ग्राह्यम्, तेन पाकानुकूलकृतेः कालिकसंबन्धेनाश्रयत्वस्य घटे सत्त्वेऽपि न 'घटः पचति' 'घटेन पच्यत' इत्यादेरापत्तिः । अव्याप्तमिति ।
कारकचक्रप्रयोजकत्वरूपप्रयोक्तृत्वस्य, कृतिमत्त्वस्य चाचेतने दण्डादौ बाधादित्यर्थः । अत्र 'कृतिमत्त्वं कर्तृत्व'मिति मते आश्रयांशस्य देवदत्तादिशब्दलभ्यतया कृतिमात्रं विभक्तयर्थ इि स्वीकारे कृतेर्धातुत एव ाभान्न तत्र विभक्तिशक्तिसंभव इति दूषणं संभवदपि लोट्टङ्कितम्, फलानुकूलकृतेर्धातुतो लाभेऽपि व्यापारानुकूलाया अलाभात् तत्र विभक्तिशक्तिसंभवात्, 'तदनुकूलकृतिर्न भासत' इत्यस्य शपथनिर्णेत्वात् । अथवा कृतेर्धातुलभ्यतया आश्रयत्वमेव वा तृतीयाद्यर्थ इति स्वीकारे उक्तदूषणासंभवेनेदमेव दूषणमभिहितम् । परे तु कारकचक्रप्रयोक्तृत्वमेव स्वातन्त्र्यं भाष्यसंमतं, तच्च देवदत्तादावनारोपितं, घटादावारोपितं, प्रयोजकत्वस्यारोपादेव'भिक्षा वासयती'त्यादिप्रयोगनिर्वाहः, तदुक्तं 'कारके' इति सूत्रभाष्ये__'प्रधानेन समवाये स्थाली परतन्त्रा,किं पुनः प्रधानम् ? कर्ता, कथं ज्ञायते कर्ता प्रधानमति ?, यत् सर्वेषु साधनेषु संनिहितेषु कर्ता प्रवर्तयिता भवति' इति । एवं स्वेच्छाधीनप्रवृत्तिनिवृत्तिकत्वमपि स्वातन्त्र्यम्, तच्च प्रयोजकसंनिध्येऽपि स्वार्थसत्त्वासत्त्वयोः प्रवृत्तिनिवृत्तिभ्या प्रयोज्यस्य संभवति, एतच्च 'स्वतन्त्रः कर्ता' इति सूत्रे भाष्ये स्पष्टम् । इदमपि धटादावारोपितं, देवदत्तादावनारोपितम्, प्रधानधात्वर्थव्यापाराश्रयत्वमेव न तत्, तत्र स्वतन्त्र- पदस्यापरिभाषणाल्लोके उक्तार्थयोरेव तत्पदप्रवृत्तेश्च, अत एव प्रयोज्यस्यास्वातन्त्र्यात् कर्तृत्वानुपपत्तिशङ्कायां स्वेच्छाधीनाप्रवृत्तिनिवृत्तिकत्वरुपं साधितम्, एतादृशस्वातन्त्रयाश्रयनिष्ठो व्यापारो धातुनोच्यते, तदभिप्रेत्यैव धातुनोक्तक्रियेइत्यादिकं हरिणोक्तमिति न तद्विरोधः, अत एव__
'प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि ।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ।।
अदृष्टत्वात् प्रतिनिधेः प्रविवेके चदर्शनात् ।
आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरुच्यते ।।'
__इति वाक्यपदीये उक्तम् । तदर्थस्तु करणादितः प्रागेवान्यतोऽर्थितादेरेव निमित्तात् कर्ता प्रवर्तते, करणादिकं तदधीनप्रवृत्तिनिवृत्तिकम्, किं च करणादेरभावे प्रतिनिधिर्दृश्यते व्रीह्यभावेऽपि यागकरणात्, कर्तुः स नास्ति, तद्भेदे क्रियान्तरमेवेति प्रसिद्धेः, अपि च कारकान्तरानुपादानेऽप्यसौ दृश्यत इत्येतद्ग्रन्थस्यात्रैव तात्पर्यमिति प्राहुः । अत्रेदं बोध्यम्__सर्वेषां कारकाणां
स्वस्वावान्तरक्रियाद्वारा प्रधानक्रियानिर्वर्तकत्वमत एव तेषां भावनायामेवान्वयः क्रियाजनकमिति ज्ञाने च जन्यकाङ्क्षानियमेन तत्रैवान्वयौचित्यात्, न च कारकशब्दकर्तृशब्दयोरैकार्थ्यात् कारकं करणमिति व्यवहारः कर्ता कारमितिवदनुपपन्नः, कर्ता कारकमिति च पौनरुत्तयान्न स्यादिति वाच्यम्,__
'निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणादित्वसंभवः ।।'
__इति हरिग्रन्थेनैव समाधानात्, सर्वेषां स्वातन्त्र्येणैव स्वस्वव्यापारद्वारा प्रधानक्रियानिष्पादकतया कर्तृत्वात् कारकत्वम्, तेन 'करणं कारक'मिति व्यवहार उपपन्नः, विशेषे कारकत्वरूपसामान्यधर्मस्य सत्त्वात्, एवमीदृशे स्थले कर्मादीनामिवापादानस्य कर्तृत्वेऽपि 'ग्राम आगच्छती'ति प्रयोगो नानभिधानात्, कारणत्वाद्यवस्थायां कर्तृसंज्ञाया असत्त्वान्न करणं कर्त्रित्यादिव्यवहारापत्तिः, कारकपदानुवदत्त्यैव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रग्रहणं यस्य स्वातन्त्र्यमेव विवक्षितं न तु पारतन्त्र्ययुक्तस्वातन्त्र्यं तस्यैवेत्यर्थलाभार्थमतो न करणत्वाद्यवस्थायां सा, कारकसंज्ञा तु वस्तुसत्स्वातन्त्र्यस्य स्थितिमात्रेण करणादीनां विधानसामर्थ्यात् प्रवर्तते, यद्वा ज्वलनादिरूपस्वस्वव्यापारे स्वातन्त्र्यात् तेषां व्यापाराणां धातुवाच्यत्वे 'एधाः पचन्ती'त्यादिप्रयोगदर्शनात् तात्कालिकं कर्तृत्वमादाय कारकत्वम्, स्स्वव्यापारद्वारा प्रधानक्रियानिष्पादकत्वेन च करणत्वादि, संप्रदानापादानयोरपि स्वव्यापारे स्वातन्त्र्यमादायैव कारकत्वं 'विप्रो ददाति ग्राम आगच्छती'ति प्रयोगाबावेऽपि संपद्यते, तदुक्तं भाष्ये__'पर्याप्तं करणाधिकरणकर्मँणां कर्तृत्वं निदर्शितमपादानकर्तृत्वनिदर्शनाय' इति,__ 'वृक्षो़वधिभावमुपगच्छति विप्रोऽनुमन्यत'इत्यादो स्वस्वव्यापारप्रवृत्तेस्तयोपरि कर्तृत्वं दृश्यते, तद्वयापारस्य पतिदाधातुवाच्यता नानबिधानादिति ध्येयम् । कारकत्वं चोपलक्षणं सदेब तत्तत्संज्ञोपयोगि, स्पष्टं चेदं भाष्ये । अथवा धातूपात्तव्यापारत्वरूपस्वातन्त्र्यं न करणत्वाद्यवस्थायामिति नातिप्रसङ्गः, कारकत्वं पूर्ववद्भवत्येवेत्यलं विस्तरेण ।
कर्तारं विभजति-अयं चेति । त्रिविधः = धर्मत्रयवान् । क्रमेणोदा- हरणान्याह-मयेति । प्रयोजकत्वकर्मत्वासमानाधिकरणरूपशुद्धकर्तृत्ववानयम्, प्रयोजकत्वकर्मत्वे तत्तद्धात्वर्थनिरूपितेग्राह्ये, नातोऽप्रसिद्धिः, अथवा कर्मत्व- प्रयोजकत्वाविवक्षासमानकालिकविवाविषयकर्तृत्वं शुद्धकर्तृत्वम् । कार्यत इति ।
करोतेणिजन्तात् कर्मणिसट्, यक्, अत्र हरिः प्रयोजककर्ता । गमयति, कृष्णमिति । अत्र कृष्णास्याऽणौ कर्तुर्ण्यन्ते 'गतिबुद्धि-' इति सूत्रेण कर्मसंज्ञाविधानात् कृष्णः कर्मकर्ता, तथा च कर्म चासौ कर्तेति कर्मधारयः, कर्मसंज्ञाया कर्तृसंज्ञाया बाधात् तदभावेऽपि प्रकृतभूतधातूपात्त- व्यापराश्रयत्वरूपकर्तृत्वस्य न क्षतिः । सेवनानुकूलो व्यापार इति । सेवा = पादसंवाहनादिकं, प्रीतिर्वा, नव्यमते तु मदभिन्नाश्रयकव्यापारजन्या हरिकर्मसेवा इत्यादिः शाब्दबोधोऽवसेयः । एवं 'कार्यते हरिणे'त्यत्रापि तादृश- व्यापारजन्योत्पादनेति बोधोऽनुसंधेयः ।
नन्वाश्रय्यापारयोः करणतृतीयावाच्यत्वे प्रमाणाभावः, साधकतमस्यैव करणसंज्ञाविधानादित्यत आह-तथा हीति । अव्यवधानेनेति । अव्यवधानेन फलाजनको यो व्यपारस्तद्वतेत्यर्थः । 'अव्यवधानेने'ति तृतीयाया वैशिष्ट्यमर्थः, तथा च तद्विशिष्टकाल इत्यर्थः, तस्य च जननेऽन्वयः, क्रियायाः = फलस्य, धात्वर्थफलस्य साध्यतया प्रतीयमानत्वात् क्रियात्वेन व्यवहारः, 'कर्मवत् कर्मणा तुल्यक्रिय' इत्यत्र यथा, तथा चाश्रयव्यापारयोः शक्यत्वे 'साधकतम'मिति सूत्रं प्रमाणमिति भावः । एवं च मूले 'आश्रय' इति व्यापारस्याप्युपलक्षणमिति तात्पर्यम्, 'बाणेन हतो वाली'त्यत्र बाणस्य प्रकृत्यर्थस्याभेदेन तृतीयार्थाश्रयेऽन्वयः, तस्य च व्यापारेऽपरतृतीयार्थे आधेयतया, तस्य च जन्यत्वसंबन्धेन धात्वर्थव्यापारे फले वा प्राणवियोगात्मनि । अन्ये तु-'व्यापारे न शक्तिराक्षयस्यैव तृतीयार्थस्य स्ववृत्तिव्यापारजन्यत्वादिसंबन्धेनान्वय' इत्याहुः । परे तु 'करणत्वशक्तिमानर्थः, अन्वयः पूर्व'वदित्याहुः । 'विवक्ष्यत' इत्यस्य प्रयोजनं कारिकया स्पष्टयति-वस्तुत इति । तत् = करणत्वं, वस्तुतो = वस्तुविशेषनिष्ठत्वेनानिर्देश्यं = निर्देष्टुमशक्यम्,
तत्र हेतुमाह-न हीति । हि = यस्माद्धेतोस्तन्न वस्तुव्यवस्थितं गोत्वादिवद् वस्तुविषेषमात्रनिष्ठम् । वस्तुविशेषमात्रानिष्ठत्वे हेतुमाह-स्थाल्येति । अधिकरणत्वनिश्चयविषयीभूतापि स्थाली तनुतरकपालतया वैवक्षिकं करणत्वं भजति, उक्तरीत्या सर्वेषां करणत्वेऽपि न युगपत् सर्वेषां करणत्वविवक्षेति न सर्वत्र तृतीयापत्तिरिति ध्येयम् । सर्वेषां विवक्षया करणत्वाभ्युपगमेऽधिकरण- विरोधमुद्भाव्य परिहरति-न चैवमित्यादिना । मीमांसाधिकरण इति । द्वितीयाध्यायस्य तृतीयपादस्थाधिकरणे 'जीवः कर्ता शास्त्रार्थवत्त्वात्', एवं हि
यजेत जुहुयादित्यादिशास्त्रं सार्थकं भवति, कर्तृत्वे सत्येव यागादिकमुपदेष्टुं शक्यते नान्यथेति सूत्रार्थः । 'शक्तिविपर्ययात्' इतीति । विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति, यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् ततः शक्तिविपर्ययः स्यात्, करणशक्तिर्बुद्धेहीयेत कर्तृशक्तिश्चापद्येत, सत्यां च बुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वं स्यादित्यादि-शंकरभाष्ये प्रतिपादितम् ।
अन्तःकरणस्येति । अन्तःकरणं = बुद्धिपरिणामः, परिणानपरिणामिनोर- भेदान्न भाष्यविरोधः ।
करणतयेति । तथा च करणत्वं सर्वेषां न वैवक्षिकमित्यभिप्रायकं न सूत्रभाष्यदिकम्, अपि त्वन्तःकरणे करणत्वस्य क्लृप्तत्वेऽप्यन्यत्र कर्तृत्वविक्षायां न किचिद् बाधकं युगपदुभयविवक्षाया एव विरुद्धत्वादित्याशङ्क्याह- वस्तुतस्त्विति । भाष्य एवेति । शास्त्रार्थवत्त्वादिहेतुभिः साधितं जीवस्य कर्तृत्वं न स्वाभाविकमपि त्वौपाधिकम्, तस्य स्वाभाविकत्वे मुक्तिर्न स्यात्, कर्तृत्वस्य दुःखस्वरूपत्वात्, तस्य स्वभावेत्वे हि अग्रेरिवौष्ण्यादात्मनः कर्तृत्वाद्वियोगा- संभवात् । तदेतदाहाचार्यः-'यथा च तक्षोभयथा' इति । च शब्दस्त्वर्थः, यथा-तक्षा वास्यादिकरणहस्तो दुःखीभवति तद्रहितस्तु सुखी सबपद्यते, अनेन दृष्टान्तेन कर्तृत्वमौपाधिकमेवेति स्पष्टमिति शङ्करभाष्ये उक्तम् । एवं च पूर्वोक्तशक्तिविपर्ययस्याभ्युच्चयरूपत्वं स्पष्टमेवेति भावः । तच्च = अधिकरणसंज्ञ च । नन्वाधारस्य सप्तम्यर्थत्वेऽप्याश्रयः कथं सप्तमीशक्यः, आधारत्वाश्रयत्वयोर्भेधादित्याशङ्क्याह-तत्वं चेति । आधारत्वं चेत्यर्थः । आश्रयत्वमिति । आधारत्वस्यातिरिक्तत्वे मानाभावात्, तथा च नान्नि भेदो न वस्तुनीति भावः । आश्रयत्वमात्रेणेति । आयत्वमात्रपुरस्कारेण विहितेत्यर्थ- । आधारसंज्ञेति । आधारस्य संज्ञा = अधिकरणसंज्ञेत्यर्थः । आधारसंज्ञाया अविधानाद्यथाश्रुतेऽसंगतेः, न चाधारसंज्ञैवाधिकरणस्य विधीयत इति वाच्यम्, तस्य प्राङ्निर्दिष्टत्वात् पश्चान्निष्ठस्यैव संज्ञात्वात्, स्पष्टं चेदं वृद्धिसूत्रे भाष्ये । 'स्तम्यधिकरणे' इत्यादेरसंगत्यापत्तेश्च । ताभिः = कर्मादिसंज्ञाभिः । बाधः स्यादिति । तथा च निरवकाशाभिस्ताभिरधिकरणसंज्ञाया बाध उचित एवेत न कर्मादीनामधिकरणसंज्ञापत्तिरिति भावः । क्रियाक्षय इत्येवेति । साक्षात् क्रियाक्षय इत्यर्थः, एवेन चैत्राद्याश्रयकटादेर्व्यावृत्तिः, तथा च तादृशस्य कर्तुरेव संज्ञा स्यात्, फलाश्रयकर्मणोऽपि वा स्यात्, न तु कटादेरिति तात्पर्यार्थः । साक्षात्
क्रियाश्रयस्य कर्तृकर्मसंज्ञाविधानात् । परिशेषात् साक्षात् क्रियाश्रयद्वारा क्रियाश्रयस्य ग्रहणमित्याशयेनोत्तरयति-तथाप्यत्रेति । अत्र कारकाधिकारात् क्रिया लब्धा सा च फलपूपापीत्याशयेनाह-कर्तृकर्मद्वारेति । तदाश्रयत्वमिति । कर्तृकर्मगतव्यापारफलात्मकक्रियाश्रयत्वमित्यर्थः । उक्तेऽर्थे हरिसंमतिमाह- कर्तृकर्मव्यवहितामिति । स्वाश्रितकर्त्राद्याश्रितामित्यर्थः । उपकुर्वादिति । स्वायया क्रियया प्रधानक्रियानिर्वर्तकम् । इदं च 'कारके' इत्यधिकारलब्धम् ।

औपश्लेषिकमिति । उप = समीपे श्लेषः = संबन्धस्तत्कृतमौप- श्लेषिकम् । एकदेशावच्छेदेन श्लेषेऽप्यौश्लेषिकम् । तत्रापि श्लेषस्य समीपमुपश्लेषं तत्कृतमिति व्युत्पत्तिसंभवात्, तत्राद्यम् 'इको यणचि' इत्यादाविति 'संहितायाम्' इति सूत्रभाष्ये स्पष्टम् । यन्मासेऽतिक्रान्ते दीयते तस्य दानस्य स मास औषस्लेषिकमधिकरणमिति 'तत्र च दीयते__' इत्यत्र भाष्ये उक्तम् । 'तदस्मन्नधिकम्'-इति सूत्रे च भाष्ये स्पष्टमिदम् । वैषयिक- मिति । औपश्लेषिकाभिव्यापकभिन्नाधिकरणमित्यर्थः । अभिव्यापकमिति । सर्वावयवावच्छेदेनाधेयसंबन्धाश्रय इत्यर्थः । यथा 'तिलेषु तैलं' 'दध्नि सर्पि'रिति । अत्र यावत्तिलदध्यवयवावच्छेदेन तैलसर्पिःसंबन्धस्य सत्त्वेनाभि- व्यापकाधारतानिर्वाहः । इदमेव मुख्यममधिकरणं, तद्भिन्नं सर्व गौणमिति 'स्वरितेन-' इति सूत्रभाष्ये स्पष्टम् । गुरौ वसतीति । गुर्वधीनत्वविवक्षायां गुरौ वसतीति । परे तु तादृशावधित्वसमानाधिकरणापादानत्वशक्तिस्तद्वान् पञ्चम्यर्थ इत्याहुः । इदं, 'मीक्ष इच्छास्ती'ति च वैषयिकोदाहरणम् ।
अवधेः पञ्चम्यर्थत्वे सूत्रं प्रमाणयति-'अपादाने पञ्चमी' इति । ननु सूत्रेणापादानस्य पञ्चम्यर्थत्वलाभेऽप्यवधेः कथं तदर्थत्वलाभ इत्यत आह-तच्चेति । तच्च = अपादानं चेत्यर्थः । 'ध्रुवमपायेऽपादानम्' इति सूत्रादवधिभूतमिति योजना । तथा चोक्तसूत्रेणावधेः संज्ञाविधानादर्थत्वमिति तात्पर्यम् । परे तु तादृशावधित्वसमानाधिकरणापादानत्वशक्तिमान् पञ्चम्यर्थ इत्याहुः । 'भीत्रार्थानाम्-' इत्यादिसूत्रे हेत्वादीनामपादानसंज्ञाविधानेऽपि वाच्यत्वमितरत्र लक्षणेति भावः । वस्तुतस्तु 'भूत्रार्थानाम्-' इत्यादिसूत्राणां भाष्यकारेण प्रत्याख्यानादपादानसंज्ञावधेरेव, तथा च कारकपञ्चम्यर्थो- ऽवधिरेवेत्यभिप्रायकमिदम्, तेनान्यादिशब्दयोगे विहिताया 'विभाषा गुणे'- इति विहितायाश्च तस्याः संबन्धहेत्वर्थकत्वेऽपि न क्षतिः । अपायो विश्लेष इति । विश्लेषो विभागः । अपायपदमपायजनकक्रियापरमित्यभिप्रेत्याह-तज्जनक- क्रियायामिति । अवधिभूतोऽयं ध्रुवपदार्थ उक्तः । ध्रुवं = स्थिरं, तच्च क्रियानाश्रयः, सा च प्रत्यासत्त्या प्रकृतधातूपात्ता, एवं चेदमवधिभूतमेवेति भावः । वाक्यपदीयकारिकायामुभयकर्मक इति पाठे__उभे कर्मणी जनके यस्येति बहुव्रीहिर्बोध्यः, उभयकर्मजन्य इत्यर्थः । उभयकर्मज इति__पाठस्तु ऋजुरेव ।
अपाये यदुदासीनमित्यत्रापाये इति__विभागजनकक्रियापरं
लक्षणयेत्याशयेन व्याचष्टविश्लेषहेत्विति । ध्रुवपदार्थ उदासीनपदेनाक्तः । औदासीन्यं = तदनाश्रयत्वमित्यभिप्रेत्याह__अदासीनमनाश्रय इति । फलितार्थमाह-एवं चेति । अपाये ध्रुवमित्यनेन विश्लेषजनकक्रियौदासीन्यविवक्षणे चेत्यर्थः । विश्लेषाश्रयत्वमिति । धात्वर्थविभागाश्रयत्वमित्यर्थः । एतदप्यर्थाल्लब्धम् । एतन्निवेशनं तु 'देवदत्तो ग्रामात् काशी याती'त्यादौ काश्यादावतिव्याप्तिवारणाय । यद्यपि कर्मादिसंज्ञाभिः परत्वेन बाधादपादनसंज्ञातिप्रसङ्गे नेति चेत् तथापि विभागसमानाधिकरणैवापादान- शक्तिरिति बोधनाय तदिति भावः । तद्वारणाय = अपादानसंज्ञावारणाय । सत्यन्तमित । इदं च ध्रुवत्वपदार्थः । तदनुपादाने कर्तृसंज्ञापवाद एव स्यात्, अपायविषये यत् कारकमुक्तापायरूपक्रियाश्रयरूपमपादानमित्यर्थसंभवात् । कर्तृ- संञ्ज्ञायास्तु 'पचति चैत्र' इत्यादिरवकाश इति भावः । एतेन परत्वात् कर्तृसंज्ञया बाधादिदमसंगतमित्यपास्तम् । नन्वपायशब्दो विभाहार्थक एवास्तु, सति सप्तमी-अपाय इति, कारकाधिकाराद्धातुलाभः । तथा च प्रकृतधात्वर्थविभागाश्रयत्वे सति यत् कारकं तदपादानमिति सूत्रार्थाङ्गीकारे नेयं संज्ञा कर्तृसंज्ञापवादिका, ग्रामादौ चरितार्थत्वात्, इत्थं च परया कर्तृसंज्ञया बाधान्न कर्तर्यतिप्रसङ्ग इति चेत्, पूर्वोक्तार्थस्यापि संभवात् स्पष्टार्थमेव तदित्याहुः । ननु प्रकृतधातूपात्तक्रियानाश्रयत्वविवक्षणेन कर्तर्यतिप्रसङ्गवारणे अलं विश्लेषहेतुत्वनिवेशनेनेत्यत आह_धावत इति . 'अश्वात् पतती'त्युक्ते क्रियानाश्रयत्वदशायामेव तादृशप्रयोगोपपत्तिरित्याशङ्क्येत, अतस्तद्वयावृत्तये- धावत इति विशेषणोपादानम् । तथा चोक्तविवक्षायं प्रकृतधातूपात्तधावन- रूपक्रियाश्रयत्वेनैव तादृशप्रयोगानुपपत्तिर्दृढैवेति भावः । धावनं तु व्यभिचारादन्यथासिद्धित्वाच्च न विभागहेतुरिति नोक्तदोषतादवस्थ्यम् । एतदर्थमेव च अपाये इति सूत्रे उपात्तम् । अन्यथा ध्रुवपदेन स्थिरस्यैव लाभापत्त्योक्त प्रयोगानुपपत्तिप्रसङ्गः । विश्लेषजनकेति । अश्वकुड्ययोविश्लेषस्तज्जनकपतनाश्रयत्वेऽपीत्यर्थः । विश्लेषसामान्योपादाने उक्तस्थलेऽश्वस्यापादानत्वानुपपत्तिसत्त्वेऽपि विश्लेषविशेषोपादाने न दोषः । अश्वनिष्ठपतनस्याश्ववदेव तद्विबागाजनकत्वादिति समाधानाशयमाह-तद्विश्लेष इति । यद्विश्लेषावधित्वं तद्विश्लेषव्यक्तीत्यर्थः । अश्वनिष्टेति । अश्वकुड्य- विभागजनकाश्वनिष्ठक्रियेत्यर्थः । क्रियानाश्रयत्वाभावादिति । मेषद्बयस्यापि
तद्विश्लेषजनकक्रियाश्रयत्वादिति भावः । अन्यतरकर्मजविभागस्थले तद्विभाग- जनकक्रियानाश्रयत्वस्यान्यतरस्मिन् संभवान्मेषो मेषादपसरतीत्यस्य नानुपपत्तिरित्येतेन सूचितम् । उभावप्यध्रुवावित्यादना विभाग इत्यन्तेन शङ्का, प्रविभक्ते तु क्रिये तत्र व्यवस्थिते इति समाधानम् । तदेव मेषयोरित्यादिना स्पष्टीकृतमिति बोध्यम् । तत्रान्यतरकर्मजविभागस्थलीयमनुरूपं दृष्टान्तमाह__ यथा निश्चलेति । निश्चलो विभागजनकक्रियानाश्रयो यो मेषस्तस्मादित्यर्थः । अपसरदिति । अपसरंस्तादृशक्रियाश्रयो यो द्वितीयमेष इत्यर्थः । तत्तत्क्रियानाश्रयत्वेऽपि तत्तन्मेषस्य तद्विश्लेषजनकक्रियाक्षयत्वावच्छिन्न- प्रतियोगिताकाभावासत्त्वादनुपपत्तिर्दुष्परिहरैवेत्याशङ्कापनुत्तये आह-तथा चेति । तत्क्रियानाश्रयत्वमिति । तथा च तद्विश्लेषजनकक्रियाव्यक्ति तद्वयक्तित्वेनोपादाय तदनाश्रयत्वनिवेशादेकैकमेषस्य तद्विश्लेजनकमेषान्तरसमवेतक्रियानाश्रयत्वान्ना- नुपपत्तिरिति भावः
परे तु कर्तृभेदेन क्रियाभेदसत्त्वेऽपि स न प्रतीयते, तिङन्ते निवृत्तभेदाया एव क्रियाया धातुनोपस्थानात्, अत एव सरूपसूत्रे 'न वै तिङन्तान्येकशेषारम्भं प्रयोजयन्ति' इत्युक्तम् । एवं च नोक्तरीत्यानुपपत्तिपरिहारसंभवः, अपि तु शब्दभेदेन वाच्यभेदमाश्रित्य मेषशब्दोपस्थितयोस्तादृशक्रियाश्रयत्वात् कर्तृत्वं, परस्परशब्दोपस्थितयोस्तयोस्तादृशक्रियानाश्रयत्वेनापादानत्वम्, अन्तःकरणादि- रूपोपाधिभेदेन भेदवच्छब्धभेदेनापि भेदस्य स्वीकर्तुमुचितत्वादिति__संप्रतिपन्नाः । ननु वृक्षकर्मणैव विभागजननस्थले 'वृक्षाद्वस्त्रं' पतती'ि प्रयोगानुपपत्तिः, वृक्षे वृक्षवस्त्रविभागजनकतत्क्रियानाश्रयत्वाभावादत आह__क्रिया चात्रेति । दात्वर्थ इति । तथा च संयोगानुकूल्यापारादिरूपपतधात्वर्थानाश्रयत्वाद्वृक्षस्यापादानत्व- सिद्धिः । ननु तादृशधात्वर्थस्य विभागाजनकतया विश्लेषजनकतद्धात्वर्था- प्रसिद्धया तदनाश्रयत्वस्य मुतरामसंभव इति चेन्न, तं तं धात्वर्थ तत्तद्वयक्तित्वेनो- पादाय तदनाश्रयत्वमात्रं निवेश्यं, न तु धात्वर्थे विश्लेषहेतुत्वमपि, तावतापि 'धावतोऽश्वात् पतती'त्यत्र पूरुषनिष्ठपतनानाश्रयतयाश्वस्याऽपादानत्वोप- पत्तेरित्याशयात् । अथवा विश्लेषहेतुतत्तद्धात्वर्थाश्रयो यो यस्तत्तद्भेदवत्त्वमर्थो बोध्यः । 'देवदत्तो वृक्षात् पतती'त्त्र देवदत्तादिरेव निरुक्तधात्वर्थाश्रयः प्रतियोगी प्रसिद्ध इत्याशयोऽवसेयः । उभयकर्मजविभागतात्पर्यकस्तु न पूर्वपक्षः, 'परस्परस्मा'दित्यत्रोभयोरवधित्वं कर्तृत्वं च, इह त्वेकस्यावधित्वमपरस्य
कर्तृत्वमिति वैलक्षण्यसूचनायैतद्ग्रन्धोपन्यासः । नन्वनाश्रयत्वान्तदलस्यावाच्यत्वे 'देवदत्तो ग्रामादायाती'त्यत्र देवदत्तादिति प्रयोगापत्तिर्विश्लेषाश्रयत्वादित्यत आह__द्ितीयार्थोक्त इति । यथा 'देवदत्तो देवदत्तं गच्छती'ति प्रयोगस्य परमवेतत्वाद्वाच्यत्वेऽपि नापत्तिः कर्तृसंज्ञया परया कर्मसंज्ञाया बाधात्तथा कर्तृसंज्ञयापादानसंज्ञयावधित्वशक्तिमत एव वाच्यत्वौचित्यादिति तात्पर्यार्थः । एवमपीति । 'देवदत्तो देवदत्ता'दित्यादिप्रयोगवारणेऽपि । वृक्षात् स्पन्दत इति । तत्रापि तादृशधात्वर्थानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वस्य वृक्षे सत्त्वात् । इयमापत्तिः सत्यन्तार्थस्य वाच्यत्वपक्षेऽपीति बोध्यम् । इष्टापत्त्योक्तप्रयोगा- पत्तिशङ्कां परिहरति-आसनाच्चलित इति । उक्तप्रयोगवरणाय केषांचित् समाधानं दूषयितुमुपन्यस्यति-एतेनेति । अपादानत्वबोधे = निरूपकतासंबन्धेना- पादानत्वप्रकारकशाब्दबोधे, तेनापादानत्वप्रकारकोपस्थितौ न व्यभिचारः । हेतुत्वमिति । विशेष्यतासंबन्धेन हेतुत्वमित्यर्थः । संयोगानुकूलव्यपारार्थलाक्षणिक शक्तिभ्रमविषय स्पन्दधातुयोगे तु तादृशप्रयोगे इष्टापत्तिरेवेति भावः । पतधातुरि सकर्मकः । अधोदेशानुयोगिकसंयोगानुकूलव्यापारार्थ कत्वात् । अत एव 'द्वितीया श्रिता-' इति सूत्रेण कूपपतित इत्यादिसमासः सिध्यति । तेनाश्वात् पततीत्यादिप्रयोगस्य नानुपपत्तिः । अथवा सकर्मकधातुजन्योपस्थितेरित्यनेन व्यापारानधिकरणवृत्तिफलावच्छिन्नव्यापारवृत्तिज्ञानजन्योपस्थितिर्हेतुरिति फल- विशिष्टव्यापारे शक्तिरिति मते, तयोः पृथक् शक्तिरिति मते सकेतीयबोधनिष्ठविषयताशे तादृशफलविषयकत्वाच्छिन्नत्वावगाहिज्ञानजन्योप- स्थितिर्हेतुस्तादृशफलविशिष्टव्यापारविषयकलक्षणाग्रहजन्योपस्थितिस्च हेतुरित्य- यमर्थो विवक्षितः । तेनार्थाभेदेन शब्दभेदाभावेऽपि न दोष इति दिक् । अपास्त इति । वृक्षात् स्पन्दत इति प्रयोगवारणायोक्तहेतुहेतुद्भावाङ्गीकारे 'आसनाच्चलित' इत्यादिप्रयोगस्येष्टस्यानिर्वाह इति तादृशहेतुहेतुमद्भावो नाभ्युपेय इति 'वृक्षात् स्पन्दत्' इति प्रयोगेऽपीष्टापत्तिः कर्तुमुचितेति भावः । अत्राहुः__स्पन्दे कम्पनमात्रार्थकतया विभागाप्रतिपादकतयाविधित्वाभावेन 'वृक्षात् स्पन्दत' इति प्रयोगो नोचितोऽपि तु 'वृक्षे स्पन्दत' इत्येव । चलतेस्तु विभागानुकूलव्यापाराद्यर्थकत्वमासमाच्चलित इति प्रयोगानुरोधात्, स्पन्देरपि तदर्थकत्वं इष्ट एवोक्तप्रयोग इति । अन्ये तु तस्य नैव तदर्थकत्वमित्याहुः । चलतेरिव कम्पेरपि तदर्थकत्वमभिप्रेत्य तु प्रकृतग्रन्थोऽवसेयः । दुर्वारमिति ।
विभागावच्छिन्नव्यापारानाश्रयत्वस्य वृक्षे सत्त्वेनापादानसंज्ञायाः प्राप्तेः ।
कर्मसंज्ञयेति । फलतावच्छेदकसमवायेन वृक्षे विभगरूपफलाश्रयत्वसत्त्वेन कर्मसंज्ञा । 'ग्रामादागच्छती'त्यादावागच्छतेविभागजन्यसंयोगानुकूलव्यापारार्थक- तया विभागस्य फलत्वाभावात् कर्तृनिष्ठस्यैव समवायस्य फलतावच्छेदकत्वाच्च न ग्रामादेः कर्मत्वप्रसक्तिः । कर्मसंज्ञया बाधेनापादानसंज्ञाया विरहात् पञ्चम्याः साधुत्वाभावेऽप्यपादानसंज्ञाभ्रमेण तत्र तादृशप्रयोगादवध्यन्वयबोधापत्तिरित्या- शङ्कां परिहरति-भ्रमादित्यदिना । बुद्धेः = उपस्थितेः । हेतुत्वं वाच्यमिति । न चैवं त्यजिपत्योः पर्यायत्वभ्रमदशायामपि तथाविधप्रयोगादपादानत्वबोधानुप- पत्तिरिति वाच्यम् । इष्टापत्तेरित्याशयात्, पत्यादिपर्यायत्वेनागृहीतत्यज्याद्य- जन्योपस्थितित्वेन हेतुत्वमित्यत्र वा प्रकृतग्रन्थतात्पर्य कल्प्यं, तेन नोक्तदोषः । विभागानवच्छिन्नव्यापारोपस्थितेहेतुत्वं कल्पयित्वा बोधवारणं तु न सम्यक्, गतिजन्यसंयोगार्थकपतियोगे तद्वोधानापत्तेरिति भावः । अत्र यदि बोधाभावोऽनुभवसिद्ध इत्यत्र 'यदि' पदेन तादृशबोध इष्ट एवेति सूचितम् । ननु 'बलाहकाद्विद्योतत' इत्यत्रापादानत्वानुपपत्तिः, गतेरनुपस्थितेस्तस्या एवापायत्वादत आह__वलाहकादिति । निःसृत्येति । अध्येति । अत्राध्याहारस्तत्पूर्वकविद्योतने धातूर्वृत्तिः, वक्षयति चैतदनुपदं ग्रन्धकारोऽपि । बलाहको नाम धूमज्योतिःसलिलमरुतां संधातः, तादृशसमुदायात्मक- मेघादवयवभूतज्योतीरूपविद्युतो भेदाविवक्षणात्तस्यावधित्वम् । यदा तु तेजस आधारत्वेन स विवक्ष्यते तदा 'वलाहके विद्योतते' विद्युदिति सप्तमी । यदा संघातावयवयोरभेदाविवक्षा तदा प्रातिपदिकार्थमात्रे प्रथमा भवतीति बोध्यम् । स्पष्टं चेदं कैयटादौ । 'रूपं रसात् पृथ'गित्यत्र रूपे विभागपूर्वक- संयोगानुकूलव्यापाररूपनिःसरणस्य बाधादित्याशङ्कां निराकर्तुमाह- रूपमिति । बुद्धिपरिकल्पितमिति । अयं भावः__'ध्रुवमपाये__' इत्यत्रापायशब्देन भेदस्यापि ग्रहणं 'पञ्चमी विभक्ते' इत्यत्र विभक्तशब्देनेव, पृथक्शब्दार्थोऽपि भेद एव, न तु गुणान्तरमुक्तप्रयोगादेव । भादज्ञानविषयत्वमपि 'भिदिर् विदारण इति' विदारणशब्देन गृह्यते । एकत्वेनाज्ञातस्य भेदविषयत्वेन ज्ञाने बुद्धिविदारणस्य तत्रापि सत्त्वात् । एवं च 'घटाद् भिन्न' इत्यादाविवात्राप्यनेन सूत्रेणापादानत्वे 'अपादाने पञ्चमी' इति सूत्रेण पञ्चमी । 'अन्यारात्__' इति सूत्रेऽन्येत्यर्थग्रहणं तु न, इतरशब्दस्य पृधगुपादानात् । भेदविषयबुद्धिविषयत्वरूपबुद्धियिदारण-
सापेक्षतया बुद्धिपरिकल्पितत्वमुच्यत इति । अत्र पृथकशब्दस्याक्रियावाचित्वात् कारकत्वानुपपत्तिरिति न शङ्क्यं, भवतीत्वध्याहृत्य धातूनामनेकार्थतया भैदात्मकपृथग्भावस्य तदर्थत्वाङ्गीकारेणादोष इति तात्पर्यात् ।
इमं क्लेशं परिहर्तु सूत्रान्तरेणाप्यत्र पञ्चमीमाह__'पृथग्विना__' इति । परे तु अपाये = गतिविशेषे सति यद् ध्रुवमवधिभावोऽपगमाश्रत्े सति तदतिरिक्तस्यावधित्वापयोगिव्यापारस्यानाश्रयो यस्तदपदानमिति सूत्रार्थः । त्रासादेर्वृत्रात् पर्णमित्यादौ व्यभिचारान्नावधित्वोपयोगिता । प्रकृतेऽवाधित्वो- पयोगित्वेऽपि तस्याविवक्षितत्वान्न दोषः । अत एव भाष्ये अध्रौव्यस्याविवक्षया 'त्रस्तादश्वा'दित्यत्र शङ्का समाहिता । 'ध्रुवमपाये'__' इति तु वृक्षस्य पर्ण पततीत्यादौ वस्तुगत्या वृक्षस्य क्रियाजनकतया प्राप्तापादानत्ववारणाय । तत्रापाये इति क्रियाजनकत्वेन विवक्षिते इत्यर्थतात्पर्यमाह । ध्रुवग्रहणं त्वपादानस्यावधिभावोपगम एव व्यापारो न तु कारकान्तरस्येवान्यो व्यापार इति ज्ञापनायेत्याहुरित्यन्यत्र विस्तरोऽवगन्तव्यः । तद्विभजतेनर्दिष्टविषयमिति । अत्र विषयशब्दे निमित्तभूतगतिपर इत्याशयेनाह-यत्र साक्षादिति । उक्तरूपाध्याहारं विनेत्यर्थः । धातुना = गत्यर्थकत्वेन प्रसिद्धधातुना । निर्दिश्यते = उपस्थाप्यते । गत्यर्थकधातुर्यत्र निर्दिश्यत इति यावत् । उपात्तविषयं लक्षयति-यत्र धात्वन्तरेति । धात्वन्तरस्य = निःसरत्यादेरर्थो धात्वन्तरार्थः, सोङ्गं = विशेषणं यत्रेत्यर्थः । उक्तमर्थ लक्ष्ये संगमयि-निःसरणाङ्ग इति । निःसरणं = विभागबुर्वकं गमनं यत्रेति बहुव्रीहिः । अपेक्षितेति । आकाङक्षितेत्यर्थः । आकाङक्षा चानुपादाने सति भवतीत्याशयेनाह-यथा कुत इति । गम्यमानापि क्रिया कारकविभक्तिप्रयोदिकेति भावः । प्रश्नोत्तरवाक्येद्वे अपि अपेक्षितक्रिये इति बोध्यम् ।। उद्देश्यस्य चतुर्थ्यर्थत्वे मानमाह-तथा हीति । सूत्रात् संप्रदानस्य चतुर्थ्यर्थत्वसिद्धावपि नोद्देश्यस्य तत्त्वसिद्धिरित्याशङ्कां निराचष्टे-तच्चेति । तच्च = संप्रदानं च । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति सूत्रादुद्देश्य इत्यन्वयः । संप्रदानस्योद्देश्यरूपतागमकतानिर्वाहकं विशेषणमाह-कर्मणेत्यादिना इत्यर्थकादित्यन्तेन । करणभूतेनेति । अनेन कर्मणेति सहार्थे तृतीयेति भ्रमम्, असंगता तृतीयेति भ्रमं च निराकरोति । कर्मणः करणत्वं संबन्धविषयकेच्छारूपभिप्रायघटकसंबन्धघटकसत्त्वादिद्वारा । तथा गवादि- निष्ठस्वत्वादिरूपफलनिरूपकत्वादिसंबन्धवत्तयोद्देश्यः संप्रदानमिति पर्यवसितोऽर्थ
इति भावः । इदमेव = उद्देश्यत्वमेव । तत्र मीमांसकसंवादमाह-तदुद्देश्यकेच्छेति । तथा चेच्छीयविषयताविशेष उद्देश्यत्वमिति भावः . इत्यधिकरण इति । पूर्वतन्त्रै चतुर्थाध्याद्वितीयचरणस्थभिदमधिकरणम् । निणींतमिति । तत्र हि दीक्षितस्य दण्डप्रदानं विधाय पुनराम्रातं 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयत्थती'ति, तदेतद्धाक्यविहितं मैत्रावरुणाय दण्डप्रदानं प्रतिपत्तिकर्म, यतो दीक्षितहस्तधारणे कृतार्थो दण्डः प्रतिपत्त्यपेक्षः । द्वितीयया तस्य प्राधान्यं च गन्यते, दानस्युतु न, अतो मैत्रावरुणहस्ते प्रक्षेपोऽस्य कर्तव्य इति पूर्वपक्षयित्वा संप्रदानचतुर्थ्या मैत्रावरुणस्य उद्देश्यत्वलक्षणप्राधान्यावगमान्मैत्रावरुणार्थ दण्डप्रदानं दण्डस्य प्रयोजकं, स्थित्वा प्रैषानुवचने कुर्वतस्तस्यालम्बनतया दृष्टार्थ एव हि दण्डः । अत एवाग्नीषोमीयपशुविकारे निरुढपशौ दीक्षिते सत्यपि मैत्रावरुणार्थत्वेन दण्डोपादानसिद्धिरिति सिद्धान्तितमत्यर्थः । तथा च द्वितीयानिर्दिष्टदण्डापेक्षया चतुर्थीनिर्दिष्टमैत्रावरुणस्य प्राधान्यावगमादिभिमत- सिधिरिति भावः । अत एवाजां ग्रामं नयतीत्यत्र ग्रामस्याजां प्रति शेषित्वाभावान्न संप्रदानत्वं, ग्रामसंस्कारर्थमजानयने तु ग्रामे तत्सत्त्वेऽपि परत्वात् कर्मसंज्ञया बाधान्न दोष इत्याहुः । ननु 'स्जकाय वस्त्रं ददाती'ति प्रयोगापत्तिस्तत्र दाधातोनिर्णेजनानुकूलेच्छादिरूपो व्यापारस्तत्कर्मणा वस्त्रेणाभिप्रेयमाणत्वा- द्रजकस्येत्याशङक्येष्टापत्त्या परिहरति__रजकायेति । तादृशप्रयोगस्येष्टत्वे मानमाह__खण्डिकेति । बालकोपाध्याय इत्यर्थः । भाष्योदाहरणादिति । अत्र ददातेः स्योगविशेषानुकूलव्यापारार्थतया मुख्यदानार्थकतद्योगे एव संप्रदानत्वाङ्गीकारे भाष्यस्योक्तप्रयोगानुपपत्तिः । चपेटा = प्रसृतकरतलम् । न च भाक्तः स प्रयोग इति वाच्यम्, क्रियाग्रहणं कर्तव्यमिति वचनं खण्डयद्भिर्भाष्यकारैः संप्रदानसंज्ञाया अन्वर्थत्वाङ्गीकारेणोक्तप्रयोगस्य, रजकायेत्यादिप्रयोगस्य च मुख्यत्वोपगमात् । एवं 'न शूद्राय मति दद्या'दित्यप्यत एव संगच्छते । तत्र ददातिर्बोधनार्थः, मतिशब्दस्तज्जनकवेदादिपरः । 'विप्राय गां ददाती'त्यत्र विप्रसंप्रदानकगोकर्मकं दानमिति बोधः । संप्रदानमित्यस्यान्वर्थतां स्वीकुर्वतां वृत्तिकारणां मतमाह__वृत्तिकारास्त्विति । स्वस्वत्वनिवृत्तिपर्यन्तमिति । स्वस्वत्वनिवृत्तयनुकूलव्यापारर्थन्तमित्यर्थ- । इदं च दानमात्रेण न परस्वत्वोत्पत्तिरपि तु प्रतिग्रहेणेत्यभिप्रेत्य । अन्यथा पुनः स्वस्वत्वनिवृत्तिपरमात्रस्वत्वोत्पत्त्यनुकूलव्यापारपर्यन्तमित्यर्थः । संसृष्टिधने
ददातीत्यत्र प्रयोगात् परमात्रेत्युक्तम् । स्वत्ववति स्वत्वान्तरानुत्पत्त्या पत्रापि स्वत्वविनाशोऽभ्युपेतव्यः । तत्र साधारणस्वत्वोत्पादेऽपि न परमात्रस्वत्वो- त्पत्तिरिति नातिप्रसङ्गः । स्वत्वं च दानादिनाश्यं प्रतिग्रहादिजन्यं पदार्थान्तरम् । वितृभ्यः श्राद्धं दद्यादित्यादौ वितृनिरूपितस्वत्वबाधेऽपि दानोद्देश्यत्वस्य पितृष्वक्षततया संप्रदानत्वान्न दोषः । अर्थ वर्णयन्त इति । उक्तदानकर्मणे- त्याद्यर्थमित्यर्थः । आहुरित्यस्यरससूचनम् । तद्बिजं तूक्तमेव । इदं चेति । इदं च = संप्रदानं च, त्रिविधम् ।
त्रैविध्ये हेतुमाह__अनिराकरणादित्यादिना वाक्यपदीयादित्यन्तेन । कर्तुःकर्मणा ईप्सिततमनिराकरणाद्दानानिराकरणादप्रत्याख्यानात् प्रेरणानुमतिभ्यां च दानविषयकप्रेरणानुमतिभ्यां च त्यागाङ्गं = त्यागनिर्वाहकम्, अनेन कारकत्वमावेदितं तथा च तादृशं कारकं संप्रदानतां लभत इति योजना । अथवा संप्रदानतायामेवानिराकारणादित्यादि त्रयं हेतुत्वनान्वेति । तथा चानिराकर्तृ प्रेरकमनुमन्तृ चेति त्रिविधमित्यर्थः । नात्र सूर्य इति । सूर्ये प्रार्थनानुमत्योनिराकरणं तद्रूपानाक्रान्तत्वबोधनाय । द्वितीयादिकारकप्रकृत्यर्थ- विभत्तयर्थयोरन्वयबोधं वर्णयति__अत्र सर्वत्रेति । 'हरि भजती'त्यादिषु । प्रकृतिप्रत्ययार्थयोरिति । प्रकृत्यर्थस्य प्रत्ययार्थेऽभेदसंबन्धेन विशेषणत्वमित्यर्थः । न च प्रत्ययार्थे प्रकृत्यर्थस्याभेदसंबन्धेन विशेषणत्वं न दृष्टमिति वाच्यम् । मीमांसकमते देवतार्थकतद्धितादौ दृष्टत्वात् । तदुक्तम्__
'आमिक्षां देवतायक्तां वदत्येवैष तद्धितः ।' इति ।
तत्र द्वितीयार्थस्याश्रयत्वस्याधेयतासंबन्धेन फलेऽन्वयः । कर्तृतृतीयार्थत्त्य तस्य धातृपात्तव्यपारे, करणतृतीयार्थस्य तस्य व्युत्पत्तिवैचित्र्येण तृतीयोपात्त- व्यापारे, तस्य च जन्यतासंबन्धेन धात्वर्थव्यापारे तदुपात्तफले च । अथवा व्यापारो न तृतीयार्थः । अपि त्वाश्रयः करणत्वशक्तिमान् वा, तस्य स्ववृत्तिव्यापारजन्यत्वसंबन्धेन धात्वर्थे सप्तम्यर्थाश्रयस्य कर्तृकर्मद्वारा तन्नष्ठव्यापारे फले चेति यथाक्रममिति बोध्यम् । प्रत्यक्षार्थकधातुसमभिव्याहारे लौकिकविषयतैव फलतावच्छेदकः संबन्ध इति नियमः, अन्यथा सौरभाद्यपनीतभानेऽपि 'सौरभं पश्यती'त्यादिप्रयोगापत्तेः . एवं च कथमत्र तथाविधप्रकारतायाः फलतावच्छेदकत्वाभ्युपगम इति न शङ्क्यम् । तादृशनियमस्य विषयानुपहितप्रत्यक्षार्थस्थले एव स्वीकारात् । 'ग्रन्धं
जिघ्रती'त्यत्र ध्राणजप्रत्यक्षानुकूलो व्यापारो धात्वर्थः । न तु गन्धस्य तदर्थेऽन्तर्भावः । लौकिकविषयतारुपफलतावच्छेदकसंबन्धेन तथाविधप्रत्यक्ष- रूपफलाश्रयत्वाद् गन्धस्य कर्मत्वमित बोध्यम् । 'पुष्पं जिध्रती'त्यत्र गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षानुकूलो व्यापारो धात्वर्थः । आधेयत्वोयसांसगिकविषतानिरूपितप्रकारतारूपविषयताविशेषात्मकफलतावच्छेदकसंबन्धेन तथाविधप्रत्यक्षात्मकफलाश्रयतया पुष्पस्य कर्मत्वम् । 'तदाननं मृत्सुरभि क्षितीश्वर' इत्यत्रानने गन्ध इति ज्ञानीयतादृशप्रकारतावत्वमानने- ऽस्तीत्याननस्य कर्मत्वोपपत्तिः । संबन्धघटकप्रकारत्वे गन्धनिष्ठविशेष्यता- निरूपितत्वं निवेशनीयम् । तेनदानीतनपुष्पे गन्ध इति प्रत्यक्षीयपुष्ये विशेष्यतानिरूपिताधेयत्वीयसांसर्गिकविषयतानिरूपिताप्रकारतायाः काले समादा- यापि नोक्तदोषः । समवायसंबन्धावच्छिन्नत्वेनाधेयत्वस्य विशेषणत्वादिति दिक्त्वेऽपि कालं जिध्रतीति न प्रयोगः । काले गन्ध इति भ्रममादय तद्दोषतादवस्थ्यं तु नापाद्यम्, तादृशभ्रमस्याप्रामाणिकत्वात् । अत एव 'तेजो जिध्रति' 'रूपं जिध्रति'त्यादिप्रयोगे न कालिकसंबन्धावच्छिन्नाधेयत्वसंबन्धेन कालप्रकारकप्रमा । ननु द्वितीयार्थाश्रयस्याधेयतासंबन्धेन धात्वर्थफलेनान्वय- स्वीकारो न संभवति, तस्य हर्यादिरूपनामार्थाभिन्नस्य धात्वर्थे भेदसंबन्धेनान्वयस्याव्युत्पन्नत्वात् । अन्यथा तण्डुलः पचतीत्यत्र कर्मतादिसंबन्धेनापि तदापत्तेरिति चेन्न । नामार्थधात्वर्थयोविभत्तयर्थमद्वारीकृत्य परस्परमन्वयो नेत्येव व्युत्पत्तेः । प्रकृते विभत्तयर्थद्वारा तथान्वये बाधकाभावात् । ननु प्रकृतिप्रत्ययार्थयोरभेधःसंसर्गो न संभवति, विभक्तीनां धर्ममात्रवाचक- त्वादित्यत आह__विभक्तीनां धमींति । द्वितीयादीनां कर्मत्वादिरूपधर्ममात्रे शक्तिर्लाधवादुचिता तत्र प्रकृत्यर्थस्य स्वरूपसंबन्धे नाधेयतयान्वयः । तस्य च निरूपकतासंबन्धेन धात्वर्थफलादाविति परमतं दूषयति__धर्ममात्रेति । मात्रपदेन धर्मिव्यवच्छेदः । 'कर्मणि__' इति । 'कर्मणि द्वितीया' 'कर्तृकरणयोस्तृतीया' इत्यादिसूत्रस्वरसभङ्गापत्तेरित्यर्थः । अन्यथा 'कर्मत्वे द्वितीया' इत्यादि सूत्रयेत्र तु 'कर्मण' इत्यादि । कर्मणिवाच्ये इत्यादिर्नार्थोऽपि तु कर्मणि बोध्ये द्वितीयेत्यादिरर्थः, तन्निर्वाहश्च प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयाद् भवति, एवं च न तत्स्वरसभङ्गः । न चाश्रयत्वे हर्यादेः प्रकृत्यर्थस्यान्वयेऽपि हरिविशिष्टमाश्रयत्वमित्येव बोधो, न त्वाश्रयत्ववान् हरिस्तत्कथं
कर्मबोधनिर्वाहकत्वं द्वितीयाया इति वाच्यम्, आश्रयत्वे प्रकृत्यर्थहर्यादेरन्वयबोधे हरिराश्रय इति भानसबोधसंभवात् । 'राजसखो देवदत्त' इत्यतो देवदत्ते राजमित्रत्वशाब्दबोधे राजनि देवदत्तमित्रत्वग्रहवत्, कर्मणि शक्तिबोधक- सूत्रस्याश्रयमात्रशक्तिग्राहकत्वकल्पनापि, भवन्मतेऽपि सूत्रस्वरसभङ्गतादव- स्थ्याच्च फलस्य धातुलभ्यतयाश्रयमात्रे तत्कल्पनमिति चेन्ममापि मते लाघवाद्धमें तत्कल्पनमिति तुल्यमित्यत आह__द्वितीयाद्यर्थकेति । धर्मिवाचकतेति । 'प्राप्तोदक' इत्यत उदककर्तृकप्राप्तिकर्मग्राम इत्याकारकस्य समासार्थस्य, ग्रामस्य च सामानाधिकरण्यविषयकबोधस्यानुभवसिद्धस्य निर्वाहाय द्वितीयायाः कर्मणि शक्तिरावश्यकी । अन्यथा द्वितीयार्थबहुव्रीहेरपि कर्मत्वबोधकत्वापत्त्या सामानाधिकरण्यानुपपत्तेः । धर्मिवाचकतायां भाष्यमपि साधकमित्याह__सुपां कर्मादय इति । परमते तु एतत्स्वरसभङ्गापत्तिश्चेति भावः । न चात्रापि कर्मपद्दं कर्मत्वपरम्, अनेकस्थले लक्षणापत्तेः । ननु कर्मणीत्यादौ कर्मादिपदे लक्षणापत्तावपि द्वितीयादीनां धर्ममात्रवाचकत्वमुचितं लाघवात्, अस्तु च बहुव्रीहेरपि धर्ममात्रवाचकत्वं, सामानाधिकरण्यं च लक्षणयोपपाद्यम्, मुख्यार्थे प्राप्तोदकादिप्रयोगस्तु प्राप्तोदकोऽस्तीत्यादावित्यत आह__दिगिति । तदर्थसमवेतं सति कृतस्तद्धितसंज्ञकस्यापि तब्यादेर्धनिवाचकत्वं न सिध्येत् । 'पक्तव्यारतण्डुला' इत्यादौ तण्डुलादिसामानाधिकरण्यानुभवानुरोधात्तथेति चेन्न । उक्तरीत्यैव तदुपपत्तेः । 'पक्तव्य'इत्यादितः कर्मत्वमात्रबोधोऽनुभवविरुद्ध इति चेत्, प्राप्तोदकादावपि तुल्यमिति भावः । द्वितीयादीनामाश्रयेऽपि न शक्तिः, फलव्यापारयोर्धातुलभ्यत्ववदाश्रयस्यापि प्रकृतिभूतप्रातिपदिकन लभ्यत्वात्, अपि त्वाश्रयत्वादिमात्रेऽनन्यलभ्यत्वात् । धर्मधर्मिणोश्चाभेदात् कर्मणीत्यादिनिर्देशो नानुपपन्नः, अत एव द्वितीयादेः कर्मत्वादिशक्तिवाचकत्विमति सद्धान्ते प्राप्तोदकादिबदव्रीहेर्धर्मिबोधकतानिर्वाहः, शक्तिभेदभदापन्नाया एव शक्तेविभक्ति- वाच्यत्वात् । तिड्कृदादेस्तु पचति पक्ता पक्क इत्यादित एवाश्रयप्रतीतेः 'युष्मद्युपपदे समानाधिकरणे-' इति व्यवहारानुरोधाच्चाश्रये शक्तिर्युक्तेत्याशयेनाह-आश्रयस्यापीत्यादिना । आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यतेत्यन्वयः । न विभक्तीति । न द्वितीयादिविभक्तिवाच्यतेत्यर्थः । नन्वाश्रयत्वस्य वाच्यत्वे आश्रयत्वात्वस्य शक्यतावच्छेदकत्वमुपेयं, तथा च गौरवं, तस्य तदाश्रयाद्यतिरिक्तावृत्तित्वे सति सकलतदाश्रयवृत्तित्वरूपत्वादित्यत आह__
तदेवेति । आश्रयत्वमेवेत्यर्थः । एवेनाश्रयतात्वव्यावच्छेदः । तद्वृत्तेस्तस्य कथं तन्निष्ठवाच्यताबच्छेदकत्वमित्याशङ्क्याह-तादात्म्येनेति । तादात्म्यस्य वृत्त्या- नियामकत्वेऽपि संबन्धित्वं तेन संभवत्येवेत्याश्रयत्वस्य तादात्म्येन स्वसंबन्धितया न स्वनिष्ठवाच्यतावच्छेदकत्वानुपपत्तिरिति भावः । यज्यप्याश्रयतात्वस्याखण्डो- पधित्वाङ्गीकारे तस्यावच्छेदकत्वेऽपि न गौरवं, तथापि फलाश्रयत्वत्वादेरेव द्वितीयादिवाच्यत्वे आश्रयतात्वस्यातीप्रसक्ततया तदवच्छेदकत्वासंभवः, फलाश्रयतात्वस्यानेकफलघटिततया गौरवतादवस्थ्यम् । किं चाश्रयतात्वविशिष्टे शक्तिकल्पनायां धर्मधर्मिणोरुभयत्र तत्कल्पनया न पूर्वकल्पापेक्षया लाघवमिति भावः ।
व्यापारोऽरीति । करणताघटकव्यापारोऽपीत्यर्थः । अपिनाश्रयत्वपरिग्रहः । षण्णामिति । षण्णां कारकविभक्तीनामित्यर्थः । कारकाणां षटत्वेन तत्प्रयुक्तविभक्तित्वेनोपादानात्__षष्ठीरहितविभक्तीनां विवक्षणे तासां पट्त्वेऽपि कारकषष्ठ्या असंर्गहः, तत्सहितानां विभक्तीनां विवक्षणे तु तासां सप्तत्वप्रकारकविभक्तिसंग्रहापत्तिश्चेति षण्णामित्युक्तिरसंगतैवेति दूषणानवकाशः । अनेन चैपपदविभक्तीनां संबन्धार्थकत्वमिति सूचितम् ।
अथ केषुचित् प्रयोगेषु विभत्तयर्थो निरुप्यते__तत्रोपपदविभक्तीनामत्राऽर्थे तु विशेषानुक्तेस्तत्स्थले तत्संबन्धप्रतीश्च तदर्थकत्वम् । तत्र यासां विशेषसंबन्धे विधानं, यत्र च तत्संबन्धेन संबन्धिनि नियताकाङ्क्षा-तत्र तासां विशेषरूपेणैव संबन्धार्थकत्वम्__यथा 'अनुर्लक्षणे' इत्यादौ 'अन्तरा त्वां मां हरि'रित्यादौ च । 'जपमनु प्रावर्ष'दित्यत्र लक्ष्यलक्षणभावसंबन्धो द्वितीयावाच्यो न द्योत्यः, कर्मप्रवचनीयत्वात् । 'कर्म प्रोक्तवन्तः__कर्मप्रवचनीयाः' इति तद्वयुत्पत्तिप्रदर्शनेन क्रियागतविशेषं द्योतितवतां संप्रति नामार्थक्रिययोः संबन्धद्योतकानामेव तत्संज्ञाविधानात् । यत्र तु तद्वाधस्तत्र विधानसामर्थ्यात् संज्ञा, यथा 'अधिपरी अनर्थकौ' इत्यादिनाध्यादीनाम् । स्पष्टं चेदं 'कर्मप्रवचनीयाः' इत्यत्र भाष्यादौ । जपमित्यत्र विभक्तेर्हेतुतृतीयाबाधकत्वाद्धेतुवाचकत्वमपि, लक्ष्यत्वं च प्रकृते ज्ञानजन्यज्ञानविषयत्वरूपज्ञाप्यत्वस्वरूपम् । जपस्य हि कालविशेषादिकरण- कत्वेन ज्ञातस्य स्वाधिकरणकालोत्तरकालवैशिष्ट्येन ज्ञापकत्वम् । एतेन जपस्य वृष्टिव्याप्यत्वाभावादवृष्टेर्जपज्ञाप्यत्वासंभव इति शङ्का निरस्ता । निर्ज्ञातकाल- क्रियाया अनिर्ज्ञातकालक्रियायाः कालविशेषवैशिष्ट्येन ज्ञापकत्वात् । अत एव 'कदा वृष्ट' इति प्रश्ने एतस्योत्तरत्वं संगच्छते । कालविशेषवैशिष्ट्यज्ञानं च तद्वाक्यजन्यं, मानान्तरजन्यं वेत्यन्यदेतत् । जपाभिन्नहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । उक्तं च हरिणा__
'क्रियाया द्योतको नायं, संबन्धस्य न वाचकः ।
नापि क्रियापदाक्षेपी, संबन्धस्य तु भेदकः ।।' इति ।
तदर्थस्तु 'प्रजयती'त्यादावुपसर्गवन्न क्रियागतप्रकार्षादिरूपविशेषद्योतकः अनुः, प्रादेशं विपरिलिखतीत्यादौ विशब्द इव न क्रियापदाक्षेी, विशब्दो हि विमानक्रियामाक्षिपति, अत एव प्रादेशस्य कर्मत्वम्, प्रादेशं विमाय परिलिखतीत्यर्थात्, तथा सत्याक्षिप्तक्रियानिबन्धनद्वितीयासिद्धौ
'कर्मप्रवचमीययुक्ते-' इत्यस्य वैयर्थ्यापत्तेः, किं तु विशिष्टक्रियजनितोक्तसंबन्धस्य विभक्तिवाच्यस्य द्योतकः, प्रकृते तु निशमनक्रियाकृत उक्तसंबन्ध इति । अन्ये तु लक्षणं = व्यावर्तनं, प्रकृते च प्रवर्षणक्रिया जपोत्तरकालिकतया बोध्यत्वेन विवक्षिता, व्यावर्तकश्च जप इति कालोत्तरकालिकत्वरूपसंबन्धहेतुश्च न द्योत्यो विभत्तयर्थः । जपाभिन्नहेत्वधिकरणकालोत्तरकालिकं वर्षणमिति बोध इत्याहुः । विशेषसंबन्धे तत्तदुपपदविभक्तेविधानं, विशेषरूपेण संबन्धविवक्षणे षष्ट्येवेति 'चतुर्थी-' इति सूत्रभाष्यसिद्धम्, तत्र हि गुरोरदं गुर्वर्थमित्यत्र तादर्थ्यस्य संबन्धत्वेन विवक्षायां षष्ठीत्युक्तम्, तेन 'तव मम चान्तरा कमण्डलु'रित्यत्र युषम्दस्मद्भ्यां न द्वितीया, अवधित्वस्य संबन्धत्वेन विवक्षणान्न त्ववधित्वत्वेन । अन्तराशब्दवाच्यमध्याधिकरणघटकमध्यत्वस्यावधित्वसंबन्धेन संबन्धिनियता- काङ्क्षत्वात्, अवधित्वत्ववच्छिन्नस्यैव द्वितीयार्थत्वाद् द्वितीयाऽप्राप्तेः । अत एव स्वसंबन्धिकमण्डलुतात्पर्येणोच्चरिते कमण्डलौ युष्मदस्मदर्थस्य स्वस्वामिभावरूपसंबन्धविवक्षया षष्ट्यन्तप्रयोगोपपत्तावपि तदस्वामिककमण्डलु- तात्पर्यकतादृशप्रयोगानुपपत्तिरिति दूषणानवकाशः । अन्तराशब्दस्या- भाववानप्यर्थः,__अन्तरा हरि न सुखमित्यादौ । हरिशब्दस्तात्पर्यग्राहकः । यद्वा प्रतियोगितात्वेन तद्विशेषभानम् । एतेन शुद्धप्रतियोगित्वस्य वाच्यत्वे हरिभक्तिमत्यपि द्वित्वादिना तत्प्रतियोगिकाभावसत्त्वादन्तरा हरि सुखमिति प्रयोगापत्तिरिति दूषणं निरस्तम् . अस्तीत्यध्याहारसभ्यसुखकर्तृकसत्ताभावे हरिभक्तयभावत आधेयत्वसंबन्धेनान्वयः । न च नामार्थयोरिति व्युत्पत्तिविरोधात् तथान्वयासंभव इति वाच्यम् । निपातातिरिक्तेति विशेषणात् । यद्वाभाव एवान्तराशब्दार्थः । सामानाधिकरणसंबन्धेन तथाविधाभावे तस्यान्वयः, पक्षद्वयेऽपि सुखाद्यभावे हरिभत्तयभावप्रयोज्यत्वं पर्यवस्यति । द्वितीययक्षे तेनैव वा संबन्धेनान्वयः । यद्यपि निपातातिरिक्तेति विशेषणात् प्रतियोगित्वादिसंबन्धेनान्वयः प्रकृत्यर्थस्य संभवति, तथापि तस्याः सार्थकत्वे संभभवति साधुत्वमात्रप्रयोजनकत्वस्वीकारोऽनुचितः । षष्ठ्या इव तस्या उक्तार्थकत्वावश्यकत्वाच्च । मञ्जूषाकृन्मते निपातानां नामत्वाभावातन्मते निपातातिरिक्तत्वविशेषणप्रलेशो नास्ति । एवमन्तरेणशब्दोऽप्यनेन समानार्थकः । तद्योगेऽपि 'अन्तरान्तरेण' इति सूत्रेण अन्तरेण त्वां मां हरिः, अन्तरेण हरि न सुखमित्यत्र द्वितीया । तत्राप्युक्तप्रकारोऽनुसर्तव्यः । एवं
विनाशब्दोऽप्यभाववदर्थकोऽभावार्थको वा तत्राप्येषैव दिक् । 'वृक्षं प्रति विद्योतते विद्यु'दित्यादौ प्रतिपर्यनूनां द्योत्यो लक्ष्यलक्षणभावो विभक्तिवाच्यः, निविडान्धकारे वृक्षदर्शनेन हि तत्समीपदेशविशेषे विद्युद्विद्योतनमनुमीयते, ज्ञानजन्यज्ञानविषयत्वं विभत्तयर्थः । व-क्षविषयकज्ञानजन्यज्ञानविषयो विद्युद्विद्योतनमिति बोधः । भक्तो विष्णुं प्रतीत्यादौ भक्तत्वाख्यः संबन्धः__कंचित्प्रकारं प्राप्तस्याख्याने प्रत्यादिः कर्मप्रवचनीयसंज्ञ इत्यर्थकन 'इत्थंभूताख्याने' इत्यनेन__कर्मप्रवचनीयसंज्ञाक- प्रत्यादिद्योत्यो विभक्तिवाच्यः, न तु विषयविषयिभावस्तथा, सूत्रोपात्तस्य भक्तत्वस्यैव तथात्वौचित्यात् । न च तस्य भक्तपदोपात्ततया न द्वितीयाशक्ति- संभवोऽनन्यलभ्यस्यैव शब्दार्थत्वादित वाच्यम् । प्रकारतया बोधे सिद्धेऽपि संसर्गतया बोधनिर्वाहाय विभक्तिशक्तेरावश्यकत्वात् । पदान्तरवाच्यस्यापि विभत्तयर्थस्य संसर्गतया भानस्य चैत्रस्य पुत्र इत्यदौ दृष्टत्वात् । जन्यत्सस्यैव पुत्रपदशक्तिविशेष्ये संबन्धतासंभवात् । पदार्थः पदार्थेनेत व्युत्पत्तिविरोधेन पदार्थैकदेशजन्यत्वे निरूपितत्सस्य संबन्धताया अनुचितत्वादिति भावः । 'लक्ष्मीर्हरि प्रती'त्यादौ स्वस्वामिभावःप्रत्यादिद्योत्यो विभक्तिवाच्यः । हरिस्वामिका लक्ष्मीरिति बोधः । 'वृक्षं वृक्षं प्रति सिञ्चति'त्यादौ वीप्साविषये व्याप्यत्वं द्विर्वचनद्योत्यं, वृक्षशब्दस्य व्याप्यत्वविशिष्टवृक्षपरत्वं, तस्य च व्यापकत्वसंबन्धेनान्वये त्त्पर्यग्राहकः प्रत्यादिः । व्याप्यतावच्छेदक- संबन्धस्तादात्म्यं, व्यापकतावच्छेदकश्च__सेचनस्य द्रवद्रव्यसंयोगानुकूल- व्यापारात्मनः स्वजन्यसंयोगः । तादृशसंयोगे व्यापकत्वभाने तु समवायस्तथा । व्यापकताघटकाभावे प्रतियोगिवैयधिकरण्यं__निरवच्छिन्नवृत्तित्वरूपं, व्याप्यवृत्तित्वं वा निवेश्यम् । तेन क्रियायाः संयोगस्य चाव्याप्यवृत्तितया तदभावस्य तद्वत्यपि वृक्षे सत्त्वेऽपि न व्यापकत्वहानिः । सेचनविशेषे जगतीतलगतवृक्षसामान्य- व्यापकत्वसंभवेऽपि न क्षतिः । वृक्षपदस्य बुद्धिस्थत्वेन वृक्षविशेषपरत्वात् । तथा च तादृशवृक्षनिष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकं यच्चैत्रकर्तृक- सेचनत्वादि तद्वत्त्वरूपं व्यापकत्वं संबन्ध इति पर्यवसितम्, न तु तादृशाभावप्रतियोगिताशून्यत्वम् । तादृशसेचनस्य तादृशवृक्षनिष्ठस्वप्रति- योगितावच्छेदकावच्छिन्नव्यधिकरणोभ्याभावादिप्रतियोगित्वाद् व्यापकत्वासंभवा- पत्तेरिति दिक् । सेचनक्रियायाः सकर्मकतया कर्मण्येव द्वितीया, कर्मप्रवचनीयसंज्ञाफलं तु गत्युपसर्गसंज्ञाबाधनद्वारा पत्वाभाव एवेति प्राञ्च आहुः
। तन्मते सेचनकर्मत्वे तत्कर्मणि वा स्वरूपसंबन्धेन तादात्म्येन यथाक्रमं व्यापकत्वं प्रकृत्यर्थसंबन्धतया भासते, न तु सेचनादौ । विभत्तयर्थ विशेषणतयान्वितस्य प्रकृत्यर्थस्य सेचनादौ विशेषणतयान्वयायोगात् । अन्ये तु कर्मत्वाविवक्षायां द्वितीयासिद्धिरपि कर्मप्रवचनीयसंज्ञाप्रयोजनम् । अत एव प्रत्यर्थ शब्दाभिनिवेश इत्यादावर्थस्य निवेशनक्रियानिरूपिताधिकरणत्वेऽपि अर्थमर्थ प्रतीत्येव विग्रहप्रदर्शनं भाष्यादौ कृतम् । वृक्षादेः क्रियायाः कर्मत्वमुपगन्यैतस्याः संज्ञाया द्वितीयासाधकत्वाङ्गीकारे तु सप्तम्यन्तेनैव प्रकृते विग्रहस्य समुचिततया तथाविधभाष्यसंगत्यापत्तिः । तादृशसंज्ञाया द्वितीयाफलकत्वे त्वर्थस्याधिकरणत्व- विवक्षायां व्यापकत्वसंबन्धाधिका द्वितीयेति नासंगतिः । अत एव 'वृक्षं वृक्षं प्रति श्यामता' 'घटं घटं प्रति गन्ध' इत्यादावपि क्रियाजनितव्यापारकत्वसंबन्धाथिका द्वितीया सिध्यति । द्विर्वचनेन व्याप्यत्वद्योतनात् सेचनार्थकपदसमभि- व्याहारात्तत्तद्वयापकं व्याप्यत्वरूपेण प्रकारतया भासते । अनुगतव्याप्यत्वत्वानङ्गीकारे तु वीप्सायं द्विरुक्तिविधानं च ? व्याप्यत्वस्य वृक्षाद्यर्थकत्वे मानम् । तथा हि व्याप्तिप्रतीतिच्छाप्रकृते प्युपसृष्टाप्नोतेस्तत्प्रतीतिपरत्वाद् द्विरुक्तप्रयोगादिच्छाया अप्रतीतेर्न तस्य तदर्थकता । एवं च प्याप्तिप्रतीतिच्छायां सत्यां द्विर्वचनमिति वाक्यार्थः पर्यवसन्नः । न च धातुरेव व्यापकत्वार्थकोऽस्तु अस्तु च साधुत्वार्थी विभक्तिरिति वाच्यम् । नामार्थधात्वर्थयोः साक्षाद्भेदसंबन्धस्याव्युत्पन्नतया वृक्षस्य व्यापकतादौ निरूपितात्वादिसंबन्धेनान्वयासंभवात् । अत एव चैत्रः पच्यत इत्यादौ पाकादौ चैत्रादेः कर्तृतानिरूपकत्वादिसंबन्धेनान्वयबोधो न, शोभन पचतीत्यत्र शोभनपदार्थस्य धात्वर्थे भेदेनान्वयाद्भेदेनेति । तण्डुलं पचतीत्यादौ तण्डुलादेविभत्तयर्थद्वारान्वयात्__साक्षादिति । 'मासमधीते' अत्र 'कालाध्वनोः-' इति सूत्रेण कालाध्वानुयोगिके क्रियाद्रव्यगुणादिभावप्रतियोगिकेऽत्यन्त- संयोगेऽत्यन्तसंबन्धे निरन्तरसंबन्धे सतुपस्थितत्वत् कालाध्ववाचकेभ्यो द्वितीयेत्यर्थकेन द्वितीया । अन्तं विराममतिक्रान्तश्चासौ संयोगश्चेति व्युत्पत्त्या निरन्तरसंबन्धलाभः । उपस्थिताशब्दस्वरूपमात्रस्य न प्रकृतित्वं 'कालाः' 'अन्तन्तसंयोगे च' इति समासविधौ बहुवचननिर्दशाल्लिङ्गात् । व्यापकत्वं द्वितीयार्थः । पदार्थतावच्छेदकमासत्वनिरूपितव्यापकत्वभानाङ्गीकारे समवायादिर्व्याप्यताघटकसंबन्धस्तादात्म्यं, तत्त्वं च त्रिशदहोरात्र त्वरूपमासत्व-
वन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकधर्मित्वम् । व्यापकता- घटकश्च कालिकविशेषणतात्मकः संबन्धः । सासपदं चावयवानतिरिक्त- त्रिशादहोरात्रसमुहपरं, न तु तावत्पर्थन्तस्थायिस्थूलकालपरम् । तथा सत्येकदिनादिमात्राध्ययनकर्तर्यपि मासमधीते इति प्रयोगापत्तेः । तदीयाध्ययनस्यापि त्रिशदहोरात्ररूपतादृशकालनिष्ठप्रतियोगिव्यधिकरणाभाव- प्रतियोगितानावच्छेदकतदीयाध्ययनत्ववत्त्वेन मासादिव्यापकत्वसंभवात् तदीयाध्य- यनाभावस्य प्रतियोगिव्यधिकरणतया नोक्तगोषः । तद्घटकाहोरात्रश्च सूर्योदयावधिसूर्योदयपर्यन्तस्थाय्यवयवातिरिक्तः क्षणसमूपादिरेव । तेन त्रिशद्दिने प्रत्यहमध्ययनस्थलेऽपि स्वापादिसमयावच्छेदेन मासत्वाधिकरणे क्षणादौ तदीयाध्ययनस्य प्रतियोगिव्यधिकरणाभावनिवेशे उक्तरीत्योक्तदोषतादवस्थ्यमिति तन्निरासाय तन्निवेशः । प्रतियोगिवैधिकरण्यं च__व्यापकतावच्छेदकत्वेनाभिमत- संबन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिनानाधिकरणतावद्भिन्नवृत्तित्वम् । न तु तत्संबन्धेन प्रियोगितावच्छेदकावच्छिन्नाधिकरणावृत्तित्वमध्ययनादेः रालिकाव्याप्य- वृत्तितया स्वाधिकरणकालेऽपि किचित्क्षणाद्यवच्छेदेन स्वाभावस्य सत्त्वेन प्रतियोग्यधिकरणावृत्तित्वाभावेन मासान्तर्गतैकदिनाध्ययनशालिन्यपि मासमधीते इति प्रयोगापत्तिः । क्रोशैकदेशमात्रे पर्वतादिसत्त्वेऽपि क्रोशत्वाक्रान्ततदन्यदेश- निष्ठसंयोगसंबन्धावच्छिन्नप्रतियोगिताकतदभावस्य क्रोशत्वाक्रान्ते तत्र कालिकसंबन्धेल पर्वरूपप्रतियोग्यधिकरणत्वसत्त्वेन प्रतियोग्यनधिकरण- वृत्तित्ववैशिष्ट्याभावेनातीततद्वयक्त्यभाव एव क्रोशे तादृशप्रतियोगिवैयधिकरण्य- विशिष्टतत्प्रतियोगितानावच्छेदकत्वस्य पर्वतत्वे सत्त्वात् 'क्रोशं पर्वत' इति प्रयोगापत्तिः । अतो व्यापकताघटकसंबन्धेन प्रतियोग्यनधिकरणत्वनिवशः । यदा देवदत्ते न काश्यानुपवास एकाहस्तदद्वयादिकं वा क्रियते, मासन्तः- पातिध्ववशिष्टाहोरात्रेषु काशीतो बहिरूपोष्यते तादृशस्थले देवदत्तीयो भोजनाभावो मासं काश्यानिति प्रयोगापत्तिः । काश्यवच्छिन्नत्व- विशिष्टदेवदत्तीयभोजनाभावस्य काश्यनवच्छिन्नतादृशभोजनाभावस्य चैक्येन काश्यवच्छिन्नस्य तादृशभोजनाभावस्याभावो दिनान्तरात्मकतादृशमासत्वाधिकरणे वर्तमानोऽपि देवदत्तीयभोजनाभावात्मकप्रतियोग्यधिकरणत्वेन तन्मासत्वाक्रान्त- दिनान्तरस्य न प्रतियोगिव्यधिकरणोऽपि त्वन्याभाव एव, तत्प्रतियोगिता- नावच्छेदकत्वस्य काश्यवच्छिन्नदेवदत्तीयभोजनाभावत्वे सत्त्वात् । एवं
मासान्तर्गतदिनद्वयं देवदत्ते न बहिरूषितं तदनन्तरमष्टाविशतिदिनानि काश्यामुषितं, तत्र देवदत्ताभावो मासं काश्यामिति प्रयोगापत्तिः । काश्यव- च्छिन्नदेवदत्ताभावाभावस्य मासत्वाक्रान्तदिननिष्ठत्वेऽपि प्रियोगिव्यधिकरणत्वा- भावात् । देशान्तरावच्छिन्नत्वविशिष्टदेवदत्ताभावरूपप्रतियोगिसमानाधिकरण- त्वात् ।विशिष्टस्य शुद्धानतिरेकित्वात् । अतः प्रतियोगितावच्छेदकावच्छिन्नवैयधि- करण्यनिवेशः । तथा सति काश्यवच्छिन्नत्वविशिष्टदेवदत्तीयभोजनाभावत्वरूप- प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वस्य मासत्वाधिकरणदिनान्तरे सत्त्वात् काश्यवच्छिन्नदेवदत्तीयभोजनाभावादिरपि प्रतियोगिव्यधिकरण इति नोक्तातिप्रसङ्गः । अत्रेदं बोध्यम्__द्वितीयार्थो न व्यापकत्वं, व्यापकत्वस्य व्यप्यविशेषाघटितस्याखण्डस्य दुर्वचतया तद्घटितव्यापकत्वानामानन्त्या- च्छक्त्यानन्त्यप्रसङ्गात् । प्रकृत्यर्थस्य विभत्तयर्थे निराकाङ्क्षतयानन्वयापत्तेश्चेति प्रतियोगिवैयधिकरण्यविशिष्टाभावे प्रतियोगितावच्छेदकत्वे अभावे च खण्डशः वृत्तिः । प्रथमाभावे प्रकृत्यर्थमासादेराधेयत्वसंबन्धेनान्वय । तदन्विताभावप्रति- योगितावच्छेदकत्वस्य तथाविधावच्छेदकत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन द्वितीयार्थान्तरेऽभावेऽन्वयः । तादृशाभावस्य चैत्रकर्तृकाध्ययनत्वरूपस्वाक्षय- घटितपरम्परासंबन्धेन चैत्रकर्तृकाध्ययनेऽन्वयः । तत्तत्प्रतियोगितावच्छेदका- वच्छिन्नानधिकरणत्वेऽपि द्वितीयायाः शाक्ति स्वीकृत्य तस्य प्रकृत्यर्थे व्युत्पत्तिवैचिव्याद्विशेषणत्वमिति वास्तु । तत्र शक्तिस्वीकारे शत्तयानन्त्यम् । लक्षणाङ्गीकारे विभक्तौ न लक्षणेति सिद्धान्तविरोधो गौरवं चेति चैदत्राहुः__अगत्या शक्तयानन्त्यादि स्वीक्रियते । एवं तत्तदव्याप्यान्तर्भावेणापि शक्तिरभ्युपेयते, विशिष्टव्यापकत्वे एव निरुपकत्वसंबन्धेन प्रकृत्यर्थस्यान्वयो न तु व्यापकताघटकमासत्वादौ । अतो न मासत्ववतो मासत्वे आधेयत्वेनान्वये निराकाङ्क्षतयानन्वयप्रसक्तिरिति दूषणावकाशः । अत एव खण्डशः शक्तिस्वीकारे विभिन्नपदजन्योपस्थितेर्हेतुभूताया अभावानन्वयबोधसंभव इति दूषणस्याप्यनवकाशः । किं च संबन्धत्वेनैव बोधस्यानुभवसिद्धतया न शक्तयानन्त्यप्रसक्तिरपीति । अन्ये तु स्वनिष्ठभेदप्रतियोगितावच्छेदकनिष्ठ- प्रतियोगिताकत्वविशिष्टाधेयतासंबन्धेन प्रकृत्यर्थस्य व्यापकताघटकाभावेऽन्वयो- पगमेन सामञ्जस्यान्न प्रतियोगिवैयाधिकरण्यस्य विभत्तयर्थेऽन्तर्भावः । न वा व्याप्यस्याप्यन्तर्भाव इति न गौरवमिति दिगित्याहुः । मासत्वं च तन्मासभेदेन
भिन्नमिति यत्किचिदेकमासमात्रधिकरणकाध्ययनशालिन न तादृशप्रयोगानुप- पत्तिरिति स्पष्टं व्युत्पत्तिवादादौ । 'दिवसे स्वपिती'त्यादौ दिवसपदस्य सूर्योदयावधिसूर्योदयर्यन्तक्षणसमूहपरतया नैकदण्डादिमात्रस्वापे तथाप्रयोगः । 'योजनं पर्वत' इत्यत्र द्रव्येण__क्रोशं कुटिला नदी क्रोशं रमणीयेत्यत्र कौटिल्यादिगुणेन, मासं भोजनाभाव इत्यत्राभावेनात्यन्तसंबन्धाद् योजनादिपदोत्तरं द्वितीया । ननु 'मासमास्ते' गोदोहमास्ते, मास आस्यते, गोदोह आस्यत इत्यादाविव मासमधीते इत्यत्रापि धातोर्व्यापर्यन्तं वृत्तिस्वीकारेणैव 'कर्तुरीप्सित__'इति कर्मत्वेन द्वितीयासिद्धौ 'कालाध्वनोः__'इति सुत्रं व्यर्थम् । तथा चोक्तं वाक्यपदीये__
'कालभावाध्वदेशानामान्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ।।' इति ।
तत्राकर्मकैरित्युक्तावपि न्यायसाम्येन सकर्मकधातोरपि तदर्थान्तर्भावेण वृत्तिस्वीकारे बाधकाभावः । अत एवैतत्सूत्रस्य वैयर्थ्यमुक्ताभिप्रायेण 'प्राकृतमेवैतत् क्रर्मे'ति प्रकृतसूत्रस्थभाष्येणाशङ्कितम् । अकर्मके एवोक्तरीतेरभ्युपगमे मासमधीते इत्यादिप्रयोगनिर्वाहार्थ सूत्रावश्यकत्वे शङ्का असंगता स्यात् । न च तादृशशङ्कापरभाष्यात्तादृशप्रयोगो नेष्यत एवेति वाच्यम् । 'अपवर्गे तृतीया' इति सूत्रे__अन्यथा मासमास्ते मासमधीते इति द्विविधप्रयोगनिर्वाहकस्यास्य सूत्रस्य वैयर्थ्यशङ्कानुपपत्तेः । एतत्सूत्रे आस्यते मासः शय्यते क्रोश इत्यकर्मकधातुघटितप्रयोग एवास्ति । न तु मासमधीते इत्यादिः__सकर्मकधातुघटितः प्रयोगो येन तत्रापि व्यापनान्तर्भाव आस्थेयः । मानमधीतोऽनुवाको न चानेन गृहीत इति प्रयोगात् तादृशप्रयोगाणामपीष्टत्वात् । अत एव मासमोदनं पचतीति प्रयोगोऽपि व्यापनकर्मत्वविवक्षयापि भवति । कालादिकर्मणो बहीरङ्गतया न तत्र लादिरपि त्वन्तरङ्गे द्रव्यकर्मण्येधेति स्पष्टं भाष्यप्रदीपोद्दयोते । अनयैव रीत्यात्यन्तसंयोगे कर्मवल्लाद्यर्थमिति वचनमपि न कर्तव्यमिति भाष्ये उक्तम् । अकर्मकधातुभिरिति वचनं तु भाष्ये नास्त्येव । 'अकथितं च' इति सूत्रभाष्ये__
'कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् ।'
__इत्यपि सिद्धार्थकथनं न त्वपूर्व, हिशब्दप्रयोगादिति स्पष्टं शखरादौ । तत्र कालादिकर्म प्रधानं कर्म, द्र्यमप्रधानं कर्म, कालादेराधारत्वेन द्रव्यद्वारैव
क्रियासंबन्धात् । तस्मात् सूत्रं व्यर्थमिति चेन्न । यत्राक्रियया संयोगस्तदर्थमिदं वक्तव्यमिति भाष्ये एव समाधानात् । कथं तर्हि मासमधीते इत्युदाहरणमिति चेत्, संबन्धसामान्यविवक्षायां षष्ठीबाधनार्थत्वेन क्रियायोगार्थमप्यस्यावश्यकत्वेन यत्र क्रियाकारकभावेन नान्वयविवक्षा तत्रात्यन्तसंयोगार्थमिति तद्भाष्य- व्याख्यानस्योचितत्वमित्याशयात् । यद्यपि क्रोशं कुटिला नदीत्यत्रास्तीि क्रियाध्याहारं विना प्रथमायाः साधुत्वानिर्वाहात्तदध्याहारावश्यकता तथापि कौटिल्यादेरेव क्रोशव्यारकत्वविवक्षायां द्वितीयासिद्धयर्थमिदमिति न भाष्यादिग्रन्थासंगतिः । तत्र कौटिल्यादिरूपे पदार्थैकदेशेऽन्वयो व्युत्पत्ति- वैचित्र्यात्, तद्विशिष्टधर्मिणि वा, अन्ये तु सर्वत्र तत्तद्धातोर्व्याप्तिपर्यन्तं वृत्तिस्वीकृत्य क्रोशं कुटिला नदीत्यादावपि द्वितीयोपपादनेऽपि मासि__मासमासितेत्यत्र कृद्योगलक्षणा षष्ठ्येव स्यान्न द्वितीयेति तदर्थमिद- मावश्यकभित्याहुः । इति द्वितीयार्थनिरूपणम् ।।
धूमेन वह्निमनुमिनोति,__अत्र करणे तृतीया । धूमादिज्ञानस्यानुमिति- करणतापक्षे धूमादिशब्दः स्वज्ञापरः । ज्ञायमानस्य करणतामते तु मुख्यार्थक एव । व्याप्तिविशिष्टवैशिष्ट्यावगाहिपरामर्शस्य व्यापारत्वाद् व्याप्तिविशिष्ट- धूमादिज्ञानस्य करणतानिर्वाहः । अन्वयितावच्छेदकवह्निविधेयकानुमितित्वाव- च्छेदेन धूमादिज्ञानकरणकत्वान्वयोपगमाद्यत्र वह्न्यनुमितौ न प्रयोगः । न वा धूमेन घटमनुमिनोतीति प्रयोगः । ननु तार्किकनये इदं संभवति न शाब्दकनये, तथा हि तन्नये विधेयता विधेयितादद्वितीयार्थः । वह्यन्वितायास्तस्या निरूपकत्वादिसंबन्धेनानुमितावन्वयः । तादृशविधेयतादिविशष्टायामनुमितौ धूमज्ञानकरणकत्वान्वयाद्वह्निविधेयकत्वादेलन्वयितावच्छेदकत्वसंभवः । शाब्दि- कमते त्वनुमित्यनुकूलव्यापारो धात्वर्थः । निधेयतासंबन्धः फलावच्छेदकः । इत्थं च वह्निविधेयकानुमितित्वस्यान्वयितावच्छेदकत्वाभावः स्पष्ट एव । तथा च पूर्वाक्तातिप्रसङ्गो दुर्वार एवैतन्मत इति चेन्न, विधेयतादिस्थानीयविधेयता- संबन्धेनानुमितिसंबद्धवह्न्यवच्छेदेन धूमादिज्ञानकरणकत्वान्वयोपगमेनोक्ताति- प्रसङ्गासंभवात् । ननु तथापि यत्र धूमलिङ्गकवह्न्यनुमितौ घटादिज्ञानेन द्रव्यत्वाद्यवगाहित्वं तत्र घटेन न वह्निमनुमिनोतीति नञ्घटितप्रयोगानुपपत्तिः । उक्तसमूहालम्बनवह्न्यनुमतौ घटज्ञानकरणकत्वाभावबाधेन तत्प्रयुक्तघटज्ञान- करणत्वविशिष्टोक्तानुमितिविरहबोधनासंभवात् । धूमेनेदं वह्नेरनुमानं न घटेनेति
प्रयोगस्य तार्किकमतेऽप्यनुपपत्तिः । पूर्वोक्तस्थले प्रथमान्तार्थे घटज्ञानकरण- कवह्न्यनुमितेर्घटे वह्निव्याप्यत्वभ्रमदाशायां प्रसिद्धाया अभावबोधनसंभवेऽप्यत्र तदसंभवादिति चेन्न, उक्तसमूहालम्बनात्मकानुमितिसत्त्वे धूमकरणकं वह्नेरिदमनुमानं न घटकरणकमिति प्रयोगस्य सरणेरत्र प्रदर्शनीयत्वाद्, यथा तादृशप्रयोगो नेष्यते तथागत्या पूर्वोक्तप्रयोगद्वयमपि नेष्यत इत्याहुः । अन्ये तु धूमादिपदं ज्ञानकरणतामतेऽपि मुख्यार्थकमेव 'हेतौ' इति सूत्रेण तृतीयासंभवात् प्रयोजकत्वरूपं हेतुत्वं जनकतावच्छेदकसाधारणमिति विषयितयानुमितजनक- तावच्छेदकधूमादावि तदक्षतम् । प्रयोजकत्वं जन्यतावच्छेदकतारूपं प्रयोज्यत्वं वा तृतीयार्थः । तस्य वह्निमित्यादिविभत्तयन्तार्थवह्निविधेयकत्वे निरूपकतादि- संबन्धेनान्वयाभ्युपगमान्नातः घटेन वह्निमित्यादिप्रयोगापत्तिः । वह्निविधेयकत्वे घटनिष्ठप्रयोजकतानिरूपकताद्यभावात् । तत्र घटप्रयोज्यत्वाभावस्याबाधित- त्वान्न घटेनेत्यादिप्रयोगोपपत्तिश्च । धूमेन वह्निमित्यादिप्रयोगोपपत्तिह्नि- विधेयिताया धूमनिष्टप्रयोजकता निरूपकत्वात् प्रयोज्यत्वाच्च । शाब्दिकमते विभक्तौ लक्षणाविरहेण विथेयिताया विभक्त्यर्थताविरहान्नञ्धटितोक्तप्रयोग- निर्वाहायागत्यानुपूर्वकमिनोतेरेव वह्निविधेयताकानुमितिलाक्षणिकत्वं वह्नि- मित्यादिविभक्त्यन्तस्य तात्पर्यग्राहकत्वं चाङ्गीकरणीयम् । एवं च नात्रोक्त- समूहालम्बनानुमितितात्पर्येण घटेन वह्निमनुमिनोतीति प्रयोगापत्तिः । न घटेन वह्निमनुमिनोतीति प्रयोगस्तु धात्वर्थैकदेशवह्निविधेयकत्वादौ तृतीयार्थन्वया- भ्युपगमे एव संपाद्यवह्निविधेयकत्वादौ घटादिज्ञानप्रयोज्यत्वाभावप्रयुक्त- विशिष्टानुमित्यभावबोधनसंभवेन संपाद्य इत्याहुः । 'पुत्रेण सहागतः पिते'त्यत्र 'सहयुक्ते ऽप्रधाने' इति तृतीया । सहशब्दार्थः साहित्यम् । तच्च समभिव्याहृतपदोस्थाप्यक्रियादिसमानकालिकक्रियाद्यन्वयित्वम् । तदन्वयित्वं च समभिव्याहृतक्रियादिबोधकपदेन साहित्यान्वयिनिक्रियाया यादृशः संबन्धः प्रतीयते तादृशः संबन्ध एव । पुत्रेणेत्यादौ कर्तृत्वरूपः सः । 'पयसा सहौदनं भुङ्के' 'पयसा सहौदनो भूज्यत' इत्यादौ कर्मत्वम् । खड्गेन सह बाणेन हत इत्यत्र करणत्वम् । शिष्येण सह गुरवे दक्षिणा दीयत इत्यत्र संप्रदानत्वम् । प्रयागेण सह काश्यां देवाः सन्तीत्यत्राधिकरणत्वम् । पुत्रेण सह स्थूल इत्यादावाधारत्वादिः संबन्धः, पुत्रेणेत्यादौ तृतीयार्थेऽपि कर्तृत्वादिकमेव । आधेयतासंबन्धेन।पुत्रान्वितकर्तृत्वस्यागमानकालिकागमनकर्तत्वरूपसहार्थघटकी-
भूतागमने निरूपकतासंबन्धेनान्वयः । सहार्थकर्तृत्वस्य पितर्याक्षयतयान्वयः । तद्विशिष्टकृत्प्रत्ययान्तार्थस्यागमनकर्तृरभेदेनान्वयः । न चोद्देश्यतावच्छेदकविधेय- योरैक्यान्निराकाङ्क्षत्वमिति वाच्यम् । कर्मकर्तृत्वादेः संबन्धत्वेनैव सहार्थेऽन्त- र्भावेणैकरूपोद्देश्यतावच्छेदकविधेययोरैक्ये एव निराकाङ्क्षतया प्रकृते तदभावात् । यद्वा संबन्धिसमानकालिकपदार्थसंबन्धित्वमेव सहशब्दार्थः । संबन्धश्च कर्तृत्वादिरेव संबन्धत्वेन पूर्ववदन्तर्भाव्यः पुत्रपदोत्तरतृतीयार्थः । कर्तृत्वं सहशब्दार्थान्वयबलात् प्रतीयमानागमनक्रियानिरूपितम् । अत एव शिष्येण सहागत इत्यादौ कर्तृतृतीययैव सिद्धमिति भाष्यस्य नासंगतिः । प्रतीयमानक्रियासंबन्धस्यापि कारकविभक्तिप्रयोजकत्वस्य क्लप्तत्वात् पुत्रसंबन्धितादृशपदार्थसंबन्धीयतेति बोधे वृत्ते आगमनस्य पुत्रसंबन्धं विना प्रतीतस्य पुत्रस्य संबन्धितादृशपदार्थसंबन्धित्वस्यानुपपत्त्या पुत्रेऽपि न तत्संबन्धस्य मनसा प्रत्याय्यत्वात् पुत्रपदार्थस्य तृतीयाबोधितस्वनिष्ठकर्तृत्वादि- निरूपकत्वसंबन्धे सहार्थघटकसंबन्धिन्यन्वयः । पयसा सहौदनं भुङ्के इत्यत्र प्रतीयमानक्रियानिरूपितकर्मतृतीयाघटितसंबन्धेन पुत्रस्य संबन्धिन्यन्वयः । अथवा तादृशपदार्थान्वयित्वसमनियतमखण्डपदार्थान्तररूपं साहित्यम् । शेषं पूर्ववत् । अत्र कल्पे__अद्देश्यतावच्छेदकविधेययोरैक्यशङ्कापि न । तादृशसाहित्य- स्यैवोद्देश्यतावच्छेदकत्वात् । तथा च पुत्रसाहित्यवान् पितागमनकर्तृभिन्न इत्यादिबोधः । एतन्मते प्रकृत्यर्थस्य साहित्ये निरूपितत्वसंबन्धेनान्वयः । 'सपुत्र' इति समासघटकसहशब्दस्य तु धर्मिपरत्वम् । अत एव तस्य पित्रादिपदेन समानाधिकरण्योपपत्तिः । अत एव च 'तेन सह' इति बहुव्रीहिविधानं चरितार्थम् । साहित्यवतोऽन्यपदार्थत्वाभावेन अनेकम्__'इति सूत्रस्याप्राप्तेः । साहित्यमात्रार्थकत्वाङ्गीकारेण तु तत्सूत्रखण्डनं भाष्यकृताम् । अधवा सहार्थ साहित्यम् । तच्च समभिव्याहृतपदोपस्थापितागमनादिपदसमान- कालिकपदत्वादिकमेव, लाघवात् । आदिपदेन समानदेशत्वं तत्समनियतम- खण्डोपाधिरूपं वा साहित्यं तदर्थः । तस्य चागतादिपदोपस्धाप्यागमनादावन्वयः । तृतीयार्थश्च क्रियासमभिव्याहारे क्रियाया यादृशसंबन्धः प्रधाने प्रतीयते स एव, कर्तृत्वादिः सहार्थान्वयबलात् प्रतीयमानतत्तत्क्रियानिरूपितो द्रव्यादिसमभिव्याहारे सहार्थन्वयबलात् प्रतीयमानतत्तत्पदार्थनिरूपितः स्वस्वामिभावादिरेव संबन्धः । तस्य च धात्वाद्यर्थागमनादावन्वयः ।
पुत्रेण सह स्थूल इत्यादौ स्थूलपदार्थैकदेशेऽपिस्थौल्यादौ व्युत्पत्तिवैचित्र्येण सहार्थस्थौल्यसमान- कालिकत्वस्यान्वयः । तथाच पुत्रेण सहामतः पिता, पुत्रेण सह पितुर्गौः, पुत्रेण सह स्थूल इत्यादौ पुत्रकर्तृकागमनसमानकालिकागमनाश्रयः, पुत्रस्वामिकत्वसमानकालिकपितृस्वामिकत्ववती गौः, पुत्रवृत्तिस्थौल्यसमानकालिकस्थैव्यवानित्यादिक्रिमेण बोधः । सपुत्र इत्यादौ तु समुदायार्थतादृशक्रियादेरन्तर्भावान्नासामर्थ्यम् । व्यपेक्षावादे समासधटकसहशब्दस्यागमनसमान- कालिकागमनवान् लक्षणयार्थः पुत्रपदस्य पुत्रकर्तृकत्वमर्थस्तस्य चागमनेऽभेदेनान्वयः । पुत्रस्य स्वनिष्ठकर्तृतानिरूपकत्वेन वा सहार्थागमनेऽन्वयः । पुत्रेण सह स्थूल इत्यत्र पुत्रपदस्य पुत्राधेयत्ववानर्थः । सहपदस्य स्थौल्यसमानकालिकस्थौल्यवान् । पूर्वपदार्थस्योत्तरपदार्थे- ऽन्तर्गतस्थौल्येऽभदः संसर्गः, पुत्रस्याधेयत्वेन चान्वयः । एवमन्यत्रापि बोध्यम् । अगत्या व्यस्तसमासवाक्ययोरसमानाकारबोधजनकत्वं सपुत्र आगतः सपुत्रः स्थूल इत्यादौ ्रियायाः पित्रादौ द्वेधासंबन्धभानं चोपगम्यते । पुत्रेण सहागतः पतेत्यत्र व्यर्थ तस्य द्वेधाभानमित्यभिप्रायेणोत्तरपक्षोऽङ्गीकृतो बृद्धैः । वक्ष्यमाणरीत्या नञ्घटुतवाक्ये प्रकृतधातूपस्थितक्रियायामेव पुत्रकर्तृकागमनादिसमानकालिकत्वभानस्यावश्यकत्वाच्च । यत्र क्षेत्रे माषवापोत्तरं तिला उप्यन्ते तत्र तिलैः सह माषान्वय इति भावः । तत्र समभिव्याहृतपदार्थसमानदेशत्वं तदर्थः । अतरत् पूर्ववत् । ननु कर्तृतृतीययैव गतार्थता सूत्रस्य । न च पुत्रण सहगमनं देवदत्तस्येत्यत्र कृद्योगलक्षणषष्ठीबाधनार्थ तदिति वाच्यम् । इतरसमभिव्याहारं विनापि प्रतीयमाने कृत्प्रत्ययार्थकर्त्रादेरेव तत्र ग्रहणात् । क्तेनाविधानान्न कर्तृतृतीयाप्राप्तिरित्यपि न एतादृशकर्तुरेव क्तेनाभिधानादिति चेन्न । उक्तरीत्या पुत्रण सह स्थूल इत्याद्यर्थ तस्यावश्यकत्वात् । इदं तु बोध्यम् । पूर्वमते पुत्रण सह नागच्छतीत्यादौ नञ्समभिव्याहारे समभिव्याहृतक्रियादावेव सहशह्दार्थस्यागमनादिसमानकालिकत्वस्यान्वय उपगन्तव्यः । अन्यथा पुत्रानागमनस्थले पुत्रसाहित्यस्य पितरि बाधेऽपि पुत्रसाहित्यवत् पितृकर्तृकागमनाभावस्यावाधेन पुत्रेण सह नागच्छति पितेत्यादिप्रयोगस्योपपत्तावपि पुत्रेण सह नागतः पिता, पुत्रेण सह न स्थूल इत्यादेरनुपपत्तिः । तत्र पुत्रसाहित्यवति पितरि आगमनकर्तृभदस्य स्थूलभेदस्य च बोधो वक्तव्यः । स च तत्र पुत्रसाहित्यस्योक्तभेदस्य च बोधान्न संभवति । समभिव्याहृतक्रियादौ पुत्रकर्तृकसमानकालिकत्वस्यान्वयाब्युपगमे तु उक्तस्थले पुत्रकर्तृकागमनसमानकालिकागमनकर्तृभेदस्य पुत्रनिष्ठस्थौल्यसमानकालिकस्थौल्यवद्भेदस्य च पितर्थबाधेनोक्तप्रयोगनिर्वाह इति समभिव्याहृतशब्दोपस्थितिसहकारेण तदर्थक्रियाद्यन्वयित्वाभावो- ऽत्राप्राधान्यम् । स च विशेषणाभावकृतो विशिष्टाभावः पुत्रादौ वर्तते । 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी'त्यादौ विद्यमानतावाचिसहशब्दयोगे क्रियाद्यन्यरुपविशेष्याभावकृतोऽपि विशिष्टाभावः । तादृशसहशब्दयोगेऽपि तृतीया भवति, विनिगमनाविरहात् तादृशसंख्याकपुत्राणां विद्यमानत्वेऽपीत्यर्थ इति वदन्ति । तेषामयमाशयः__सहशब्दो लुप्तसप्तम्यन्तः । सा च सतिसप्तमी । अपिशब्दाध्याहारश्च । तनोक्तार्थलाभ इति । अन्ये तु विद्यमानेत्याद्यध्याहारः, एवं च विद्यतिक्रियाप्रयुक्तसाहित्यनिर्वाह इति प्रत्यपीपदन् । ननु 'प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमिवा सह लक्ष्मणेन' इत्यादौ शत्रुघ्नलक्ष्मणप्रसवयोः समानकालत्वविरहेण क्रियाद्वयसमानकालिकत्वस्य सहशब्दार्थत्वासंभव इति चेन्न । तत्रापि स्थूलकालघटितसमान-
कालिकत्वसंभवात् । एवं__
'शिशोर्मातरि गभिण्यां चूडाकर्म न कारयेत् ।
सहोपनीत्या कुर्याञ्चेत्तदा दोषो न विद्यते ।।'__
__इत्यादि स्मृतिवाक्येष्वपि बोध्यम् । तत्र दिनस्य सहार्थेऽन्तर्भावः । अन्यथा चूडाकर्मोपनयनयोः पूर्वोपरीभावेन घटिकादिरूपैककालत्वाभावेनासंगत्यापत्तेः । नन्वेवं पुत्रागमनपूर्वकाले आगन्तरि आगतोऽयं न पुत्रेण सहेत्यस्यानापत्तिः । तत्रापि दिवसादिरूपस्थूलकालमादय समानकालिकत्व- सत्त्वादिति चेन्न । तत्र क्षणत्वादिनैव कालस्य सह शब्दार्थेऽन्तर्भावनीयत्वादित्यन्यत्र विस्तरः ।
दण्डेन घटः पयःपानेन स्थूलः पुण्येन दृष्टो हरि,-अत्र 'हेतौ' इति सूत्रेण तृतीया, न तु 'कर्तृकरणयोः' इति करणे । दण्डस्य व्यापारवत्त्वेऽपि क्रियाजनकत्वाभावेन करणत्वाभावात्, व्या- पारवत्त्वे सति क्रियाजनकस्यैव करणत्वात् । ननु अस्तीत्यध्याहारस्यावश्यकतया क्रियाजनकत्वमक्षतमेवेति चेन्न । क्रियाजनकत्वाबावादित्यस्य तज्जनकत्वविवक्षणाभावादित्यर्थ- कत्वात् । दण्डाभावेऽपि धटसत्तायाः सत्त्वेन दण्डस्य तदजनकत्वाच्च । पयःपालस्य शुकवृद्धिसंपादनरूपव्यापारसत्त्वेऽपि स्थौल्यात्मकगुणजनकत्वं न क्रियाजनकत्वम् । पुण्यस्य परमापूर्वरूपादृष्टविशेषात्मनो दर्शनक्रियाजनकत्वेऽपि व्यापाराभावः । पुण्यपदस्य दानादिपरत्वे तु करणतृतीयैव । द्रव्यगुणक्रियान्यतमजनकसव्यापारनिर्व्यापारान्तरवृत्तिधर्मविशेषो हेतुत्वम् । तदक्तं वाक्यपदीये-
'द्रव्यादिविषयोहेतुः करणं नियतक्रियम् ।
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ।।' इति ।
तथा च हेतुत्वकरणत्वयोर्भेदात्तेन रूपेण बोधनिर्वाहार्थं सूत्रद्वयमावश्यकमिति ब्रुवन्ति स्म वृद्धाः ।
अन्ये तु करणे तृतीयानुशासनविरहे शरैः शातितपत्र इत्यादौ वृत्तिघटकैकदेशभूतशातनक्रियायाः शरहेतुत्वान्वये सापेक्षत्वेनासामर्थ्ये समासस्य साधुत्वानुपपत्तिः। करणतृतीयायास्तु कारकविभक्तितया__
'प्रतियोगिपदादन्यद्यदन्यत् कारकादपि ।
वृत्तिशब्देकदेशेन न तस्यान्वय इष्यते ।।'
-इति व्युत्पत्तौ कारकपर्युदासेन करणविभक्तेः कारकविभक्तित्वेन करणत्वसापेक्षत्वेऽपिनोक्तानुप- पत्तिः ।
एवं धनवता ऋणेन बद्ध इत्यत्र ऋणपदात्तृतीयानुपपत्तिः । हेतुतृतीयाया 'अकर्तर्यृणे__'इति सूत्रानुशिष्टपढ्चम्यापवादभूतया बाधितात् । अतः करणे तृतीयानुशासनमावश्यकमेव, तत्सत्त्वे तु करणत्वविक्षायां तृतीया सिध्यतीत्याहुः । एतन्मतेऽपि विभिन्नप्रकारकबोधकत्वं तयोरिति पर्यवसन्नमेवेति बोध्यम् । ननु यत्रैकैव पाकक्रिया चैत्रेण काष्ठैर्मैत्रेण तुपपक्षेपेण निष्पाद्यते तत्र चैत्रस्तुपैर्न पचति कि तु दारुभिरेवेति प्रयोगानुपपत्तिः । तस्यां पाकक्रियायां चैत्रकर्तृकत्वस्य तुषहेतुकत्वस्य तत्करणस्य च सत्त्वेन तद्विशिष्टक्रियाभावबाधान्निखिलविशेषेणविशिष्टक्रियाया एवाभावस्य नञा बोधनीयत्वात् । न्यायमते तु नैष दोषः । तुषहेतुकत्वस्योक्तपाके सत्त्वेन तदभावबोधेऽपि समभिव्याहृतकर्तृव्यापाराधीनव्यापारधटितकरणत्वस्य कर्तरि व्यापारवत्त्वस्य सत्त्वेनातिप्रसङ्गवारणार्थ विवक्षणीयस्य तुषेष्वसत्त्वेन तत्करणकत्वाभावस्य तस्मिन् पाकेऽबाधितस्य
बोधनसंभवात् । कृतिरूपकर्तृव्यापाराधीनव्यापाराश्रये कर्तर्यतिप्रसङ्गवारणाय कर्ति स्वभेदो निवेशनीय इति चेन्न । कर्तृभेदेन पाकक्रियाया अपि भेदेन चैत्रकर्तृकपाके तुषकारणकत्वाभावबाधेन तुषकरणकचैत्रकर्तृकवर्तमानपाकाभावस्य तत्राक्षतत्वेनादोषात् । तथा च चैत्रः काष्ठैः पचि मैत्रस्तुपैः पचतीति वाक्यभेदस्तत्रेष्ट एवेत्याहुः । 'अध्ययनेन वसति' अत्राध्ययनस्य वासफलस्यापि स्वज्ञानद्वारा वासनिमित्ततया हेतुत्वेन विवक्षायां तृतीया । अध्ययनाभिन्नहेतुक एककर्तृो वास इति बोधः । स्पष्टं चेदं 'प्रत्ययः' 'तदर्थ विकृतेः प्रकृतौ' इत्यादिसूत्रेषु कैयटे । नन्वेवं काश्यादेरपि वासहेतुतयापि हेतुत्वविवक्षायां तृतीयाप्रसक्तिरित चेन्न, अधिकरणत्वविवक्षायां परया सप्तम्या बाधनात्, तदविवक्षायां तु करणत्वविवक्षायामिवेष्टापत्तेः । अपरे तु__इह सूत्रे हेतुशब्देन फलमपि गृह्यतेऽत एवाध्ययनरूपफलजनको वास इत्यनुभवसिद्धबोधनिर्वाहः । न च तत्र लक्षणेति वाच्यम् । विभक्तौ लक्षणानङ्गीकारात् । तत्र फलत्वेन फलं विभक्त्यर्थः । अभेदेन तत्र प्रकृत्यर्थस्य तस्य च वासे जनकतासंवधेन विशेषणत्वम् । एतेन हेतुत्वं ज्ञानाद्वारकमेव गृह्यते । अत एव धूमादिपदस्य तज्ज्ञाने लक्षणाङ्गीक्रियते तान्त्रिकैः । एवं च कथमत्र तृतीयेति देश्यं परास्तमित्याहुः । ज्ञानद्वारकनिमित्तत्वानाश्रयणेऽपि फसल्य हेतुशब्देनापरिग्रहेऽपि 'हेतौ' इति सूत्रेणाध्ययनपदाद्धेतुत्वाथिका हेत्वार्थिका वा तृतीया सिध्यति । हेतुत्वे तदर्थे अध्ययनस्य निरूपितत्वं संबन्धः । वासे तस्याश्रयत्वं, हेतुरूपतदर्थेषु स्वनिरूपितहेतुत्वं संबन्धः । अध्ययननिष्ठहेतुत्वनिरूपितो वास इत्याद्योकारको बोध इति तु न शङ्क्यम् । हेतुत्वाद्यर्थे प्रत्यासत्त्या तदाश्रयार्थकाद् विभक्तिरित्यर्थ्यैव लाभावत्, अत एव 'कर्तृकरणयोस्तृतीया' इति सूत्रविहिता तृतीया न कदाचिदपि क्रियार्थकाद्भवि, अपि तु कर्त्राद्यर्थकादेव । अन्यथा देवदत्तेन भुक्तमित्यादौ भूक्तादिपदादपि तृतीया स्यात् । न च कर्मक्तान्तरय 'सत्त्वप्रधानानि नामानि' इति निरुक्तात् कर्मप्रधानकतया प्रधानार्थेनैव प्रत्ययार्थान्वयस्य क्लृप्तत्वात्तन्निरूपितकर्तृकत्वासंभवान्न ततस्तृतीयापत्तिरिति वाच्यम् । एवमपि भुक्तिकर्ता देवदत्त इत्यर्थविवक्षायां भुक्तिपदात् 'कर्तृकर्मणोः कृति' इति षष्ठीप्रसक्त्य भुक्तेर्देवदत्त इत्यादिप्रयोगात् दुर्वारत्वात्, देवदत्तदस्य भुक्तिरित्यस्यै- वेष्टत्वात् । न च परत्वात् प्रथमा भविष्यतीति नोक्तापत्तिरिति वाच्यम् । षष्ठ्या अन्तरङ्गत्वात् प्रथमाया एवापवादत्वमित्यस्य वक्तुं शक्यत्वा् । तादर्थ्यविवक्षायामध्ययनाय वसतीति चतुर्थ्यपि भवति । उपकारत्वं चतुर्थ्यर्थः । तत्र प्रकृत्यर्थस्य निरूपितत्वं संसर्गः । अध्ययननिरूपितोपकारकतावान् वास इति बोधः । उपकार्योपकारकत्वं वा चतुर्थ्यर्थः । उपकार्ये भेदसंबन्धेन प्रकृत्यर्थोऽन्वेतीति वोपगन्तव्यम् । 'दास्या संयच्छते कामुकः'__अत्र चतुर्थ्यर्थे तृतीया । अशिष्टव्यवहारे इत्यादिवचनात् । अत्र धातुर्दानपूर्वकोपभोगार्थः । संप्रदानत्वशक्रिमांस्तृतीयार्थः । दासीसंप्रदानकदानपूर्वकोपभोगो वाक्यार्थः । 'दाणश्च सा चेत्__' इति सूत्रेणात्मनेपदविधायकेन चतुर्थ्यर्थे तृतीया ज्ञाप्ये चेदित्यनेन तदनित्यत्वं ज्ञाप्यते__इत्यशिष्टव्यवहार इत्यंशसिद्धिः । अशिष्टानां= निषिद्धाचारणां व्यवहारः क्रियारूप इति स्पष्टं तत्सूत्रे एव भाष्ये इति शिवम् ।।
पत्ये शेते__अत्र 'क्रियया यमभिप्रैति__' इति संप्रदानसंज्ञा । संप्रदानत्वशक्तिमान् विभत्तयर्थः । पतिसंप्रदानकं शयनमिति बोधः । भाष्यकारमते तु क्रियाि कृत्रिमं कर्म संदर्शन- प्रार्थनव्यवसायजन्यरम्भक्रियानिरूपितं तस्याः कर्तुरीप्सितमिति कर्मत्वम् । एवं च 'कर्मणा
यमभि__' इति सूत्रेणैव संप्रदानसंज्ञापत्तिरित्याहुः ।
'संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तर ।
व्यवसायस्तथारम्भे साधनत्वाय कल्पते ।।
पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।।'
इति । संदर्शनं फलविषयकसंकल्पः, स च ज्ञानमिच्छा वा । तत् प्रार्थनायं फलोपायात्मिकायां हेतुः । व्यवसायो यारपाकादेर्व्यापारस्य फलविशेषसाधनत्वेन विश्चयः । तत्रानन्तरा प्रार्थना हेतुः । अभिलाषे सति तादृङ्निश्चयोदयात् । व्यवसायश्चारम्भे प्रवृत्त्यास्मिन हेतुस्तेनाप्यमाना प्रकृतक्रिया कर्मत्वभाग्भवति । पूर्वस्मिन् = पूर्वकाले । परस्मिन् = उत्तरकालभाविनि । एतन्मते रतिसंप्रदानकर्मारम्भकर्मरूपं शयनमिति बोधः । अभिदानाभावान्न घटं करोतीत्यादवतिप्रसङ्ग इत्याहुः । 'पशुना रुद्रं यजते'-अत्र फलाशये करणत्वशक्रिरुद्देश्ये कर्मत्वशक्तिः 'कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा' िति वचनात् । पशुकरणको रुद्रकर्मको याग इति शाब्दोऽर्थः । रुद्रोद्देश्यकः पशुनिष्ठस्वत्वनिवृत्त्यनुकूलो व्यापार इति त्वार्थः । अयमेवान्यमते शाब्दः, एवमेवान्यत्रापि बोध्यम् । हरये रोचते भक्तिः__प्रीत्यनुकूलस्तत्समानाधिकरणो व्यापारो रोचतेरर्थः । प्रीतिरन्तः__करणवृत्तिविशेषः । स च सविषयको मदीयत्वादिप्रकारकज्ञानरूपो ऽयमिष्टभाग्भवत्वित्याकारेच्छारूपो वा । हरिनिष्ठप्रीतेनित्यत्वेऽपि विषयस्यानित्यतया फलतावच्छेदकविषयताया अनित्यत्वमितिसंबन्धेन प्रीतिर्जन्यत्वारोपेण तदनुकूलत्वनिर्वाहः । आरोपानङ्गीकर्तृमते तु निर्धायकतासंबन्धेन तत्फलविशिष्टज्ञानादिकमेव प्रीतिपदार्थः । एवं च शिखी ध्वस्त इतिवद्विशेषणफलमादायानुकूलतानिरूपकत्वनिर्वाहः । विषयतायाः फलतावच्छेदकत्वादेव न रोचतिः सकर्मकः । प्रीयमाण इत्यत्र प्रीञ् तर्पण इत्यस्मात् कर्मणि लटः शानच, न तु प्रीङ् प्रीताविति दैवादिकात् । तस्याकर्मकत्वात् । अत एव प्रीयतां भगवानीशः । एवं सति प्रीधात्वर्थव्यापाराश्रयस्य संज्ञेति सूत्रार्थोऽभ्युपेतव्यः । तथा सत्यपि प्रीतिसमानाधिकरणतदनुकूलव्यापाराश्रयत्वस्य हर्यादौ सत्त्वेन प्रकृते संज्ञासिद्धेस्तादृशव्यापारा- नाश्रयेऽतिप्रसङ्गाभावाच्चेति वाच्यम् । प्रीधात्वर्थकर्मणः संज्ञेति सकलग्रन्थविरोधात् । ज्ञीप्स्यमान इति साहचर्येण कर्मण्येव शानच उचितत्वाच्च । प्रीधात्वर्थफलतावच्छेदकसंबन्धस्तु समवायः । अत एव हरि प्रीणयतीत्यादिप्रयोगासिद्धिः । समवायसंबन्धेन प्रीत्याश्रयस्य 'रुच्यर्थानाम्-' इति सूत्रेण संप्रदानत्वम् । प्रीधातो रुच्यर्थत्वाभावान्न तद्योगेसंप्रदानत्वम् । अत एव प्रीयमाण इति निर्देशोपपत्तिः । एतत्सूत्राभावे हरिशब्दादेः षष्ठी प्राप्तेति शषषष्ठ्यपवादत्वं चतुर्थ्याः । अन्ये तु रुचिधातुः प्रीधातुसमानार्थः । एवं च कर्मसंज्ञापवादिकेयं संज्ञा, प्रीयमाण इति निर्देशादेव प्रीधातूपात्तप्रीत्याश्रयस्य नेयं संज्ञेति वदन्ति । तन्मते गौरवम् । प्रीधातुयोगे संज्ञावारणार्थ निर्देशाश्रयणात् । अभिलष्यतेश्च प्रीतिव्यधिकरणप्रीत्यनुकूलव्यापारोऽर्थः । फलतावच्छेदकसंबन्धो विषयता । अत एव न स रुच्यर्थ इति हरिभक्तिमभिलष्यतीत्यत्र हरेर्न संप्रदानत्वं येन सुखरूपफलाश्रयस्य देवदत्तादेः कर्मसंज्ञायां प्राप्तायामियं संज्ञा तदपवादभूतेत्याहुः ।
अत्रापि मते पूर्वोक्तं गौरवम् । अन्ये तु अभिलाषात्मकप्रीति रोचतेरर्थः, विषयत्वरूपं कर्तृत्वमाख्यातार्थो लक्षणया षष्ठ्यपवादिका चतुर्थीति नारदसंबन्धिरुचिविषयतावान् कलह इति नारदाय रोचते कलह इति वाक्यजन्यबोध इत्याहुः । अपरे तु तार्किकाः__
प्रीतिजन्कताप्रकृतधात्वर्थजनकतात्मकधात्वर्थव्यापारश्रयतया कलहादेः कर्तृता आश्रयत्वमाख्यातार्थ आश्रितत्वरूपः संबन्धश्चतुर्थ्यर्थ इत्याहुः । एतन्मतेऽपि षष्ठ्यपवादिका चतुर्थी प्रीधातुस्तु नैतदर्थक इति न पूर्वोक्तादिप्रसङ्गः । 'गोपी स्मरात् कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा' अत्र 'श्लाघह्नुङ्स्थाशपाम्-' इति सूत्रेण ज्ञीप्स्यमानस्य संप्रदानसंज्ञा । ज्ञीप्स्यमानपदेन ण्यन्तकर्मणः प्रकृत्यर्थकर्मणो वा ग्रहणम् । ण्यर्थस्य प्राधान्यात् तत्कर्मणो ग्रहणम् । सन्स्वारस्यात् प्रकृत्यर्थकर्मणः । अन्यथा ज्ञाप्यमान इत्येव वदेत्, प्रकृत्यर्थकर्मणोऽपि सन्नर्थेच्छाविषयव्यापारप्रयोज्यफलाश्रयत्वेन सन्नन्तकर्मतया तत्र लकारोत्पत्तिरविरुद्धेति तादृशनर्देशोपपत्तिः । श्लाध्यादेः स्तुत्या प्रीतिपूर्वको बोधनार्थः । स्तुत्या कृष्णमात्मानुरागं बोधयति । एवं ह्नुत्यादीना तं कृष्णं बोध्यतीत्यर्थः । ह्नुतिरितरादर्शनयोग्यदेशस्थापनम् । कर्मसंज्ञापवादभूतेयं संज्ञा, वाधिविषयात्मानुगागस्तु प्रकरणादिगम्यः । कृष्णसंप्रदानक आत्मानुरागविषयकबोधानुकूलः स्मरहेतुकः स्तुत्यादिपूर्वको व्यापार इति शाब्दबोधः । प्रकृत्यर्थकर्मणो ग्रहणे स्तुत्यादिना कृष्णं स्वसखीजनं ज्ञापयतीत्यर्थः । देवदत्ताय शतं धारयतीत्यत्र 'धाररुत्तमर्णः' इति सूत्रेणोत्तमर्णस्य संप्रदानसंज्ञा । उत्कृष्टार्थवृत्तेरुदरतमप् । द्रव्यप्रकर्षादाम् न । उत्तममृणं यस्येति बहुव्रीहिः । अत एव निपातनान्निष्ठान्तस्य परनिपातः । उत्तमर्णो धनत्वामी । धृङ् अवस्थाने दिवादिः । तस्माद्धेतुमण्णिचि अवस्थित्यनुकूलव्यापारो धारयतेरर्थः । शतस्यावस्थितिरधमर्णे स्वकर्मकादानजन्यदुरदृष्टविशेषसंबन्धेन । अत एव परिशोधनपर्यन्तमधमर्णे चैत्रादौ संयोगाद्यसत्त्वदशायां संयोगानुत्पादादपि च शतं ध्रियते चैत्र इति प्रयोग उपपद्यते । एवं चैत्रो देवदत्ताय शतं धारयतीति च । न हि भवति प्रयोज्य्यापारशून्यतादशायां पाचयतीति प्रयोगः . स्पष्टं चेदं 'हेतुमति च' इति सूत्रे भाष्ये । तदनुकूलो व्यापार ऋणापरिशोधनं सजन्तीयद्रव्यदानमङ्गीकृत्य परदत्तद्रव्यग्रहणं वा । न च ग्रहणोत्तरसमये ग्रहणस्यासत्त्वाद्वारयतीति न स्यादिति वाच्यम् । सूक्ष्मरूपेण स्वजन्यादृष्टविशेष- संबन्धेन परिशोधनपर्यन्तं तस्य सत्त्वात् । तस्य विनाशेऽपि प्रवृत्ताविरामरूपवर्तमानत्वविवक्षणाद्वा । अत्रोत्तमर्णस्य यद्यपि दानक्रियाद्वारा धारणप्रयोजकत्वं तथापि क्रियाया अश्रवणाद्धेत्वादिसंज्ञाया अप्राप्त्या शेषषष्ठी प्राप्ताः । सर्वत्र विशेषरूपेणाविवक्षणे क्रियानिमित्तत्वमात्रेण विवक्षणे शेषत्वमिति बोध्यम् । तदुक्तं हरिणा__
'हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रोण संप्रदानाख्यमुच्यते ।।' इति ।
सजातीयद्रव्यादानाभ्युपगमपूर्वकं परदत्तपरकीयद्रव्यादानं तज्जन्योऽधमर्णनिष्ठोऽदृष्टविशेषो वा ऋणम् । आदीयमानद्रव्ये ऋणव्यवहारस्तन्निमित्तत्वप्रयुक्त औपचारिकः । अत एव गृहीतस्यान्नादेर्भक्षणादिकरणेऽपि मम ऋणमस्तीति व्यवहार उपपद्यते । तादृशादानकर्मण्येव मुख्यस्तादृशादृष्ट औहचारिकोऽस्त्विति चेन्न । 'ऋणमाधमर्ण्ये' इतिसूत्रेणाधरमर्णनिष्ठभावादावेव तस्य निपातनात्, तत्रैव शक्तेरुचितत्वात् । अमरकोशेऽपि 'सत्यानृतं तु वाणिज्यं स्यादृणं पर्युदञ्चनम्' इत्युक्तम् । सर्वधापि मोक्षस्य न तथात्वं, तव तत्र तादृशं दुरदृष्टमिति कथं भक्ताय मोक्षं धारयतीत्युदाहरणमिति चेदत्राहुः__अवश्यदेयत्वेन तत्रापि ऋणत्वव्यहारान्मोक्षस्थित्यनुकूलो व्यापारो हरिनिष्ठसेवनकर्मत्वादिरूपः । सेवनरूपोपकाराश्रयतया भक्त उत्तमर्णशब्दव्यवहारविषयः ।
व्युत्पत्तिवादकृतस्तु_द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्योऽदृष्टविशेषो धारयतेरर्थः । तद्धटकदानान्वयि कर्तृत्वं चतुर्थ्यर्थः । न च ऋणापरिशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्यैव परिगणनादिति वाच्यम् । ऋणादानस्य तज्जनकत्वेऽपि परिशोधनस्य तन्नाशकताबोधनाया- परिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेणोपपातकमध्ये परिगणनोपपत्तेः । गृहीतर्णापरिशोधनपेक्षया लाघवेन ऋणादानस्यैव दुरदृष्टं प्रति हेतुत्वकल्पनाया उचितत्वादित्यादि विस्तरेणाहुः । पुष्पेभ्यः स्पृहयति__अत्र स्वृहयतिरिच्छामात्रवाची । ईप्सितपदेन धात्वर्थव्यापारजन्यफलाश्रयत्वेन बोधनात् न तु फलस्य धात्वर्थत्वाग्रहः । एवं च षष्ठ्यपवाद एतत्संज्ञाप्रयुक्ता चतुर्थी । पुष्पसंप्रदानिकेच्छेति बोधः । पुष्पविषयिणीति त्वार्थः फलावच्छिन्नेच्छावाची चायं धातुः । इच्छानुकूलमनः संयोगादिरूपव्यापारवाची वा । इच्छायाः फलं विषयता, प्रवृत्तिर्वा, तद्योगे तदर्थफलाश्रयत्वेन विवक्षायां परत्वात् कर्मसंज्ञायां द्वितीयेत्वाद्यन्यत्र विस्तरः । हरये क्रुध्यति द्रुह्यति ईर्ष्यति असूयति वा ।हननाद्यनुकूलव्यापारजन्यः कश्चिद्वृत्तिविशेषः क्रोधः क्रोधेरर्थः । द्रुह जिघांसायामित्यर्थनिर्देशाद् द्रोहो द्रुहेः । स च दुःखजनकक्रियाविशेषजनकश्चित्तवृत्तिविशेषः । धात्वर्थसंगृहीतकर्मकतयैतावकर्मकौ । एकद्योगे षाष्ठी प्राप्ता । एतद्धात्वर्थमूलभूतकोपस्य विषयतया संबन्धिनः 'क्रुधद्रुहेर्ष्यासूयार्थानाम्__' इति सूत्रेण संप्रदानसंज्ञा विधीयते । हरिसंप्रदानकः क्रोधो द्रोह इति बोधः । उत्कर्षविरुद्धधार्णारोपानुकूलव्यापारजनकचित्तवृत्तिविशेषरूपाक्षमेर्ष्यातेरर्थः । शौचाचारादिगुणविषये दम्भादिकृतत्वरूपदोषारोपानुकूलश्चित्तवृत्तिविशेषयोऽसूयतेः । चित्तवृत्तिविशेषात्मककोपमूलका एते । प्ररूढकोपस्यैव क्रोधपदार्थतया तत्रापि कोपमूलकत्वमानपवादम् । असूयाद्यर्थकधातुयोगे मूलभूतकोपविषयताविशिष्टतत्तद्धात्वर्थफलाश्रयस्य संप्रदानसंज्ञा, 'यं प्रति कोपः' इत्यनेनाि कोपविषयस्येत्येव लभ्यते । तथापि प्रयोगानुरोधात् तादृशफलाश्रयस्येति निवेशितम् । विशेषणप्रयोजनं तु__भार्यामीर्ष्यतीत्यत्र भार्यायाः संप्रदानत्ववारणम् । नात्र भार्यां प्रति कोपोऽपि तु परैर्दृश्यमानायास्तस्या असहनम् । एकभार्यायां नेर्ष्यतिधात्वर्थारोपात्मकफलाश्रयत्वमित्यर्थः । हरिसंप्रदानकोत्कर्षविरोधिधर्मारोपानुकूलश्चित्तवृत्तिविशेष इति बोधः । तार्किकमते तु क्रोधो द्वेषविशेषो ज्ञानविशेषो वा द्रोहोऽपकारविषयेच्छाहितेच्छेति यावत् । ईर्ष्या परोत्कर्षगोचर- द्वेषात्माक्षमा । गुणिनि दोषाविष्कारणरूपव्यापारविशेषाऽसूया । विषययित्वादिकं चतुथ्यर्थ इति बोध्यम् । हरेः क्रोधद्रोहाभ्यामिच्छाविषयत्वाभावान्न 'क्रियया यम्' इति संज्ञासिद्धिः । मित्राय द्रुह्यति प्रतापोऽपीत्यादौ चेतनत्वारोपो बोध्यः । कुप्यति कस्मैचिदित्याद्यसाध्वेव, 'क्रियया यमभिप्रैति' इति संप्रदानत्वं वेत्याहुः ।
कृष्णाय राध्यति ईक्षते वा । अत्र प्रश्नविषयशुभाशुभपर्यालोचनार्थौ राधीक्षती । तदर्थप्रश्नविषयसंबन्धिनो 'राधीक्ष्योर्थस्य__' इति संप्रदानत्वम् । कृष्णसंप्रदानकं शुभाशूभपर्यावलोचनमिति च्चतुर्थी । तस्मा इदं तदर्थ्या, तस्य भावस्तादर्थ्यमिति व्युत्पत्त्योपकारकत्वमुपकार्योपकारकभावो वा विभक्त्यर्थः । आद्ये निरूपितत्वं प्रकृत्यर्थस्य निभक्त्यर्थे तस्य च दारुण्याश्रयत्वं संसर्गः । अन्त्ये प्रकृत्यर्थस्याधेयत्वमुपकार्यत्वे संबन्धः । उपकार्यत्वं वा विभत्तयर्थः । तत्र प्रकृत्यर्थस्याभेदसंबन्धः । तस्य स्वनिष्ठोपकार्यतानिरूपितोपकार- संबन्धेनान्वयः । 'स्वर्गाय पुण्य'मित्यादि त्विष्टमेव । अत एव 'पापं नरकाय
भवती'त्यादिस्मार्तादिप्रयोगसंगतिः । यागाय यातीत्यादौ तुमर्थकधञा तादर्थ्यस्योक्तत्वान्नानेन सिद्धिरिति 'तुमर्थाच्च' इति सूत्रारम्भः । ब्राह्मणकर्तृकभोजनोपकारिणि दध्नि परंपरया ब्रह्मणोपकारिता ब्राह्मणोपकारकत्वस्योरोपणं वा ब्रह्मणाय धधीत्यादौ चतुर्थीसिद्धिः । यूपाय दावित्यादौ कार्यवाचकादुत्तरविर्तिचतुर्थ्येव कारणगतसंबन्धस्य बोधनाद्धेतुत्वसत्त्वेऽपि न दार्वादिपदात् तृतीया । भक्तिर्ज्ञानाय कल्पते । अत्र 'क्लृपि संपद्यमाने च' इति चतुर्थी, क्लृप्त्यर्थकधातुयोगे संपद्यमानेऽर्थे वर्तमानाच्चतुर्थीति तदर्थः । सा च प्रथमापवादभूता भक्त्याभिन्नज्ञानकर्तृकोत्पत्तिरिति बोधः, ज्ञानात्मना परिणमत इत्यत्रात्मशब्दो ज्ञानवृत्तिधर्मपरः । एवं च तस्य न विकृतिवाचकत्वमिति न ततश्चतुर्थी कि तु प्रकृत्यादित्वात् तृतीया । वैज्ञिष्ठ्यं तदर्थः, ज्ञानत्वविशिष्टरूपान्तरप्राप्तिर्भक्तिकर्तृकेति बोधः । रूपान्तरप्राप्तिर्धात्वर्थः । प्रकृतिविकृत्योर्भेद- विवक्षायां प्रकृतिविकृतिभावाप्रतीत्या न चतुर्थी । अपि तु 'जनिकर्तुः__' इत्यपादानत्वात् पञ्चमी । भक्तेर्ज्ञानं कल्पत इति ज्ञानपदात् तादृर्थ्यचतुर्थ्यपेक्षया परत्वात्तस्य कर्तृकारकतया उपपदविभक्तेरिति वचनाञ्च प्रथमैवेति कैयटे स्पष्टमिति मञ्जूषाकृतः ।
अन्ये तु भेदविवक्षायां विकृतिवाचकाच्चतुर्थी । कल्पते इत्यस्य परिणमत इत्यर्थः । यद्यपि भेदविवक्षायां तादर्थ्यचतुर्थैव सिद्धं, तथापि संबन्धत्वेन बोधनिर्वाहार्थमिदमावश्यकम् । अन्यथा तथाविवक्षायां षष्ठी स्यात् । अभेदविवक्षायां तु परत्वात् प्रथमैव भक्तिर्ज्ञानं कल्पत इति । चतुर्थीघटितवाक्ये भक्तिकर्तृको ज्ञानाभिन्नः परिणाम इति बोधः । प्रथमाघटिते तु भक्त्यभिन्नज्ञानकर्तृकोत्त्पत्तिरिति बोधः । अपादानत्विवक्षायां पञ्चमीत्याहुः । फलेभ्यो याति । अत्र 'क्रियार्थोपपदस्य-' इति चतुर्थी । स्थानिनो ज्ञायमानस्य क्रियार्थोपपदकस्य तुमुनाद्यन्तस्य कर्मणि = तुमुनाद्यन्तोपस्थितिक्रियाकर्मणि चतुर्थीति तदर्थः । यथा ब्रह्मणाय दधीत्यादौ भोजनोपकारकत्वेन दध्नो ब्रह्मणोपकारकत्वात्तादर्थ्ये चतुर्थी भवति, तथा फलाहरणोपकारकत्वेन फलोपकारकत्वस्यापि सैव चतुर्थी यद्यि प्राप्नोति तथापि फलकर्मकाहरणफलकं यानमिति फलकर्मत्वप्रकारकबोधे चतुर्थीसाधुत्वार्थमिदं सूत्रमावश्यकमित्यन्यत्र विस्तरः ।
'वाताय कपिला विद्युदातपायातिलोहिनी'त्यादौ ज्ञाप्यज्ञापकभावाथिका चतुर्थी । उत्पातेन ज्ञापिते चेति वचनात्, प्राणिनां शुभाशुभसूचकभूतविकाररूपोत्पातज्ञापितार्थवृत्तेश्चतुर्थीति तदर्थः । वातज्ञापिका कपिला विद्युदिति बोधः । 'ब्रह्मणाय हितं' 'ब्रह्मणाय सुखम्'__अत्र 'चतुर्थी तदर्थार्थ_' इति समासविधानेन हितसुखशब्दयोगे चतुर्थी । हितशब्दयोगे चतुर्थ्या 'तस्मै हितम्' इति निर्देशोऽपि ज्ञापको बोध्यः, इष्टसाधनं हितशब्दार्थः , तद्धटकेच्छान्वयाधेयत्वादिकं चतुर्थ्यर्थः । इष्टसाधनान्वयीच्छाघटितः परपरासंबन्धो वा । अत एव परकीयौषधादितात्पर्येण ब्राह्मणायेदं हितमिति संगच्छते इति दिक् । हरये नमः । 'नमःस्वस्ति_' इति सूत्रेणात्र चतुर्थी । अपकृष्टत्वज्ञानबोधानुकूलो व्यापारः स्वरादिपठितनमःशब्दर्थः । नमःशब्दप्रयोगे स्वनिष्ठं यदपकृष्टत्वज्ञानं तज्ज्ञापकस्यानुभवसिद्धत्वात् । तादृशाननुभवे तु__अपकृष्टत्वबोधानुकूलो व्यापार एव तदर्थो बोध्यः । अत एव बृहच्छब्देन्दुशेखरे तथैवाभ्यधायि । अपकर्षः_स्वतन्त्रवक्तृनिष्ठो नमस्कार्याविधक एव प्रतीयते । व्यापारोऽपि वक्तृनिष्ठ एव प्रतीयते, शब्दशक्तिस्वभावात् । अन्योच्चारितनमःपदादन्यदीयनमस्काराबोधात् । व्यापारश्च करमस्तकसंयोगादिः नमःपदघटित- वाक्यप्रयोगश्च । चतुर्थ्यर्थ उद्देश्यत्वम्, हर्युद्देश्यकस्तादृशो व्यापार इति बोधः । एषोऽर्ध्यः शिवाय
नम इत्यादौ त्यागो नमःपदार्थः । त्यागश्च स्वस्वत्वनिवृत्त्यनुकूलेच्छारूपो व्यापारः । स्वत्वभागि- तयेच्छाविषयतारूपोद्देश्यत्वं चतुर्थ्यर्थः । शिवोद्देश्यकत्वागविषयोऽर्ध्य इति बोधः । स्वत्वनिवृत्तिविषयेच्छैव परस्वत्वमपि विषयीकरोतीति मन्येत तदोक्तविधोद्देश्यतानिरूपकत्वरूपं तदुद्देश्यकत्वं बोध्यम् । यदि च त्यागजनिकान्येच्छैव तदवगाहत इति स्वीक्रियते तदोद्देश्यतारूपचतुर्थ्यस्य परंपरया निरूपकत्वरूपं, स्वनिरूपकेच्छाधीनेच्छाविषयत्वरूपं वा संसर्गतया भासमानं तद्बोध्यम् ।
त्यागश्च वेदबोधितोद्देश्यकत्वस्वकर्तृकत्वोपरक्त एव प्रतीयते, शब्दशक्तिस्वभावात् । अन्यो- च्चारितनमःपदेनान्यसंबन्धित्यागाप्रतीतेः । वेदबोधितेत्याद्युक्त्या न नीचिद्देश्यकत्यागे पूजाभिन्न- यादृच्छिकेच्छयान्नादित्यागे च नमःशब्दप्रयोगेः । ऋत्विजा च यजमानद्रव्ये स्वीयत्वरोपपूर्वक एव तथाप्रयोगः क्रियते । शिवादीनां द्रव्ये स्वत्वबाधेऽपि शिवस्वं न गृह्णियादित्यस्य नासंगतिः । विवोद्देशेन त्यक्तमित्यर्थकत्वात् । नमस्करोति देवानित्यत्र कृधातुरेव पूर्वोक्तार्थकः । नमःशब्द ऊर्पादित्वान्निपातस्तदद्योतकः । उपपदविभक्तेरिति न्यायात्, कर्मणि द्वितीया । यदवधिकमपकृष्टत्वं बोध्यते तद्वत्तित्वविशिष्टः समवायात्मकः फलतावच्छेदकसंबन्धः । अतस्तेन संबन्धेन तादृशबोधरूपफलाश्रयाणां देवानामेव कर्मत्वं न तु शुद्धसमवायेनोक्तबोधाश्रयस्य तटस्थस्येत्याहुः । नमःशब्दद्योत्यार्थान्वयमात्रेणात्र चतुर्थीप्राप्तिरिति बोध्यम् । नमस्कुर्मो नृसिंहायेत्यत्र नृसिहमनुकूलयितुमिति बोधात् 'क्रियार्थोपपदस्य__' इति चतुर्थीति स्पष्टं कौमुद्यादौ । अत्र नमःशब्दस्य वाचकत्वे 'नमःस्वस्ति__' इति चतुर्थी । एवं द्योतकत्वेऽपि कर्मत्वाविवक्षायां षष्ठी वाधित्वा चतुर्थीति परे वदन्ति । न त्वां तृणाय मन्ये । अत्र 'मन्यकर्मणि__' इति चतुर्थी कर्माथिका । अत्रानादरशब्दो नादराभावमात्रावेदकोऽपि तु नञः प्रतिपक्षवाचितयाऽधर्मादिव- दादरविरोधितरस्कासर्थकः । 'अनादरे' इत्यस्य कर्मविशेषणतयानादरद्योतककर्मार्थकादेव चतुर्थीविधानान्न यु मच्छब्दात् सा । अत्र कुत्सित इति वक्तव्येऽनादरपदोपादानमनादरातिशय- विवक्षायामेवेयं विभक्तिः प्रवर्तत इति बोधनाय । एतदर्थमेवोदाहरणे नञुपादानं, तृणतुल्यमपि न मन्ये इति बोधमेन तदतिशयप्रतिपादानात् । अत एव तृणाय मत्वा रघुनन्दनोऽपीत्यादिप्रयोहाणामसाधुत्वमभाणि निबन्धकृद्भि । मन्ये इति श्यन्नन्तस्वरूपविवक्षया तु न तदसाधुत्वं युक्तं, विङाद्यन्ततद्धातुयोगे चतुर्थ्यनापत्तेः । श्यना निर्देशस्तु तानादिकव्यावर्तनाय । तेन न त्वां मनुते इत्यत्र चतुर्थी नेति स्पष्टमेवेति दिक् । ब्रह्मणेभ्यः स्वस्ति । स्वस्तिशब्दः कुशलार्थो मङ्गलार्थो वा, संबन्धश्चतुर्थ्यर्थ इत्यलं विस्तरेणेति शिवम् ।
सार्थाद्धीयते देवदत्त इत्यत्र धातूपातविभागावधितया सार्थस्यापादानत्वम् । ननु धातूपात्त- व्यापाराश्रयतया परत्वात् कर्तृत्वापत्तिस्तस्य तदनाश्रयत्वे तु देवद्तस्य तदाश्रयत्वात् कर्तृत्वापत्तौ तदुपकर्मणो ? लादिनाभिधानानापत्तिः । सार्थस्य कर्मत्वापत्तौ देवदत्तेन सार्थो हीयत इत्यस्या- प्तिश्चेति चेदत्राहुः__'अपादाने चाहीयरुहोः' इति सूत्रेण कर्तृत्वप्राप्तावप्यपादानत्वस्य ज्ञापितत्वान्न दोषः । अन्यथा सार्थस्यापादानत्वाभावादेन तसेरप्राप्तौ किम् 'अहीय' इति निषेधेन ? तज्ज्ञापितमपादानत्वं कर्मप्रत्ययान्तजहातिविषयकमेव 'हीय' इति निर्देशात् । तेन देवदत्तः सार्थ जहाति इत्यादौ न । 'कर्तुरीप्सिततमम्-' इत्यत्र कर्तृपदस्य धातूपात्तप्रधानीभूतव्यापाराश्रय- लाक्षणिकतया देवदत्तस्य कर्मत्वसिद्धिः । संप्रदानसंज्ञासूत्रस्थकैयटग्रन्थस्वरसोऽप्यत्रैव । अधर्माज्जुगुप्सते-अत्र 'जुगुप्साविराम-' इति वचनेनापादानत्वम् । यदिषयत्वेन जुगुप्सादयो विवक्षितास्तदपादानमिति तदर्थः । अनिष्टसाधनत्वज्ञानरूपा निन्दा जुगुप्सतेरर्थः । विषयत्वादि पञ्चम्यर्थः । अपादानत्वशक्तिर्वा । तादृशनिन्दापूर्वकनिवृत्तौ लक्षणां धातोः स्वीकृत्य 'ध्रुवमपाये-' इति सूत्रेणैवापादानत्वम् । एवमेवेदं वार्तिकमुत्तरसूत्राणि च न कर्तव्यानीति भाष्यकृन्मतम् । धर्माद्विरमति कृतिसंसर्गाभावानुकूलो व्यापारो विरमतेरर्थः । अनुकूलता चात्र योगक्षेमसाधारणी । अनुकूल व्यापारश्च धर्मविषयोपेक्षात्मक एव । तदुक्तं भाष्ये__'य एष मनुष्यो नास्तिकबुद्धिर्भवति स पश्यति वेदं किचिद्धर्मो नाम नैनं करिष्यामीति स बुद्धया संप्राप्य ततो निवर्तते' इति । अनेन यः कदाचिदि धर्म न कृतवांरतत्राप्यसौ प्रयोग इष्ट इति लभ्यते । एतेन करणानन्तरमकारणं विरमतेरर्थः । तच्च जीवनकालावच्छिन्नः कृत्यसमानाधिकरणकृतिध्वंसः । उभयत्र कृतिरेकविषयैव । अतो भोजनादिकृतिसमानाधिकरणत्वाज्जीवनकालावच्छिन्नकृतिध्वंस- सामान्यस्येति नासंभवः । ध्वंसे जीवनकालावच्छिन्नत्वनिवेशात्__मरणादिकालिककृतिध्वंसमादाय धर्माद्विरमते इत्यादिप्रयोगो न । जीवनं कर्तृसंबन्ध्येवोपादेयं, तेनान्यदीयजीवनकालावच्छिन्नत्वस्य चैत्रीयमरणादिकालिककृतिध्वंसे सत्त्वान्न तद्दोषतादवस्थ्यम् । पूर्वपरकालयोर्धर्माचरणे घटिकादिकाले तदनाचरणेपि धर्माद्विरमतीति प्रयोगापत्तिवारणाय कृत्यसमानाधिकरणत्वं कृतिध्वंसे विशेषणम् । तच्च स्वावच्छेदकशरीरजातीयशरीरावच्छेदेन कृतिसमानाधिकरणत्वं यत्तद्भिन्नत्वं धर्मविषय । कृतिध्वंसस्यापि भाविदेहान्तरावच्छिन्न कृतिसमानाधिकरणतया तादृशप्रयोगा- संभवापत्तिनिरासाय स्वावच्छेदकशरीरजातीयशरीरावच्छिन्नत्वकृतिसमानाधिकरण्ये विशेषणम् । तादृशरीरावच्छिन्नत्वनिवेशे शरीराणामवस्थाभेदेन भेदाद्युवशरीरावच्छेदेन धर्म कुर्वाणेऽपि बालशरीरावच्छिन्नकृतिध्वंसस्य कृत्यवच्छेदकशरीरावच्छिन्नत्वाभावेन स्वावच्छेदेन कृत्यसमानाधि- करणतया धर्माद्विरमतीतिप्रयोगापत्तेस्तज्जातीयशरीरावच्छिन्नत्वनिवेशः । साजात्यं चैत्रादि- पदोपस्थापितचैत्रत्वादिनैव, नातो भवान्तरीयदेहस्यापि पृधिवीत्वमनुष्यत्वादिना सजातीयतया तद्दोषतादवस्थ्यम् । तत्र वर्तमानदेहस्य तादृशकृत्यनवच्छेदकतया न तत्सामानाधि- करण्यावच्छेदकत्वगिति नोक्तदोषः । ननु प्राचीनशरीरावच्छिन्नकृतिसामानाधिकरण्यादुक्तदोषस्त- दवस्थ एवेति चेन्न । स्वावच्छेदककालावच्छिन्नत्वस्यापि सामानाधिकरण्ये निवेशात्तन्निरस्तम् । कदाचिदपि धर्मानाचरणे इष्टस्य तादृशप्रयोगस्यानापत्तेः । ननु नेष्ट एव तत्र स प्रयोगः । निखिलजनानां धर्माचरणानन्तरं तदकरण एव तथाविधप्रयोगात् । उक्तभष्यस्यापि पूर्व यो धर्म कृतवान् पश्चाद्यो नास्तिकस्तत्परत्वस्याि संभवादिति चेन्न, संकोचे मानाभावात् । धर्माद्विरतोऽपि
पुनः प्रवृत्त इत्यादेरनापत्तेश्च । ननु तव मते पूर्व धर्मविषयोपेक्षा तदनन्तरं च स्वापादिक्रिया तत्समये तादृशप्रयोगापत्तिः, कृत्यभावानुकूलोपेक्षात्मकव्यापारस्य तदा सत्त्वात् । तन्मते तु नापत्तिस्तदानी तत्तत्कृतिध्वंसस्य तत्तत्कृतिसमानाधिकरणत्वादिति चेन्न । यत्काले तथाविधप्रयोगः प्रामाणिकस्तत्कालनिष्ठोपेक्षाया एव धात्वर्थत्वाङ्गीकारात् । एतत्सूजनायेव मञ्जूषायामुपेक्षाविशेष इत्युक्तम् । ननु करणानन्तरमकरणमित्यस्य नोक्तोऽर्थोऽपि त्वानन्तर्थसामानाधिकरण्योभय- संबन्धाभ्यां कृतिविशिष्टं कृत्यभावानुकूलव्यापारस्तदर्थः । व्यापारश्च पूर्वोक्त एव । अथवा कृतिध्वंसानुकूलोक्तव्यापारः । एवं च धर्माद्विरतोऽपीत्यादिर्नोक्तदोषोऽपरिष्कारापेक्षया लाघवं भवदुक्तार्थापेक्षयैतस्मिन् गौरवाभावश्चाथवेति पक्षे इति चेन्न, कदापीति पूर्वोक्तदोषतादवस्थादुत्पत्तिमत्त्वघटितध्वंसत्वस्याभावत्वापेक्षया गुरुत्वाच्चेति दिक् । धर्मात् प्रमाद्यति__इष्टसाधनविशेष्यकानिष्टसाधनत्वप्रकारकज्ञानरूपानवधानता धात्वर्थः । विषयित्व- मपादानत्वं वा पञ्चम्यर्थः । अन्ये त्वस्मरणपूर्वकप्रवृत्त्यभावोऽस्मरणमेव वानवधानता । स एव धात्वर्थः, स्वरणं च कर्तव्यादिप्रकारकम्, विषयित्वं पञ्चम्यर्थः । धर्मविषयकर्तव्यात्वादिप्रकारकस्मरणाभावप्रयुक्तो धर्मविषयकप्रवृत्त्यभावस्तादृशस्मरणाभावो वा वाक्यार्थः । चोराद्विभेति त्रायते वा-अत्र 'भीत्रार्थानां भयहेतुः' इत्यपादानत्म् । अनिष्टसंभावनं भयम् । अनिष्टनिवृत्त्यनुकूलो व्यापारस्त्राणम् । सूत्रे भयशब्देन तदेकदेशरूपमनिष्टमुच्यते । तथा चानिष्टहेतुरपादानसंज्ञ इत्यर्थः । चोरापादानकमनिष्टज्ञानमित्याद्याकारको बोधो मञ्जूषाकृन्मते । अन्यमते चोरहेतुक इत्यादिरीत्या बोधः । तन्मते प्रयोज्यत्वस्य पञ्चम्यर्थत्वात् तस्यानिष्टेऽन्वयः । अनिष्टं च प्रत्यासत्त्यानिष्टसंभावनं कर्तृसंबन्धि । न चैवं यस्य चोराधीनमनिष्टमप्रसिद्धमथ च तद्धेतुकत्वेन स्वस्यानिष्टं संभावयति तत्र चोरादयं विभेतीति प्रयोगो न स्यात्, तदीयानिष्टे चोर- हेतुकत्वस्य बाधादिति वाच्यम् । तद्धेतुकान्यदीयानिष्टस्य तस्मिस्तदीयानिष्टे वा चोरहेतुकत्वस्यारोपेणोक्तप्रयोगस्य निर्वाहात् । यज्जन्यं भयं कस्याप्यप्रसिद्धं तत्र तथाविधप्रयोगस्येष्टत्वे आरोप एव शरणीकर्तव्यः । अत्रापि चोरादेः संबन्धित्वेन विवक्षायां षष्ठी भवति । अत एव 'कस्य विभ्यति देवाश्च जातरोषस्य संयुगे' इति रामायणप्रयोगसंगिः । कस्य संयुगे इत्यन्वयो वा स्वीकार्य इत्याहुः । तार्किकास्तु प्रयोज्यताप्रकारकत्वं पढ्चम्यर्थः । तस्य संभावनायामक्षतत्वात् । एवं च शत्रुभ्रमेण मित्रादपि विभेतीति वाक्यस्यापि प्रामाण्योपपत्तिः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावनमपादानमित्येको वाक्यार्थः, त्राणार्थकधातुयोगेऽनिष्ट- प्रयोजकं तदित्यपर इत्याहुः । अध्ययनात् पराजयते__अत्र'पराजेरसोढः' इति सूत्रेणापादानत्वं, कृत्यसाध्यत्वप्रकारकज्ञानसमानाधिकरणस्तद्विषयकोत्साहाभावो धात्वर्थः । तद्विषयत्वमत्रापादानम् । असोढ इत्यस्य तादृशासहनरूपधात्वर्थविषयार्थकत्वात् । एवं चाकर्मकत्वे एवोदाहरणत्वमिति पर्यवसन्नम् । उत्साहो हर्षपदव्यपदेश्यशिचत्तवृत्तिविशेषः, प्रवृत्तिविशेषो वा । अध्ययमापादान- कस्तादृश उत्साहाभाव इति बोधः । विषयत्वं पञ्चम्यर्थः । अध्ययनविषयत्वस्योत्साहेऽन्वय इत्यन्य आहुः । अपरे तु द्वेषाधीननिर्वृतिधर्मात्वर्थः । पञ्चम्यर्थो विषयित्वं तदर्थद्वेषे निवृत्तौ चान्वेति । अध्ययनविषयकद्वेषप्रयुक्ततत्तद्विषयकनिवृत्तिस्तद्वान् वेति बोध इत्याहुः । एवं च समानन्तरोक्तमते एतन्मते च सकर्मक इति लभ्यते । परं तु प्रवृत्त्यभावादिप्रतीतिरेवानुभव- सिद्धेतीदं न युक्तमिति प्रतिभाति । शत्रून् पराजयत इत्यत्र तिरस्कारानुकूलो व्यापारो धात्वर्थः ।
तिरस्कारात्मकफलाश्रयत्वेन शत्रूणां कर्मत्वम् । 'असोढ' इत्युक्तेर्नात्रापादानत्वम् । 'गां वास्यति' अग्रेर्माणवकं वारयति 'कूपादन्धं वारयति' अत्र 'वारणार्थानामीप्सितिः' इत्यपादानत्वम् ।वारणार्थकधातुयोग ईप्सिततत्तद्धात्वर्थफलाश्रयत्वेनेच्छाविषयोऽपादानसंज्ञ इति तदर्थः । इच्छा च वार्यमाणस्य गवादेः । ईप्सित इत्यनेन प्रधानाप्रधानान्यतरव्यापाराश्रयकर्तुराक्षेपा् । स्पष्टं चेदमत्र सूत्रे कैयटे । भक्षणसंयोगाद्यनुकूलक्रियाभावानुकूलव्यापारो वारयतेरर्थः । या क्रिया यदा प्रतिषिध्यते तदा तत्क्रियाभावानुकूलक्रियार्थकत्वं तस्येति फलितम् । यवादयो भक्षणादि- कर्तुर्गवादेर्गलाधःसंयोगानुकूलव्यापाराभावानुकुलव्यापार इति बोधः । योगक्षेमसाधारणानुकूलतो- पादेया । अतः प्रागभावादेरजन्यत्वेऽपि नाप्रवृत्तवारणे उक्तप्रयोगासिद्धिः । 'यदीमा गावस्तत्र गच्छन्ति ध्रुवं सस्यनाशस्तन्नाशेऽधर्मो राजभयं च, स बुद्धया संप्राप्य निवर्तयति' इति भाष्यात्रापि तस्येष्टत्वावधारणात् । स्वरूपयोग्यतारूपैव चानुकूलता ग्राह्या न तु फलोपहितत्वरूपा, तेन प्रतिषधानन्तरं भक्षयत्यापि गवादावयं निवारयति तथापि न निवर्तते हति प्रयोगोपपत्तिः । भाष्यकारमते तादृशाभावानुकूलनिवर्तनाया धात्वर्थतया 'ध्रुवमपाये-' इत्यनेनैवापादानत्वम् । अचेतनेऽव्यापारोपितनिवृत्तेः सत्त्वान्न पुष्पेभ्य आतपं वारयतीत्यस्यासिद्धिस्तन्मते । कूपपत- नमप्यन्धस्याभिभुखदेशगमनत्वेनेच्छाविषयः । एवं सति विषयस्य विषयत्वेनेच्छाविषयत्वाभावे़पि भक्षणत्वादिनेच्छाविषयत्वाभत्त्वान्नान्तरीयकविषभोजनप्रसक्तौ तद्वारयितरि विषाद्वारयति देवदत्तं यज्ञदत्त इति प्रयोगापत्तिरिष्टापत्त्या परिहरणीयेत्याहुः । मातुर्निलीये कृष्णः-'अन्तर्धौ येन-' इति सूत्रेणात्रापादानत्वम् । अन्यकर्तृकस्वविषयकदर्शनाभावानुकूला व्यवहितदेशे स्थितिरन्तर्घिस्तद्धटकं यत्कर्तृकदर्शनाभावमिच्छति तदपादानमिति सूत्रार्थः । लीङ्धातोरुक्तान्तर्घिरर्थः । उदाहरणे इच्छा आक्षेपलभ्या, दर्शने मातृकर्तृकत्वं प्रत्यासत्तितो लभ्यम् । तथा च मात्रपादानकस्व- कर्मकमर्थान्मातृकर्तृकं यद्दर्शनं तदभावानुकूलस्तादृशदेशावस्थितिरूपो व्यापारः कृष्णकर्तृक इति बोधः । अन्ये तु कर्तृत्वं पञ्चम्यर्थस्तस्य धात्वर्थघटकदर्शने निरूपकत्वसंबन्धेनान्वयः । तथा च मातृकर्तृकं स्वकर्मकं यद्दर्शनं तदभावानुकूलस्तादृशो व्यापार इति बोधः । सूत्रे 'येन' इत्यसाभावे यस्तादृशदर्शनाभावमिच्छति तस्यैव स्यादिति 'येन' इत्युपात्तम् । ननु कर्तृकर्मणोः कृति' इति षष्ठीप्रसङ्गाद् 'येन' इति निर्देशानुपपत्तिः । न च आत्मन इति कर्मणोऽध्याहारेण 'उभयप्राप्तौ' इति नियमान्न दोष इति वाच्यम् । एवं सति 'अथ शब्दानुशासनम्' इत्यत्राप्याचार्यस्य कर्ुः प्रसिद्धतयाध्याहारावश्यकतया 'उभयप्राप्तौ-' इति नियमप्रसत्तया 'कर्मणि च' इति समासनिषेधापत्तेः । वस्तुतस्तूभयोपादाने एव नियमप्रवृत्तिरिति 'आत्ममाने-' इति सूत्रभाष्ये स्पष्टम् । एवं च प्रकृते आत्मन इत्यस्याध्याहारान्न दोष इति सुस्थम् । 'उपाध्यायादधीते' 'पण्डितात् पुराणं श्रृणोति' अत्र 'आख्यातोपयोगे' इति सूत्रेणापादानत्वम् । नियमपूर्वकविद्या- स्वीकारे सति वक्तापादानमिति तदर्थः । उच्चारणोत्तरकालिको ब्रह्मचर्यादिरूपनियमपूर्वकग्रन्थ- स्वीकारानुकूलो व्यापार इङ्धात्वर्थः । नियमपूर्वकश्रवणप्रत्यक्षानुकूला व्यापारः__श्रुधात्वर्थः । यदि नियमपूर्वकविद्यास्वीकाररूपोपयोगस्य स्वरूपसत्तायाः संज्ञोपयोगित्वं स्वीक्रियते न तु तस्य शाब्दबोधे भानमपि तदा धात्वर्थे नियमपूर्वाकत्वं नान्तर्भाव्यम् । उपाध्यायापादानकस्तादृशो व्यापार इति बोधः । अन्ये तु कर्त्रुच्चारणाधीनत्वं पञ्चम्यर्थः, उच्चारणाधीनत्वमात्रं वा, आद्ये पञ्चम्यर्थघटककर्तरि प्रकृत्यर्थस्याभेदेनान्वयः, अन्त्ये स्वकर्तृकत्वसंबन्धेन पञम्यर्थस्योच्चारणादि-
रूपे धात्वर्थे आश्रयत्वसंबन्धेनेत्याहुः । ब्रह्मणः प्रजाः प्रजायन्ते-अत्र 'जनिकर्तुः-' इति सूत्रेणापादानत्वम्, जननं जनिरुत्पत्तिस्तस्याः कर्तेति षष्ठीतत्पुरुषः, तृन्नन्तत्वान्न समासनिषेधः । न चैवं 'न लोक-' इति षष्ठीनिषेधप्रसङ्गः, कारकषष्ठ्या एव स निषेध इति सिद्धान्ताच्छेष- षष्ठीप्रवृत्तौ बाधकाभावात् ।
वस्तुतस्तु शेषषष्ठ्यास्तृजन्तेनापि समासःसुलभ इति ध्येयम् । स्पष्टं चेदं मनोरमादौ । एवं चोत्पत्त्याश्रयस्य प्रकृतिरूपादानकारणमपादानमिति सूत्रार्थः । प्रकृतिशब्दस्य तत्रैव प्रसिद्धेः । मायाशबलस्य ब्रह्मणो जगदुपादानत्वं वेदान्तिसिद्धान्तसिद्धम् । अत एव ब्रह्मणो जगदुपादानत्वे 'यतो वा इमानि सिद्धत्वाच्च । पुत्रात् प्रमोदोऽजायत इत्यादावुपादानत्वारोपेण निर्वाहः । वृत्तिकृतस्तदनुयायिनोऽन्ये च पुत्रात् प्रमोद इत्यादिप्रयोगानुरोधेन प्रकृतिपदेन हेतुमात्रपरिग्रह इत्याहुः न च धूमादग्रिमानित्यादाविव प्रकृतेऽपि 'विभाषा-' इति पञचमीसिद्धौ किमनेन सूत्रेणेति वाच्यम् । अपादानत्वप्रकारकबोधनिर्वाहार्थमेतस्यावश्यकत्वात् । अन्ये तु हेतुत्वातिरिक्तस्वरूप- संबन्धविशेषाधीनत्वबोधे पञ्चमीसिद्धय इदामावश्य,__संबन्धत्वेन रूपेण हेतुत्वबोधनिर्वाहार्थ चेत्याहुः । हिमवतो गङ्ग प्रभवति-अत्र 'भुवः प्रभवः' इत्यमेनापादानत्वम् । भवनं भूः, संपदादित्वात् भावे क्किप् । समासैकदेशभूतमपि कर्तृग्रहणमनुवर्तते स्वरितत्वात् । तथा च भवनकर्तुः प्रभवः, प्रभवत्यस्मादिति प्रभवः-प्रथमप्रकाशाधिकरणमपादानमिति तदर्थः । 'प्रभवो जलमूले स्याज्जन्महेतौ पराक्रमे । ज्ञानस्य चादिमस्थाने-' इति विश्वः । प्रभवतीत्यत्र प्रथमोपलम्भरूपः प्रथमप्रकाशो धात्वर्थः । सूत्रेऽपि भूधातुरुक्तार्थक एव । प्रकाशप्रत्यक्षात्मक- ज्ञानविषयत्वं, तादृशज्ञानमात्रं वा विषयतासंबन्धेन । तदाश्रयस्य गङ्गादेः कर्तृत्वम् । तद्गतं प्राथम्यं च समानकालिकत्वसंबन्धेन स्वध्वंसाविज्ञिष्टत्वम्, तादृशं ज्ञानं भूमण्डलस्थस्य कस्यचिदेव गङ्गाविर्भावसमानकालिकस्य संभवति ।दक्षिणदेशादागतस्य विन्ध्याचले गङ्गायाः प्रथमदर्शनेऽपि न विन्ध्यादितो गङ्ग प्रभवतीति प्रयोगः, तद्दर्शनस्य तादृशध्वंसाविशिष्टत्वाभावात् । ज्ञानं च तात्पर्यवशान्मनुयलोकस्थनिष्ठमेव । अतो देवानां तादृशज्ञानविषयत्वमादाय न वैकुण्ठाद्गङ्ग प्रभवतीति प्रयोगापत्तिः । अपादानत्वशक्तिमान् पञ्चम्यर्थ इति मञ्जूषाकृतः । अधिकरणत्वं पञ्चम्यर्थ इत्यपरे । संबन्धाधीनत्वं तदर्थ इति व्युत्पत्तिवादकृतः । दर्शनयोग्यत्वाभावावच्छेदकदेशाव्यावहितदेशावच्छेदेन दर्शनयोग्यत्वं धात्वर्थः । तादात्म्यं पञ्म्यर्थः । तस्य धात्वर्थघटकद्वितीयदेशेऽन्वयः । तथा च हिमवदभिन्नो यो दर्शनयोग्यत्वाभावावच्छेदक- देशाव्यवहितदेशस्तदवच्छिन्नदर्शनयोग्यत्ववती गङ्गेति बोध इति तार्किकरत्नाकरकृतः । कारकवादककृतस्तु-आद्यबहिः__संयोगो धात्वर्थः । वहिः पदार्थः प्रकृते रसातलं, स्योगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वं पञ्चम्यर्थः । आश्रयत्वमाख्यातार्थः ।
तथा च हिमालयानुयोगिकसंयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वं पञ्चम्यर्थः, आश्रयत्वमाख्या तार्थः । तथा च हिमालयानुयोगिकसंयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्यपृथ्वीसंयोगाश्रयत्ववती गङ्गेति बोधः । वैकुण्ठात् प्रभवति गङ्ग काशीतो वेति प्रयोगवारणायाव्यवहितत्वाद्यत्वयो- रुपादानम् । भूसंयोगस्य वैकुण्ठसंयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वाभावात्, काशीसंयोगध्वंसा- व्यवहितोत्तरक्षणवृत्तिगङ्गाभूसंयोगस्याद्यत्वाभावान्न दोष इत्याहुः । अत्र प्रथमज्ञानात्मकप्रथम- प्रकाश एव धात्वर्थ इति ज्ञानस्य चादिमस्थान इत्युक्तविश्वकोशाल्लभ्यते । उपलभेतेति
प्रभवतीत्यस्य वृत्तिस्थव्याख्यानाच्च । अत्र आसनात् प्रेक्षते, 'ल्यब्लोपे कर्मण्यधिकरणे च' इति पञ्चमी । गम्यमानार्थकतयाप्रयोगो लोपः । एवं च व्यबन्तस्याज्ञाने प्रत्यासत्त्या ल्यबन्तधात्वर्थकर्मणीत्यादिरर्थः । ल्यबन्तस्यानुच्चारणे इति तु 'ल्यब्लोपे' इत्यस्य नार्थः । दर्शनाभावस्यैव लोपसंज्ञकत्वात् । दृशेश्चोच्चारणक्रियत्वाभावादिति स्पष्टं बृहच्छब्दरत्नादौ । आसने उपविश्य प्रेक्षत इत्यर्थः । प्रासादात् प्रेक्षते-प्रासादमारुह्य प्रेक्षत इत्यर्थः । क्रमेणाधिकरणकर्मणी पञ्चम्यर्थौ । उपवेशनादिक्रियाया वाक्यैकदेशन्यायेन भानमित्यन्यत्र विस्तरः। आसलाधिकरणकं यदुपवेशनं तदव्यवहितोत्तरकालिकं तत्समानकर्तृकं प्रेक्षणमित्यादिः शाब्दबोधः । वनाद् ग्रामो योजने योजनं वा__अत्र 'यतश्चाध्वकालनिर्माणं तत्र पञ्चमी, तद्युक्तादध्वनः प्रथमासप्तम्यौ कालात् सप्तमी च वक्तव्या' इति वचनात् पञ्चम्यादिकं विधीयते । यदवधित्वेनाश्रित्याध्वकालान्यतरस्य निर्माणं परिच्छेदः प्रतिपाद्यते ततः पञ्चमी, तद्युक्तात् = तेन पञ्चम्यन्तेनार्थद्वारा युक्तात् परिच्छेद्याध्ववाचिनः प्रथमासप्तम्यौ भवतः । कालादित्यत्रापि तद्युक्तादित्यस्यानुषङ्गः । तथाविधकालार्थकात् स्तमीति तदर्थः । अव्यवहितोत्तरत्वं पञ्चम्यर्थः । प्रतियोगित्वसंबन्धेन प्रकृत्यर्थान्वितस्याश्रयत्वसंबन्धेन योजनेऽन्वयः । प्रथमासप्तम्योरव्यहितोत्तर- वृत्तित्वमर्थः । तस्य ग्रामे आश्रयतयान्वयः ।
एवं च वनाव्यवहितोत्तरयोजनाव्यवहितोत्तरदेशवृत्तिर्ग्राम इति बोधः । कार्तिक्या आग्रहायणी मासे इत्यत्रावयवघटितत्वं पञ्चम्या अर्थः, अव्यवहितोत्तरकालवृत्तित्वं सप्तम्याः, कार्तिकीरूप- प्रकृत्यर्थस्य तादात्म्यसंबन्धेन पञ्चम्यर्थघटकावयवेऽन्वयः । कार्तिक्यवयवघटितमासा- व्यवहितोत्तरकालवृत्तिराग्रहायणीति बोधः । पूर्वत्र प्रथमासप्तम्योरत्र च सप्तम्या अव्यवहितोत्तरत्व- मात्रं वार्थः । तस्याश्रयत्वसंबन्धेन ग्रामेऽन्वयः । योजनाधिकव्यवधाने वनाद् ग्राम इत्यप्रयोगात्तत्र पञ्चम्यर्थेऽव्यवधानांशनिवेशः । योजनीत्तरविभत्तयर्थेऽप्यत एय तन्निवेशः । मासे इत्यत्र सप्तम्यर्थे तदन्तर्भावोऽप्येतदर्थमेव । अन्यथा कार्तिक्याः पौषी मासे इत्यादेरप्यापत्तेः । कार्तिकीघटित- मासोत्तरवृत्तित्वस्य पौष्यामपि सत्त्वात् । कार्तिक्या इति पञ्चम्या वनादित्यत्रेवाव्यवहितोत्तरत्वं नार्थः । कार्तिक्यव्यवहितोतरमासाव्यवहितोत्तरवृत्तित्वस्याग्रहायण्यामसंभवादुक्तप्रयोगानुपपत्तेः । उभयत्र पञ्चम्या अवधित्वमर्थः । वनावधिकयोजनाव्यहितोत्तरदेशवृत्तिर्ग्राम इत्याकारको बोध इति शाब्दिकरत्माकरकृतः । योजनाद्यर्थे ज्ञाते नियमेनावध्याकाङ्क्षायाः सत्त्वान्नासंभव इति भावः । कार्तिक्या इत्यादावपि नार्थासंगतिः तद्धर्मवतोऽपि तद्धर्मावधित्वात्, यथाभिविधाविति भावः । घटादन्य इत्यादौ स्वप्रतियोगिकभेदसंबन्धः पञ्चम्यर्थः । तेन संबन्धेन प्रकृत्यर्थस्यान्यस्मिन्नन्वयः, अत एव नात्रैकदेशान्वयप्रसक्तिः । अत एव देवदत्तस्य पुत्र इत्यादौ जन्यत्वादेः षष्ठयर्थत्वमभ्युपयन्ति शाब्दिकाः । अन्यादिशब्देन भेदाद्यवगतनिराकाङ्क्षत्वं न प्रकारतया, तद्बोधे एव निराकाङ्क्षत्वेन संसर्गतया बोधे निराकाङ्क्षत्वविरहात् । स्वप्रतियोगिकत्वमित्यस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वमित्यर्थः । तेन घटेऽपि घटान्तरमादाय घटो घटादन्य इति प्रयोगापत्तिः । स्वपदेन घटत्वादिविशिष्टतत्तद्वयक्त्युपादानेऽपि द्वित्वादिना तत्प्रतियोगिक- भेदमादाय तद्दोषस्तदवस्थ इति दूषणं प्रयुक्तम् । अन्ये तु प्रतियोगित्वं प्रतियोगिमत्त्‌वं वा पञ्चम्यर्थः । प्रतियोगित्वे प्रकृत्यर्थतावच्छेदकावच्छिन्नाधेयत्वसंबन्धेन प्रकृत्यर्थस्य प्रकृत्यर्थान्वितस्य निरूपकत्वसंबन्धेन भेदे तद्धटितसंबन्धेन तद्वति वान्वयः । द्वितीयपक्षे़नुयोगिता- स्वरूपे
प्रतियोगिमत्त्वे प्रकृत्यर्थतावच्छेदकावच्छिन्ननिरूपितत्वसंबन्धेन प्रकृत्यर्थस्यान्वयः, तस्य चाश्रयत्वसंबन्धेन भेदे एकदेशेऽप्यन्वयो व्युत्पत्तिवैचिव्याद् विस्पष्टपटुरित्यत्र पाटवे यथा व्युत्पत्तिवैचिव्यादन्वयः । अत एव मुख्यसामानाधिकरण्याभावाद्, 'विशेषणं विशेष्येण' इति कर्मधारयो न कि तु सुप्सुपेति समासो विस्पष्टादीनीति ज्ञापकाद्वेति स्पष्टं 'प्राक् कडारात् समासः' इत सूत्रे भाष्यकैयटयोः । तद्धटितसंबन्धेन भेदवति वान्वय इत्याहुः । अन्येत्यर्थ- ग्रहणमत एव घटाद्भिन्न इति प्रयोगसिद्धिः । घटस्य भेद इत्यत्र तु न पञ्चमीप्रसक्तिः । भेदविशिष्टार्थकस्यैव ग्रहणात् अन्यशब्दस्य विशिष्टार्थकत्वात् । इतरग्रहणमेतदर्थसूचकमेवेत्यभि- प्रेत्यैव प्रपञ्चार्थमित्युक्तं कौमुद्याम् ।
अत एव घटो नेत्यत्र न तदापत्तिस्तस्य द्योतकत्वाङ्गीकाराच्चेति प्राञ्चः । नव्यशाब्दिकमते तु नार्थग्रहणं भाष्यानुक्तत्वात् । घटाद्भिन्न इत्यत्र पञ्चमीनिर्वाहस्तु प्रागुक्त एवेत्यलम् । कृष्णादृते दुःखम्, अत्र कृष्णशब्दस्तद्भक्तिलाक्षणिकः । ऋतेशब्दार्थः संसर्गाभावः । प्रतियोगितासंबन्धेन प्रकृत्यर्थान्वितस्य तस्य सामानाधिकरण्यसंबन्धेन तत्स्थे दुःखेऽन्वयः । अभावे प्रतियोगिवैयधिकरण्यं निवेशनीयमन्यथाराध्यत्वप्रकारकज्ञानात्मकभक्तेरव्याप्यवृत्तितया तदभाव- सामानाधिकरण्यस्य सुखेऽपि सत्त्वेन कृष्णादृते सुखमिति प्रयोगापत्तिः । क्कचित् प्रयुक्तत्वसंबन्धेनैवान्वयः । अत एव वृष्टेऋते सुखमिति न । अन्यथा वृष्टेः क्षेत्रादौ सत्त्वेऽपि तदभावस्यात्मनि सत्त्वेन स्यात्तथा प्रयोगः । स्वदेशात् शत्रोः प्रयाणादृते देवदत्तस्य दुःखमित्यादौ प्रयुक्तत्वबोधस्यानुभवसिद्धत्वादावश्यकत्वाच्च । अन्यथा शत्रोः प्रयाणे सत्यपि तदभावस्य देवदतेत सत्त्वेन तदीयव्याध्यादिप्रयुक्तदुःखे तादृशप्रयाणाभावसामानाधिकरण्यमादाय दुर्वारत्वात् । एवं दण्डादृते न घट इतिवद्रासबादृते न घट इत्यादिप्रयोगापत्तिरप्यत एव न । दण्डाभावप्रयुक्तत्वस्य घटाभावेऽबाधितत्ववद्रासभाभावप्रयुक्तत्वस्याबाधितत्वविरहात् । सामानाधिकरण्यसंबन्धस्य संसर्गत्वे तु स्यादेवोक्तप्रयोगापत्तिः । प्रयुक्तत्वसंबन्धेनैव तस्यान्वय इति नियमस्तु न वह्नोऋते पर्वतरूपाभाव इत्यादौ तदसंभवादित्यलम् ।
ऋते वाताद्वृक्षः पतति, अत्राभावस्तद्वान्वा तदर्थः । वाताभावविशिष्टवृक्षस्य पतने संबन्धावगतौ पतने वा तज्जन्यत्वाभावलाभ आर्थः । जन्यत्वशब्दादनुपस्थितस्याभावप्रतियोगितया भानासंभवाज्जन्यत्वस्य वृत्त्यनियामकतया तत्संबन्धावच्छिन्नप्रतियोगिताकवाताभावबोधोऽपि न संभवति । वातपदस्य वातजन्यत्वलक्षणायां तु तदाश्रयणमेव दोषः । भेदवानपि ऋतेशब्दार्थः । यथा रामादृते न धनुर्धर इत्यत्र । रामभिन्नो धनुर्धरभिन्न इति बोधः । घटादन्य इत्यत्रोक्तप्रकारः सर्वोऽप्यत्रावगन्तव्यः । एतद्योगे द्वितीयापि 'ततोऽन्यत्रापि दृश्यते' इत्यत्र दृशिग्रहणात् । अत एव चान्द्रा 'ऋते द्वितीया च' इति सूत्रयन्ति । अत एव 'पुरुषाराधनमृते' इति प्रयोगोऽपि साधुर्भवति । तेन ऋते वातं वृक्षः पततीत्यपि भवति । पूर्वो ग्रामात्तडागः__अत्र 'अन्यरात्-' इति सूत्रेण पञ्चमी । अत्र पूर्वशब्दस्यादिग्वृत्तित्वेऽपि शब्दग्रहणसामर्थ्याद्दिशि दृष्टमात्रस्य ग्रहणात् । उदया- चलसंनिहितदेशः पूर्वपदार्थः । अवधित्वं प्चम्यर्थः । अवधित्वसाकाङ्क्षो धर्माविशेषः पूर्वत्वम् । स चाखण्डोपाधिः । एवं परत्वाद्यपि । ग्रामावधितानिरूपकपूर्वत्ववानित्यादिक्रमेण बोधः । चैत्रात् पूर्वः फाल्गुनः-अत्र प्रतियोगितद्ध्वंसानधिकरणकाल एव भासते तत्तदवधिबोधकपदसमभिव्याहार- साचिव्यात् । चैत्रावधिकपूर्वत्ववत्कालभवः फाल्गुन इति बोधः । तद्ध्वंसमात्रानधिकरणभवस्य
पूर्वत्वेन रूपेण वाच्यत्वे चैत्रात् पूर्वश्चैत्र इति प्रयोगापत्तिः । तत्प्रतियोगिमात्रानधिकरणभवस्य तथात्वे वैशाखाचैत्रादिरूपप्रतियोग्याद्यन्तर्भावेण शक्त्यङ्गीकारे शत्तयानन्त्यम् । प्रतियोगित्वादिरूपेणेवान्तर्भावेऽप्रसिद्धिरित्यादिदोषभयात् तादृशकालभवस्य पूर्वत्वेनैव शक्तिरङ्गीकृता । कालस्य क्रियामात्रपरिच्छेदकत्वात् फाल्गुनादिनान्वयो न स्यादतस्त- द्भवम्यान्तर्भावः । पूर्वादिशब्दस्य तत्र लक्षणा । लक्षणाभावे तु चैत्रात् पूर्व फाल्गुन इत्येव प्रयोगः । अधिकरणशक्तिप्रधानमव्ययम् । अस्तीत्वादेरध्याहारः । अन्ये तु ग्रामात् पूर्व इत्यत्रोदयाचलावधिकापरत्वाश्रयः । पूर्वशब्दार्थः, पञ्चम्याः परत्वनिरूपकत्वमर्थः । तथा च ग्रामवृत्तिपरत्वनिरुपकं यदुदयाचलावधिकमपरत्वं तदाश्रय इति बोधः । चैत्रादित्याद्युदाहरणे पूर्वशब्दः प्रागगभावाश्रयार्थकः । प्रतियोगित्वार्थिका पञ्चमी । प्रागभावानङ्गीकारे तु ध्वंसप्रतियोगो पुर्वशब्दार्थः । आधेयत्वं पञ्चम्यर्थः । तस्य च ध्वंसेऽन्वयः । चैत्रप्रतियोगिकप्रागभावाश्रयः फाल्गुन इत्याद्याकारो बोध इत्याहुः । अत्र मते प्रागभावादेः सावधिकत्वाभावेन तदर्थकपूर्वशब्दस्यावध्याकाङ्क्षार्थकत्वं न स्यात्, तथा च व्यवस्थाभावे सर्वनामता न स्यात् । न च प्रतियोग्याकङ्क्षासत्त्वादेव तथात्वोपपत्तिरिति वाच्यम् । प्रति- योगित्वावधित्वर्थोभेदात्, पूर्वत्वस्य सावधिकत्वान्मन्मते नानुपपत्तिरित्याहुः शाब्दिकाः । चैत्रात् परो वैशाखः-चैत्रध्वंसाधिकरणकालभवः परत्वेन परशब्दार्थः । अवधित्वे पञ्चमी । 'गृहाद्गङ्ग मम परा काश्याः सैवापरा मम' इत्यादौ विप्रकृष्टदेशस्थसंनिकृष्टदेशस्थौ परत्वापरत्वाभ्यां परापरशब्दप्रतिपाद्यौ । गृहावधिकमत्संबन्धिपरत्ववती गङ्गेत्यादि क्रमेण बोधः । परत्वादिनिष्ठः स्वसंबन्धः स्वसंयुक्तसंयोगपरंपराश्रयाश्रितत्वाद्यात्मकः मध्यवति गृहं स्वसंबन्ध्यन्यसंबन्धि वेत्यन्यदेतत् । यस्य तदर्थे उत्थिताकाङ्क्षा प्रत्यासत्त्या तन्निमित्तकविभक्तेस्तद्वाचकादेव स्वीकारात् । परादिपदं चावधावेव नियताकाङ्क्षमिति स्पष्टमेव ।
प्रागादयः पूर्वादिना व्याख्याताः । सध्युङ् चैत्रेणेत्यादौ तु पञ्चमीसाहटर्येण दिग्वाचकस्यैवाञ्चूत्तरपदस्य पञ्चमीनिमित्तत्वाभ्युपगमात् । ग्रामाद्वह्निः__समभिव्याहृतपदार्थ- तावच्छेदकानाश्रयस्तत्स्थं च बहिष्टरूपोपाधिनोच्यते । अनावृतदेश इत्यनेनाप्ययमेवार्थोऽभिप्रेतः । अत एव द्रव्याद्बहिर्भूतो गुण इत्याद्युपपद्यते । काशीतो बहिर्भूतमितं गृहमिति च । बहिःशब्देन पञ्चमी समासविधानज्ञापितात्र पञ्चमी । ज्ञापकसिद्धस्यासार्वत्रिकत्वेन 'करस्य करभो बहिः' इति सिद्धमित्याहुः । अप हरेः परि हरेः संसार इत्यत्रापपरी ऋतेशब्दसमानार्थौ । 'अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञा । 'पञ्चम्यपाङ्परिभिः' इति पञ्चमी । हरिशब्दो हरिभक्तिलाक्षणिकः । हरिभत्तयभावसमानाधिकरणस्तत्प्रयोज्यो वा संसारः । संसारो जन्मादि । अपरे तु अत्यन्ताभावोऽनयोरर्थः, पञ्चम्या आधेयत्वम् । तस्य चात्यन्ताभावेऽन्वयोऽत्यन्ताभावस्य प्रतियागितया संसारे । हरिवृत्त्यत्यन्ताभावप्रतियोगी संसार इति बोधः । अप पृथिव्या गन्धाभाव इत्यादौ तथैवानुभवादिति वदन्ति । तेषामयमाशयः__पृथिव्यभावसमानाधिकरणो गन्धभाव इति बोधाभ्युपगमो न संभवि । अप पृथिव्याः स्नेहाभाव इत्यादेरप्यापत्तेः । अथ पृथिव्यभावप्रयुक्तो गन्धाभाव इति बोधः स्वीक्रियते स्नेहाद्यभावश्च न तत्प्रयुक्त इति नातिप्रसङ्ग इति चेत्, हेतु- तावच्छेदकसंबन्धावच्छिन्नहेत्वभावस्यैव कार्याभावप्रयोजकतया संयोगादिसंबन्धावच्छिन्नततदभावस्य तथात्वासंभवादिति प्रथिव्यन्योन्याभावप्रयुक्तत्वबोधाभ्युपगमे तु नोक्तदोष इति बोध्यम् ।

आमुक्तेः संसारः आङोऽत्र मर्यादार्थः । कालदेशभेदेन मर्यादा द्विविधा । कालगतं मर्यादात्वं स्वस्वोत्तरकालोभयप्रागभावाधिकरणयावत्कालभवो यः समभिव्याहृतपदार्थस्तद- नधिकरणत्वम् । मुक्तिपदं तदधिकरणकालपरम्, मर्यादामर्यादिभावसंबन्धः पञ्चम्यर्थः स एवाङ्द्योत्यः । मुक्तिमर्यादकः संसार इति बोधः । मुक्तिकालप्रागभावादिनिरूपितं यन्मुक्तिकालतत्प्रागभावकालान्यकालवृत्तित्वविशिष्टव्यापकत्वं संसारे तद्बोधस्त्वार्थिकः । तादृशकालवृत्तित्वस्यार्थिकबोधनिर्वाहार्थमेव तदुत्तरकालप्रागभावोपादानं कृतम् ।तादृशप्रागभावाधि- करणकाले समभिव्याहृतकालप्रागभावानधिकरणत्वमपि प्रवेश्यम्, तेन सावित्री जऐदर्धास्तमिते मण्डले आ नक्षत्रदर्शनादिति प्रयोगे जपनिष्ठतथाविधप्रगभावानिरूपितव्यापकत्वभानानिर्वाहः, अन्यथा तत्परागभावस्यार्धास्तमितपूर्वकालेऽपि सत्त्वेन तदव्यापकत्वस्य बाधेन तदनिर्वाहात् । अत्र वस्तुगत्या यस्तादृशविशेषणविशिष्टः समभिव्याहृतपदार्थस्तदधिकरणभेदरूपं तदनधिकरणत्वं समभिव्याहृतपदार्थभेदाधिकरणभेदत्वेन रूपेणोच्यते संबन्धत्वेन वेति न शत्तयानन्त्यं, मर्यादित्वं च तथाविधमर्यादात्वनिरूपकत्वमिति बोधयम् । तार्किकरत्नाकारकृतस्तु समानकालिकत्वाभावः कालिकमव्यवधानं चाङा प्रत्याय्यते । तादृगव्यवधानं तत्प्रागभावाधिकरणक्षणप्रागभावानधिकरणत्वे सति तत्प्रागभावाधिकरणभूतो यः क्षणस्तद्वृत्तित्वम् । प्राघभावानभ्युपगमे तु तदधिकरणक्षणोत्पत्तिकध्वंसप्रतियोगिक्षणवृत्तित्वं प्रतियोगित्वं पञ्चम्यर्थः । तथा च मुक्तिसमानकालिकवाभाववान् मुत्तव्यवहितः संसार इति बोध इत्याहुः । अत्र मते संसारे मुत्तयुत्तरकालावृत्तित्वस्यार्थिक एव लाभ इति बोध्यम् । न च तदभानेऽपि न क्षतिरिति वाच्यम् । मध्याह्नोत्तरं तत्पूर्व चाध्ययने मध्येऽवसाने आ मध्याह्नादधीत इति प्रयोगापत्तेः । प्रतिदिनं सायंकालपर्यन्तमध्ययनकर्तरि आ सायंकालादधीते इत्यादि तु धातोस्तत्तदध्ययनपरत्वेन निर्वाह्यम् । अव्यवहितोत्तरकालविशेषो वोत्तरकालेत्यनेन विवक्षणीयः । अत्र मते प्रातःकाले सायंकालव्यवहितपूर्वकाले एव जपे प्रातरारभ्या सायंकालाज्जपतीति प्रयोगापत्तिरिति तु द्रष्टव्यम् । अपरे तु मर्यादात्वघटकः प्रागभाव एवाङोऽर्थः । मुक्तिपदं मुक्तिकालपरं पञ्चम्याः प्रतियोगित्वं वाच्यम् । एवं च मुत्तयधिकरणकालप्रतियोगिकप्रागभावलाभः । तस्य स्वस्वोत्तरकालावृत्तित्व- सहितव्यापकत्वसंबन्धेन संसारेऽन्वयः इत्याहुः । प्रयागात् प्रभृत्या काश्या वृष्टो देव इत्यादौ देशरूपा मर्यादा । मर्यादात्वं च स्वस्वोत्तरदेशयोगनष्ठं काशीप्रयागोभयान्तरा- लिकयावद्देशवृत्तिसमभिव्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् । उत्तरदेशावृत्तितादृशसमभिव्याहृत- पदार्थानधिकरणत्वं तन्निष्ठं मर्यादात्वमिति तु परसार्थः । उत्तरदेशे तदनधिकरणत्वनिवेशात् काशीतः पूर्वदेशेऽपि वृष्टिसद्भावे न तादृशप्रयोगापत्तिः । पाटलिपुत्रात् पूर्वदेशे वृष्टिसत्त्वे काशीपाटलिपुत्रान्तराले तदसत्त्वे प्रयागकाशीमध्यदेशे वृष्टिसत्त्वदशायामुक्तप्रयोगस्य प्रामाणिकत्वे उत्तरशब्देनाव्यवहितोत्तरदेशो ग्राह्यः । वृष्टिपदं वा वृषिटिविशेषपरं, प्रयागपदोत्तरं पञ्चमी प्रभृत्यर्थयोगे । तथा च प्रयागादिकाशीमर्यादकवृष्टिकता देव इति बोधः । प्रयागाधिकरमकप्रारम्भिका काशीप्रयागोभयान्तरालिकयावद्देशनिष्ठं यत्काशीतदुत्तरदेशलिष्ठाभाव- प्रतियोग्यधिकरणत्वं तन्निरूपिका या वृष्टिस्तत्कर्तेति यावत् । पञ्चम्यर्थमर्यादात्वशरीरे काश्युत्तरदेशे समभिव्याहृतपदार्थानधिकरणत्वान्तर्भावोऽनन्यगतिकतया स्वीकार्यः । एवं सति नानार्थात्वे इष्टापत्तिरिति भाव । वस्तुतस्तु उभयविधमर्यादात्वानुगमकं मर्यादात्वं धर्मविशेष- रूपम्
। एवं च न नानार्थत्वप्रसक्तिः, अत एव काशीमर्यादकेति बोधप्रदर्शनमभियुक्तैः क्रियते । धर्मविशेषरूपमर्यादात्वस्यानङ्गीकारे तु पूर्वोक्तरीतिरत्राप्यनुसंधेया । प्रयागादिकाशीपश्चिमदेश- निरूपितं यत्सुभिक्षदेशविशेषावृत्तित्वविशिष्टव्यापकत्वं तद्बाधस्त्वार्थः । तादृशव्यापकत्वस्य शब्दादनुपस्थितेः । काशीपदोत्तरपञ्चम्या व्यापकत्वार्थकत्वाङ्गीकारेण निर्वाह इति तु न, व्यापकत्वस्य व्याप्यविशेषाघटितस्य दुर्वचत्वात्, तद्घटकपदार्थेषु खण्डशः शक्तिस्वीकारे गौरवं व्याप्यस्यानुपस्थिताविष्टानिर्वाहश्च । व्याप्यविशेषान्तर्भावेण शक्तौ शतयानन्त्यमित्यादिकं बोध्यम् । अभिविधिस्तत्पर्यन्तमभिव्याप्तिः, तत्पदेनावधिः । स चाङा द्योत्यः पञ्चम्यर्थः । तत्पर्यन्ताभिव्याप्तिश्च तद्वयापकत्वे सति तदितरत्र संबन्धः । स च क्कचिद् व्यापकत्वरूपः क्कचित्तादात्म्यसंयोगादिस्तात्पर्यवशाद्भासते । क्तचिद्वयापकत्वमात्रं यथा आ हरेः प्रमेयत्वम् । अत्र प्रमेयत्वे हसिव्यापकत्वे सति तदितरव्यापकत्वं प्रतीयते । आ परमाणोः पृथिवी, अत्र परमामुपदं पार्थिवपरमाणुपरं तादात्येन तदव्यापकत्वं तदितरतादात्म्यसंबन्धश्च प्रतीयत इत्यादि बोध्यम् । आ सकलाद् ब्रह्म । अत्र व्यापकत्वमात्रमर्थः । सकलव्यापकं ब्रह्मेति बोधः । अभिविधिरूपः संबन्धोऽपि द्विविधः कालिको दैशिकश्च । आद्यो कार्तिक्याश्चैत्रं यावच्छीतम् । कार्तिकीप्रभृति चैत्रान्तकालव्यापकं शीतमिति बोधः, चैत्रपदं चैत्रान्तकालपरम् । अन्त्यं यथाकाशीतः पाटलीपुत्रंयावद्वृष्टो देवः । काशीप्रभृतिपाटलिपुत्रान्तदेशव्यापकत्वं वृष्टौ प्रतीयते । अनयोस्तात्पर्यवशात्तदभिन्नकालावृत्तित्वविशिष्टं तदभिन्नदेशावृत्तित्वविशिष्टं च व्यापकत्वं प्रतीयत इत्युक्तमभियुक्तैः । अयं भावः, व्यापकत्वं द्वितीयार्थो यावच्छब्दो द्योतकः, व्युत्पत्ति- वैचित्र्यादितरपदार्थविशिष्टप्रकृत्यर्थ चैत्रान्तकालदेनिरूपितत्वसंबन्धेन व्यापकत्वेऽन्वयः । व्यापकत्वं च तत्तदव्याप्यघटितमेवोपादेयमतो नाप्रसिद्धम् । अथवा भेदप्रतियोगितावच्छेदकत्वम- भावश्चेत्येतद् द्वयं व्यापकत्वघटकं व्याप्यघटितमेव द्वितीयार्थः । इतरपदार्थविशिष्टप्रकृत्यर्था- स्याधेयत्वसंबन्धेन भेदेऽन्वयः, तद्धलादेव तद्वयापकत्वलाभः, अथवा चैत्रपदस्येव कार्तिकीप्रभृतिचैत्रान्तकालार्थकत्वं लक्षणया, कार्तिक्या इति तात्पर्यग्राहकं द्वितीयार्थः पूर्ववत्, काशीत इत्यत्राप्येवमेव बोध्यम्, यावच्छब्दस्य वाचकत्वपक्षे तु आधेयत्वं द्वितीयार्थः, तस्य यावच्छब्दार्थ घटकभेदेऽन्वयः, इतरत् पूर्ववत् ।
अथवा द्वितीयार्थो व्यापकत्वं तदितरसंबन्धश्च, तदितरश्च प्रत्यासत्त्या कार्तिकीप्रभृतिक- काल एव संबन्धश्च व्यापकत्वरूपो भासते इति दिक् । मर्यादोदाहरणेऽपि यद्यप्येवंरीत्या व्यापकत्वबोधो निर्वहति तथापि मर्यादात्वेन रूपेण बोधनिर्वाह एतादृशक्लेशं विनैव संभवतीत्येतदुपेक्षा तत्र पुरस्कृता । अत्र त्वगत्वा व्यापकत्वबोध उक्तक्रमेणाङ्गीकारे कृतः । अभिव्याप्तितात्पर्यसत्त्वे कार्तिकीत आ चैत्र्याः शीतमित्याद्यपि कालिकाभिविधेरुदाहारणं बोध्यम् । अत्राप्युक्तैव रीतिरनुसर्तव्या । तत्र यो द्वितीयार्थः सोऽत्र पञ्चम्यर्थ आङ्द्यो य इति विशेषः । अपरे तु कार्तिकीतश्चैत्रमित्यत्रोत्तरकालपूर्वत्वं काशीतः पाटलीपुत्रमित्यत्र पूर्वदेशपश्चिमत्वं यावच्छब्दार्थः । अवधित्वं द्वितीयार्थः । तस्य यावच्छब्दार्थेऽन्वयः । उत्तरकालपूर्वत्वस्य व्यापकत्वसंबन्धेन शीतभवनेऽन्वयः । व्यापकत्वघटकोत्तरकालपूर्वत्वाधिकरणे समभिव्याहृत- कार्तिक्यादिपूर्वकालभेदो निवेश्यः । द्वितीयेऽपि पूर्वदेशपश्चिमत्वस्य व्यापकत्वसंबन्धेन वृष्टावन्वयः । अत्रापि व्यापकत्वघटकपूर्वदेशपश्चिमत्वाधिकरणे काशी पश्चिमदेशभेदो निवेश्यः ।
एतादृशव्यापकत्वभाने कार्तीकीपूर्वकालाद्यवृत्तित्वमर्थात् सिद्धं भवतीत्यलमतिविस्तरेण । आङ्घटितोदाहरणेऽपीदं सर्व बोध्यमित्याहुः । कार्तिक्या इति पञ्चमी तु प्रभृत्यर्थयोगनिमित्तका । आरभ्येत्यर्थकमव्ययं प्रभृतीति । 'यतश्चाध्वकाल__' इति वार्तिकप्रत्याख्यानाय भाष्ये 'इदमत्र प्रयोक्तव्यं सन्न प्रयुमीति वचनसत्त्वं सूचितम् । तेन तदप्रयोऽपि पञ्चमीसिद्धिः, अवधिमादायेति तदर्थः । अवधित्वेन स्वीकृत्येति यावत् । आरभ्येत्यस्य तदर्थकताग्रहणमात्रार्थकता च । आद्ये पञ्चमी, द्वितीये प्रातःकालमारभ्येत्यादौ कर्मत्वाद् द्वितीया । अवधित्वं च भवात् प्रभृति सेव्यो हरिरित्यत्र समभिव्याहृतपदार्थमरणान्तकालापेक्षमित्यन्यत्र विस्तरः । अवधित्वं पञ्चम्यर्थः । प्रद्युम्नः कृष्णात् प्रति__अत्र 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतेः कर्मप्रवचनीयसंज्ञा । 'प्रतिनिधिप्रतिदाने च यस्मात्' इति सूत्रेण पञ्चमी । यस्मादिति षष्ठ्यर्थे सूत्रे पञ्चमी, यत्संबन्धी यत्प्रतियोगी प्रतिनिधिः प्रतिदानं वा कर्मप्रवचनीययुक्ततदर्थकात् पञ्चमीति सूत्रार्थः, प्रतियोगित्वरूपसंबन्धः सूत्रस्य पञ्चम्यर्थः । प्रिः सदृशार्थकः । कृष्णादिति पञ्चम्याः प्रतियोगित्वमर्थः, कृष्णप्रतियोगिकसादृश्यवानिति बोधः, तिलेभ्यः प्रतियच्छति माषान् । ग्रहणपूर्वकं प्रत्यर्पणं प्रतिदानम्, तत्र गृहीतर्णजन्या__दृष्टध्वंसफलकदानात्मकं प्रतिसमबिव्याहृतयच्छतेरर्थः । तिलग्रहणपूर्वकं माषकर्मकप्रतिदानमिति बोधः, कर्मत्वा मः संबन्धः पञ्चम्यर्थः, तस्य धात्वर्थघटकग्रहणेऽन्वयः । तार्किकरत्नाकरकृतस्तु ऋणत्वध्वंसजनकत्वं प्रतेरर्थः, तस्याश्रयत्वेनादानेऽन्वयः, पञ्चम्या आदानजन्यत्वमर्थ ऋणत्ान्वयी ऋणत्वं पदार्थान्तरं पापविशेषो वा, तिलादानजन्यर्णत्वध्वंसजनकमाषदानकर्मेत्याद्याकारो बोध इत्यभ्युपयन्ति स्म । शताद्बद्धः 'अकर्तृर्यृणे पञ्चमी' इति सूत्रेणात्र पञ्चमी । कर्तृभिन्नं हेतुभूतं यदृणं तद्वाचकात् पञ्चमीति तदर्थः हेतुहेतुमद्भावो हेतुत्वं हेतुमत्त्वं वा पञ्चम्यर्थः । शतहेतुकं बन्धनकर्मेति बोधः । ऋणत्वं तु वस्तुसन्निमित न तु तस्य वाच्यकोटावन्तर्भाव इत्याहुः । तस्य वाच्यत्वं न युक्तं गौरवात्तद्बोधस्यानुभवाद्वेत्याहुः । शतेन बन्धित इति प्रत्युदाहरणे हेतुमण्ण्य तात् कर्मणि क्तः । शतमिह ऋणं प्रयोजककर्तृ 'तत्प्रयोजकः__' इति हेतुसंज्ञं च । जाड्याद्वद्ध इत्यत्र 'विभाषा गुणे__' इति वैकल्पिकी पञ्चमी । पक्षे हेतुतृतीया । जाड्यहेतुकबन्धनकर्मेति बोधः, धूमादग्निमानित्यादो ज्ञाननिष्ठजन्यजनकभावस्य विषये आरोपात् पञ्चमीत्याहुर्मञ्जूषाकृतः । एतत्पक्षे धूमहेतुको वह्निरिति बोधः । एतेन भूमादेर्वह्नयाद्यजनकत्वेऽपि पञ्चम्यनुपपत्तिनिरस्ता । ज्ञापकस्यापि हेतुपदेन ग्रहणमिति तु न युक्तम् । 'हेतुर्ना कारणं बीजम्' इति कोशेन हेतुपदस्य कारणार्थकत्वनिश्चयात् । लोके तत्र प्रयोगाभावाच्च । धूमपदं धूमज्ञानपरम् । अग्निमत्पदं स्वज्ञानविषये लाक्षणिकमिति लघुशेखरे ।
एतन्मते धूमज्ञानहेतुकवह्निमज्ज्ञानविषयपर्वत इति बोधः । मणिकृतस्तु-वह्निपदं वह्निज्ञानलाक्षणिकं, धूमपदं धूमज्ञानलाक्षणिकं हेतुत्वं जनकत्वरूपं पञ्चम्यर्थः । प्रकृत्यर्थ धूमज्ञानान्धितस्य तस्य निरूपकतासंबन्धेन वह्निपदार्थह्निज्ञानेऽन्वयः । मतुवर्थो विषयतावान् िषयता वा वह्निपदलक्षणा वा आश्रयत्वसंबन्धी मतुवर्थः । अथवा वह्निपदं ज्ञायमानवह्निलाक्षणिकं मतुवर्थः संयोगीति स्वीचकुः । अनयोर्मञ्जूषाशेखरोक्तयोः पक्षयोमध्ये ज्ञानगतजन्यजनकभावस्य विषय आरोप इत्येव पक्षः सम्यगिति प्रतिभाति । दीधितिकारादयस्तु__ ज्ञानज्ञाप्यत्वं पञ्चम्यर्थो धूमपदं मुख्यार्थकमेव । अत एवोदेहरणादिवाक्ये न धूमस्यैव गमकता-
प्रयोजकव्याप्त्यादिकं प्रदर्श्यते । एवं च वह्निपदमपि मुख्यार्थकमेव । अत एव जिज्ञासिताभिधानं भवति यतो वह्निरेव जिज्ञासितो न तु वह्निज्ञानमिताहुरित्यलमतिविस्तरेण । ज्ञानं च प्रमात्मकमेव पञ्चम्याद्यर्थघटकं तेन व्याप्त्यादिभ्रमविषये वह्नयादिविङ्गकधूमानुमत्युत्पत्तावपि न वह्निना वह्नेर्वा धूमवानिति प्रयोगापत्तिः । प्रमात्वं च यावद्धूमभिन्नत्वं वह्निर्धूमव्याप्य इति भ्रमस्यापि वह्नित्याद्यंशे प्रमात्वमादाय नोक्तप्रयोगापत्तितादवस्थ्यमिति बोध्यम् । धूमादेरगुणत्वेऽपि 'विभाषा' इति योगविभागात् पञ्चमी । अत एव नास्ति घटोऽनुपलब्धेरित्यत्र स्वीलिङ्गत्वेऽपि पञ्चमीत्याहुः । परे तु 'बाहुलकं प्रकृतेस्तनुदृष्टेः' इति 'उणादयो बहुलम्' इति सूत्रस्थवार्तिकप्रयोगाद्वशेषणद्वयं प्रायिकमित्याहुः । ज्ञाप्यज्ञापकभावोऽन्वयितावच्छेदक- वह्नित्वधूमत्वादिरूपेण प्रतीयत इत्यभ्युपगमात् पर्वतो वह्निमान् द्रव्यवाद् द्रव्यत्वेन वेत्यादिर्न प्रयोगः । अन्यथा तु प्रमेयत्वादिना वह्नरपि द्रव्यत्वज्ञाप्यत्वात्, वह्नित्वेन रूपेण विशिष्टद्रव्यत्व- ज्ञापितत्वाच्चोक्तप्रयोगापत्तिर्दुर्वारेव । एवं ज्ञाप्यवह्निमत्त्वादेर्यदन्वयितावच्छेदकं पर्वतत्वादि तदवच्छिन्नांशे एव ज्ञाप्यत्वादिकं भासत इति नियमाङ्गीकारात् पर्वतो वह्निमान् महानसत्वान्महानसत्वेन वेत्यादेर्नापत्तिः । अथ पर्वते वह्निमान् न द्रव्यत्वान्नापि महानसत्वादित्यादिप्रयोगानुपपत्तिः, सर्वमतेऽपि वह्नावपि प्रमेयत्वाद्यवच्छिन्नद्रव्यत्वनिरूपित- ज्ञाप्यत्वस्य महानसे महानसत्वज्ञाप्यत्वस्य च सत्त्वेन तदभावबोधनस्य तत्प्रयुक्तस्य द्रव्यत्वादि- ज्ञानज्ञाप्यत्वस्य पर्वते महानसत्वज्ञानज्ञाप्यत्वस्य चाप्रसिद्धया तदभावबोधनासंभवाच्चेति चेन्न । अभावबोधने वास्तवप्रतिर्योगिप्रसिद्धेरनपेक्षणात्, अपि तु प्रतियोगिज्ञानमात्रस्य । तच्चारोपरूपं प्रकृतेऽपि संभवति, द्रव्यत्वज्ञानज्ञाप्यत्वे वह्नित्वावच्छिन्नत्वस्यारोपः, पर्वतत्वावच्छिन्नांशे महानसत्वस्येत्यादिकं बोध्यम् । अत एव नान्तरिक्षे चिन्वीतेत्यादिवाक्यादन्तरिक्षाधिकरणचयन- रूपक्रियाभावबोधनिर्वाहः, अत एव च यद्गेहाधिकरणकः क्षीपराकोऽप्रसिद्धः पाकमात्रं वाप्रसिद्धं चैत्रस्य सुषुप्तिदशायां तादृशगेहतात्पर्यकस्य अत्र गेहे क्षीरं न पचति चैत्र इत्यादेर्नञ्घटितवाक्यस्य नायोग्यता, तादृशगेहाधिकरणकक्षीरपाकानुकूलकृतेरवास्तवत्वेऽप्युक्तरीत्या तदभावस्य चैत्रसमभि- व्याहृतकारकविशिष्टपाकाभावस्य च बोधनसंभवात्, तादृशगेहाधिकरणकत्वाभावस्यपाकक्रियायां बोधनसंभवेऽपि तथाविधाभावविशिष्टपाकानुकूलवर्तमानकालिककृतेश्चैत्रे बाधिताया बोधयितु- मशक्यत्वात्, एतादृशवाक्यानामन्ध आकाशं न पश्यतीतिवदप्रमाणतेति चेत्, पर्वतो वह्निमान् न द्रव्यत्वादित्यादिवाक्यस्याप्यप्रमाणतोरीकर्तव्या, नव्यताक्रिकाः पुनरेवमुक्तप्रयोगोपपत्तिमाहुः । पर्वतो वह्निमान् धूमाद् धूमेन वेत्यादौ पञ्चम्यादेर्ज्ञानप्रयोज्यत्वं ज्ञानजन्यतावच्छेदकत्वरूपं समभि- व्याहृतपर्वतादिविशेष्यतानिरूपितं विधेयत्वे च विशकलितमर्याद्वयम्, धूमादेर्विषयत्वसंबन्धेन ज्ञानेऽन्वयः, धूमज्ञानप्रयोज्यत्वस्य विधेयत्वे तस्य वह्नयादौ, एवं चोक्तस्थले तथाविधविधेयत्वे द्रव्यत्वमहानसत्वज्ञानप्रयोज्यत्वाभावः प्रत्याय्यते, स चावाधित एव, तत्प्रयोज्यत्वं च प्रमेयत्वाद्य- वच्छिन्नविधेयतायां महानसनिष्ठशेष्यतानिरूपितविधेयतायां च प्रसिद्धम्, ननु पर्वतो वह्निमान् न धूमादित्यस्य प्रयोगस्यापत्तिः, धूमज्ञानजन्यतानवच्छेदिकायास्तत्तद्वह्नित्वावच्छिन्नायाः पर्वतत्वा- वच्छिन्नविशेष्यतानिरूपितविधेयताया वह्नावपि सत्त्वादिति चेन्न, तथाविधेयतात्वावच्छेदेन धूमादिज्ञानप्रयोज्यत्वाभावान्वयबोधोपगमात्, विधेयतायाः साध्यतावच्छेदकसंबन्धावच्छिन्नविधेयता-
त्वेन पञ्चम्याद्यर्थत्वमङ्गीकर्तव्यम् । तेन ज्ञानवानात्मत्वादित्यत्र विषयतासंबन्धावच्छिन्नपक्षनिष्ठ- विशेष्यतानिरूपितज्ञानवृत्तिविधेयतायां द्रव्यत्वज्ञानप्रयोज्यत्वसत्त्वेनावच्छेदकावच्छेदेन तदभाव- बोधनाऽयोग्यत्वात्,'न द्रव्यत्वा'दित्यादिप्रयोगानुपपत्तिर्निरस्ता । पञ्चम्याद्यर्थघटके ज्ञाने हेतुतावच्छेदकतत्तत्संबन्धावच्छिन्नप्रकारकत्वं प्रवेश्यम् । तेन समवायेन हेतुत्वतात्पर्येणायं वह्निमान् तद्रूपान्न धूमादिति प्रयोगस्य निर्वाह इति । पृथग्रामाद्रामेण रामं वा__अत्र 'पृथग्विना__' इत्यादिना विभक्तित्रयं विधीयते । अथवा तेन तृतीयापञ्चम्यौ विधीयेते, द्वितीया तु ऋते वातमित्यत्रेव 'ततोऽन्वयत्रापि दृश्यते' इति भवति । अत्र पञ्चम्यादेः प्रतियोगित्वमर्थः । पृथक्त्वं गुण इति मतेऽवधित्वमर्थः । वस्तुतस्तु पृथक्त्वं न गुणः, कि तु भेद एव । अत एव रूपं रसात् पृथगिति रूपादावपि पृथक्त्वप्रत्ययो भवति । न हि गुणे गुणः संभवति । न चाश्रयगतं तत्सामानाधिकरण्येन रूपादौ भासत इति वाच्यम् । पटात् पृथग्घट इत्यत्रेव सात्रात्संबन्धेनैतद्भानन्यानुभवसिद्धत्वात् । तद्रूपं तद्रूपात् पृथगिति प्रतीत्यापत्तेश्च, तद्रूपावधिक- पृथक्त्वस्य तदाश्रये सत्त्वात् । अपि च रूपत्वं रसत्वात् पृथगित्यस्यानापत्तेश्च, तदाश्रये पृथक्त्वस्य गुणरूपसंभवादित्यन्यत्र विस्तारः ।
स्तोकेन स्तोकाद्वामुक्तः__अत्र करणं करणत्वं वा विभत्तयर्थः । स्तोकशब्दस्याल्पत्वरूप- धर्मपरतया द्रव्यासामानाधिकरण्येन सर्वनामपरामर्शायोग्यतया चासत्त्वरूपत्वं चाद्युपस्थितसमु- च्चयादिवत् । स्तोकादिशब्दोपस्थितधर्मस्य सर्वनामपरामर्शायोग्यता बोध्या विङ्गाद्यविशेष्यत्वरूप- मप्यसत्त्वभूतत्वं तस्य स्तोकादिशब्दाः शुक्लादिशब्दवद्धर्ममात्रपरा अपि । धर्मस्य कारणत्वमाश्रय- द्वारा 'करणे च स्तोका-' इति सूत्रबलादिदृशेऽर्थे एव साधुता । तेन ह्यत्र तृतीयापञ्चम्यावनु- शिष्येते । स्पष्टं चैतत् 'अलुगुत्तर-' इति सूत्रे कैयटे । ग्रामस्य दूराददूरेण वा गतम् । अत्र 'दूरान्तिकार्थेभ्यो द्वितीया च' इति प्रातिपदिकार्थमात्रे पञ्चम्यादयो विधीयन्ते । व्याख्यानाद् दूरशब्दो दूरदेशवृत्तिपरः । ग्रामसंबन्धिदूरदेशवृत्तिगमनमिति बोधः । एवं ग्रामस्यान्तिकमित्या- दावपि बोध्यम् । 'दूरान्तिकार्थेभ्यः सप्तम्यधिकरणे च' इत्यनेन सप्तमी चेति चतस्रो विभक्तयः प्रातिपदिकार्थे भवन्ति । कि च 'सप्तम्यधिकरणे च' इत्यत्र 'दूरान्तिकार्थेभ्यः' इति सूत्रस्यानु- वृत्तिरिि विभक्तित्रयोपेतस्यानुवर्तनादधिकरणे एभ्यो विभक्तिचतुष्टयं विधीयते इति ज्ञेयम् । दुरः पन्था इत्यत्र तु न द्वितीयादिप्रवृत्तिः । 'असत्त्ववचनस्य' इत्यस्यानुवृत्त्या द्रव्यासमानाधिकरणेभ्य एव दूरान्तिकार्थकेभ्यस्ताद्विधानात्,__'दूरादावसथात् मूत्रं दूरात् पादावसेचनम्' इत्यत्र यथेति विशवम् ।

इति पञ्चम्यर्थविचारः ।
'षष्ठी शेषे' इति सूत्रेण कारकप्रातिपदिकार्थभिन्नस्वस्वामभावादिरूपसंबन्धे षष्ठी विधीयते, स च संबन्धः संबन्धत्वेन, तत्तद्रूपेण च तदर्थः तात्पर्यबलात् क्कचित्तत्तद्रूपेण क्कचित्संबन्धत्वेन प्रतीयते, संबन्धत्वेन क्रियाकारकभावश्च तदर्थः, अत एव समानकालिकत्वाद्यनेकसंबन्धवत्यपि वाससि नेदं चैत्रस्येति प्रयोग उपपद्यते, अन्यथा तत्र चैत्रसंबन्धाभावेन तद्वद्भेदाभावेन च तदनुपपत्तिः स्पष्टैव । तत्तद्रूपेण संबन्धस्य षष्ठ्यार्थत्वे तु स्वत्वादिमत्त्वावच्छिन्नभेदस्य चान्यदीयवस्त्रादौ सत्त्वान्नोक्तप्रयोगानुपपत्तिः । तत्तद्रुपेण वाच्यत्वादेवैकशतं षष्ठ्यर्था इति 'षष्ठी
स्थाने__' इति सूथस्थभाष्यमुपपद्यते । संबन्धत्वेनैव तस्य षष्ठ्यर्थत्वे तु संबन्धत्वावच्छिन्न- शक्तेरैक्यात्तदनुपपत्तिः । द्वितीयादितः क्रियाकारकभावस्यानुभवानुरोधात् कर्मत्वक्रियात्वाद्यात्मक- विशेषरूपेणैव बोधः । मातुः स्मरतीत्यादौ च क्रियाकारकभावस्य विषशेरूपेण बोधाभ्युपगमे बाधकद्वितीयाद्यापत्त्या संबन्धत्वेनैव तस्य बोध उपेयत इति नव्याः शाब्दिकास्तार्किकाश्च मिश्रा- दिकाः । प्राञ्चस्त्वत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपं, विषयत्वं निमित्तत्वं वा संबन्धत्वेन, विशेषरूपेण वा प्रतीयते । अत एव__
'संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायामश्रुतायां वा क्रियायामभिधीयते ।।'__
__इत्यनेन संबन्धस्य क्रियाकारकभावमूलकत्वमभ्यधायि भर्तहरिभिः । सर्वत्रैव हि संबन्धस्त- न्मूलकः । राज्ञः पूरुष इत्यत्र स्वस्वामिभावसंबन्धः क्रियाकारकभावपूर्वकः । 'यतः राजा पूरुषाय द्रव्यं ददाति ततोऽसौ पुरूषस्य स्वामीभवति' इति भाष्यादौ स्पष्टम् । क्रिया हि सिद्धस्वाभावानां द्रव्याणां क्रियां विना परस्परसंबन्धमभजतां निःश्रयणीव संबन्धं करोतीति स्पष्टं भाष्यकैयटादौ । भातुः स्मरतीत्यादौ क्रिया श्रुता, राज्ञः पुरुष इत्यादौ त्वश्रुता दानादिक्रियानुमीयते इत्याहुः । विस्तरस्तु मञ्जूषातोऽनुसंधेयः । स्वस्वामिभावदिसंबन्धस्य द्विनिष्ठत्वेऽपि विशेषणवाचकादेव राजादिशब्दात् षष्ठी, न तु पुरूषादिशब्दात्, प्रकृत्यर्थ प्रि प्रत्ययार्थस्य प्राधान्यानुरोधात्, तथा हि राजादिः संबन्धे विशेषणं, स च पुरूषे विशेषणम्, राजसंबन्धो पुरूष इति बोधात् । षष्ठ्यर्थसंबन्धस्य संसर्गतयैव भानामिति भाष्यमतेऽपि प्रकारतायाः सांसर्गिकविषयताविशेष्यतो- भयनिरूप्यतया प्रकारतानिरूपकविषयताशालित्वरूपप्राधान्यमक्षतमेव । न हीदं पुरूषादिशब्दात् षष्ठ्यां सत्यां निर्वहति । किं च विशेष्यपुरूषादौ कारकप्रातिपदिकार्थान्यतरत्वस्यावश्यकत्वे नाशेषत्वान्न तद्वाचकात् षष्ठीत्याहुः । परे तु शब्दशक्तिस्वभावाद्विशेषण एव संबन्ध उद्भूततया प्रतीयत इति षष्ठी । तदुक्तं हरिभिः__
'द्विषोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानश्च 'प्रधानेऽप्युपयुज्यते ।।' इति ।
परार्थत्वाद् = गुणानां परं प्रति विशेषणतया विवक्षितत्वात् । अयं भावः__ प्रकारतायाअभेदस्य संबन्धत्वानङ्गीकर्तृनये नीलो घट इत्यादौ व्यभिचार इति भेदसाहित्यानुसरणम् । भेदसहितायाः संबन्धनियततया विशेषणे एव तदाकाङ्क्षोदयेन तत्र एव संबन्ध उद्भूततया प्रतीयत इति तत्रैव षष्ठी पदमादधाति । विशेष्यस्य तु पदान्तरासंनिधाने स्वनिष्ठत्वादेव न विशेष्यतानियामकसंबन्धाकाङ्क्षा । स्वनिष्ठत्वं च स्वार्थप्रवृत्तिनिमित्तनिरूपिता- विशेष्यतया भासमानत्वं, तच्छालित्वं वा । अप्रधाने षष्ठ्यादिनांशतः प्रतीतिपथावतीर्णः संबन्धः प्राधानोपयोग्यपि भवति, तस्य द्विनिष्ठत्वात् । राजादिपदसाहित्ये प्रतीयमानराजादिनिरूपित- विशेष्यताया उपकारको भवतीति यावत् । षष्ठ्यान्तराजपदसत्त्वे एव तदर्थनिरूपितविशेष्यता- शाली, ताद-शविशेष्यतावत्त्वेन बोधविषयो वा भवति, राज्ञ इत्यादेस्तु पुरुषादिपदासत्त्वेऽपि अध्याह-तसंबन्धिसामान्यनिरूपितविशेषणत्वप्रतितिरिति विशेषः । राज्ञ इत्येतावता स्वामित्वमव- गम्यमानमन्यथानुपपत्त्या पुरुषे स्वत्वं गमयति । अतः संबन्धस्य बहिरङ्गत्वात् पुरुषादन्तरङ्गत्वात् प्रथमैव, अत एव स्वत्वस्वामित्वादिसमूहस्यैव संबन्धतया तस्यैव विभत्तयर्थत्वं,
न स्वत्वादिमात्रस्य, द्विनिष्ठत्वाभावात् । स्वत्वस्य निरूपकतया स्वामिवृत्तित्वेन तत्त्वमनपवादमिति तु न वाच्यम्, निरूपकत्वस्य वृत्त्यनियमाकतया स्वामिनस्तद्वत्त्वासंभवात्, स्पष्टं चेदं सर्व प्रकृतसूत्रभाष्यादाविति प्राहुः ।
पुरुषस्य विशेषणत्वविवक्षायां ततो षष्ठी भवत्येवाङ्गानां राजेतिवत्, शेषपदस्याप्रधानार्थ- कत्वमभ्युपगम्य पुरुषपदात् षष्ठीवारणं तु न सम्यक्, शुक्लः पट इत्यादौ शुक्लादेस्तत्प्रसङ्गात् । भेदसंबन्धावच्छिन्नविशेषणतारूपप्राधान्यपुरस्कारे तु नायं दोष इति प्रतिभाति । अत्रेदं बोध्यम्__ संयोगसंबन्धेनाधिकरणकारकस्य संबन्धत्वेन न विवक्षा, अत एव 'तदस्यास्त्यस्मिन्-' इति सूत्रे 'वृक्षवान् पर्वत' इत्यादिप्रयोगसिद्धये सप्तम्युपात्ता, 'गोमान् देवदत्त' इत्याद्यर्थ च षष्ठीति तत्सूत्रे भाष्ये उक्तम् । नन्वधि ब्रह्मदत्ते पञ्चाला इत्यत्राधिकरणसप्तमी 'आधृतास्ते तत्र भवन्ति' इत्यादिना ग्रन्थेन 'यस्मादधिकम्-' इति भाष्ये स्वीकृता, तद्वदत्रापि गावः सन्त्यस्मिन्निति सप्तमी भविष्यतीति किमर्थ षष्ठ्युपादानमिति चेन्न । स्वस्वामिभावविवक्षायामपि गोमानित्यादिप्रयोगसिद्धये तदुपादानादिति मञ्जूषायां विस्तरः । अन्नस्य हेतोर्वसति । 'षष्ठी हेतुप्रयोगे' इति सूत्रेणात्र षष्ठी, हेतुशब्दप्रयोगे तस्मात्तत्समानाधिकरणाच्च षष्ठीति तदर्थः । 'हेतोः' इत्षुक्तौ हेतुशब्दादेव स्यान्न तु विशेष्यान्नवाचकादिति तथा नासूत्रि । हेतुहेतुमद्भावः संबन्धः षष्ठ्यर्थः । अन्नहेतुको वास इति बोधः । हेतुशब्दोऽत्रैव तात्पर्यग्राहकः । एवमन्नेन हेतुना वसतीत्यादावपि बोध्यम् । विभक्तिः प्रयोजनं हेतुं च यथायथमभिधत्ते । प्रयोजनत्वादिप्रकारको बोध इत्यन्ये ।
कृष्णस्य कृतिः, जगतः कर्ता कृष्णः,__अत्र 'कर्तृकर्मणोःकृति' इति षष्ठी । तदर्थश्चकर्ता कर्म । कृष्णकर्तृका कृतिः, जगत्कर्मककृत्याश्रय इति बोधः । तार्किकमते कर्तृत्वं कर्मत्वमर्थः । प्रकृत्यर्थस्य तत्राधेयत्वसंबन्धेनान्वयः । कर्तृत्वादिनिरूपकतासंबन्धेन धात्वर्थेऽन्वयः । कृष्ण- वृत्तिकर्तृतानिरूपककृतिः जगद्वृत्तिविषयतारूपकर्मतानिरूपककृत्याश्रय इति बोधः । इदमनुशासनं शक्तिग्राहकमेव न तु लक्षणाग्राहकम् । लक्षणाग्राहकत्वस्य कुत्राप्यनुशासनेऽभावादिति मञ्जूषादौ विस्तरः । कृतपूर्वी कटमित्यादौ तु न कटादिपदादनेन सूत्रेण षष्ठी । कृद्ग्रहणसामर्थ्यन कृदन्तमात्रशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियाकर्तृकर्मणोरेव षष्ठीविधानात् । अन्यथा तिङ्योगे 'न लोक-' इति निषेधेन कृद्योगे एव षष्ठीसिद्धौ तद्वैयर्थ्य स्पष्टमेवेति कैयटादिभिः प्रपञ्चितम् । प्रकृते च न कृदन्तमात्रशक्तिग्रहः क्रियोपस्थितिप्रयोजकोऽपि तु तद्धितान्तशक्तिग्रहः, तथा हि कृतेतिक्तप्रत्ययो न कर्मणि, कटमिति द्वितीयानापत्तेः, किं तु कर्मणोऽविवक्षयाकर्मकत्वाद्भावे क्तः । स च कतपूर्वी अधीतीत्यादिवृत्तिविषय एव । तदुक्तं भाष्ये 'यदा वाक्यं न तदा प्रत्ययः, यदा प्रत्ययः सामान्येन तदा वृत्तिः' इति । 'न तदा प्रत्ययः' इत्यस्य न तदा भावे प्रत्ययः, सकर्मकत्वादित्यर्थः । 'यदा प्रत्ययः' भावे इति शेषः, सर्व वाक्यमिति न्यायेन, 'तदा वृत्तिः' इत्यस्य तदा वृत्तिरेवेत्यर्थः । सा च न कर्मक्तान्तेनेत्याह__'सामान्येन' इति । उपदशितरीत्या कर्मरहितार्थकधातुप्रकृतिकक्तान्तेनेत्यर्थः । एवं चैतादृशक्तान्तस्य वाक्ये न प्रयोग इति स्पष्टमेवोक्तम् । योऽसौ कृतकटयोरभिसंबन्धः सामानाधिकरण्यरूपः, स उत्पन्ने तद्धिते निवर्तते इति च भाष्ये उक्तम् । तेनाकृते तद्धिते__कृतः कट इत्येव भवतीति ध्वनितम् । अत एव कटं क्रियते इति न । ततः पूर्व कृतमनेनेत्यर्थे 'पूर्वादिनिः' इत्यनुवर्तमाने__'सपूर्वाच्च' इति सूत्रेण तद्धिते कृते ततः फलस्याश्रयाकाङ्क्षायां कटादिरूपकर्मविशेषान्वयः । न चैवमसामर्थ्यात्तद्धितो न
स्यादिति वाच्यम्, तदुत्पत्तिसमयेऽसामर्थ्यविरहात् । एवं च तद्धितान्तशक्तिग्रहप्रयोज्यैव प्रकृतिक्रियेति स्पष्टम् । कारकान्वयो गुणीभूताक्रियायामपीति स्पष्टमेव ।
'अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
क्रियासंबध्यते तद्वत् कृतपूर्वादिषु स्थितिः ।।'
इति हरिकारिकायाम् । 'अविग्रहा' = कर्तृविशेषणतयैवोपस्थितिविषयीभूता । प्रकारान्तरमपि तैरभ्यधायि__
'विशषकर्मसंबन्धे विर्भक्तेऽपि कृतादिभिः ।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ।।
अकर्मकत्वे सत्येवं क्तान्ते भावाभिधायिनि ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ।।' इति ।
निर्भागः = प्राप्तिः, सा च वाक्ये इत्यवगन्तव्यम् । तण्डुलानां पाचकतर इत्यत्र तु न षष्ठ्यनुपपत्तिः । तत्र पाचक इत्यस्यापि पृथक् प्रयोगेण कृदन्तमात्रशक्तिज्ञानस्यापि क्रियोपस्थितिप्रयोजकत्वात् । कृतीत्यनेन तद्धिताधिक्यमात्रव्यावृत्त्यङ्गीकारे तूक्तभाष्यरीत्येष्टस्य
तण्डुलानामित्यादिप्रयोगस्यानुपपत्तिरूपदोषः स्फुट एव । तण्डुलान् पाचकतर इति प्रत्युदाहरणमनुपन्यस्य कृतपूर्वीत्यादिक्लिष्टप्रत्युदारहणोपन्यासात् तण्डुलानां पाचकतर इत्यत्र भाष्यकृतः षष्ठीष्टैवेति प्रतीयते । 'न लोक-' इति निष्ठायोगे नेति निषेधस्य तु नात्र प्राप्तिः, निष्ठान्तमात्रशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियान्वयिनोरेव कर्तृकर्मणोस्तेन षष्ठीनिषेधात् । अत्र च कद्ग्रहणमेतत्प्रत्युदाहरणपरं भाष्यं च मान्यमित्याहुः । एतादृशार्थकल्पनया प्रकृते निषेधाप्रसक्त्या कृद्ग्रहणसार्थक्योपपादनम् । न चैवं कृद्ग्रहणवेयर्थ्यम्, कर्तृव्यपूर्वी कटं पक्तव्यपूर्वी आदनभित्यादेरेव प्रत्युदाहरणस्य संभवात् ।तत्राप्युक्तरीत्या भावे तव्यप्रत्ययसंभवात् । न च भाष्ये एतत्प्रत्युदारणात्तथाकल्पना नेति वाच्यम् । प्रयोजनदौर्लभ्यस्य तथाप्यनपायादित्यपरे आहुः । प्रयोजनविरहेऽपि भाष्यस्थतथाविधोदारहणान्यथानुपपत्त्या तथार्थकल्पनेति युक्तमिति भाति । कटं कृतवत्पुत्र इत्यादौ तु निषेधप्रवृत्तिर्भवत्येव, क्रियाया निष्ठान्तेनोपस्थापनात्, उक्तरीत्या कर्तव्यपूर्वी कदभित्यपि यदि प्रमितं तर्हि तदपि प्रत्युदाहरणं भवतु नाम । अन्ये तु कृतपूर्वी कटमिति प्रत्युदाहरणपरभाष्यप्रामाण्यादेकार्थीभावानापन्ननिष्ठादियोगे निषेधोऽभ्युपेयते । एकार्थीभावानापन्नत्वं चेतराश्रितैकार्थीभावानाश्रयत्वम्, अन्यथासंभवापत्तेः । एवं च न प्रकृते तेन निषेधप्रसक्तिः । एतादृशरीत्या निषेधसंकोचप्रयोजनं तु गत इवाचरति गतति, आचारक्कबन्ताल्लट्, ग्रमस्य गततीत्यत्र कर्मणि षष्ठीसिद्धिः । लादेशयोगे न इति निषेधस्तु नात्र शङ्क्यः । लादिप्रकृत्युपस्थितिमुख्यविशेष्यक्रियाकर्तृकर्मणोरेव निषेधाङ्गीकारात् । एवमाचरक्कबन्तगतशब्दाण्ण्वुलि पचाद्यचि च ग्रामस्य गतको, ग्रामस्य गत इत्यत्र च षष्ठीसिद्धिस्तत्फलं, ण्वुलादिप्रयुक्तषष्ठीप्राप्तिरिति तु न शङ्क्यम् । निषेधस्य विध्युन्मूलन- स्वभावत्वेन प्रावल्त्यत् । एतच्च सर्व कृतपूर्वी कटमित्यादि निष्ठावटितभाष्योदाहरणादुन्नीयत इत्याहुः । तर्करत्नाकरे तु पक्कपूर्वी सूपान् कृतपूर्वी कटमित्यादौ पाकाद्यनुकूलभावनावावानिनि- प्रत्ययस्यैवार्थः, क्तान्तस्तु निरर्थकः, कृतीत्युपादानसामर्थ्यात् । अन्यथा क्तेन कर्मँणोऽभिहितत्वेनानभिहिताधिकारीयत्वेन षष्ठ्यप्राप्त्या तद्वैयर्थ्यस्य स्पष्टत्वात् । द्वितीयाप्रसक्त्या सूपानित्यादिप्रयोगानुपपत्तेश्च । कृतपूर्वी कटमित्यत्र कृञः सकर्मकतया भावे क्तस्य दौर्लभ्यम्, अन्यथा गम्यते ग्राममित्यस्यापत्तेः । न चैवं क्तान्तप्रयोगवैयर्थ्यम्, तद्धितस्योक्तर्थे
तात्पर्यग्राहकतया सार्थक्यात् । एवं च कर्मणोऽनभिधानेन षष्ठीप्रसक्तिरिति कृद्ग्रहणं सार्थकम्, द्वितीयासिद्धिश्च, निष्ठाप्रयुक्तनिषेधप्रसक्तिश्च न, प्रत्यासत्त्या निष्ठाप्रकृत्यर्थक्रियान्वयिनोरेव षष्ठीनिषेधादित्युक्तम्, तन्महाभाष्याननुगुणमिति स्पष्टं तद्विदाम् । सूपादिशब्दाद् द्वितीयानुपपत्तिश्च, उक्तव्यापारस्य धात्वर्थत्वाभावेन धात्वर्थतावच्छेदफलशालित्वाभावात् । भावे क्तप्रत्ययस्तु प्रागुपपादित एव, भाष्याद्यनुसारेणातिप्रसङ्गोऽपि वारित एवेत्यलमनल्पजल्पनेन । कटकर्मकातीतकालवृत्त्युत्पत्त्यनुकूलव्यापाराश्रय इति कृतपूर्वीत्यादिवाक्यजन्यो बोधः । 'तदर्हम्' इति निर्देशादनित्योऽयं विधिः । तेन 'धायैरामोदमुत्तमम्' इति भट्टिप्रयोगोपपत्तिरित्याद्यन्यत्र विस्तरः । जगत् कुर्वन्, कुर्वाण इत्यादौ न षष्ठी । 'न लोक-' इति निषेधादिति__ षष्ठ्यर्थनिर्णयः ।
अधीती व्याकरणे,__अत्र 'क्तस्येनविषय__' इति सप्तमी । इन्नन्तो विषयो वर्तनभूमिर्यस्येत्यर्थः । यद्वा विषयशब्देन प्रकृतिः समर्प्यते । इनो विषय इति षष्ठीतत्पुरुषोऽत्र पक्षे । अत्रापि कृतपूर्वीतिवत् भावे क्तः । 'इष्टादिभ्यश्च' इति कर्तरि इनिः । सप्तम्यर्थः कर्मत्वादिः । व्याकरणकर्मकाध्ययमकर्तेति बोधः । 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्' इत्यादौ 'निमित्तात् कर्मयोगे' इति सप्तमी । निमित्तं = फलं तद्वाचकात् सप्तमी भवति, संयोगसमवायान्यतररूपकर्मसंबन्धे सतीति तदर्थः । अत्र कर्मसंबन्धः स्वरूपसन्निमितं, न तु तस्य सप्तमीवाच्यकोटावन्तर्भावः । इत्थं च फलं सप्तम्यर्थः, तस्य स्वनिष्ठफलतानिरूपकत्वादिसंबन्धेन 'द्वोप्यादिकर्मकहननक्रियायामन्वयः, तत्र द्वीपिचर्मणोर्मृगाण्डकोशयोश्च समवाय, इतरयोः संयोगः । चर्मादीनां हननफलत्वं च स्वविषयकेच्छाप्रयोजकेच्छाविषयत्वम् । हननेच्छाप्रजिकेच्छा चर्मादिलाभेच्छेति चर्मादौ तादृशफलत्वमक्षतम् । तार्किकनये फलत्वं, निभित्तत्वं, तादर्थ्य वा सप्तम्यर्थः । लाघवादनुशासनविरोधाभावाच्चेदमेव युक्तमित्याहुः । ब्रह्मणेष्वधीयानेषु गतः, गोषु दुह्यमानासु गतः, अत्र 'यस्य च भावेन भावलक्षणम्' इति सप्तमी । यस्य भावेन = क्रियाया क्रियान्तरं लक्ष्यते = ज्ञायते ततः = तद्वाचकात् सप्तमीति तदर्थः । ब्राह्मणाधीयानादि- पदयोरुभयोरपि क्रियाश्रयवाचकत्वादुभाभ्यामपि सप्तमी । निर्ज्ञातदेशकाला क्रियऽनिर्ज्ञातदेशकालायाः क्रियाया देशकालज्ञापलद्वारा लक्षणम् । इत्थं च नर्ज्ञातदेशादिकक्रियाश्रयकर्तृकर्मवाचका ज्ञाप्यज्ञापकभावसंबन्धार्थिका षष्ठ्यपवादिकेयं सप्तमी भवति । अत्र क्रियापदेन धात्वर्थमात्रमिति कर्मणोऽपि तदाश्रयत्वमविरूद्धम् । तत्र काचित् क्रिया स्वाधिकरणकालेन क्रियान्तरं परिच्छिनत्ति, यथोक्तोदाहरणयोः । काचित् स्वाधिकरणकालाव्यवहितपूर्वकालेन__यथा गोषु धोक्ष्यमाणासु गत इत्यादौ । काचित् स्वाधिकरणकालाव्यवहितोत्तरकालेन__यथा गोषु दुग्धासु गत इत्यत्र । ज्ञाप्यज्ञापकभावश्च तत्तब्धब्दबोध्यत्वेन विवक्षित एवैतच्छास्त्रप्रवृत्तौ निमित्तं, न तु मानान्तरेण ग्रहणापेक्षेति न भूयोदर्शनापेक्षा । अत एवोक्तस्थले सप्तम्युपपत्तिः । अन्यथोदिते आदित्ये तमो नष्टमित्यादावेव स्यान्नत्वत्र । कदाचिद् गोदोहनपुरुषविशेषकर्तृकगमनयोरेककालादौ संबन्धो न तु मियमेनेति बोध्यम् । सदेशोदाहरणं तु सति गुणे द्रव्यत्वमस्तीत्यादौ । अत्राधीयानब्रह्मणादेर्ज्ञापकत्वं सप्तम्या प्रतीयमानं स्वविशेषणक्रियाकालादिद्वारके पर्यवस्यति । गोषु धोक्ष्यमाणास्वित्यादौ भविष्यद्गोदो- गमादेरपि बुद्धयुपारूढस्योक्तं ज्ञापकत्वमविरुद्धमिति बोध्यम् । मानान्तरसिद्धस्यार्थस्य काल-
विशेषसंबन्धादिप्रतिपिपादयिषया यत्र प्रयोगस्तत्रैवेदं सूत्रं प्रवर्तते, सूत्रभाष्यस्वरसात् । एवं च राहूपरागे स्त्रायादित्यत्र राहूपरागपदेन स्वार्थाश्रयकालो लक्ष्यते, अधिकरणसप्तम्येव । एवं विवाहे नान्दीमुखं कुर्यादित्यत्र विवाहपदेन तत्प्राक्कालः, सप्तमी तु राहूपरागपदवदित्यन्यत्र विस्तरः । अन्ये तूक्तस्थले गमनादिक्रियादोहनादिसमानकालिकत्वेन बोध्यतयाभिप्रेतेति समानकालिकत्वं सप्तम्यर्थः । ततो दुह्याद्युपस्थापितदोहनादेर्निरूपकतयान्वयेन दोहनसमानकालिकत्वस्य गमनादौ लाभ इति न संभवदुक्तिकं, दोहनादिक्रियायाः कृदर्थविशेषणतापन्नायाः समानकालिकत्वेऽन्वया- संभवात् । सप्तम्या प्रकृत्यर्थगवाद्यनन्वितस्वार्थबोधनासंभवाच्च । ततः समभिव्याहृतदोहनादि- क्रियैव सप्तम्यर्थः । तत्र कृदन्तस्य विशेषणत्वे कर्मत्वनिरूपकत्वसंबन्धेन प्रकृत्यर्थस्यान्वयः । कर्तृकृदन्तस्य तथात्वे त्वधीयानेषु ब्राह्मणेष्वित्यादौ कर्तृत्वनिरूपकत्वेनेति बोध्यम् । तस्याश्च समानकालिकत्वादिसंबन्धेन गमनादावन्वयः । तत्र वर्तमानार्थककृत्समभिव्याहारे समान- कालिकत्वं संबन्धः । भविष्यदर्थककृतः स्थले प्राक्कालवृत्तित्वं, भूतार्थककृत्स्थले उत्तरकालवृत्तित्वमित्याद्याहुः । अत्र सूत्रभाष्याद्यानुगुण्यात् पूर्वोक्तमेव मतं सम्यगिति परे आहुः । रुदति रुदतो वा प्राव्राजीदित्यत्र 'षष्ठी चानादरे' इति सूत्रेण षष्ठीसप्तम्यौ, ज्ञाप्यज्ञापक- भावस्तदर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । तत्र तात्पर्य ग्राहयति षष्ठ्यादिविभक्तिः । अनादरश्च प्रत्यासत्त्या पुत्रादिविषयक एव । स्वसमानाधिकरण्यस्वोत्तरकालिकत्व- संबन्धाभ्यामनादरवैशिष्ट्यम् । इत्थं च रोदनकर्तृपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमिति बोधः । नृणां नृषु वा द्विजः श्रेष्ठ इत्यादौ__'यतश्च निर्धारणम्' इति सूत्रेण यतः = समुदायात् स्वेतरस्वघटितसमुदायघटकेभ्यो व्यावृत्तेन धर्मेण जातिगुणक्रियासंज्ञाविशिष्टस्यैकदेशस्य पृथककरणरूपं निर्धारणं ततः षष्ठीसप्तम्यौ भवत इत्यर्थकेन षष्ठीसप्तम्यौ विधीयेते । पृथक्करणं च व्यावृत्तधर्मप्रकारकज्ञानविषयीकरणं तादृशैकदेशविशेष्यकतादृशधर्मप्रकारकज्ञानानुकूलव्यापारे पर्यवसितम् । स्वेतरत्वं स्वनिष्ठपदार्थतावच्छेदकधर्माविच्छिन्नप्रतियोगिताकभेदाश्रयत्वम् । अत एव नरणां नरः श्रेष्ठ इत्यादिना द्विजाद्यात्मकनरस्य द्विजत्वाद्यवच्छिन्नभेदवच्छूद्राद्यात्मकनर- समुदायव्यावृत्तश्रेष्ठत्वकरणकपृथक्करणसंभवेऽपि नरत्वावच्छिन्नभेदवद्वयावृत्तत्वस्य श्रेष्ठत्वे बाधान्निरूक्तनिर्धारणविषयत्वासंभवात् । द्विजप्रतियोगिकभेदस्य द्विजेऽपि संभवेन तथाविधद्विजघटितसमुदायव्यावृत्तत्वस्य श्रेष्ठत्वेऽसंभवेन नरणां द्विजः श्रेष्ठ इत्यादिप्रयोगासंभवो वाऽत एव न । समुदाये स्वघटितत्वोपादानफलं तु क्षत्रियाणां ब्रह्मणः श्रेष्ठ इत्यादिप्रयोगवारणम् । अस्ति च नराणां द्विजः श्रेष्ठ इत्यादौ द्विजत्वावच्छिन्नभेदवान् यो नरघटितसमुदायघटकशूद्रादिस्तद्वयावृत्तश्रेष्ठत्वप्रकारकप्रतीतिद्विजविषयिणीति निरुक्तार्थविवक्षायां तथाविधप्रयोगनिर्वाहः । इत्थं च व्यावृत्तत्वरूपसंबन्धो निर्धारणविभक्तेरर्थः । नरपदं च नरत्वरूपेण विशेषरूपेण वा द्विजेतरनरसमुदायपरम् । एवं च तथाविधनरसमुदायव्यवृत्तश्रेष्ठत्ववान् द्विज इति बोधः । नराणां क्षत्रिये शौर्यमित्यत्र क्षत्रिये तरनरसमुदायपरम् । एवं च तथाविधनरसमुदायव्यावृत्तं क्षत्रियवृत्तिशौर्यमिति बोधः । समुदायस्योद्भूतावयवभेदविवक्षया एतद्विषये बहुवचनस्यैव साधुत्वमिति 'कारके' इति सूत्रे 'निर्धारणे कारकेष्विति ब्रूयात्' इति वदता पतञ्जलिना स्पष्टमेवोक्तम् । अत एव 'मिदचोऽन्त्यात्-' इति सूत्रे 'अचः' इत्येकवचनस्य सौत्रत्वात् साधुत्वमुक्तं निबन्धकारैः । व्यावृत्तत्वरूपविभत्तयर्थस्य व्युत्पत्तिवैचिव्यात् पदार्थैकदेशेऽपि
श्रेष्ठत्वादावन्वयः । अथवा स्वाश्रयपदार्थतावच्छेदकवत्वसंबन्धेन धर्मिण्येवान्वयः । एतेन द्रव्याणां कम्बुग्रीवादिमान् घट इत्यादौ घटत्वादिधर्मस्यान्वयितावच्छेदकघटत्वत्वादिरूपेणानुपस्थित्या तत्र व्यावृत्तत्वान्वयासंभव इति नोद्यं प्रत्युक्तम् । पदार्थानां जातिमति सत्तेत्यादौ जातिमदन्य- निरूपितवृत्तित्वसामान्याभावस्य सत्तादौ बाधात्तन्नरूपितसमवेतत्वाप्रसिद्धया तदभावस्य चाप्रसिद्धया व्यावृत्तत्वबोधो न संभवतीति तु न शङ्क्यम् । साक्षात्संबन्धावच्छिन्नवृत्तित्वाभावस्य तदर्थत्वात् । साक्षत्संबन्धे कालिकाद्यतिरिक्तत्वं प्रवेश्यम् । अन्यथा गन्धस्य पृथिव्यतिरिक्तजलादिरूपद्रव्येऽपि कालिकसंबन्धेन सत्त्वाद् द्रव्याणां पृथिवी गन्धवतीत्यादिप्रयोगानुपपत्तिः । अथवा तादात्म्येनान्वयिविधेयार्थकपदसमभिव्याहारस्थले तादात्म्येनेतरसंबन्धित्वाभावः श्रेष्ठादिपदार्थे एवान्वेति भेदसंबन्धेनान्वयिविधेयस्थले पूर्वोक्तसंबन्धावच्छिन्नवृत्तित्वाभावो नराणां द्विजे श्रैष्ठ्यमित्यादौ श्रेष्ठ्यादौ प्रत्याय्यते इति नैकदेशान्वयप्रसङ्ग इत्याहुः । अन्ये तु व्यावृत्तत्वं भेदप्रतियोगित्वरूपमभेदेनान्वयिविधेयार्थकपदसमभिव्याहारस्थले विभक्तया प्रतिपाद्यते । भेदान्वयिविधेयस्थले च येन संबन्धेन तदन्वयस्तत्संबन्धावच्छिन्नात्यन्ताभावप्रतियोगित्वं विधेये प्रत्याय्यते । तस्य विधेयतावच्छेदकावच्छेदेनान्वय उपेयः । अतो देवदत्तो नराणां शूरतमो घटः पृथिवीनां गन्धवानिति प्रयोगापत्तिर्न । शूरतमादिनिष्ठोभयादिभेदप्रतियोगित्वस्य शूरतमादौ सत्त्वेऽपि शूरतमत्वाद्यवच्छेदेनासत्त्वात् । तस्य तथाविधभेदधर्मितानवच्छेदकत्वात् । अथवा भेदे प्रतियोग्यवृत्तित्वरूपमत्यन्ताभावे च प्रतियोगिवैयधिकरण्यादिरूपं विशेषणमुपादेय तेन नोक्तदोषः । भेदादौ प्रकृत्यर्थनरादेरुद्देश्यतावच्छेदकक्षत्रियत्वाद्यवच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादि- व्यापकाधिकरणतानिरूपिताधेयत्वसंबन्धेनान्वयः । तावतैव क्षत्रियादीतरनरादिव्यावृत्तेर्विधेये लाभान्नरादिपदं मुख्यार्थकमेव । द्रव्याणां क्षितिपाथसी रसवतीत्यादौ द्रव्यरूपप्रकृत्यर्थस्य भेदात्मकविभत्तयर्थे क्षितित्वावच्छिन्नभेदजलत्वावच्छिन्नभेदद्वयविशिष्टद्रव्यत्वव्यापकाधिकरणता- निरूपिताधेयत्वं संबन्धः । विधेयस्य शूरतमादेर्निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्ट- तादात्म्यादिरेव संबन्धतया भासते । अतो नराणां राक्षस इत्यादिप्रयोगस्य नापत्तिरित्याहुः । परे तु व्यावृत्तत्वस्य विभक्त्यर्थत्वे न भगवतः सूत्रकतस्तात्पर्यम् । 'न निर्धारणे' इति सूत्रेण निर्धारणस्य विभक्तिवाच्यकोटिप्रवेशस्य बोधनात् । तत्रत्यनिर्धारणपदस्य व्यावृत्तत्वार्थकत्वे प्रमाणाभावात् । तस्माज्जातिगुणक्रियासंज्ञाविशिष्टस्यैकदेशस्य यतः स्वसजातीयघटितसमुदायात् स्वेतरसमुदायघटकव्यावृत्तधर्मकरणकं पृथक्करणं ततः षष्ठीसप्तम्याबित्यर्थः सूत्रस्य, उक्तनिर्धारणविषयत्वमवयावयविभावसंबन्धश्च निर्धार्यमाणान्वयी विभक्त्यर्थः । नृसमुदायावधिक- द्विजेतरनरव्यावृत्तश्रेष्ठत्वकरणकनिर्धारणविषयो नृसमुदायावयवो द्विज इति बोधः । नृणां शूद्रः श्रेष्ठ इति प्रयोगव्यावर्तनायाद्यस्य संबन्धस्य, नृणां राक्षसः शूरतम इत्यस्य व्यावर्तनाय द्वितीयस्य विभक्त्यर्थत्वाङ्गीकारः । शूद्रेप्यऽन्त्यजात्याद्यपेक्षया श्रेष्ठत्वस्य विद्यमानतया तद्बोधेन तथाविधप्रयोगापत्तेरवारणात् । संसर्गघटककरणं च प्रत्यासत्त्या श्रेष्ठत्वादिरूपमेव ग्राह्यम् । तेन नृणां क्षत्रियादिः श्रेष्ठ इति प्रयोगापत्तिर्न । अन्यथा क्षत्रियादेरपि शूरतमत्वादिकरणकपृथक्करण- विषयतया स्यादेव तादृशप्रयोगः । नृणां मध्ये द्विजः श्रेष्ठ इत्यत्र मध्ययोगे षष्ठी । तद्योगे सप्तमी तु न साधुः । न च तत्स्त्वेऽपि मध्यार्थेऽन्वयाविवक्षया निर्धारणसप्तमी साधुरेवेति वाच्यम् । तत्सत्त्वे तदर्थस्य नियमेनावध्याकाङ्क्षया तत्रैवान्वयस्य युक्तत्वात् । निर्धारणविभक्तिस्थले श्रेष्ठतमत्वादौ
द्विजेतरनरादिव्यावृत्तत्वबोधस्तु देवदत्तो वामेनाक्षणेत्याद्युक्तौ दक्षिणनेत्रकरण- कदर्शनाभावबोधवन्मानस एव, द्विजमण्डले वर्तमानोऽवशिष्टः श्रेष्ठ इत्याधारसप्तमीघटितवाक्येऽपि तथाप्रतीतरुक्तरूपावश्यक्येव । निर्धारणावधिनिर्धार्यमाणनिर्धारणहेतूनां संनिध्ये एव निर्धारण- प्रतीतिरतस्तत्रैव निर्धारणविभक्तिः समासनिषेधश्च । अत एव पुरुषाणामुत्तंम इत्यत्र शेषषष्ठीति पुरुषोत्तम इति समासः साधुरिति 'द्विवचनविभज्य-' इति सूत्रे कैयट इत्याहुः । माथुरा पाटलिपुत्रकेभ्य आढ्यतरा इत्यत्र तु निर्धार्यमाणनिर्धारणावध्योर्भेदस्यैव सत्त्वेन 'पञ्चमी विभक्ते' इति पञ्चमी । तत्र विभक्तपदेन भेदो, निर्धार्यमाणस्य निर्धारणावधितो यत्र भेद एव तदवधिवाचकात् पञ्चमीति तदर्थः । िभक्तग्रहणसामर्थ्यादवधारणलाभः । तनोपत्तेन केनापि रूपेणाभेदे नैतत्प्रवृत्तिः । अत्र निर्धारणावधिव्यावृत्तधर्मकरणकनिर्धारणविषयत्वं विभक्त्यर्थः । पाटलिपुत्रकावधिकतद्वयावृत्ताढ्यतरत्वकरणकनिर्धारणविषया माथुरा आढ्यतरेति बोधः । 'मूलेनावाहयेद्देवीं श्रवणेन निसर्जयेत्', मूले श्रवणे इति वा । अत्र 'नक्षत्रे च लुपि' इति सूत्रेण सप्तमी । लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो लक्ष्यते । तथा च तादृशप्रत्ययार्थे वर्तमानान्नक्षत्र- वाचकादधिकरणे सप्तमी, तृतीया चेति तदर्थः । अधिकरण इत्यनुवृत्तिलभ्यम् । तत्प्रयोजनं त्वद्य पुष्य इत्यादौ सप्तम्यादिव्यावृत्तिः । अन्यथान्तरङ्गत्वात् प्रातिपदिकार्थे एव स्यात् । मूलेनेत्यत्र 'नक्षत्रेण युक्तः कालः' इत्यण् । तत्र नक्षत्रशब्देन तत्समीपवर्ती चन्द्र उच्यते । तस्याणः 'लुबविशेष' इति लुप् । लुपि सति लुप्यमानप्रत्ययार्थः प्रकृत्यैव प्रत्याययते, यः शिष्यते इति न्यायात् । आधारादिकं सप्तम्याद्यर्थः । इत्थं च मूलनक्षत्रसमीपवर्तिचन्द्रायुक्तकालाधिकरणकं देवीकर्मकमावाहनमित्याद्याकारको बोधः । अद्य भुक्त्वायं द्वयहे द्वयहाद्वा भोक्ता, अत्र 'सप्तमीपञ्चम्यौ कारकमध्ये' इति सूत्रेण सप्तमीपञ्चम्यावनुशिष्येते । कारकपदेन कारकर्तृत्वादि- शक्तिरुच्यते । 'कालाध्वनोः-' इति सूत्रात् 'कालाध्वानोः' इत्यनुवर्तते । तथा च शक्तिद्वयमध्ये यौ कालाध्वानौ तद्वाचकात् सप्तमीपञ्चम्याबिति तदर्थः । अनन्तरकालवृत्तित्वं विभक्त्यर्थः । अद्यपदार्थैतद्दिवसाधिकरणकत्वस्य भोजनक्रियायामन्वयः, तदन्वितक्तान्तप्रतिपाद्यभोजनक्रियायाः स्वोत्तरकालवृत्तित्वस्वसमानकर्तृकत्वोभयसंबन्धेन भोजने प्रकृतविभक्त्यर्थस्यापि तत्रैव । इत्थं चैतद्दिवसाधिकरणकभोजनोत्तरकालिकं तथाविधभोजनसमानकर्तृकमेतद्दिवसानन्तरद्वयहानन्तर- कालवृत्ति यद् भोजनं तदाश्रय इत्यर्थः । द्वयहे एतद्दिवसानन्तर्यलाभः समभिव्याहारबलात् । सोऽपि न शाब्दः किं, त्वार्थः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् अत्रानन्तरदेशवृत्तित्वं विभक्त्यर्थः । इहशब्दप्रतिपाद्यस्यैतद्देशाधिकरणक वस्य स्थितावन्वयः । तादृशस्थितिः कृदर्थाश्रये, तस्याख्यातार्थकर्तरि, तस्य व्यधनक्रियायां तत्रैव क्रोशानन्तरदेशस्थितलक्ष्यकर्मकत्वस्य । तथा चैतद्देशाधिकरणकस्थितिकर्तृकर्तृकमेतद्देशानन्तरक्रोशानन्तरदेशस्थितलक्ष्यकर्मकं संभावनाविषयीभूतं व्यधनमिति बोधः । एवमन्यत्राप्यूह्यम् । इति सप्तम्यर्थनिर्णयः ।।
एवं सुब्विभक्त्यर्थानुपवर्ण्य तदनुरोधेन संबन्धसहितसकलकारकघटितवाक्यार्थबोधं वर्णयति-- एवं चेति । उक्तरीत्या धर्मणां विभक्त्यर्थत्वे च । तदभिन्नाश्रयक इति । आख्यातार्थाश्रये गोरभेदेनान्वय इति भावः । विभागजनक इति । ददातेर्विभारपूर्वकदाने वृत्तिरिति भावः ।
तथा तिङामिति । तिङामिति कर्तृकर्मणी संख्या चार्थ इत्यर्थः । नियम इति । अर्थनियम
इत्यर्थः । एवं च कर्मत्वादिशून्यार्थकाव्ययादपि विभक्तिसिद्धिः । प्रत्ययनियमपक्षेऽपि तत्र विभक्तिसिद्धिमाह--नियमः प्रकृतेषु चेति । प्रकृतकर्त्राद्यर्थापेक्षो नियमः, कर्मण्येव द्वितीयेत्यादिनियमेन कर्त्रादौ द्वितीयादयो व्यावच्छिद्यन्ते न तु कर्मत्वादिशून्य इत्यर्थः । ननु 'स्वौजसमौट्' इत्यादिना 'तिप्तसझि-' इत्यादिना च विहितानां स्वादीनां तिबादीनां च 'कर्मणि द्वितीया' इत्यादिशास्त्रैनियमपक्षे न कर्मादौ वाचकताग्राहकत्वं 'स्वौजस्-' इत्यादिशाश्त्रस्य लभ्यते, तत्र 'कर्मणि-' इत्यादेरभावात्, नापि 'कर्माणि' इत्यादेः, नियामकत्वादित्याशङ्क्याह-तथा हीति । एकवाक्यतया = वाक्यैकवाक्यतया, न पदैकवक्यतया । तदभ्युपगमे कर्मत्वादि- योग्यार्थकप्रातिपदिकार्थमात्रगते एकत्वे प्रथमैकवचनं सुः, कर्मत्वादिशक्तिसमानाधिकरणे एकत्वे द्वितीयैकवचनममित्यादिक्रमेण बोधः स्यादेवं चान्यत्राव्ययादेः प्राप्तिरुपपादयितुं नैव शक्येत । वाक्यैकवाक्यतायां तु प्रातिपदिकात् स्वादयो भवन्ति, ते च प्रातिपदिकार्थमात्रगते एकत्वादौ भवन्तीत्यादिबोधाकारो भवति । तथा सति तत्र प्रथमवाक्येनाव्ययादौ प्राप्तिरुपपादयितुं शक्यते । किं चैवमर्थनियमप्रकृतार्थापेक्षप्रत्ययनियमशुद्धप्रत्ययनियामकयोरुच्छेदश्चैवं स्यात् । एकवचनादि- शब्दे सूत्रशाटकवद् भाविसंज्ञाश्रयणमन्योन्याश्रयपरिहारायेति गौरवं चेत्येकवाक्यतापदेन वाक्यैकवाक्यतैव विक्षिता ।
नन्वेवं पूर्वपूर्ववाक्यविहितानां कथं कर्माद्यर्थबोधनं कर्तु शक्यम् । न च सामग्रीसत्त्वे तत् संभवत्येवेति वाच्यम् । एवं सत्येकवाक्यताविरहेऽपि 'द्वयेकयोः--' इत्यादिना एकत्वे एवैकवचनमित्यपि बोधने कृते सत्येकत्वाद्यर्थकत्वबोधनसंभवे वाक्यैकवाक्यतापुरस्कारो निरर्थक इति चेन्न । एकवाक्यतापक्षे स्वादिवाक्येनैव वाक्यैकवाक्यतोक्तहेतुभिरङ्गीक्रियते, न तु 'कर्मणि द्वितीया' 'द्वयेकयोः-' इत्याद्योः, किं तु पदैकवाक्यता । एवं च कर्मगतैकत्वे एव द्वितीयैकवचनमम् भवतीत्याद्याकारनियमवलाभोऽत्र भवति । एकवाक्यताविरहे तु कर्मण्येव द्वितीया, एकत्वे एवैकवचनममिति विरुद्धनियमद्वयं स्यात्, तच्चासंगतमित्याशय दिति दिक् । उभयथापि सिद्धनियमिरुद्धमिति । तत्र कर्मण्येव द्वितीयेत्यादिरूपप्रत्ययनियमाविरोधो विषयतालक्षणाङ्गीकारे स्पष्ट एव । विषयतायाः शेषत्वाच्छेषे षष्ठ्येवेति नियमविरोधो- ऽर्थनियमपक्षेऽपीति बोध्यम् । उक्तेऽर्थे प्राचीननैयायिकानामपि संमतिमाह__अत एवेत्यादिना । एवं च नव्यनैयायिकानां न केवलं व्याकरणविरोधोऽपि तु स्वीयवृद्धसिद्धान्तविरोधोऽपीति तदुक्तिरुपेक्ष्यैव । एवं मीमांसकीक्तिरपीति सूचितमिति शिवम् ।।
इति श्रीकालोपनामककेशवदीक्षितात्मजहरिरामविरचितायां वैयाकरणभूषणसार-
व्याख्यायां सुबर्थनिर्णयः समाप्तिमगमत् ।।