वैयाकरणभूषणसारः (काशिकाटीकासहितः)/स्फोटनिर्णयः

वैयाकरणभूषणसारः (काशिकाटीकासहितः)
स्फोटनिर्णयः
[[लेखकः :|]]

क्त्वाप्रत्ययादेरिति । यद्यपि मूले 'तुमादय' इत्युक्तं तथापि क्त्वाप्रत्यये बहुवक्तव्यत्वेन प्राधान्यद्योतनाय 'क्त्वाप्रत्ययादे'रित्युक्तम् । वार्तिकादित्यर्थ इति । भाष्यकाराः-'तुमर्थे' इति सूत्रे 'तुमर्थो भाव' इति व्यवस्थाप्याग्रे 'तुमर्थ' इत्यस्यानुवृत्तिमभ्युपगम्य--'अव्ययकृतो भावे' इति प्रत्याचक्षाणाः-क्त्वादीन् भाव एवाभ्युपयन्ति । परं तु क्त्वातुमुनादेरसत्त्वभूत एव भावोऽर्थः, पाक इत्यादाविव लिङ्गसंख्याननुभवात्, तथा च धात्वर्थानुवादक एव तुमुनादिरिति पर्यवसितम् । का गतिरिति । क्त्वाप्रत्ययस्य भावामात्रार्थकत्वाङ्गीकारे समानकर्तृकत्वादेस्तदर्थत्वासंभवात्तदुपादानवैयर्थ्यापत्तिरतस्तत्क्रियाकर्तृत्वाश्रयः क्त्वाप्रत्ययार्थो वाच्यः, अत एव 'रोटिकाः पक्त्वाहं भोक्ष्ये' इत्यत्रास्मच्छब्दात्तृतीया न, क्त्वाप्रत्ययेन पाककर्तुरभिधानात् । पाककर्तुर्भोजनादौ स्वनिष्ठकर्तृतानिरूपकतासंबन्धेनान्वयात् समानकर्तृत्वलाभः । अथवाकर्तृकत्वं तदर्थोऽस्त्वित्याशयेनायं प्रश्नः, समानकर्तृकात्वादेर्द्योत्यत्वं व्यर्थं, तस्य प्रकृत्यर्थे विशेषणत्वस्य विशेष्यत्वस्यचाननुभवात् । समानकर्तृकत्वादिकं तु वस्तुसत् क्त्वादेः साधुत्वनियामकं स्यादत आह-अयं भाव इति । अयं = वक्ष्यमाणः । सर्वसिद्धा = सर्वानुभवसिद्धा । अन्यथा = विशेषणविशेष्यभावमन्तराप्येकवाक्यत्वे । भुङ्क्ते व्रजतीति । 'एककर्तृका वर्तमानकालिकी भुजिक्रिया' 'एककर्तृका वर्तमानकालिकी व्रजनक्रिये'ति क्रियाद्वयमुख्यविशेष्यताको बोधोऽनुभवसिद्धो, न तु तत्रैकमुख्यविशेष्यताशालित्वरूपमेकवाक्यत्वमनुभवसिद्धम् । 'भुक्त्वा व्रजती'त्त्रापि भोजनमेककर्तृकं व्रजनं चेति समूहालम्बनात्मकबोधाङ्गीकारे एकवाक्यत्वानुपपत्तिः, कर्तुर्वाच्यत्वाङ्गीकारे भोजनकर्तुः क्त्वार्थस्याख्यातार्थकर्तर्यभेदान्वयसंभवेन 'पचति भवती'तिवदेकवाक्यता यद्यपि संभवति 'चैत्रेण भुक्त्वा गम्यते' इत्यत्रापि भोजनकर्त्रभिन्नचैत्रकर्तृगमनकर्मेति बोधाभ्युपगमात् । अत एव समानकर्तृत्वघटकाभेदांशे न शक्तिः, निष्फवलत्वात्, उक्तरीत्यापि तत्रैकवाक्यत्वसंभवोऽस्ति, तथापि कतुर्वाच्यत्वं सूत्रान्न लभ्यते इति ग्रन्थकृतैव वक्ष्यत इति संतोष्टव्यम् ।
समानकर्तृकत्वपूर्वोत्तरकालिकत्ववदन्यदपि संसर्गतया भासमानं क्त्वाद्योत्यं, समानकर्तृकत्वयोरित्यादेरुपलक्षणत्वादित्याशयेनाह-जन्यत्वमित्यादि । परे तु--उपलक्षणत्वे मानाभावात् तन्मानान्तरगम्यत्वान्न क्त्वाद्योत्यमित्याहुः । भोजनजनिकेति । 'भोक्तुं पचती'त्यत्र भोजनपचिक्रिययोर्जन्यजनकभावसंबन्धस्तुमुन्द्योत्यः, तुमुन्ण्वुलौ क्रियायां क्रियार्थाया'मित्युक्तेः । तादर्थ्य च जन्यजनकभावरूपमिति भावः । तादर्थ्यवत् समानक्रतृकत्वमपि क्रिययोः संसर्गतया भासते, शब्दशक्तिस्वभावादत एव विभिन्नकर्तृकक्रियाद्वयतात्पर्यको भोक्तुं पचतीति न प्रयोगः । परे तूद्देश्यत्वनिरूपकत्वरूपं तादर्थ्यं तुमुनादिद्योत्यं संसर्गतया भासते, तच्च तदिच्छाधीनेच्छाविषयत्वम्, 'तुमुन्ण्वुलौ-' इत्यत्र 'भविष्यति' इत्यनुवृत्तेर्भविष्यत्त्वमपि तद्‌ द्योत्यम्, तथा च भविष्यद्भोजनोद्देश्यका भोजनकर्तृकः पाक इति बोधः, तुमुंस्तु न कर्तरि, 'अव्ययकृतो भावे' इत्युक्तेः--'कर्तरि कृ'दित्यस्यात्राप्रवृत्तेः । अनिर्दिष्टार्थकेष्वेतत्प्रवृत्तेः, एतेन-'तुमुनाख्यातार्थकर्त्रोः परस्परमभेदान्वयेनैव विभिन्नकर्तृकक्रियाद्वयतात्पर्यकतादृशप्रयोगापत्त्यभावेन समानकर्तृकत्वं न संबन्ध' इत्यपास्तम् । भोक्तुं पच्यते भोक्तुं स्थीयत इत्यादौ तदसंभवाच्च । न च तत्रापि 'देवदत्तेने'त्यध्याहारात् तृतीयार्थकर्तर्यभेदान्वयान्नानुपपत्तिरिति वाच्यम्, अध्याहार विनापि वाक्यार्थबोधस्यानुभवसिद्धत्वादिति दिक् । तुमुन्ण्वुलौ-' इति सूत्रविहितो ण्वुल् तु कर्तरि कृत्' इति कर्तर्येव, संबन्धश्च क्रिययोः पूर्वोक्त एव, एवं च 'कृष्णं दर्शको याती'ति वाक्यात् कृष्णकर्मकभविष्यद्दर्शनोद्देश्यकं दर्शनकर्त्तृकं वर्तमानकालिकं यानमिति बोध इति वदन्ति । युक्तं चैतत्,--कृष्णदर्शनोद्देश्यकयानेन मार्गस्थजनान्तरदर्शनोत्पादेऽपि 'जनं द्रष्टुंयाती'ति प्रयोगविरहात्, 'कृष्णं द्रष्टुं याति न यवनादिक'मिति प्रयोगाच्च । अत एव नव्यतार्किकाः--कर्तृकर्तृकत्वविशिष्टेच्छाविषयत्वस्य तुमुन्वाच्यतामनुमन्यन्ते । अत एव चतुर्थीकारके व्युत्पत्तिवादऽत्र चाहर्तुमिति तुमुनन्तार्थः, स्वस्यमभिव्याहृतक्रियान्वयिस्वार्थप्रयोजनकत्वान्वय्याहरणमित्युक्तम् । स्वार्थप्रयोजनकत्वस्य वाच्यतां विनान्वयोत्युक्तरसंगतिः । अन्यथा तस्य वृत्त्यनियामकतया तत्संबन्धावच्छिन्नप्रतियोगिताया अप्रसिद्ध्या तथाविधप्रतियोगिताकयवलादिगोचरदर्शनाभावस्य बोधयितुमशक्तत्वात् । उक्तसंबन्धेन यवानादिगोचरदर्शनविशिष्टगमनाश्रयत्वाभावएवप्रथमान्तार्थो बोध्यत इति तु न । 'कृष्णं द्रष्टुं स्थीयते न यवलादिक'मित्यादौ तदसंभवादिति दिक् ।
शाब्दिकनये तु सकलविशेषणविशिष्टमुख्यविशेष्यक्रियाया एव सर्वत्र बोधस्वीकारान्नानुपपत्तिरिति ध्येयम् । 'भोक्तुमिच्छति'त्यादौ 'समानकर्तृकेषु' इति तुमुन्, इच्छार्थेषु तुमुन्प्रकृतिभूतधात्वर्थसमानकर्तृकार्थप्रतिपादकेषूपपदेषु धातोस्तुमुन्निति तदर्थः । क्रियार्थक्रियोपपदाभावार्थमिदम्, तुमुन्नर्थविषयित्वविशिष्टकर्त्तृकर्तृकत्वसंबन्धेन प्रकृत्यर्थस्येच्छायामन्वये तात्‌पर्यग्राहकस्तुमुन्, परमते तु तस्य तद्वाच्यं परकर्तृकभोजनेच्छायां भोक्तुमिच्छतीति प्रयोगवारणाय समानकर्तृकत्वस्यापि संबन्धमध्यनिवेशः । 'शक्रोति भोक्तुं' 'धृष्णोति पठितुं' 'जानाति पठितु'मित्यादौ 'शकधृपज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्'-इति तुमुन् । आद्ये सामर्थ्यापरपर्याशक्तिरूपधात्वर्थे प्रकृत्यर्थस्य प्रयोजकत्वसंबन्धस्तुमुनूद्योत्यः, द्वितीये शङ्काराहित्यरूपप्रागल्भ्यघटकशङ्काया विषयित्वं संबन्धः, प्रयोजकत्वं वोक्तप्रागल्भ्ये संबन्धः, तृतीये विषयित्वं संबन्धः स्पट एव । अत्रापि सर्वत्र समानकर्तृकत्वमपि संबन्धे निवेश्यम्, अत्र यः संबन्धः स परमते तद्वाच्यः, अत्र शक्रातेरर्थे समभिव्याहृततत्तद्वात्वर्थोऽन्तर्भावनीयः, तथा हि गलाधःसंयोगानुकूलक्रियायां व्यापारे शक्तौ च शक्नातेर्वृत्तिः । तत्र शक्तौ शक्त्याख्या, इतरत्र लक्षणा, तत्र तुमुन्‌प्रकृतिर्भुज्यादिस्तात्पर्यग्राहकः । एतादृशेऽर्थे वृत्तिः कर्मप्रत्ययस्थले एव न तु कर्तृप्त्ययस्थले, प्रयोजनविरहात्, तत्र प्रयोज्यत्वसम्बन्धेन शक्त्यन्वितव्यापारस्य जन्यत्वसम्बन्धेनोक्तक्रियायामन्वयः, तथाविधक्रियारुपफलशालित्वादोदनादेः कर्मत्वं, एवञ्च'शक्यते ओदनो भोक्तु'मित्यतः शक्तिप्रयोज्यव्यापारजन्यगलाधःसंयोगानुकूलौदनाश्रयिका क्रियेति बोधः । तार्किकनये तु-तथाविधक्रियाश्रयतावानोदन इति बोधः । शक्तिश्च मीमांसकनये पदार्थान्तरं, न्यायनये तत्तत्कारणानुकूलासाधारणकारणकलापः, यथा प्रकृते प्रदीप्तजठरानलसंयोगादिः ।
अस्ति भवति विद्यते वा भोक्तुम् । अत्रान्निरूपकर्त्तृकर्त्तृकसत्तायां जनकत्वसंबन्धेन तुमुन्‌प्रकृत्यर्थस्यान्वयः, संभवरूपे वास्त्याद्यर्थे विषयित्वसंबन्धेनान्वयः । पर्याप्तो भोक्तुं प्रवीणो भोक्तुं कुशलो भोक्तुम् । अत्र 'पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । पर्याप्तिः = पूर्णता तद्वाचिषु सामर्थ्याप्रतिपादकेषूपपदेषु तुमुन् भवतीति तदर्थः । अत्र प्रयोजकत्वं, विषयित्वं वा प्रकृत्यर्थस्य कौशल्यादिनिष्ठं तुमुन्‌द्योत्यम् । पर्याप्तो भोक्तुमित्यादौ पर्याप्तादिशब्दः समर्थार्थः । अत्र प्रथमपदानुपादाने अलं भुक्त्वेत्यत्रातिप्रसङ्गः । अत्रालंशब्दो'ऽलं कंसं हन्तुं कृष्णः' इत्यत्र 'पर्याप्तिवचन इति प्राप्तिः, द्वितीयपदानुपादाने पर्याप्तं भुङ्क्ते इत्यत्रातिप्रसङ्गः, तदुपादाने तु नैव दोषः, अदनीयगतप्रभूततारूपपर्याप्तेरेव तत्र गम्यमानत्वात् न तु सामर्थ्यस्येत्यलम् ।
कालः समयो वेला वा भोक्तुम् । अत्र 'कालसमयवेलासु तुमुन्' इति तुमुन् । अत्र कालनिष्ठो योग्यतालक्षणो भोजनस्य संबन्धस्तुमुन्‌द्योत्यः, अत्र प्रैषादिग्रहणानुवर्तनात् प्रैषादिविवक्षायामेव तुमुन्, नानुवादे,--भूतानि कालः पचती'त्यादावित्यलमतिविस्तरेण । प्रकृतमनुसरामि--'भुक्त्वा तृप्त' इति वाक्यजं बोधमाह--भोजनजन्येति । भोजनजन्या या तृप्तिस्तदाश्रय इत्यर्थः, 'गत्यर्थाकर्मके'ति सूत्रेण कर्तरि क्त्प्रत्ययविधानात् । नन्वानन्तर्यसमानकर्तृकत्वयोरेव तत्र संसर्गतया भावमस्तु, किं गुरुशरीरजन्यत्वस्य संसर्गतया भालस्वीकारेणेत्यत आह-अत एवेति । जन्यत्वस्य संसर्गतया भानस्वीकारादेवेत्यर्थः । न प्रयोग इति । भोजनजन्यतृप्तौ जलपानजन्यत्वाभावादिति भावः । समानकर्तृकत्वमपीति । 'भुक्त्वा व्रजती'त्यत्र व्रजने भोजनाधिकरणवृत्तित्वस्य भाने क्रिययारधिकरणनिष्ठैक्यस्याप्यर्थसिद्धत्वात्, समानाधिकरण्यस्य तदैक्यं विनानुपपद्यमानत्वात् । 'मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा' इत्यत्र 'स्थितस्ये'त्यध्याहारात् स्थितिक्रियासमानकर्तृकत्वादिकमस्तीति क्त्वाप्रत्ययस्य नानुपपत्तिः ।
पूर्वोत्तरभाव इति । पूर्वकालवृत्तित्वोत्तरकालवृत्तित्वसमुदाय इत्यर्थः, एतस्य संसर्गतया भानानभ्युपगमे व्रजनस्य पूर्वकालवृत्तित्वेऽपि भुक्त्वा व्रजतीति प्रयोगापत्तिः, सामानाधिकरण्यस्य तथात्वानभ्युपगमे भिन्नकर्तृकतथाविधक्रियायुगलाभिप्रायेण तदापत्तिरित्युभयोः संसर्गत्वानुसरणम् । पूर्वोत्तरभावेऽव्यवधानांशोऽपि निवेश्यः । अन्यथा पूर्ववर्षोत्पन्नं श्वशुरगृहे भोजनभेतद्वर्षाधिकरणकं व्रजनं चादाय 'श्वशुरगृहे भुक्त्वा व्रजती'ति प्रयोगापत्तिः । अव्यवधानं तु तात्पर्यवसात् क्कचिद् दण्डेन क्कचिन्मुहूर्तेन क्कचित् प्रहरादिना यथायर्थ ग्राह्यम् । दण्डादिना व्यवधानं च स्वप्रागभावाधिकरणदण्डादिप्रागभावनाधिकरणत्वं, स्वं = समभिव्याहृतव्रजनादिक्रियाविशेषः । तथा चाव्यवहितपूर्वत्वं कालनिष्ठं तादृशाव्यवधानविशिष्टतत्क्रियाप्रागभावाधिकरणत्वं, भोजनोत्तरं दण्डोत्तरं गमनस्थले तु भोजनाधिकरणक्षणादेस्तत्र व्रजनपागभावाधिकरणदण्डप्रागभावाधिकरणतया न तथाविधप्रयोगप्रहङ्गः । विशेष्यदलनिवेशाद्‌ब्रजनोत्तरं भोजनतात्पर्येण न 'भोक्ते' इति प्रयोगप्रसङ्गः । वस्तुतस्तद्‌व्रजनकाले भोजलाधिकरणसमय ध्वंसाधिकरणत्वरूपोत्तरत्वविरहान्नोक्तातिप्रसङ्ग इति तन्ननिवेश्यम् । 'अद्य भुक्त्वा श्वो गन्ता' 'मार्गशीर्षे उद्वाह्य पौपे काशीं गत' इत्यादिरथले दिनमासादिनोक्तव्यवधानाभावो विवक्षित इति नानुपपत्तिः । प्रागभावानभ्युपगमे तु--स्वाधिकरणक्षणोत्पत्तिकध्वंसप्रतियोगिदण्डाधिकरणकोत्पत्तिकध्वंसाप्रतियोगित्ववधानं, तदधिकरणसमयोत्पत्तिकध्वंसप्रतियोगित्वं तत्पूर्वंत्वम् । परं तु प्रकृते एतन्निवेशानावश्यकता पूर्ववदवसेया । कालविशेषेति । तत्कालावच्छिन्नस्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकमुखव्यादानत्वादिमत् सामानाधिकरण्यरूपं व्याप्यत्वमित्यर्थः । कालविशेषावच्छिन्नेति । अत्र--कालः क्षणादिरूपः सूक्ष्मकालो ग्राह्यः, नातः स्थूलकालावच्छिन्नव्याप्यत्वमादाय मुखव्यादानोत्तरं मुखव्यादानशून्यकालिकस्वापव्यत्तयभिप्रायेण तत्काले मुखं व्यादाय स्वपितीति प्रयोगापत्तिः । अत एव निरन्तराध्ययानशालिन्येवायमधीत्य तिष्ठतीति प्रयोगो, न तु कदाचिदध्ययनकर्तरीति व्यवस्थोपपद्यते । तत्राप्युक्तव्याप्यत्वस्य संबन्धतया भानान्निरन्तराध्ययनविरहिपुरुषस्थितौ अध्ययनव्याप्यत्वाभावात् तादृशप्रयोगाप्रसङ्गात् । परं तु स्वसमानाधिकरणेत्यत्र स्वशब्देन तत्पुरुषोयनिद्रादिशून्यकालिकस्थितिसानान्यं ग्राह्यं,-नात उक्तदोषतादवस्थ्यम् । 'मुखंव्यादाये'त्यत्र तु स्वपदेन तु तत्तत्‌स्वापव्यक्तिर्ग्राह्या, नातो व्यादानशून्यकाले तादृशप्रयोगापत्तिर्व्यादानकाले तादृशप्रयोगोपपत्तिश्चेति प्रतिभाति । स्थादिधातुरपि तादृशस्थितित्वाद्यवच्छिन्नपरः, नात उद्देश्यतावच्छेदकावच्छेदेन तादृशव्याप्यत्वान्वयानुपपत्तिः । यद्यप्येतादृशव्याप्यत्वभानेनैवातिप्रसङ्गनिरासे सामानाधिकरण्यस्य संबन्धताभ्युपगमो निरर्थकस्तथापि सामानाधिकरण्यघटिताव्याप्तिः संबन्धतया स्वीकार्येति सूचनाय--'सामानधिकरण्यं च संसर्ग' इत्युक्तम् । अथवोक्तव्याप्तौ सामानाधिकरण्यं न प्रवेश्यमिति यथाश्रुतमेव रमणीयम् । अथवा कालिकसंबन्धावच्छिन्नं व्याप्यत्वं संबन्ध इत्येव कालविशेषावच्छिन्नेत्यादिग्रन्थतात्पर्यार्थः । एवं च कादाचित्काध्ययनकर्तृपुरुषस्थितेरपि पुरुषान्तरीयाध्ययननिरूपितोक्तव्याप्यताश्रयतया 'धीत्य तिष्ठती'ति प्रयोगापत्तिरतः सामानाधिकरण्यस्यापि संबन्धत्वपुरस्कारः । स्वसमानाधिकरणेति-स्वशब्दः पूर्वोक्तार्थक एवतो न पूर्वोक्तदोषावकाशः, तत्तत्कालविशेषगर्भस्वसमानकालिकत्वेन सामानाधिकरण्यसहितेन तादृशस्थितित्वाद्यवच्छेदेनान्वयो लाघवात् स्वीकर्तुमुचित इति चेत्, यदीयस्वापकाले बहुधा मुखव्यादानं यदीयस्तितिकाले तथाध्ययनं तत्रैव तादृशप्रयोग इष्यते, न तु कादाचित्कंयदीयस्वापादिसमये मुखव्यादानादिकं तत्रेत्यतोऽतिप्रसङ्गवारणायोक्तव्याप्यत्वभानानुसरणमिति प्रतिभाति ।
यदि तूक्तस्थलेऽपि स प्रयोगः प्रामाणिकस्तदेदमेवोचितं, प्रकृतग्रन्थस्याप्यत्रैव तात्पर्यमिति वास्तु । अध्ययनमुखव्यादानोत्तरमपि स्वापस्थितसत्त्वेन पूर्वकालत्वादेः संबन्धस्य सत्त्वान्न क्त्वः साधुत्वानुपपत्तिः । स्पष्टं चेद' प्रकृतसूत्रभाष्ये । न च 'भुञ्जाने भुङ्क्ते' इति प्रयोगवारणाय समभिव्याहृततत्फलविशेषानुकूलयावत्क्रियावधिकपूर्वत्वस्यैव ग्राह्यतया कथमुक्तरीत्या 'मुखंव्यादाय स्वपिती'ति प्रयोग इति वाच्यम्, तत्र फलभेदकल्पनया मुखव्यादानोत्तरसुखविशेषादिफलकव्यापारसामान्यपूर्वकत्वस्य मुखव्यादाने संभवेनादोषात् । 'भुक्त्वा भुङ्क्ते' इति प्रयोगस्यनुसारित्वात् 'मध्याह्न भुक्त्वा रात्रौ भुङ्क्ते' इति प्रयोगस्त्विष्यत एवोक्तरीत्योपपद्यते च । तात्पर्यसत्त्वे एकभोजनस्थलेऽपि 'ओदनं भुक्त्वा रोटिकां भुङ्क्ते' इत्याहुः । अत्र केचन नैयायिकाः-प्रागभावावच्छिन्नकालवृत्तित्वरूपं पूर्वकालिकत्वं कर्ता च क्त्वार्थः, तत्र पूर्वकालवृत्तित्वे पूर्वकाले तद्धटकप्रागभावे एव शक्तिर्वा, कर्तरि तु शक्तिनिरूढलक्षणा वा । प्रथमपक्षे पूर्वकालवृत्तित्वस्याश्रयत्वसंबन्धेन प्रकृत्यर्थभोजनादावन्वयः । द्वितीयपक्षे-पूर्वकालस्य कालिकसंबन्धवच्छिन्नाधेयत्वं संसर्गः,तृतीयकल्पे-प्रतियोगित्वसंबन्धेन प्रागभावे प्रकारता, प्रकृत्यर्थभोजनादेः क्त्वार्थे कर्तरि स्वनिष्ठकर्तृत्वनिरूपकत्वसंबन्धेन विशेषणत्वम् । तदर्थकर्तरि व्रजतीत्याख्यातोपात्तकर्तृत्वस्यात्र्प्रयतया विशेषणत्वमिति व्रजनप्रागभाववाच्छिन्नकालवृत्तिभोजनानुकूलकृतिमान् व्रजनकर्तृत्वाश्रय इति बोधः । 'पक्त्त्वा भुज्यते ओदन' इत्यत्र तूक्तविधापाककर्तुः क्त्वान्तार्थस्य भुजधात्वर्थव्यापारे स्वनिष्ठकर्तृकतानिरूपकत्वसंबन्धेनान्वयः । तथा च भोजनप्रागभाववावच्छिन्नकालवृत्तिपाककर्तृकर्तृकव्यापारजन्यगलाधःसंयोगानुकूलक्रियाश्रय ओदन इति बोधः । यत्क्रियाव्यक्तौ क्त्वार्थकर्तुः साक्षात् कर्तृत्वाद्वारा वान्वयस्तत्क्रियाव्यक्तेरेव क्त्वार्थप्रागभावेऽन्वय इति व्युत्पत्‌त्यङ्गीकारान्नान्यकर्तृकव्रजनपूर्वकालवृत्तिकस्वकर्तृकव्रजनोत्तरकालिकभोजनकर्तरि भुक्त्वा व्रजतीति प्रयोगप्रसङ्गः । 'चैत्रो भुक्त्वा व्रजती'त्यत्र तु चैत्रे आख्यातार्थान्वितक्त्वार्थकर्तुरभेदेन विशेषणत्वं विशेष्यत्वं वा । 'चैत्रस्य भुक्त्वा व्रजन'मित्यत्र चैत्रकर्तृकं यद्बजनपूर्वकालिकभोजनं तत्कर्तृ कर्तृकं व्रजनमिति बोधः । व्रजने तथाविधभोजनकर्तुः स्वनिष्ठकर्तृतानिरूपकत्वं संबन्धः । 'चैत्रो न भुक्त्वा व्रजती'त्यत्र नञा वर्तमानब्रजनकर्तृत्वविशिष्टव्रजनपूर्वकालिकभोजनकर्तृभेदश्चैत्रे प्रत्याय्यते । तेन यदा च तादृशप्रयोगनिर्वाहः, येन पुरुषेण कदापि भोजनोत्तरं गमनादिकं न कृतं तत्तात्पर्यकोऽयं भुक्त्वा न व्रजतीति प्रयोगोऽप्युपपद्यते । एतेन-चैत्राभिन्न उक्तविधभोजनकर्तरि वर्तमानव्रजनकर्तृत्वाभावबोधोऽभ्युपेयत इति निरस्तम् । उक्तस्थलेऽनिर्वाहादिति दिगित्याहुः ।
अपरं पुनस्तार्किका एवं वर्णयांचक्रुः--प्रागभावशक्यः कर्त्ता लक्ष्यः, प्रागभावे प्रकृत्यर्थस्य स्वाधिकरणकालवृत्तित्वसंबन्धेन कालिकसम्बन्धावच्छिन्नवृत्तित्वसंबन्धेन वान्वयः । कर्त्रेकदेशकृतौत्वमुकूलत्वविषयित्वरूपसंबन्धेन प्रकृत्यर्थान्वितप्रागभावस्योत्तरक्रियायां प्रतियोगिताविशेषणत्वम् । भोजनकर्तुः स्वनिष्ठकर्तृतानिरूपकत्वसंबन्ध उत्तरक्रियायां विशेषणताघटकः, तावतैव समानकर्तृकत्वलाभः । इत्थं च चैत्रो भुक्त्वा व्रजतीति वाक्यात् चैत्राभिन्नभोजनकर्तृकर्तृकभोजनाधिकरणकालवृत्तिर्भोजनवृत्तिर्वा यः प्रागभावस्तत्प्रतियोगि व्रजनं तत्कर्तृत्ववांश्चेत्र इति बोधः । प्रथमान्तपदासमभिव्याहारे तु व्रजनकर्तृत्वमुख्यविशेष्यक एव बोधः । चैत्रेण भुक्त्वा व्रजनमित्यादौ तु व्रजनादिमुख्यविशेष्यक एव सः । क्त्वार्थद्वयस्यैकक्रियाव्यक्तावेवान्वय इति नियमात्तत् पुरुषान्तरकर्तृकव्रजनप्राकृकालिकस्वकर्तृकव्रजनोत्तरकालिकभोजनकर्तरि तादृक्‌प्रयोगापत्तिः । चैत्रो न भुक्त्वा व्रजतीत्यत्र तथाविधव्रजनकर्तृत्वाभाववांश्चैत्र इति बोध इति । इत्यादिमतानि नाश्रयितुं योग्यानीत्याह--एवञ्चेति । एवं = पूर्वकालत्वादीनां संसर्गत्वपुरस्कारे । अन्यलभ्यत्वाद्‌वृत्तिं विनैव संसर्गविधया भानसंभवात् । अन्यथान्वयमात्रे शक्तिस्वीकारापत्तेरिति भावः । आद्यपक्षे व्रजनपूर्वकालिकभोजनकर्तेत्यादिकर्मेण बोधस्वीकारेऽनुभवसिद्धस्य पूर्वक्रियाप्रकारकोत्तरक्रियाविशेष्यकबोधस्यानुपपत्तिरूपमपि दूषणं द्रष्ट्व्यम् । अत एव मणिकारैः--पूर्वकालत्वस्य वाच्यत्वपक्षे पूर्वक्रियाविशेष्यक एव बोधः स्यान्न तूत्तरक्रियाविशेष्यकस्तथा चानुभवविरेध इति दूषणमभिधायानन्तरमस्य क्त्वावाच्यत्वमङ्गीकृतम् । न च पूर्वकालत्वस्य वाच्यत्वेऽपि तस्य निरूपकतासंबन्धेनोत्तरक्रियायामन्वयोपगमेनानुभवसिद्धो बोधो निर्वहत्येवेत्याशङ्क्य न भुक्त्वा व्रजतीत्यत्र निरूपकत्वस्य बोधयितुमश्क्यत्वम् । आश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताकाभावबोधाभ्युपगमे भोजनोत्तरं गमनकर्तर्यपि नञ्घटितप्रयोगापत्तिः । आनन्तर्यस्य तु आश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताकाभावः प्रत्याययितु शक्यत एवेत्यपि तैरभ्यधायि । अन्यलभ्यत्वादेवोत्तरकालत्वादेस्तत्संबन्धतयैव भानमङ्गीकृतं नव्यतार्किकैरपीत्यभाणि--गुरुचरणैश्चषके इत्यलं पल्लवितेन । नन्वेवं 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते'ति वाक्येन दर्शपूर्णमासोत्तरकालः सोमो विधीयत इति मीमांसकसिद्धान्तासंगतिः, कालस्यावाच्यत्वादिति चेन्न । उत्तरकालत्वसंन्धेन दर्शपूर्ममासवैशिष्ट्यं विधीयत इति स्वीकारेणाक्षतेः । तावतापि तत्सिद्धान्तफलस्य दर्शपूर्णमासाभ्यां प्राक् सोमानुष्ठाने प्रत्यवायस्य सिद्धेः दर्शाधिकरणे सोमाकरणे च तत्सिद्धेः । प्रकृत्यर्थेति । प्रकृत्यर्थश्च क्रिया चेति द्वन्द्वः । अथवा क्त्वाप्रत्ययस्य समभिव्याहृतप्रत्ययस्य च प्रकृतिर्ग्राह्येति नासंगतिः । स्वशब्देनोपात्तेति । इह कस्मान्न भवति पूर्वं भुङ्क्ते पश्चाद्‌व्रजतीति पूर्वपक्षस्य समादानमुक्तं--स्वशब्देनेत्यादि । द्योत्ये इति । अनेन पूर्वकालत्वोत्तरकालत्वादेर्द्योतकत्वमेव क्त्वादीनां न तु वाचकत्वमिति स्पष्टमेव सूच्यते तेन संसर्गतयैव कैयटाभिमतमिति भावः । परिमलकारादिमतं दूषयति--यत्विति । सूत्रादिति । समानकर्तृकयोरिति धर्मपरं, द्विवचनं तु क्रियाद्वयरूपाश्रयगतद्वित्वारोपनिमित्तकमिति भावः । अथवा धर्मिपरमेव तत्, क्रियारूपधर्मिणो धातुत एव लाभात्, समानकर्तृकत्वे कर्तर्येव वा शक्तिः सूत्रबलात् कल्प्यत इति भावः । अस्तुवानुभवानुरोधात् कर्तृकर्तृकत्वेशक्तिः, भुक्तवाघ्रजतीत्यत्र भोजनस्य कर्तृत्वेऽन्वयः । तस्यावाच्यत्वे बाधकमाह--अन्यथेति । तृतीयेति । क्त्वाप्रत्ययेन कर्तुरनभिधानादिति भावः । अभिहिते तृतीया न भवतीति प्रसज्यप्रतिषेधमभ्युपेत्याह--न चेति । क्रियाकर्तृरबिधानेपीति । क्रियाकर्तृत्वविशि,्टस्याभिधानेऽपीत्यर्थः । क्रियाकर्तृत्वशक्तेरिति पर्यवसितोऽर्थः । क्रियाद्वयस्यैक एव कर्तेति यथाश्रुतस्यासंगत्यापत्तेः । एवमग्रनिमस्यापि क्रियाकर्तुरित्यस्यार्थः । पर्युदासाश्रयणात् । प्रसज्यप्रतिषेधे तु अभिहिते न भवतीत्यर्थात् तिङा कर्तृत्वशक्तेरभिधानान्न मयेति तृतीयापत्तिः । पर्युदासाश्रयणे तु अभिहितभिन्ने भवतीत्यर्थादनभिहतभुजिक्रियानिरूपितकर्तृत्वशक्तिमादाय तृतीयापत्तिर्दृढैवेति भावः । लाघवात् पर्युदासाश्रयणमेव युक्तम् । प्रसज्यप्रतिषेधे हि असमर्थसमासो वाक्यभेदश्चाश्रयणीयः स्यात् । तदाश्रयणे फलमप्याह--क्रियाधिकरणस्येत?। प्रसीदत्यस्मिन्नित्यधिकरणे 'हलश्च' इति घञ् प्रत्ययः । क्रियाधिकरणस्येति कर्तुरितिवद्‌ व्याख्येयम् । भाष्ये स्पष्टमिति । अस्यानभिहिते इत्यादिः । वस्तुतस्तु शक्तेः साधनत्वमिति सिद्धान्तपक्षे घञा प्रकृत्यर्थनिरूपितशक्तेरबिधानेन तस्यां वाच्यायां सप्तमीनिषेधेपि आसनक्रियानिरूपिताधिकरणत्वशक्तौ वाच्यायां निषेथाभावेन प्रासादे आस्ते इत्यत्र सप्तमींसिद्धिर्निष्प्रत्यूहैव । स्पष्टं चेदं कैयटोद्योते । एवं चात्र लाघवादेव पर्युदासाश्रयणमिति तत्त्वम् । उपसंहरति--तस्मादिति । सामानकर्तृकयोरिति । समान एकः कर्ता ययोः क्रिययोरिति क्रियारूपेऽन्यपदार्थे बहुव्रीहिः । पूर्वकाल इत्यादि । पूर्वः कालोऽस्येति बहुव्रीहिः । तथा च समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालवृत्त्यर्थाभिधायिनो धातोः क्त्वाप्रत्ययो भवतीत्येव सूत्रार्थः । एवं च कर्तुर्वाच्यत्वं कथमपि न लभ्यत इति भावः । ननु पूर्वोक्तरीत्या तल्लभ्यत एवेत्याशङ्क्याह--अन्यथेति । पूर्वोक्तक्रमेण कर्तुर्वाच्यत्वे विवक्षिते । समानकर्तरि इति समानपदोपादानं क्त्वार्थकर्तुः समभिव्याहृतक्रियाकर्तर्यभेदान्वयः पूर्वोक्तरीत्येति बोधनायेति बोध्यम् । न्यासः स्यात् = न्यासः कृतः स्यात् । अपि च पूर्वोक्तरीत्या वाक्यार्थवर्णनं न मभञ्जसमिति बोध्यम् । ननु तृतीयादर्शनमेव पूर्वोक्तार्थकल्पनद्वारा कर्तुर्वाच्यत्वे मानंभविष्यतीत्याशङ्क्य तृतीयादर्शनस्यान्यथासिद्धमाह--तृतीयापादनं त्वित्यादिना । प्रधानेतरयोरिति--कारिकाद्वयं प्राग्व्याख्यातम् । इमे च हरिकारिके 'स्वादुमि णमुल्' इति सूत्रस्थभाष्यार्थानुवादिन्याविति स्पष्टं शेखरादौ । ननु क्रिमित्येवं वर्ण्यते तृतीयावारणार्थ क्त्वादेः कर्तरि शक्तिरेवाभ्युपगम्यतामत एव 'समानकर्तृकयोः' इति सूत्रकारोक्तिः सप्रयोजना । अन्यथा डजजन्यत्वादिसंबन्धवदेतस्यापि संबन्धस्यानुभवबलादेव लाभा भविष्यतीति व्यर्था सोक्तिरित्याशङ्क्याह--अन्यथेति । प्रकारान्तरेणेति । कर्तरि शक्त्यङ्गीकारेऽपि कर्मणाऽनभिधानादोदनपदाद् द्वीतीयापत्तिर्दुर्वारैव । कर्मण्यपि शक्तिस्वीकारे तु गौरवं मानाभावश्च । उक्तरीत्यनुसरणे तु तिङ्न्तोपात्तप्रधानभुजिक्रियानिरूपितकर्मशक्तेस्तिङाभिधानाद्‌गुणभूतपचिक्रियानिरूपितायास्तस्या अनभिधानेऽपि न द्वितीयापत्तिरिति समुदिततात्पर्यार्थः । अपि च वाचकत्वपक्षे क्त्वादीनां जन्यत्वव्याप्यत्वाद्यनेकार्थकत्वापत्तिः । जन्यत्वादीनां वाच्यत्वे प्रत्ययार्थतयाः तेषां विशेष्यत्वापत्त्या 'भुक्त्वा भुक्त्वा व्रजती'त्यत्र 'आभीक्ष्ण्ये द्वे वाच्ये' इति द्वित्वानापत्तिः । क्रियाप्राधान्यविहात् । विशेषणीभूतक्रियामादाय तत्प्रवृत्त्यङ्गीकारे तु पाचक इत्यादावपि तदापत्तिः । एवं धातुसंबन्धाधिकारबाधापत्तिश्च । न च प्रत्ययार्थद्वारकः संबन्धोऽक्षत एवेति बोध्यम् । 'लुनीहि-लुनीहीत्येवायं लुनाती'त्यादौ धात्वार्थयोः साक्षात् संबन्धदर्शनेन 'यथाविध्यनुप्रयोग' इत्यादौ संबन्धपदाऽनुवृत्तेः साक्षात् संबन्धतात्पर्यकताया एव निर्णयेन परस्परसंबन्धस्य तदर्थकत्वाभावनिश्चयात् । गौरवादपि न परस्परासंबन्धस्य तदर्थकत्वमिति तद् ध्वनयन्नाह-आस्तां विस्तर इति । परे तु समानकर्तृकयोर्धात्वर्थयोर्मध्ये पूर्वकालविशिष्टार्थबोधकाद् धातो कत्वेति सूत्रार्थात् पूर्वकालः क्त्वाप्रकृत्यर्थे प्रकारः आनन्तर्यं च धात्वन्तरार्थे तादृशप्रकृत्यर्थस्य प्रकारताघटकः संबन्धः । अत एव भाष्ये--पूर्वं भुङ्क्ते पश्चाद्वजतीत्यत्र क्त्वाप्रत्ययशङ्का--पूर्वशब्दोऽत्र पूर्वकालार्थो न तु धातोस्तत्र वृत्तिरत्यर्थकेन स्वशब्दोनोक्तत्वादित्यनेन समाहिता । उक्तार्थानामिति न्यायपरत्वं तु न तस्य, तथा सतीह कस्मान्न भवति--आस्यते भोक्तुमिति शङ्कापरभाष्यस्यासंगत्यापत्तेः । तत्रापि तुमुना तदुद्देश्यकत्वरूपसंबन्धं बोधयताऽऽसने पूर्वकालत्वस्य द्योतितत्वेन तदप्राप्तेः । तत्र पूर्वकालानवगने तु कथं शङ्का पदं निदध्यात् । वासरूपन्यायेन लटा साधनमित्यन्यत् । 'यदा त्वासेः क्त्वा भवति तदा भुजेस्तुमुन्न भविति अनभिधाना'दिति कैयटग्रन्थः । 'पूर्वभुक्त्वा पश्चाद्‌व्रजती'त्यत्र त्व'न्येभ्यो भोक्तुभ्यः पूर्वं भुक्त्वान्येभ्यो व्रजितृभ्यः पश्चाद्‌व्रजतीत्यर्थ' इति साधनान्तरक्रियावधिकमेव पूर्वकालत्वं प्रतीयत इति नास्य सूत्रस्य विषयः, किन्तु 'विभाषाग्रे प्रथमे'त्यस्येति स्पष्टमत्र भाष्ये । 'दर्शपूर्णमासाभ्या'मित्यत्र त्वानन्तर्यसंबन्धेन पूर्वकालिकदर्शादिवैशिष्ट्यं सोमे प्रतीयत इति न तत्र दोषः । एवं च 'पूर्वकाल' इति कर्मधारयः, एवं च षष्ठीवत् क्त्वादिरपि समानकर्तृकत्वादिसंबन्धवाचक इति वक्तुं शक्यमिति प्राहुः । अत्र पूर्वकालत्वं प्रागभाववच्छिन्नकालत्वं, प्रागभावे व्रजनक्रियायास्तत्तद्वय्क्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयः । आनन्तर्य च-तदधिकरणसमयध्वंसाधिकरणमुहूर्तादिध्वंसानधिकरणत्वविशिष्टतदधिकरणसमयध्वंसाधिकरणक्षणवृत्तित्वम्, तेन न पूर्वोक्तदोषः, 'ईश्वरो ज्ञात्वा तिष्ठती'त्यत्रेश्वरज्ञानध्वंसाप्रसिद्धया तद्‌ध्वंसो नानन्तर्ये निवेशितः । इदमत्र बोद्यम्--'स्नात्वा भुक्त्वा पीत्वा व्रजती'त्यत्र व्रजनक्रियावधिकपूर्वकालत्वमादायैव सर्वत्र क्त्वा, न तु भोजनादिक्रियावधिकं तदादाय । तथा सति 'तस्यापत्यम्' इत्यादावेकत्वादेरिव प्रकृते 'समानकर्तृरकयो'रिति द्विवचनोपात्तस्य द्वित्वस्याविवक्षायामप्यमीषां ब्रह्मणानां पूर्वं आनीयतामित्युक्ते सर्वपूर्व एव आनीयते, न तु यत्किञ्चित्पूर्वो मध्यमस्तथात्रापि स्नातेरेव क्त्वाप्रत्ययः स्यान्न तु भुज्यादेः । एवं च-स्नानक्रियायाः पानक्रियायाश्च व्रजनक्रियायामेवान्वयो, न तु स्नानादिक्रियाया भोजनादौ, अत एव तत्र 'भुक्तावा पीत्वा व्रजती'ति विपरीतप्रयोगोऽप्युपपद्यत इति स्पष्टं भाष्ये इति शिवम् ।। 60 ।।
* ।। इति तुमुन्क्त्वाद्यर्थनिर्णयः ।। *
सिद्धान्त इति । प्रागुक्तप्रकृतिप्रत्ययाद्यर्थविचारस्यावास्तवत्वं ध्वनयितुं स्फोटस्यैव वाचकत्वमिति सिद्धान्तनिष्कर्षमाहेत्यर्थः । स्फुटति प्रकाशतेऽर्थोऽस्मात् स्फोट इति व्युत्पत्त्यार्थबोधकशब्दः स्फोट इति पर्यवसन्नम् । अनर्थकमिति । इतरस्फोटानामपि स्वीकृततयाऽव्यावर्तकत्वात् । दुरर्थकम् = अनभिहितवर्णस्फोटादिव्यावृत्तिप्रतिपादकम् । विचाराङ्गभूतां विप्रतिपत्तिमाह--साधुशब्देति । संशयीययावत्कोट्युपस्थापकं वाक्यं विप्रतिपत्तिः न तु संशयजनकवाक्यम्, शब्दस्य नव्यतार्किकैः संशयजनकत्वानङ्गीकारात्, तदङ्गीकर्तृमते तु तदेव विप्रतिपत्तिपदप्रतिपाद्यमस्तु, साधुशब्दानन्तर्गतानां घकारदीनां घटातिशब्दघटकानां परैरपि वाचकत्वाङ्गीकारात् साधुशब्दान्र्गतत्वावच्छेदेन बोधकत्वसाधने न वैयाकरणमर्तेऽशतः सिद्धसाधनम्, अर्थान्तरं वा'निषेधसाधनेऽशतोबाधः, अतः साधुशब्दान्तर्गतत्वं पक्षतावच्छेदकमनुसृतम् । अन्येषां = प्राचीननैयायिकादीनाम् । ननु साधुशब्दाघटकेषु वर्णेषु बोधकत्वव्यावृत्तिसिद्धावपि वाचकत्वव्यावृत्तिर्न सिद्धेत्यत आह-बोधका वाचका इति । बोधकपदाद्वाचकत्वलाभः । कथमित्याशङ्कायााह--तस्यैवेति । बोधकत्वस्यैवेत्यर्थः । 'शक्तिः पदार्थान्तर'मिति मतेऽपि बोधकत्वान्यथानुपपत्त्या कल्प्यमाना शक्तिबोधकत्वसमनियतेति साधुशब्दानन्तर्गतेषु बोधकत्वाभावे सिद्धे शक्त्यभावोऽप्यर्थात् सिध्यतीति बोध्यम् । परमतं दूषयितुमुपन्यस्यति-यत्त्विति । तेषां = तिवाद्यादेशानां, बहुत्वेन = लादिरूपादेश्यपेक्षया बहुत्वेन । शत्त्यानन्त्येति । शक्ततावच्छेदकत्वमपि बह्वीष्वादेशनिष्ठानुपूर्वीषु कल्पनीयमित्यपि दूषणमत्र पक्षे बोध्यम् । स्थानिनो वाचकत्वपक्षेऽपि शाब्दबोधपूर्वमनेकस्मृतिकल्पनायां लाघवानकाश इत्यतो दूषणान्तरमाह--एधांचक्रे इति । अत्र 'आमः' इत्यनेन लिटो लुक् । अभावरूपस्येति,-हेतुगर्भविशेषणं, यतोऽभावरूपत्वमतस्तस्य बाधकत्वासंभवः, तस्याः भावनिष्ठत्वादभावेन क्कचिदपि बोधजननादिति भावः । 'एधांचक्र' इत्यत्रानुप्रयुज्यमानधातूत्तरश्रूयमाणतिडादेशेनैव कालकारकाद्यनुगम इति स्पष्टं निवन्धेषु । तदर्थकालान्वयस्य यद्यपि अनुप्रयुज्यमानकृञाद्यर्थे एव तथाप्यभेदेन तदर्थान्व्य्येद्यर्थेऽपि तस्याथिकं भानं संभवत्येव । स्पष्टं चेदं प्रकृतसूत्रभाष्ये । अत एव 'कृञ् चानुप्रयुज्यते' इति सूत्रेकौमुद्यां--'तेषां क्रियासामान्यवाचित्वादाम्‌प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वय' इत्युक्तम् । अभेदान्वयश्चेत्थम् ,--एधादयस्तत्तत्फलानुकूलव्यापारार्थकाः, कृञ्-उत्पत्त्यनुकूलव्यापारार्थः । भ्वस्तो--सत्तानुकूलव्यापाराभिधायिनौ । उत्पत्त्यादिकमाम्प्रकृत्यर्थफलनिष्ठमेव, प्रत्यासत्तेः । इत्थं चैधांचक्र इत्यत एककर्तृकवृद्ध्यानुकूलव्यापाराभिन्नपरोक्षानद्यतनभूतोत्पत्त्यनुकूलव्यापार इति बोध इत्याहुः । एवमादेशानां वाचकत्वपक्षेऽपि नात्र दोष इत्यतो 'ब्रह्मे'त्यस्यानुसरणम् । आदिपदेन 'वारि' 'पच' 'या' 'अपाची' त्यादेः संग्रहः, न च तत्रापि'यः शिष्यत' इति न्यायेन प्रकृतिरेव लुप्तप्रत्ययार्थिकेति वाच्यम्, प्रकृतेस्तत्र शत्तयादिकल्पनापेक्षयाऽन्यत्रबोधकत्वेन क्लृप्तस्य प्रत्ययस्य रमरणकल्पनैव युक्तेत्याशयात् । रथानिनो वाचकतापक्षे शक्ततावच्छेदकलाघवमप्यस्तीत्याह--लत्वस्येति । जातिरूपतयेति । दन्तवायुसंयोगजन्यतावच्छेदकतयानुगतप्रत्ययनिर्वाहकतया च तस्य जातित्वमिति भावः । परमते त्वानुपूर्वीणां शक्ततावच्छेदिकानां नानात्वं स्पष्टमेव ।
युत्त्यन्तरमप्याह-अव्यभीति । कर्त्राद्यर्थज्ञानाधिकरणे तज्ज्ञानपूर्वसमये नियमेन लकारज्ञानसत्त्वादित्यर्थः । तथा च न स्वमते व्यतिरेकव्यभिचारः । परमते तु सोस्तीत्याह--आदेशानामिति । भिन्नतया = परस्परप्रतियोगिकभेदवत्तया,-अनेकतयेति यावत् । न चैवं 'भू-ल' इत्यतोऽपि बोधः स्यादिति वाच्यम्, समभिव्याहारविशेषस्य कारणत्वाभ्युपगमात् । अन्यथा तव मतेऽपि भू-अति इत्यादेरपि बोधपत्तिः । आदेशिज्ञानविधुराणां बोधस्तु शक्तिभ्रमादुपपद्यते, अपभ्रंशेषु तथाकल्पनादिति भावः । अथैवं शत्राद्यन्तस्थले कर्तृकर्मबोधो न स्यात्, लकारस्य तव मते कृतिकर्मत्वमात्रवाचकत्वादिति चेन्न । लकारस्य कृत्यादिमात्रवाचकत्वेपि शत्रादेः कर्त्रादिवाचकत्वाभ्युपगमात्, 'कर्तरि कृ'दित्यनुशासनात् । नामार्थयोपभेदान्वयानुरोधात्तत्र लकारस्यैव कर्त्राद्यर्थ इति न कोऽपि दोषः । एवं च श्रूयमाणमात्रवृत्तिवाचकताविरहाद् वर्णयन्ति स्म-आदेशानां वाचकत्वे 'राम' इत्यादो विसर्ग एकत्वस्य वाचक इति व्यवस्था भवति, स्मृतानां वाचकत्वेऽव्यवस्था स्यात् । तथा हि 'राम' इत्यत्र विसर्गेण किं सुः ? किं वा रुः ? किं वा सिः स्मर्तव्यः ? पाणिनीयैः सुः, अन्यै रुः, कालापतन्त्राभिज्ञैः सिः, यस्तु सकलतन्त्राभिज्ञस्तस्य विनिगमनाविरहेण प्रतिबन्धात् कस्यापि स्मरणं न स्यादिति । तत्तु न युक्तम् । अनेकलिपिज्ञानसत्त्वेऽपि यथा नम् शब्दे एककाले न शब्दोपस्थितिप्रतिबन्धस्तथा सकलव्याकरणाभिज्ञस्य नादेशिस्मृतिबन्धः । अपि तु सर्वेषां स्मृतिस्तयाचार्थोपस्थितिरविलक्षणैवेत्यभ्युपगममाच्च । अत एव घटकलशाद्यनेकपर्यायेभ्योप्यविलक्षणबोध उपपद्यतेऽतोन्यथा व्याचष्टे-तथाहीत्यादिना । बोधादिति । तथा च बोधानापत्तिरेवात्राव्यवस्थापदार्थ इति भावः । मानाभावादिति । ततो बोधोदयेन तत्र वाचकत्वस्याबाधितत्वादिति भावः । विनिगमनाविरहात्सर्वेषामपि स्थानिनां वाचकत्वं भवतीत्याशङ्कायामाह-सर्वेषामिति । व्यभिचारश्चास्त्येवेति । तथा च यद्भयादादेशानां वाचकत्वपक्षपरित्यागस्तौ दोषौ स्थानिनो वाचकत्वपक्षेपि दुष्परिहरावेवेत्यर्थः । आदेशानां तिवादीनामाधिक्यात्तत्पक्षापेक्षयात्र पक्षे बहु गौरवमित्यनुशयान आह-तथा चेति । मुख्य इति । शक्तिग्रहे जननीये शक्तिग्राहकान्तरानपेक्षत्वरूपमुक्यात्वम् । व्याकरणादीनां तु न तथात्वम्,-तथाह-'तस्यापत्य'मित्यादिनाणादिप्रत्ययस्य शक्तिग्रहेऽपत्यादिशब्दशक्तिग्रहोऽपेक्ष्यते, स चेच्छब्दान्तरेण, तस्यापि शब्दान्तरेणैव शक्तिग्रह इत्यभ्युपगमेऽनवस्थाप्रसङ्गोऽतो व्यवहारस्यापत्यादिशब्दशक्तिग्रहसंपादनद्वाराऽपेक्षणादिति भावः । त एव = तिङादय एव । एवकारेण स्यानिभूतलकारादिव्यवच्छेदः । ननु व्यवहारात्तिडषु गृह्यमाणापि शक्तिर्लाघवादादेशिनि व्यवस्थाप्यते, न तु तिङ्षु, गौरवात्, यथा व्यवहाराद्वाक्ये गृहीतापि शक्तिर्लाघवात्तत्तत्पदे कल्प्यते तद्वत् । अनेकस्मरणकल्पनागौरवं तु फलमुखत्वान्न दोषायेत्याशङ्कमानो मूले साधकान्तरमाह-तद्धेतुन्यायत इति । तद्धेतुन्यायपदयोः कर्मधारयः । व्याख्यायां-किं चेति । अस्य 'साधकान्तरमाहे'ति शेषः । पूर्वफक्किकास्थस्यानुषङ्गे वा बोध्यः । न्यायं व्युत्पादयति-लकारस्येति । तादृशे बोधे = एककर्तृकवर्तमानकालिकविक्लित्यनुकूलो व्यापार इति बोध इत्यर्थः । पचतीति समभिव्याहारोपीति । अव्यवहितोत्तरत्वसंबन्धेन पच्‌धातुविशिष्ट अतिविशिष्ट पचतिशब्दरूपः समभिव्याहार इत्यर्थः । वाचकत्वशक्तिः = वाचकत्वरूपा शक्तिरित्यर्थः । समभिव्याहारस्य वाचकत्वे सिद्धेपि साधुशब्दान्तर्गतवर्णत्वावच्छेदेन न तत्सिद्धमित्याशङ्कामपाकर्तुमाह--तथा चेत्यादिना । सिध्यतीति । विनिगमनाविरहात्समभिव्याहृतवर्णानामपि वाचकत्वं सिध्यतीत्यर्थः । अन्ये तु-विनिगमनाविरहात्प्रत्येकावृत्तेः समुदायावृत्तित्वाच्च समभिव्याहृतवर्णानामेव वाचकत्वम् । न च द्वित्ववत् प्रत्येकावृत्तित्वेऽपि समुदायवृत्तित्वसंभवः, द्वित्वस्यापि प्रत्येकं वृत्तित्वस्वीकारादित्याहुः । 'पेटाकृतस्तु रथाङ्गेषु प्रत्येकं गमनानुकूलशक्तिधिरहेऽपि तत्समुदायरूपे रथे तत्सद्भाव इत्यर्थवत्सूत्रे-'दृष्टो ह्यतदर्थेन गुणेन गुणिनोऽर्थभावः, 'यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकंत व्रजिक्रियां प्रत्यसमर्थानि तत्समुदायश्च रथः समर्थ इति रथाङ्गवदिति भाष्यकारै रभिहितं, तद्वत् प्रकृतेऽपि संभव इति विनिगमनःविरहेण समभिव्याहृतवर्णानामपि वाचकत्वमित्येव युक्तमित्याहुः । समभिव्याहृततावद्वर्णवृत्तिर्वाचकतेत्यभ्युपगमान्न तद्धटकैकैकादिवर्णात् तत्तदर्थबोधपत्तिरिति बोध्यम् । कर्तृभावनेति । कृतः कर्तृवाचकत्वं, तिङो भावनावाचकत्वमिति विभागो न स्यादित्यर्थः । भवन्मते न स्यादिति । शत्रादिरूपे कृति कर्तृवाचकत्वस्यासंभवात् तस्यापि लादेशत्वाविशेषेणवाचकत्वासंभवात्, स्थानिभूतलकारस्य तु भावनामात्रवाचकत्वादिति भावः । निराकाङ्क्षतयेति । 'अर्थांशे' इति शेषः । कर्तरीत्यस्येति । 'कर्तरि कृ'दित्यस्येत्यर्थः । अप्रवृत्तेरिति । आकाङ्क्षितविधानस्यैवोचितत्वादिति भावः ।। 62 ।।
ka:63
इत्यादिसामानाधिकरण्येति । इत्यादौ सामानाधिकरण्यानुरोधात्, अभेदान्वयानुरोधादित्यर्थः । यदि कर्ता शानजर्थो न स्यात् तदा चैत्रः पचमान इत्यादावनन्वयः स्यादभेदस्य बाधितत्वात् । आधाराधेयभावसंबन्धेनान्वयस्य नामार्थयोरिति व्युत्पत्तिविरोधेनासंभवात् । कर्तृवाचकता स्यादिति । अस्य 'तिङा'मित्यादिः । 'पचतितरां मैत्र' इत्यात्रातिशयितविक्लित्त्यनुकूलक्रियानुकूलभावनाया नामार्थत्वेन मैत्रेण सहाभेदान्वयासंभवात् कर्त्राख्यातस्य कर्तृवाचकत्वं स्यात्, तच्च परमतेऽनिष्टमिति भावः । इत्यत्राप्यापत्तेरिति । शानचोऽन्यत्र शक्त्यनिर्णयेन शक्यशम्बन्ध रूपा लक्षणा न संभवतीति न शङ्क्यम् । प्रथमान्तपदासमभिव्याहृताख्यातवदितरासमभिव्याहृतपचमान इति प्रयोगे शानचोऽपि भावनायां शक्तिनिर्णयसंभवात् । अथवा तत्स्थानिनोलकारस्य तत्र लक्षणापत्तिर्बोध्या । न च 'नामार्थयो'रिति व्युत्पत्तौ नामपदं सत्त्वप्रधानपरं, तिङन्तप्रकृतिकतरबाद्यन्तप्रतिपाद्या भावना त्वसत्त्वभूतैवेति न दोषः, किं च 'नामार्थयो'रित्यादिव्युत्पत्तेर्नामजन्यप्रतीतिविशेष्ययोरेवान्वयः स चाभेदेनैवेति शरीरम्, एवं च भवन्मतेऽपि 'पचतितरां देवदत्तः' 'पचतिकल्पं देवदत्त' इत्यत्र कथं देवदत्तस्य विशेषणीभूतेन तिङर्थकर्त्रा सहान्वयः । तव मते व्युत्पत्तेस्तत्र संकोच इति चेन्मयापि सोऽनुस्रियत इति वाच्यम् । नामपदेन प्रातिपदिकमात्रस्य, सुवन्तमात्रस्य वा ग्रहणं, नामजन्यप्रतीतिविशेष्ययोरेवेत्यादिनियमे मानाभावश्चेत्याशयात् । न च तथाविधनियमानभ्युपगमे 'नित्यो घट' इत्यस्य वाक्यस्य घटत्वे नित्यपदार्थान्वयसंभवात् प्रामाण्यापत्तिरिति वाच्यम् । घटत्वस्य पदार्थैकदेशतया 'पदार्थः पदार्थेनान्वेती'त्यादिव्युत्पत्तिविरोधेन तत्र तदन्वयासंभवेनोक्तवाक्यस्य प्रामाण्यापत्तेरभावात् । कर्तुः पदार्थैकदेशत्वाभावेन 'पचतिकल्पं देवदत्त' इत्यादावन्वयोपपत्तिस्त्वक्षतैव । तस्मात् समभिव्याहृतवर्णानामेव वाचकत्वमिति वर्णस्फोटो निष्प्रत्यूहः । ननु तिवाद्यादेशानां वाचकत्वे 'लः कर्मणि--इत्याद्यनुशासनविरोधस्तेन स्थानिनामेव वाचकत्वबोधनादित्याशङ्क्याह--'लः कर्मणो'त्यनुशासनमिति ।। * इति वर्णस्फोटनिरूपणम् *
समभिव्याहृतवर्णानाम्--तत्तत्पदघटकयावतां समभिव्याहृतवर्णानामित्यर्थः । वाचकत्वे सिद्धे इति । तावतां वर्णानां वाचकत्वं विना वक्ष्यमाणस्वरूपपदस्य वाचकत्वं नोपपद्यते, अतः पदस्य वाचकत्वसिद्धिस्तावतां वर्णानां वाचकत्वसिद्ध्यधोनेति भावः । एवं च पूर्वग्रन्थेन सहास्य ग्रन्थस्योपजीव्योपजीवकभावसंगतिः सूचिता । ननु तथापि वाचकता प्रतिवर्णं विश्राम्यतु नाम, नैतावता 'पदं वाचक'मित्यभिमतसिद्धिरित्याशङ्क्याह--प्रतिवर्णमिति । समभिव्याहाररूपेति । समुदायरूपत्यर्थः । नलोपाद्यापत्तेश्चति । सुपः श्रवणं तु नापादितं, समुदायात्मकप्रातिपदिकावयवत्तेवन 'सुपो धात्वि'ति लुक्‌संभवात् । समासग्रहणस्य-'भेदे सति पदार्थयोः परस्परं संसर्गस्तथाविधार्थवत्समुदायस्य चेद्भ वति तर्हि समासस्यैवे'ति नियमार्थतया प्रकृते समुदाये प्रातिपदिकत्वस्य निष्प्रत्यूहत्वात् । प्रतीपोद्योतकृतः-प्रतिवर्णं सख्यार्थकर्पेत्वाभावान्न तद्‌द्योतकविभक्त्युत्पत्तिः । एतादृशस्थले एव संख्योत्पत्तेः । संख्या च समुदायस्यैवार्थो न प्रत्येकवर्णानाम्, 'एकत्वं संधातस्यार्थ'इति 'अइउ'णसूत्रस्थभाष्यस्वरसात् । तथा च तत्र भाष्यं--संघातस्यैकार्थ्यात् सुबभावो वर्णा'दित्यादि । प्रकृत्यंशे वर्णव्यत्ययोपजनयोः सत्त्वेऽपि संख्यान्तरानवगमात् संख्या समुदायस्यैवार्थ इति तदाशयः । न चाव्ययेभ्य इवैकवचनं दुर्वारमिति वाच्यं, संख्याशून्यार्थके एव भाष्यप्रामाण्यात्तथाकल्पनेऽपि न तद्युक्तार्थकेऽनभिधायकस्वाद्युत्पत्तिः कल्पनार्हा, मानाभावात् । गमकसत्त्वे एव तत्कल्पनाच्च । एवं चैषां प्रत्ययोद्‌देश्यत्वरूपं प्रकृतित्वमेव नेति 'न केवले'ति न्यायस्यापि नावतारः । एवं च न नलोपाद्यापत्तिरिति-प्राहुः । एवं चानुभवविरूद्धार्थस्मरणापत्त्या वर्णव्यत्ययोपजनादिसत्त्वेऽपि 'तर्कु' 'रज्जु'रित्यादौ धात्वर्थान्तरानवगत्या गौरवेण च न वर्णानां प्रत्येकमर्थवत्त्वमित्येव ज्यायः । स्पष्टं चेदम् 'अइउण्' सूत्रभाष्ये । एतच्चेति । समभिव्याहारवाचकत्वसमर्थनं चेत्यर्थः । चरमवर्ण एवेति । प्रकृत्यादिघटकचरमर्ण एवेत्यर्थः । प्रथमादिवर्णे तु न शक्तिः, तन्मात्रोच्चारणादर्थप्रत्ययापत्तेः, उत्तरवर्णानुभवजन्यसंस्कारस्य तदानुत्पादेन प्रथमवर्णांनुभवस्योत्तरोत्तरवर्णानुभवजन्यसंस्कारणां सहकारित्वासंभवात् । उत्तरोत्तरवर्णानुभवजनितसंस्कारसहकृतप्रथमादिवर्णानुभवजन्यसंस्करस्य हेतुत्वे तु विनिगमनाविरहेण तावद्वर्णसमुदाये शक्तिसिद्धयापत्तिरिति भावः । व्यासज्यवृत्तित्वे--अनेकवर्णपर्याप्तत्वे । मानाभावादिति । चरमवर्णानुभवोत्तरमेवार्थबोधोदयेन तत्रैव वाचकत्वविश्रान्तिरिति भावः ।
नन्वेवं चरमवर्णमात्रोच्चारणेप्यर्थबोधापत्तिरत आह-पूर्वेपूर्वेति । अत एव नेतरवर्णनैरर्थक्यम् । पूर्वोक्तदोषपराहतत्वादेवैतत्पक्षदूषणस्यैवोद्देश्यतया,--दूषणायैवेत्यर्थः । आनुपूर्व्या एवेति । न तु चरमवर्णमात्रवृत्तितद्व्यक्तित्वादेः । ननु 'घट' इत्यादौ घोत्तरावर्णोत्तरटकारोत्तरावर्णत्वादरूपानुपूर्व्याश्चरमे वर्णे एव वृत्तेर्न तावद्वर्णसमुदायवृत्तित्वमिति कथं पदस्य वाचकत्वरूपभवदभिमतसिद्धिरिति चेन्न । आनुपूर्व्यां पदार्थान्तरत्ववादिमीमांसकमते एतद्दोपासंस्पर्शात् । 'पूर्वोक्तरूपनुपूर्वीं'ति मतेऽपि घाव्यवहितोत्तरावर्णत्वस्यावर्णे, तदव्यवहितपूर्वघत्वादिरूपानुपूर्वायस्तत्पदघटकसकलवर्णेषु विश्रान्तेरक्षतेः । एतासां नानात्वेन गौरवान्न शक्ततावच्छेदकत्वमिति चेन्न, अगत्या स्वीकारात् । 'अव्यवहितोत्तरत्व'संबन्धेन पूर्वपूर्ववर्णसंश्लिष्टोत्तरोत्तरवर्णसमुदायत्वस्यानुपूर्वींरूपत्वाद्वा । अथवा चरमवर्णमात्रविश्रान्तानुपूर्वींविषयिताव्यापकविषयताप्रतियोगित्करूपानुपूर्वींघटकन्वं, तेन संबन्धेनानुपूर्वी वा शक्ततावच्छेदिकेत्यङ्गीक्रियतां, पदभेदेन घटकवर्णानां भेदेऽपि घत्वाद्यवच्छिन्नविषयितात्वेन वर्णविषयितानां तादृशानुपूर्वी विषयिताव्यापकत्वं विवक्षणीयमिति नाव्यापकत्वासंभवादिदोष इत्यलं पल्लवितेन ।
ननु तादृशानुपूर्व्याः सहकारित्वादेवीक्ततिप्रसङ्गवारणेऽलं तस्याः शक्ततावच्छेदकत्वकल्पनेयेत्यत आह--दिगिति । तदर्थस्तु--समुदायस्यार्थवत्त्वाभावेन प्रादिपदिकत्वानापत्तिः, अर्थबोधजनने सहकारित्वमात्रेण समुदायस्य प्रातिपदिकत्वस्‌वीकारेऽपि चरमवर्णमाव्रस्यापि प्रातिपदिकत्वात्ततोऽपि प्रत्ययोत्पत्त्यापत्तिः । एवं चरमवर्णस्यैव वाचक्तेव तदर्थे विभत्तयर्थान्वयो न स्यात्, तस्याप्रकृतित्वात् । समुदायस्य प्रकृतित्वेऽपि प्रकृतार्थस्य तद्वृत्त्यानुपस्थित्या तदर्थत्वाभावात् । किं च--पङ्कजादिपदे समुदाये शक्त्यभावे यौगिकयोगरूढादिविभागोच्छेदापत्तिः, 'पाचक'इति वक्तव्ये 'पाच्' इत्यनन्तर घटिकादिव्यवधानेनाक इत्युच्चारणेऽपि पाककर्त्तेति बोधापत्त्या सर्वत्र समुदायानुपर्व्या एव यत्र सहकारित्वं तत्र यौगिक'मित्यादेर्वक्तुमशक्य्त्वात् । ननु यत्स्वघटप्रकृत्यादिचरमवर्णशक्त्यैवार्थोपस्थापकं तद्यौगिकं,यथा पाचकादिपदं । यत् स्वचरमवर्णशक्त्यैवार्थोपस्थापकं तत् 'केवलरूढं'--यथा-डित्थादिपदं । यत्र स्वघटकप्रकृत्यादिचरमवर्णशक्त्या, स्वीयचरमवर्णशक्त्या च पृथगुपस्थितयोरर्थयोः परस्परमन्वयस्तद्योगरूढं, यथा-पङ्कजादिपदमित्येवं विभागः संभवत्येवेति चेन्न । पाचकादिपदघटकप्रत्ययचरमवर्णे स्वचरमवर्णत्वस्यापि सत्त्वेन निरुक्त्यौगिकत्वस्यासंभवापत्तेः । एवं गोपदे केवलरूढत्वं न स्यात्, तच्चरमवर्णस्य तद्धटकप्रत्ययचरमवर्णाभिन्नतया स्वचरमवर्णशक्त्यैवोपस्थित्यभावादित्यादिर्बोध्यः ।। 64 ।।
ka:65
परिभाषितपदस्येति । तस्यैवेत्यर्थः । अर्थवत्पदत्वेनाभिमतप्रकृतिप्रत्ययव्युदाप्तः । सुबन्तादेरेव प्रयोगेण व्यवहारात्तत्रैव शक्तिग्रहादिति भावः । अन्ये तु-परिभाषितपदस्यापोत्थर्थः इत्याहुः । तादृशपदस्य वाचकत्वेऽन्यथानुपपत्तिमपि प्रमणयति--मूले घटेनेत्यादष्विति । तद्व्याचष्टे-घटेनेत्यादाविति । नेति प्रत्यय इति । अस्ये'ति विभागस्ये'त्यत्रान्वयः । इति विभागस्य ज्ञानासंभवादिति योजना । निर्णयासंभवादित्यर्थः । विशिष्य ज्ञानसंभवादिति । 'वर्णयोरादेश'इति पक्षे-एकाररूप आदेशः पूर्वावयवो वा पसवयवो वेति संशयाडितस्तत्संशयः संभवति । 'सर्वे सर्वपदादेशा' इति पक्षे तु --वस्नसादाविव संप्रमोहाद्विभागज्ञानमेव न संभवतीति भावः । कश्चिदत्र प्रकृतिभागः स्यादिति ज्ञानं संभवत्येवेत्यतो 'विशिष्ये'त्युक्तम् । अयं प्रकृतिभागोऽयं प्रत्ययभागः इति ज्ञानासंभवादित्यर्थः । विभागः संभवतीति । तथा च यथा वैयाकरणानामपि वत्नसादौ विभागज्ञानं न संभवति तथा 'सर्वे सर्वपदादेशाः' इति पक्षे 'रामेणे'त्यादावपीति भावः । अत्र पक्षे टास्थाने नादेशं विदधतो भाष्यकारमतेऽपि वैयाकरणानामपि विभागज्ञानं न सुशकमिति बोध्यम् । एवं सत्यपि 'रामेणे'त्यतो रामाभिन्नः कर्तेत्यादिरूपबोधान्यथानुपपत्त्या सुवन्ताद्यात्मकपदस्य वाचकत्वमास्थेयमिति भावः । यत्र प्रकृत्यादिविभागकल्पना न संभवति तस्यैव पदस्य वाचकत्वं, यत्र तु तथा कल्पनासंभवस्तत्र प्रकृतिप्रत्ययोरेव वाचकत्वमित्याहुः । भाष्यत्त्वविदस्तु-एतादृशस्थले पदस्य वाचकत्वे क्लृप्ते सर्वत्रैव पदस्य वाचकत्वमन्यथार्धजरतीयतापत्तेर्व्यावहारात्तत्रैव शक्तिग्रहाच्चेत्याहुः । एवं वाक्यस्फोटेऽपि मतद्वयं बोध्यम् ।। 65 ।।
ka:66
तदाह = वाचकत्वमाहेत्यर्थः । पदयोरेङ इति । वर्णयोरादेशपक्षे पदावयववर्णयोरित्यर्थः । 'सर्वे सर्वपदादेशाः' इति पक्षे तु यथाश्रुतमेव साधु । तद्विभागः = पूर्वपदोत्तरपदविभागः । हरेवेत्यादावित्यादिपदाद्--'विष्णोऽव' 'कृष्णेवे'त्यादिसंग्रहः । आदेशेनापहारो न प्रकृतिप्रत्ययभागयोर्यथा--'लिहं लिहौ लिह' इत्यादौ । तत्रापि समुदायशक्तिरश्याभ्युपेयेत्याह--एवं प्रकृतीति । मूले--वाक्यफोटमिति । वाक्यं = वाचकमित्यर्थः । ननु यत्र विभागज्ञानं न संभवति तस्य वाक्यस्य वाचकत्वसिद्धावपि न सर्ववाक्येषु तत्सिद्धिरत आह-वस्तुत इत्यादिनाः पदैः=घटादिप्रातिपदिकैः, सुबन्तैर्वा--यथा घटादिरूपोर्थो बोध्यते, तथा 'घटोऽस्ती'त्यादिवाक्यैर्वाक्यार्थः प्रत्याय्यते, परं तु प्राप्ताप्राप्तविवेकेन संसर्गे सा शक्तिः पर्यवस्यतीति बोध्यम् ।
पेटिकाकृतस्तु-विभक्त्यैव क्रियाकारकभावसंबन्धस्याभिहिततया तदशे वाक्यशक्तेरसंभवेऽपि विशेष्यविशेषणभावे वाक्यशक्तिः । विभक्तिप्रकृत्यर्थगतविशेषणत्वस्य विभक्तिशक्यत्वेऽपि विषेष्यनिष्ठमितरपदार्थविशेषणताप्रतियोगिकं विशेष्यत्वं तच्छक्यं बोध्यं, विषयताया अपि शाब्दबोधे भानमावश्यकमिति 'अर्थवत्--'सूत्रे भाष्ये स्पष्टम् । तथा प्रातिपदिकार्थसूत्रे ',षष्ठी शेषे' इति सूत्रे च भाष्ये । तत्र हि--'वीरः पुरुष' इत्यादौ 'विशेषणविशेष्यभावरूपं यदाधिक्यं स वाक्यार्थ' इत्युक्तम् । 'आधिक्य'मित्यत्र स्वार्थे ष्यञिति प्राहुः । वाक्ये शक्त्यकल्पने बाधकमाह--अन्यथेति । तादृशव्युत्पत्तीति । 'घटः कर्मत्व'मित्यादिवाक्यं घटकर्मकानयनबोधजनकमिति ज्ञानरहितस्येत्यर्थः । बोधप्रसङ्ग इति । घटकर्मकमानयनमिति बोधप्रसङ्गः । 'घटादिपदशक्तिग्रहवत' इति शेषः । तथा च 'घटमानये'त्यत्रेवात्रापि पदार्थोपस्थत्यादिघटितसामग्रीसत्त्वात् तथाबिधबोधप्रसङ्ग इत्यर्थः । तादृशव्युत्पत्तिमतो बोध इष्ट एवेति तादृशव्युत्पत्तिराहित्यानुसरणम् । ननु 'घटः कमत्व'मित्यादिवाक्यं स्वरूपायोग्यमेवेति न ततो बोधापत्तिः,घटेऽव्यवहितपूर्ववर्तित्वसंबन्धेनाम्‌पदमत्त्वस्याम्पदेऽव्यवहितोत्तरवर्तित्वसंबन्धेन घटादिपदवत्त्वस्याऽकारे 'आनय्'पदवत्त्वस्यानयूपदेऽकारवत्त्वस्य वाकाङ्क्षात्वाद्--'घटः कर्मत्वं'मित्यादौ च तादृशाकाङ्क्षाभावात् । घटपदे कर्मत्वपदवत्त्वादेराकाङ्क्षात्वाभावात्, शाब्दबोधजनकसमभिव्याहारस्यैवाकाङ्क्षात्वादित्यत आह--घटमानयेत्यत्रेवेति । आत्रापि 'तादृशव्युत्पत्तिरहितस्ये'त्यनुपज्यते । बोधाभावाच्चेति । वाक्यशक्त्यनङ्गीकारे तु तज्ज्ञानेतरसकलकारणकलापसत्त्वाच्छाब्दबोधापत्तिरित्यर्थः । तत्रैव = घटमानयेत्यत्रैव । 'इति ज्ञानवतो बोधा'दिति योजना । घटार्थकप्रातिपदिकेति । तेन कलशादिपदसंग्रहः । कर्मत्ववाचकेति । एतत्तु स्पष्टार्थम् । घटादिपदोत्तराम्पदस्य कर्मत्ववाचकत्वाव्यभिचारात् । क्कचित् 'कर्मत्ववाचकविभक्ते'रित्येव पाठः । कर्मत्ववाचकविभक्तित्वेनौशसोः संग्रहः । तथा च घटकलशादिपदभेदेनाऽमादिवचनभेदेन च न कार्यकारणभावबाहुल्यमिति भावः । 'धातो'रित्यनन्तरं विकारणस्येति क्कचिद्‌बोध्यम् । परन्तु विकरणस्य सर्वत्र न निवेशः, 'ओदनं पपाचे'त्यादौ तदसत्त्वात् । यद्यप्यानयेत्यादावाख्यातस्यापि न श्रूयमाणत्वम्, अनुसंधानं चोभयत्र समानमेव, तथाप्याख्यातस्यार्थोपस्थित्यर्थमनुसंधानमावश्यकं, विकरणस्य त्वनर्थकतया तदनावश्यकमित्यशयेन धातोरित्यनन्तरं विकरणस्येति नाभिहितम् । अथवा विकरणस्य निरर्थकत्वरूपमप्राधान्यं सूचयितुं विकरणानभिधानम् । तज्ज्ञानमपीति । तथाविधकार्यकारणबावज्ञानमपि । हेतुरिति । तथा चान्वयव्यतिरेकाभ्यामेतादृशाकाङ्क्षाज्ञानहेतुत्वेनैवोपपत्तौ वाक्ये शक्तिसद्भावे मानाभाव इति भावः । सिद्धो वाक्यस्फोट इति । वाक्यस्य वाचकता सिद्धेत्यर्थः । विशिष्टवाक्यार्थबोधे = वाक्यार्थविशेषबोधे । 'घटकर्मकमानयन'मित्याद्याकारकबोधे इति यावत् । पदसमभिव्याहारेति । उक्तपूर्वापरीभावापन्नपदसमुदायरूपं च तद्वाक्यं चेत्यर्थः । इदं च 'घटमानये'ति वाक्यादेव बोध इत्यभिप्रेत्य । यदि तु 'आनय-घट'मिति विपर्यस्तादपि वाक्यात्तथाविधबोधोऽनुभवसिद्धः, अत एव समर्थसूत्रे भाष्ये उक्तम्--'यथेष्टमन्यतरेणाबिसंबन्धो भवति वाक्ये--राज्ञः पुरुषः, पुरुषो राज्ञ इती'त्युच्यते--तदोक्तसमभिव्याहारमिव विपरीततिङन्तसमभिव्याहारमादाय तन्निष्ठप्रकृतवाक्यार्थबोधकत्वग्रहस्यापि तथाविधबोधे कारणत्वं बोध्यम् । ननु तादृशकार्यकारणभावज्ञानमब्युपगन्तव्यमन्यथा घटविषयकवृत्तिज्ञानात् पटादिविषयकबोधापत्तिः । एवं विषयभेदेन कार्यकारणभावभेदावश्यकत्वे हेतुत्वकल्पनेऽपि वाक्ये शक्तिः कथं सिद्धेत्य आह--अर्थोपस्थापकेति । अर्थोपस्थापकं-यज्ज्ञानं तद्विषये यः शब्दस्तद्वृति यज्ज्ञाननिरूपितकारणत्वं तस्येत्यर्थः । 'घटमानये'तिवाक्यनिष्ठघटकर्मकानयनरूपवाक्यार्थज्ञानकारणत्वज्ञानस्य शक्तित्ववारणाया'र्थोपस्थापके'ति । प्रकृतार्थोपस्थापकेत्यर्थः । तेन न तत्तद्दोषतावस्थ्यम् । तथा च परमते या आकाङ्क्षा सैवास्माकं वाक्यशक्तिरिति नाधिक्यमिति भावः । ननु तद्विषयकशाब्दबोधे तद्विषयकवृत्तिज्ञानस्य हेतुत्वे प्रयोजनाभावेन संबन्धरूपविषयं निवेश्य कार्यकारणभावकल्पनात्तदशे शक्त्यनभ्युपगमेऽपि तद्‌बोधोपपत्तिसंभव इत्याशङ्क्याह--युक्तं चैतदित्यादिना । विषयतासंबन्धेनेति । तथा च न विषयेदेन कार्यकारणभाववाहुल्यमिति संबन्धांशे शक्त्यनभ्युपगमे तद्‌बोधानिर्वाहान्न शक्तिस्वीकार आवश्यक इति भावः । ननु 'घटमानय' 'पटमानये'त्यादिसमभिव्याहारानन्त्याच्छक्त्यानन्त्यं स्यादति चेत्, तवापि मते तत्तत्समभिव्याहारभेदेन कार्यकारणभावानन्त्यं स्यादिति गौरवस्य तुल्यत्वात् । यदि घटप्रकारशाब्दबोधवावच्छिन्नं प्रति घटार्थकपदोत्तरविभक्त्यादिजन्योपस्थितिर्हेतुः, कार्यताकारणतयोरवच्छेदकः संबन्धो विशेष्यता, एवे विशेष्यतासम्बन्धेन कर्मत्वप्रकारशाब्दत्वावच्छिन्नं प्रति कर्मत्वार्थकविभक्तिप्राग्वर्तिपदजन्योपस्थितिर्विशेष्यतासंबन्धेन हेतुः । इदं च कर्मत्वस्य द्वितीयाद्यर्थस्य प्रकृत्यर्थे विशेषणत्वाभ्युपगमे । विशेष्यत्वाभ्युपगमे तु प्रकारतासंबन्धेन कर्मत्वविशेष्यकशाब्दे सामान्यत एव कार्यकारणभावः सर्वत्राभ्युपेयते,--तदा वाक्यशक्तिस्वीकारे तदानन्त्यापत्तिरतिरिच्यते इति चेत्तदा ममापि मते 'घटमानय' 'पटमानये'त्यादिसकलवाक्यनिष्ठैकैव शक्तिरभ्युपेयते । वाक्यार्र्थविषयिण्यास्तु निरूपितत्वादेः कर्मत्वादिसंबन्धस्यैक्यात् । 'घटमानये'त्यत्र पटस्य पदादुपस्थित्यभावादेव न पटकर्मकबोधापत्तिः । वस्तुतस्तु घटप्रकारकशाब्दबोधे घटपदोत्तराम्पदजन्योपस्थितिर्हेतुरिति विशिष्यैव तत्तपदमन्तर्भाव्य हेतुहेतुमद्भावकल्पनमावश्यकम् । अन्यथा निराकाङ्क्षघटपदाद् घटोपस्थितौ कलशपदेऽगृहीतशक्तिकपुंसः 'कलशमानये'ति वाक्याद्‌बोधापत्तेरिति बोध्यम् । एतत्सूवनायैव भूषणे--'यदि घटप्रकारके'त्यत्र 'यदी'त्युक्तम् । तत्तत्पदमन्तर्भाव्य तदुक्तौ तु नोक्तापत्तिः । तत्पदघटिताकाङ्क्षाज्ञानसहकृततत्तत्पदजन्योपस्थितेरेव सामग्रीमध्ये निवेशात् ।
ननु तथापि वाक्यनिष्ठबोधकतायाः शक्तित्वे किं मानमिति चेच्छाब्दबोधे संबन्धभानान्यथानुपपत्तिरिति गृहाण । शाब्दबोधीयविषयताया वृत्त्या पदजन्योपस्तितिविषयतत्वात् विषयतासंबन्धेन शाब्दबोधपदार्थोपस्थित्योर्विषयमनिवेश्य सामान्यत एव हेतुहेतुमद्भावकल्पनात् । तत्पुरुषीयत्वं त्ववच्छेदककोटो निवेश्यम् । अन्यथा पुरुषान्तरस्योपस्थितिसत्त्वे तच्छून्यस्यापि पुरुषस्य शाब्दबोधप्रसङ्गः । विषयं निवेश्यात्मनिष्ठप्रत्यासत्त्या तयोहतुहेतुमद्भावकल्पनायां पुरुषापेक्ष्या विषयाणामधिक्यादधिककार्यकारणभावापत्तिरन्यथागृहीतशक्तिकघटादिपदाच्चक्षुराद्युपस्थितघटादेरपि शाब्दबोधापत्तिः । ननु सांसर्गिकविषयतातिरिक्तविषयतासंबन्धेनैव कार्यकारणबावऊरीक्रियतेऽतो न संबन्धे शक्तिस्वीकारावश्यकतेति चेदत्राहुः,--ज्ञानरूपाया विषयताया विशेष्यादित्रयसाधारण्या एक्यात्तथा निवेशनासंभवात् । अतिरिक्तविषयतापक्षेपि तस्या एक्येनैवोपपत्तौ तत्त्रैविध्यानभ्युपगमात् विषयस्वरूपा विषयतेति पक्षे त्रैविध्यसंभवेपि सांसर्गिकविषयताभेदनिवेशे गौरवादित्यादिकं भूषणतोऽनुसंधेयम् । तदेतदभिप्रेत्याह--विवेचितं चैतद् भूषणे इति ।
परे त्वन्वयांशे वाक्यशक्त्यनङ्गीकारे 'तं शाब्दयामी त्यनुव्यवसायानुदयापत्तिः, शब्दसंबद्धबोधस्यैव तथानुव्यवसायविषयत्वात् । शब्दप्रयोज्यत्वस्यैव तथाविधानुव्यवसायनियामकत्वे धूमपदोपस्थितधूमलिङ्गिकाया वह्न्यनुमितेरपि शब्दप्रयोज्यतया तादृशानुव्यसायापत्तिः । ननु शाब्दत्वजातिरेव तथाविधानुव्यवसायहेतुः, सा च जातिराकाङ्क्षाज्ञानदिघटितसामग्रीजन्यशाब्दबोध एव, न त्वनुमिताविति नोक्तापत्तिरिति चेत्, तथापी'मे वाक्ये परस्परं संबद्धे'इति व्यवहारो विलीयेत, शब्दानामर्थद्वारकसंबन्धस्यैवाङ्गीकारेण वाक्यस्योस्तद्विरहात् । न च प्रयोजनरूपबोधविषयद्वारको वाक्ययोरपि संबन्धः संभवत्येवेति वाच्यम्, ईदृशसंबन्धस्य संबद्धव्यवहारनियामकत्वाभावात् । अन्यथा जन्यजनकभावादिसंबन्धासत्त्वे माथुरपाटलिपुत्रक्योरपि संयुक्तसंयोगादिरूपपरम्परासंबन्धस्य, स्वनिष्ठद्रव्यत्वादिमत्त्वस्य च सत्त्वेने'मौ संबद्ध'विति व्यवहारापत्तेरित्पलमिति प्राहुरित्यलं पल्लवितेन ।
इदं तु बोध्यम्--बहुषु स्थलेषु पदस्फोटवाक्यस्फोटयोर्व्यवस्थितत्वेपि यत्र वाक्यस्यैव शास्त्रेण संस्कारस्तत्र वाक्यादेवार्थबोधो, न पदात्, यथा 'षट्त्सन्त' इत्यादौ । अत एव 'डः सि धुट्' इति सूत्रे भाष्ये धुडादयः पूर्वान्ता एव किं न कृता इत्याशङ्का ष्टुत्वापादनेन समाहिता । अन्यथा शक्ततावच्छेदकानुपूर्वीभेदापत्त्या 'सन्त' इत्यतः स्वार्थबोधानुपपत्तिः स्यादिति परादित्वस्यावश्यकत्वेन स विचारोऽसंगतिमापद्येतेति वदन्ति । सर्वत्र क्षूयमाणानुपूर्व्येव शक्ततावच्छेदिका, न तु स्मर्यमाणानुपूर्वी, श्रूयमाणादेव बोधानुभवात्, स्थान्यादेशभावप्रहविधुराणां तत्स्मरणासंभवाच्च । एतेन 'षट्त्सन्त' इत्यत्रागमरहितानुपूर्व्येव तत्तदर्थशक्ततावच्छेदिका, अत एव 'सन्तः पूज्या' इत्यादिवाक्यघटक--'सन्त' इत्यतः स्वार्थोपस्थित्यादिकं भवत्यतो न भाष्यस्थविचारासंगतिरिति दूषणं निरस्तम् । एवमेव 'घटेने'त्यादौ टानुसन्धानपूर्वक एव शाब्दबोधः । तस्यैव 'मत्या' 'गोदुहे'त्यनुरोधेन कल्पनात् । एवं च स्थानिनः क्कचिदपि न श्रूयमाणता, यथा लकारादेस्तस्यैव न वाचकत्वमित्यपि निरसनीयम् । स्थान्यादेशभावज्ञानविधुरस्य श्रूयमाणादेव बोधोदयेन तस्य वाचकत्वावश्यकत्वादिति दिक् । अपूर्वत्वात् = सर्वत्र शाब्दबोधात् प्रागज्ञानात् । तेन क्कचिदिन्द्रियेण तज्ज्ञानसंभवेऽपि नासंगतिः । तद्‌ग्रहासंभवः = अन्वये पदशक्तिग्रहासंभवः । वादाभ्युपगम इति । अज्ञातशक्तेरनुपयोग इत्यतो'ऽभ्युपगम' इत्यक्तम् । तथा चात्र पक्षेऽनिर्भरः सूचितः । अत एव पक्षान्तरं मूले उक्तम् । तदवतारयति-नन्वित्यादिना । पदार्थवदिति--सप्तम्यन्ताद्वतिरूपमेयवाक्यार्थे इति सप्तमीदर्शनात् । वाक्यार्थेपि = अन्वयेऽपि । तद्‌ग्रहः = पदशक्तिग्रहः । 'पदेऽर्थेऽप्य'स्त्वित्यत्र वाक्यार्थपदोत्तरवर्तिनापिशब्देन पदार्थसमुच्चयेऽसंगत्यापत्तिः, पदार्थे शक्तिग्रहस्याप्रतिक्षेपादत आह--अपिः पदपदोत्तरमिति । तदग्रहश्चेदिति । वाक्यार्थे शक्तिग्रहश्चेदित्यर्थः । एतावता ग्रन्थेन पूर्वं पदार्थे शक्तिग्रहस्तत्प्रयुक्तपदार्थोपस्थितौ सत्यां पश्चान्मनसोपस्थितसंबन्धे शक्तिग्रह इत्युक्तम् । अधुना तु व्यवहारदर्शनसहकृतमनसा वाक्यार्थे एव शक्तिग्रहः, पश्चादेवावापोद्वापाभ्यां तत्तत्पदस्य तत्तदर्थे शक्तिग्रह इत्याह--वस्तुस्त्विति । अत्रापि 'वृद्धव्यवहारं पश्यत' इत्यनुषञ्जनायम् । तेन कोशादितो वाक्यशक्तिग्रहात् पूर्वं पदशक्तिग्रहेऽपि न क्षतिः । क्कचिदुपदेशेन वाक्ये विशिष्टवाक्यार्थनिरूपितशक्तिग्रहः पूर्वं भवति पश्चात्तद्‌घटकपदशक्तिग्रहः । एतादृशस्थले, 'षट-सन्त' इत्यादौ च पदार्थज्ञानपूर्वक एव वाक्यार्थबोध इत्यस्य भङ्ग इत्याहुः । क्कचित् पदेभ्यः पदार्थानामुपस्थितौ सत्यामाकाङ्क्षासाचिव्याद्धाक्यार्थोपस्थितां तदैव शक्तिग्रहो बोधश्च, मूलभूतवाक्यार्थोपस्थितौ वृत्तिजन्यत्वाभावाच्छाब्दबोधादरः । न च पदानामेवान्वितस्वार्थे शक्तयैवोपपत्तौ वाक्ये शक्तिकल्पनं व्यर्थमिति वाच्यम्, अन्वये शक्तिस्वीकारेऽप्यन्वयविशेषबोधनिर्वाहाय समभिव्याहारे तद्‌बोधकारणत्वमभ्युपेयम् । तथा कारणत्वाग्रहवतो बोधवारणाय तद्‌ग्रहस्यापि हेतुत्वमुपेयमिति वाक्यशक्तेर्निष्प्रत्यूहत्वात्, पदानामन्वये शक्तिकल्पनायां गौरवापत्तेश्वेत्याद्यन्यत्र विस्तरः ।
नन्वेवं पदार्थवद्वाक्यार्थस्य स्मृतिरेव स्यान्न त्वनुभव इति चेदत्राहुः--वाक्यार्थबोधस्यानुभवरूपत्वाभावात् स्वर्गादिकं श्रृण्वतोऽपि 'स्वर्गादिकमनुभवामी'त्यप्रतीतेः, किं तु शाब्दत्वं ज्ञानत्वव्याप्यो जातिविशेष इति ।। 66 ।।
उक्तपक्षद्वयम् = पदं वाचकं, वाक्यं वाचकमिति पक्षद्वयम् । अनुपपत्तिं स्पष्टयति--उत्पत्तेरिति । वर्णानां जन्यत्वमते--उत्पत्तेरिति, नित्यत्वमते त्वभिव्याक्तेरिति । सर्वदासंभवेनेति । यद्येकदोत्पत्तिः स्यात्तदा युगपदुत्पन्नरूपरसादीनामिव प्रत्यक्षं स्यात् । एवमभिव्याक्तिर्नानावर्णानां युगपद्भवेत्तदा पदप्रत्यक्षवाक्यप्रत्यक्षोपपत्तिर्भवेत्, न चैकदा तत्संभवः, अभिव्यञ्जक तत्तत्स्थानानुयोगिकवायुसंयोगादेः क्रमिकत्वेन आशुतरविनाशिनां क्रमिकाणां मेलनासंभवात् तावद्वर्णसमूहरूपपदवाक्यप्रत्यक्षानुपपत्तिरिति समुदितार्थः । तस्मिन् = उत्तरवर्णे । उपस्थितेति । स्मृतेत्यर्थः । पूर्ववर्णवत्त्वमिति । अस्य 'सुग्रह'मित्यनेनान्वयः । उपस्थितविशिष्टेति । उपस्थितो यः प्रथमवर्णविशिष्टो द्वितीयो वर्ण इत्यर्थः । एवं चतुर्थादिवर्णप्रत्यक्षसमये उपस्थितप्रथमवर्णविशिष्टद्वितीयविशिष्टतृतीयवैशिष्ट्यं सुग्रहमिति रीत्या चरमवर्णप्रत्यक्षं पदवाक्यघटकयावद्वर्णविषयकं संपद्यते इति न पदार्थबोधवाक्यार्थबोधयोरनुपपत्तिरिति प्रघट्टकार्थः । पदत्वस्येवेति । वाक्यशक्त्यनभ्युपगमेपि पदस्य वाचकत्वमभ्युपगम्यत एव, तन्निर्वाहोपयोगिपदत्वप्रकारकप्रत्यक्षोपपत्तिरुक्तरीत्‌यैवाभ्युपेतव्या । एवं न वाक्यशक्त्यभ्युपगमपक्षे वाक्यत्वप्रकारकं प्रत्यक्षमपि तयैव रीत्योपपद्यत इत्यर्थः । एकस्मृत्युपारूढानां वर्णानामर्थबोधकत्वे संभवतीयं गुरुभूतरीतिर्नोपस्येति न शङ्क्यम्, आनुपूर्वीज्ञानाभावेनार्थबोधानुपपत्तेरनुभवक्रमेणैव स्मरणमिति नियमाभावेन 'सरो रस' इत्यादवविलक्षणबोधापत्तेश्च ।। 67 ।।
इदानीम् = सखण्डपदस्फोटनिरूपणानन्तरसमये । तथा च प्रसङ्गोऽवसरो वासङ्गतिरिति सूचितम् । अखण्डपक्षमाहेति । 'लाघवा'दिति शेषः । ननु 'वर्णेष्ववयवा न चे'ति प्रकृतानुपयुक्तमित्याशङ्कां परिहर्त्तुमाह--दृष्टान्तेति । दृष्टान्तमिषेणेत्यर्थः । प्रतीयमाना अपि यथानेति । सा प्रतीतिस्तु तत्तदुच्चारणविशेषव्यङ्ग्यतत्तद्वर्णसमानाकारध्वनिविशेषोरागौपाधिकीब्रान्तिरेवातो नार्थसाधिका, एकारादाववयवकल्पने गौरवापत्तेः । क्वचिदिवेत्येवेति । 'वर्णेष्ववयवा' इति पाठ इत्यर्थः । अस्मिन् पाठे दृष्टान्तता स्फुटैव । 'प्रविवेक'पदार्तमाह--भेद इति । 'विचिर् पृथग्भावे' इति धात्वर्थानुसारात्--प्रविवेकपदं भेदार्थकमिति भावः । ककारादिप्रततीतिवैलक्षण्यान्यथानुपपत्तिरेव मानमित्याशङ्कामपाकरोति--तत्तद्वर्णोत्पादेति । तत्तद्वर्णोत्पादकत्वेनामितो यो वायुसंयोगस्तन्निष्ठमित्यर्थः । जनकताया इति । जनकतानिरूपितं व्यज्जकतानिरूपितं वा यदवच्छेदकत्वं तद्वदित्यर्थः । प्रतीतिवैलक्षण्येति । वायुसंयोगगतं यत् कत्वादि तेन रूपेण स्फोटो विभासत इति 'ककारः' 'खकार' इत्यादिविलक्षणप्रतीतिनिर्वाह इत्यर्थः । बामत्याम् = वाचस्पतिग्रन्थे । वर्णेष्वारोप्यत इति । अत एव 'तारो' 'मन्द' इति एकव्रणविषयप्रतीतिव्यवहारयोरुपपत्तिः, अन्यथा विरुद्धधर्मद्वयस्यैकत्रानुत्पत्त्या तत्तद्वर्णभेदापत्तेः । एकस्मिन्नपि वर्णे किंचिदपेक्षया तारः, किंचिदपेक्षया मन्द इति व्यवहारस्तु सकलजनसिद्ध एव । आरोपाभ्युपगमे तु नायं दोषः । अनारोपितस्यैव विरुद्धधर्मद्वयसंबन्धस्याश्रयभेदप्रयोजकत्वात् । प्रत्यक्षोपलभ्यमानेति । प्रत्यक्षेणोपलभ्यमानो यः ककारादिः कत्वादिविशिष्टः, कत्वादिप्रकारकप्रत्यक्षविषयस्येत्यर्थः । एवं 'श्रृणोमी'त्यनुभवानुरोधेन च स्फोट आवश्यकः । संयोगस्य श्रवणेन्द्रियग्राहत्वाभावात् । तदवेदमिति । इत्यादित्रयस्य प्रतीत्ये'त्यत्रान्वयः । 'तदेवेदं पद'मित्याद्याकारकप्रतीत्येत्यर्थः । न च व्यक्तभेदेऽपि 'तदेवेदमौपधं' 'तदेवेदं नखं' 'त एवेने केशा' इत्यादिप्रतीतिवत् साजात्यावलम्बनोक्तप्रतीतिरिति वाच्यम् । 'तज्जातीयमिदं पद'मित्यादि व्यवहारस्याप्यापत्तेः । न चेष्टापत्तिः 'तदेवेदं पद'मित्यादिव्यवहारस्यैवेष्टत्वात् । एवमेकं वाक्यमिति बुद्धिरपि तत्साधिका बोध्या । न चैकसमुदायविषयत्वात् सेनावनादिवदेको धान्यराशिरितिवच्चोपपत्तिरिति वाच्यम्, वनराश्यादेरप्यतिरिक्तस्याङ्गीकारात् । अपि चैकदेशस्थत्वादिरूपोपाधेरेकत्वेनैको धान्यराशिरित्यादिप्रतीतेस्तादृगुपाधिविषयत्वेनोपपत्तावपि प्रकृते चोपाध्यसंभवेन तदसंभवात् ।
नचैकार्थमुख्यविशेष्यकबोधहेतुत्वं तथा, व्याससमाससमुदायेऽतिप्रसङ्गात् । चार्थे किंचित्पादर्थविशिष्टत्वं निवेश्यम्. समासेऽव्याप्तेः । 'घट' इति प्रकृत्यंशेऽतिव्याप्तेश्च । एकार्थबोधहेतुत्वेनैकत्वसिद्धावेकत्वेनैकार्थबोधहेतुत्वसिद्धिरित्यन्योन्याश्रयापत्तेश्च । अर्थबोधाभावेऽपि अप्रसिद्धार्थकपदश्रवणे 'एकं पद'मिति प्रतीतेश्च । न चैकबुद्धिविषयत्वालम्बनैककर्तृकं पदमित्यादिप्रतीतिरिति वाच्यम्, अनेककर्तृकोच्चारणविषयेऽपीदमेकं घटपदमिति प्रत्ययस्येष्ठस्यानुपपत्तेः । न च तत्रैकबुद्धिविषयत्वाभावात् तत्र नेष्यत एवेति वाच्यम्, तस्यै'क एवेन्द्रशब्दोऽनेकक्रतुष्वाविर्भवती'त्यादिसरूपसूत्रभाष्यसिद्धत्वात् । न चैकजातीयबुद्धिविषयत्वं तत्र निमित्तमिति वाच्यम्, पदादिरूपविषयैक्याधीनं बुद्धीनामेकजातीयत्वमेकजातीयबुद्धिविषयत्वनिबन्धनं च विषयैक्तमित्यन्योन्याश्रयात् । न चैकजातीयत्वमेकाकारत्वं, तच्च विषयैक्यं विनाप्युपपन्नमिति नान्योन्याश्रय इति चेत्, पटादिरूपावयविनोऽप्यतिरिक्तस्य सिद्धयनापत्तेः । 'एकः पट'इति व्यवहारस्याप्येकबुद्धिविषयत्वन्तु समूहेनैवोपपत्तेर्यदि तत्रैकबुद्धिविषयत्वस्याग्रहेष्येक इति व्यवहारात्स व्यवहारोऽतिरिक्तावयविसाधक इत्युपेयते तर्हि प्रकृते स न पाणिपिहितः । न चैक इन्द्रशब्द इत्यस्यैकजातीय इन्द्रशब्द इत्यर्थ इति वाच्यम्, अनेकशब्दकल्पनापेक्षा तदेकत्वस्यैवोचितत्वात् । एकजातीयत्वालम्बनायाः पञ्चादिघटेष्वपि 'एको घट' इति प्रतीतेरापत्तेश्च । एकजातीयइन्द्रशन्द्र इत्यव्यवहाराच्चेति कृतं पल्लवितेन । वर्णानामेवेति । तावद्वर्णविषयकप्रत्यक्षं तु प्रागुपपादितमेवेति भावः । तेषां = वर्णानां । स्फोटातिरिक्तत्वाभावादिति । व्यज्जकवायुसंयोगगतगत्वादिना स्फोटस्यैव भानादिति भावः । वर्णानां प्रत्येकं वाचकत्वं ? तत्समुदायस्य वेति विकल्प्य नाद्य इत्याह--वर्णानां प्रत्येकमिति । नान्त्य इत्याह--समुदायस्यत्विति । एतस्य ज्ञानमित्यनेनान्वयः । आशुतरोत्पन्नानामिति । 'वर्णाना'मित्नुषज्यते तस्य च समुदायस्येत्यन्वयः । 'आशुतरोत्पन्नाना'मिति आशुतरविनाशिनामित्यस्याप्युपक्षणम् । एतेनाशुतरोत्पन्नानामपि क्रमवतां चिरस्थायिनां पदार्थानां ज्ञानं संभवत्येवेत्य'संभव्येवे'त्युक्तिरसंगतेत्यपास्तम् । तथैव = क्रमेणैव । तथा च वर्णानां जन्यत्वपक्षे तत्समुदायस्यैवासंभवात्तज्ज्ञानासंभवः । नित्यत्वपक्षे समुदायसंभवेऽपि तज्ज्ञानासंभव इति भावः । संस्कारेणेति । एतत्सहकारः क्षोत्रेन्द्रिये चरणवर्णानुभवे वा बोध्यः । तथा च चरमवर्णविषयकानुभवस्तथाविधसंस्कारवशात्तज्जन्यस्मृतिवशाद्वा तावद्वर्णविषयकः । तथाविधसंस्कारसहकृतचरमवर्णानुभवेन स्वजन्यसंस्कारद्वारा तावद्वर्णविषयकं समूहालम्बनस्य समनियतविषयताकत्वात् । न च येन क्रमेणानुभवे विषयभानं तेनैव क्रमेण स्मरणेऽपीति नाविशेष इति वाच्यम्, तादृशनियमासिद्धेः, येन क्रमेणानुभवस्तद्विपरीतक्रमेणापि स्मरणस्यानुभवसिद्धत्वात् । न च वर्णानुभवस्मरणयोरेव तथा नियम इति वाच्यम्, मानाभावात् । 'सरो रस' इत्यादावर्थबोधवैलक्षण्यानुरोधात्तथा कल्प्यत इति चेन्न, अतिरिक्तस्फोटकल्पनयापि तदुपपत्तेः । त्रिचतुरादिपदाद्यनुभवे तद्विपरीतक्रमेण स्मरणानुभवाच्च । विकल्पेति । यदि प्रत्येकं व्यञ्जकत्वं तर्हि प्रथमवर्णेनैव व्यञ्जनसंभवे इतरवर्णवैयर्त्यम्, समुदितानां व्यञ्जकत्वं त्वसंभवि, चरमवर्णस्य व्यञ्जकत्वेपि तदितरवर्णवैयर्थ्यम् । पूर्वपूर्ववर्णानुभवजसंस्कारसहितचरमवर्णानुभवस्य व्यञ्दकत्वे तस्यैवार्थप्रत्याकत्वमस्त्वलमतिरिक्तस्फोटाङ्गीकारेणेति भावः ।
परे तु--उक्तरीत्या पदशानसंभवोपपादनं न युक्तम्, 'अयं पूर्वोऽयं पर' इत्यभिलापासंभवात्, तादृशाबिलापाभावे--'इको यणची'त्यादिशास्त्राणामसंगत्यापत्त्येष्टापत्तेरयोगात् । मन्मते तु नानारञ्जनसाधनद्रव्याहितनानावर्णोपरागेण पटादेर्भानवदुच्चारितवर्णक्रमेणैव तत्तद्वर्णगतकत्वादिना स्फोटाभिव्यक्तिस्तत्रैव बुद्धिविषये पौर्‌वापर्यव्यवहारसंभवः । अत एव 'सरो रस' इत्यत्र विलक्षण-विलक्षणार्थबोधोपपतिः । नष्टविद्यमानयोरव्यवहितोत्तरत्वसंबन्धस्य कालिकसंबन्धवद्वक्तुमशक्त्यत्वाच्च । एतेन नष्टविद्यमानपुरुषयोरयं पूर्वोऽयं पर इति व्यवहारवदन्नापि पौर्वकालिकत्वादिनिबन्धनः स व्यवहार उपपद्यत इति परास्तम् । तथापि तयोः संबन्धानुपपत्तेर्जागरूकत्वात्, वक्तुमशक्य्त्वाच्च कालिकसंबन्धवत् । एवं पदप्रत्योक्षोपपादनेऽपि तत्र वृत्त्याश्रयत्वज्ञानासंभवाच्चच पदस्याविद्यमानत्वात्, अविद्यमानेऽप्याश्रयत्वोपगमे'ऽतीतघटो जलवा'मिति प्रत्ययापत्तिः, अबाधितार्थकतया तज्ज्ञानस्य प्रमात्वात् । नन्विदानीमतीते वृत्त्याश्रयत्वाभावेपि पूर्वकालावच्छेदेन वृत्त्याश्रयत्वं तत्र सुघटमेवातीतघटे रूपाद्याश्रयत्ववदिति चेन्न, वर्णसमुदायात्मकपदस्य पूर्वमप्यसत्त्वात् । घटस्य पूर्वं सत्त्वेन तत्र तदा रूपाद्याश्रयत्वमुपपद्यते एवेति स्पष्टम् । नन्वतीतघटो जववानिति प्रत्ययो नापादयितुं शक्यः, मतुपा वर्तमानसंबन्धस्यैवाभिधानात्, 'तदस्यास्त्यस्मि'न्निति सूत्रेण तथैव बोधनात् । एवं च बुद्धिविषयवर्णसमुदायत्मकपदे वृत्त्याश्रयत्वाङ्गीकारे न किंचिद्बाधकम् । अत एवा'तीतघटं जानामी'ति प्रयोग उपपद्यते । अन्यथातीतघटे इदानीन्तनज्ञानाद्याश्रयत्वाभावात्तदनुपपत्तिः स्पष्टैवेति चेन्न, एवमपि पदवाक्ययोरभावेन शब्दार्थसंबन्धस्यैव हान्यापत्तिः तदुक्तं वाक्यपदीये--
'अशाब्दो यदि वाक्यार्थः पदार्थोपि तथा भवेत्' इति ।
पदसमुदायरूपवाक्यवद्वर्णसमुदायरूपपदस्यापि विरहात्, अर्थसंबन्धस्योभयत्राप्यसत्त्वादिति तद्भावः । एवं तदेवेदं कृष्णपदमेकं वाक्यमिति बुद्धेरनुपपत्तिश्च । उपपादितं तत्त्वमेतत् । किं चैवमुच्चारणभेदभिन्नशब्देषु शक्तिग्रहासंभवः, व्यक्तिवादानन्त्यव्यभिचारप्रसरात् । गृहीतशक्तिकादेव बोध इति नियमे व्यभिचारोऽवगन्तव्य इति दिक् । एवं च कैयटोक्तमेव सम्यगिति प्राहुः । स्फोटश्च परापश्यन्तीमध्यमावैखरीतिचतुर्विधवाङ्मध्ये या मध्यमा वाक् तस्या यो नादांशस्तदात्मकः । विस्तरस्तु हरिग्रन्धादवगन्तव्य इति मञ्जूषायां स्पष्टम् ।
स चाखण्ड एकवर्णस्वीकारपक्षे यद्येप्येकवर्णेनाबिव्यज्यते तथापि नेतरवर्मवैयर्थ्यमन्त्यवर्णाभिव्यक्तस्यैव तस्य बोधहेतुत्वात् । न च तथापि तदितरवर्मवैयर्थ्यं दुर्वारमेवेति वाच्यम् । पूर्वपूर्ववर्णानुभवजनितसंस्काराणामपि सहकारित्वात्, संस्काराणां च स्थिरतया नोक्तोपपत्त्यसंभवः । अनुभवश्च तदानीन्तन उपादेयः, नातो देवदत्तादिपदे दकारादिवर्णानां सार्थक्यं दुरुपपादम्, कालान्तरीणतावद्वर्णानुभवजनितसंस्काराणां सत्त्वादिति दूषणावकाशः । संस्कारोद्‌बोधनार्थं चारितार्थ्याच्च । उद्‌बुद्धसंस्काराणामेव सहकारित्वात् । न चैवं स्फोटवैयर्थ्यम्, दत्तोत्तरत्वात् । 'परः संनिकर्षः-' इति सूत्रभाष्येऽप्युच्चरितप्रध्वस्तानां वर्णानां संनिकर्षः पौर्वापर्यं चानुपपन्नमिति शङ्कापनोदायोक्तम्--
'बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तत्त्वन्नीतिः' ।
शब्देनार्थान् वाच्यान् दृष्ट्‌वा बुद्धौ कुर्यात् पौर्वापर्यम् ।।
बुद्धिविषयमेव शब्दानां पौर्वापर्यम् । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यत्यस्मिन्नर्थेऽयं शब्दः प्रयोक्तव्योऽस्मिस्तावच्छब्दोऽयं तावद्वर्णस्ततोऽयं ततोऽयमिति । तत्त्वन्नीतिः = सकलविषयकज्ञानवान् । धीरः = पाण्डित्यभाक्, बुद्धावन्तः करणे, चेष्टाः = कण्ठाद्यभिघातव्यापारजन्यशब्दान् प्रतिबिम्बितान् कृत्वा, 'शब्देने'ति साहित्ये तृतीया, तथा च तत्सहिततद्वाच्यार्थान् बुद्धावुपदेशे दृष्ट्वा तत्रैव पौर्वापर्यव्यवहारं कुर्यादिति तदर्थः । 'बुद्धिविषय'मित्यस्य बुद्धिस्थशब्दविषयमित्यर्थः । 'य एष' इत्यादिना वक्तृबुद्धिस्थत्वोपपादनं तु शास्त्रस्य वक्त्रुदेशेनैव प्रवृत्तेस्तस्यैव धर्मफलश्रवणाच्चेति बोध्यम् । बुद्धिगतपौर्वापर्यस्य वर्णेत्वारोपपरमिदं भाष्यमिति तु न युक्तम् । बुद्धीनमपि क्रमिकोत्पन्नाशुविनाशितया पौर्वापर्यासंभवात् । एवमयमिति प्रत्क्षविषयमात्रपरामर्शकेदमाभिलापासंभवोऽपि स्फोटानङ्गीकारे बोध्यः । तदङ्गीकारे तु स्वामात्रश्रव्यसूक्ष्मोच्चारणव्यङ्ग्यत्वेन तदुपपत्तिरिति भावः । एव दोष इति । विकल्पात्मिको दोष इत्यर्थः । तमुपपादयति--तत्तद्वर्णेति । प्रत्येकं व्यञ्जकत्वमिति । तधात्वे च तदितरवायुसंयोगोपादाननैरर्थक्यापत्तिरिति भावः । नाभिप्रदेशादुद्‌गतवायोस्तत्तत्स्थाने क्रमेणैव संयोगोत्पत्त्या समुदितानां वायुसंयोगानामसंभवो बोध्यः । प्रत्येकं संयोगोनामभिव्यञ्जकत्वेपि कश्चन गत्वेन कश्चनौत्वेन कश्चिद्विसर्गत्वेन रूपेण स्फोटमभिव्यनक्ति, तथा च तावद्रूपवैशिष्टेनाभिव्यक्तस्यैव तस्यार्थबोधकत्वमिति न कस्यापि वायुसंयोगस्य वैयर्थ्यमित्याशयेन समाधत्ते--प्रत्येकमेवेति । अत एव = वायुसंयोगानां स्ववृत्तिगत्वादिनाभिव्यञ्जकत्वादेव । तदतिरेकास्वीकारोपि = स्फोटातिरिक्तास्वीकीरोपीत्यर्थः । वायुसंयोगस्य गत्वादिनाभिव्यञ्जकत्वानुपगमे तु तथाभिव्यक्तयेरिक्तवर्णस्वीकार आवश्यको भवेदिति भावः । ननु वायुसंयोगानां पूर्वोक्त दिशा यौगपद्यासंभवेन कथं युगपत्तत्तद्रूपेण स्फोटाभिव्याक्तिसंभव इति चेन्न,नाबिप्रदेशादुद्‌गतवायोः स्थूलतया युगपदेवानेकस्थानेषु नानासंयोगोत्पत्तिसंभवेनोक्तदोषानवकाशात् । नन्वेवमपि पदाभावेन पदज्ञानस्यार्थधीकारणताऽसंभवदुक्तिकैवेत्याशङ्कामपनुदति--एवं चेति । वायुसंयोगगतततद्रूपेण स्फोटाभिव्यक्तौ चेत्यर्थः । 'गृह्यत्' इत्यस्य 'यत्रे'ति शेषः । तथा च यत्र ज्ञाने घटत्वं टकारे भासते तादृशं यत्पदज्ञानं तत्कारणतया इत्यर्थः । अविवादादिति । सर्वमतत्वादित्यर्थः । ननु घटत्वादिना भासमानस्य स्फोटस्य नित्यतया स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणत्वविशिष्टस्वाधिकरणक्षणध्वसाधिकरणत्ववान् यः क्षणस्तदुत्पत्तिकत्वरूपमव्यवहितोत्तरत्वमसंभवीत्यत आह-परं त्वव्यवहितोत्तरत्वमिति । स्वज्ञानेति । स्वं = घटत्वादिना भासमानः स्फोटः । एतादृशाव्यवहितोत्तरत्वनिवेशो न दृष्टचर इत्याशङ्क्याह--अत एवेति । परिमलोक्तं स्फोटखण्डनं दूषयति--एतेनेति । उक्तवक्ष्यमाणहेतुभिरित्यर्थः । घटपदएवेति । घटपदाबिव्यक्ते एवेत्यर्थः । कलशपदादिति । कलशपदाभिव्यक्तादित्यर्थः । बोधप्रसङ्गादिति । स्फोटस्यैक्येन घटपदाभिव्यक्ते तत्र शक्तिग्रहस्य वृत्तत्वात्--कलसपदाभिव्यक्तादपि ततोऽर्थबोधप्रसङ्ग इत्यर्थः । वर्णसमुदायरूपपदस्य वाचकत्वमते तु नायं दोषः, तेन शब्देन बोधे जननीये तच्छक्तिग्रहस्य हेतुत्वात् । अर्थधीहेतुरिति । तत्पर्यायश्रवणजाभिव्यक्तिस्तत्पर्यायाभिव्याक्तशक्तिग्रहसहकृतार्थधीहेतुरित्यर्थः । तत्पर्यायश्रवणेन स्फोटभिव्यक्तिद्वारार्थबोधे जननीये तत्पर्यायाभिव्यक्तिशक्तिग्रहः सहकारि कारणमिति वार्थः । तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वे हेतुमाह--तथा सतीति । शक्तिग्रहत्वेनैवेति । तत्तत्पर्यायगतशक्तिग्रहत्वेनैवेत्यर्थः । अथवा उपधायकतासंबन्धेन शाब्दबुद्धित्वावछिन्नं प्रति विषयतासंबन्धेन शक्तिग्रहत्वेनैवेत्यर्थः । लाघवाच्चेति । चो हेतौ । कारणतावच्छेदकलाघवादित्यर्थः । तत्त्वे--हेतुत्वे । परिमलोक्तमिति । 'परिमला'द्युक्तमित्यर्थः । आदिना 'न्यायरक्षामणि'परिग्रहः । सर्वसिद्धत्वादिति । स्फोटानभ्युपगन्तृमतेऽपि पर्यायभेदेन शक्तिभेदस्य सिद्धत्वादित्यर्थः । ननु स्फोटस्य नानात्वे गौरवमेवत्वे कथं शक्तिभेद इत्याशङ्क्याह--तदवच्छेदकेति । तथा च स्फोटस्यैक्येऽपि शक्तितावच्छेदकानुपूर्वीभेदाच्छक्तिभेदः, शक्यतावच्छेदकभेदेन तद्भेदवदिति भावः । स्फोटतिरक्तवर्णानामभावेन 'घटपदे एव गृहीतशक्तिकस्ये'त्यादिदोषानवकाशः । नन्वतिरिक्तवर्णानभ्युपगमेऽपि घत्वटत्वादिनाभिव्यक्त एव गृहीततत्तच्छक्तिकस्य पुंसः कलशत्वादिनाबिव्याक्तादपि स्फोटाच्छाब्दबोधापत्तिरूपो दोषस्यदवस्थ इति चेन्न । तत्तदानु'पूर्व्यवच्छिन्ने शक्तिग्रहस्य तत्तदानुपूर्वीप्रकारकज्ञानेन बोधे जननीये सहकारित्वात् । वर्णानामतिरिक्तानामभ्युपगमपक्षेऽपि तत्तद्वर्णगतरूपरूषितस्यैवार्थे संकेतग्रहान्न घटशब्दे एव गृहीतशक्तिकस्य पुंसः कलशादिपदश्रवणे बोधापत्तिरित्याहुः । स च स्फोटात्मकः शब्दो वस्तुत एकोऽपि तत्तद्वर्णविषयकसंस्कारैः प्रतिबिम्बिततत्तद्रूपोऽनन्तरूपतामिवापन्न इति सर्वपदरूप इति बोध्यम् । 'स्फोट एव कत्वादिना व्यज्यते'इति 'एओङ्' सूत्रभाष्ये ष्वनितम् । तत्र हि नरसिहवज्जात्यन्तरतया वर्णैकदेशा वर्णग्रहणेन न गृहन्त इति मते क्लृप्त इत्यत्र 'कृपो रोलः' इति लत्वं न प्राप्नोतीत्याशङ्क्य--'अथवोभयतः स्फोटमात्रं निर्दिश्यते रश्रुतेर्लश्रुतिर्भवति' इत्युक्तम् । अत्रेदमाकूतं भाष्यकृताम्--वस्तुतो यद्‌गतं रत्वं तादृशो न कश्चिद्वर्णः किं तु तद्रूपेण स्फोटस्यावभासमात्रमतो रत्वावभासमानस्फोटप्रसङ्गे लत्वावभासमानस्फोटो भवति इत्यर्थो वर्णनीयः । अन्यथा कल्पत इत्यादावपि न प्रवर्तेत । एवं कृपावपि रेफावभासात् क्लृप्त इत्यादावपि लत्वं सिद्धम् । एवं दीर्घाकारादौह्रस्वप्रयुक्तकार्यातिप्रसङ्गस्तु न तत्र ह्रस्वावभासविरहादिति । अन्तर्भूतानन्तर्भूतसाधारणजाति--निर्देश इत्येतत्परमिदं भाष्यमिति तु न पेशलम् । अन्तर्गते रत्वजातिसत्त्वे मान भावात् । नरसिंहवद्वर्णान्तर'मिति स्वीक्तिविरोधाच्चेति विस्तरेण निरूपितं विवरणादौ सूरिमिः । किं चैवं स्फोटानङ्गीकारे द्रुतमध्यमविलम्वितवृत्तिषु प्रयत्नभेदेन चिराचिरकालोच्चारणजन्यत्वाद्‌ह्रस्वाकारस्यापि कालभेदेन यत्किंचिदेकवृत्तौ तपरकरणे तदन्यवृत्तावतो भिस ऐसनापत्तिः । तदङ्गीकारे तु न क्षतिः । तदभिव्याक्त्यनन्तरं जायमानो यो वैकृतध्वनिस्तेन चिरकालं चिरतरकालं मध्यमायां विलम्वितायामुपलब्धिर्भवति । एवं चोपलब्धेरेव कालभेदो न तु स्फोटे इति वक्तुं शक्यत्वात्,'तमेवायं द्रुतमुच्चारितवानन्यो विलम्वित'मिति प्रत्यभिज्ञासत्त्वात् । ह्रस्वदीर्वादौ त्वेवं न प्रत्यभिज्ञेति तपरकरणेपि न ह्रस्वप्रयुक्तस्य कार्यस्य दीर्घादावापत्तिः । जन्यत्वे तु वर्णानामाशुतरविनाशित्वाभ्युपगमाच्चिरमुपलब्धिर्दुर्घटैव स्यादिति बोध्यम् । तदुक्तं तपरसूत्रे भाष्यकृद्भिर्वृत्त्यन्तरे ऐसोऽनापत्तिरित्याशङ्काया अपनुत्तये--"एवं तर्हिं स्फोटः शब्दो, ध्वनिः शब्दगुणः, कथम् ? यथा भेर्याहन्ता भेरीमाहत्य कश्चिद्विशतिपदानि गच्छति कश्चित्रिंशत् कश्चिच्चत्वारिंशत् स्फोटस्तावानेव भवति, ध्वनिकृता वृद्धिः-- ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते ।
अल्पो महांश्च केषांचिदुभयं तत्स्वभावतः ।।" इति ।
स्फोटः शब्द इति । श्रोत्रेन्द्रियग्राह्यः स्फोटनामकः पदार्थः, स्फोटाबिव्यत्तरं जायमानवैकृतध्वनिर्ध्वनिपदेनात्र विवक्षितः । स च स्फोटात्मकस्य शब्दस्योपकारकत्वाद्‌गुणः । 'भैरीमाहत्ये'त्यस्य-'तं शब्दमुपलभमान' इति शेषः । 'धवनिकृते'त्यत्रापि ध्वनिपदं वैकृतध्वनिपरम् । ध्वनिः स्फोटश्चेत्यस्य 'स्त' इति शेषः । शब्दानां = शब्दसंबन्धो ध्वनिः । वैकृतध्वनिस्तु केषांचिदल्पोऽल्पकालमुपलब्धिजनकः, केषांचिन्महान् = बहुकालमुपलब्धिजनको लक्ष्यते । तत्र प्रमाणमावेदयति-'उभयं तत्स्वभावतः' इति । 'सिद्धि'मिति शेषः । हरिरप्याह--
"स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
स्वभावतस्तु नित्यत्वाद् ह्रस्वदीर्घप्लुतादिषु ।।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ।।"
--इत्याद्यन्यत्र विस्तरः । अतिरिक्तस्फोटसाधिकां कौस्तुभोक्तयुक्तिमाह--कौस्तुभेत्विति । वर्णमालायां = वर्णसमूहे । पदमिति प्रतीतेः । इदमुपलक्षणं,-वाक्यमिति प्रतीतेरित्यस्य । अतिरिक्त एव = वर्णातिरिक्त एव । समुदायस्य समुदाय्यतिरिक्तत्वात् । अन्यथा 'पद'मित्यादिप्रतीत्यनुपपत्तेः, वर्णानां प्रत्येकपदरूपत्वाभावात् । ुक्तरीत्या 'एकं पद'मिति प्रतीत्यनुपपत्तेश्च । अन्यथा = अतिरिक्तस्फोटानङ्गीकारे । कपालातिरिक्तेति । 'पद'मिति प्रतीतेर्बुद्धिस्थतावद्वर्मविषयकत्वेनोपपादने 'घट' इति प्रतीतेरपि घटसमवायित्वेनाभिमततावत्कपालैरेवोपपादनसंभवात् कपालाद्यतिरिक्तघटादेः पराभिमतस्यासिद्धिप्रसङ्ग इत्यर्थः । परमाण्वतिरिक्तघटासिद्धिप्रसङ्गास्तु नोक्तः, तथा सति महत्त्वाभावेन प्रत्यक्षानुपपत्तेः । इदमुपलक्षणं--कपालादेरपि त्र्यणुकाद्यतिरिक्तस्यासिद्धिप्रसङ्गस्येत्यलमतिविस्तरेम ।।
एवम् = अतिरिक्तस्फोटस्यैव वाचकस्याह्गीकारे । शास्त्राप्रमाण्येति । व्याकरणशास्त्रा प्रामाण्येत्यर्थः । उपेयप्रतिपत्त्यर्था इत्यन्तेनेति । एषा कल्पना = प्रकृतिप्रत्ययादिकल्पना, उपेयप्रतिपत्त्यर्थे'त्यत्यत्र वचनविपरिणामो लिङ्गविपरिणामश्च बोध्यः । इत्येतद्रूपो योऽन्तस्तेनेत्यर्थः । उत्तरत्र यत इत्यध्याहार्यम् । ययतो हेतोरुपेयप्रतिपत्त्यर्था उपाया अनवस्थिता भवन्तीत्यन्वयः । उपेयस्य = प्राप्यस्य, प्रतिपत्तिः, प्रतिपत्तिः = प्राप्तिः, ज्ञानं वार्थः । 'पञ्चकोशादिवदित्याद्युपपादति--अयं भाव इत्यादिना । भृगुवल्ल्याम् = उपनिषद्विशेषे । आनन्दबल्ल्याम् = उपनिषद्विशेषे । अन्नप्राणेति--आनन्दशब्दान्तो द्वन्द्वः, ततः प्राचुर्याद्यर्थे मयट् । तस्य प्रत्येकं संबन्धः, 'द्वन्द्वान्ते श्रूयगाण'मिति न्यायात् । तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयात्मका ये कोशास्तत्पञ्चकव्युत्पादनमित्यर्थः । वास्तवेति । वास्तवं = कालत्रयाबाधितं यत् पुच्छं = जगदाधारभूतं ब्रह्म तद्‌बोधनायेत्यर्थः । एतस्य वास्तवत्वोत्तया पञ्चकोशानामवास्तवत्वमावेदितम्, तच्च शारीरकभाष्यादौ स्फष्टमेव । अत्र केचिदित्थं व्याचक्षते--'तथा हि भृगुर्वारुणिर्वरुणं पितरं ब्रह्य पप्रच्छ । वरुण उवाच--'अन्न'मिति । अस्योत्पत्त्यादिकं समीक्ष्य पुनः पप्रच्छ । तत उत्तरयांबभूव--'प्राणो ब्रह्मे'ति । तस्यातथात्वावधारणानन्तरं पुनः प्रश्ने पुनराह--'मन'इति । तस्यापि 'अशितमन्नं त्रेधा भवति, यत् स्थूलं तत्पुरीषं यन्मध्यमं तन्मासं, यदणीयस्तन्मनः' इति श्रुतावुत्पत्तिश्रवणान् पुनः प्रश्ने आह--'विज्ञानमय' इति । तस्यापि वृत्त्युपहितत्वेनातधात्वं बुद्‌ध्वा पुनः पृष्टवान् । तत 'आनन्दो ब्रह्मे'त्युत्तरिते वस्तुतत्त्वं प्राप्य स्थितो भृगुरिति । तन्न पेशलम् । पञ्चमस्य तत्रानुपायत्वात् । अकोशत्वाच्च । तस्माद्‌भृगुवल्ली नोदाहरणं, किंत्वानन्दवल्ली, तत्रत्यानां पञ्चानामप्युपायत्वात् । आनन्दमयपदं हि तत्रत्येन मुक्याब्रह्मसमर्पकम् । अत एव जगदाधारत्वार्थक'पुच्छ'शब्दोपपत्तिः । लाङ्गूलात्मक मुख्यार्थस्य तत्र बाधात् । "आनन्दमयोऽभ्यासात्" इति व्याससूत्रं तु तत्रत्यानन्दमयशब्दस्य तद्वाक्यशेषे श्रूयमाणब्रह्मपदे तात्पर्यात् संगमनीयमित्यादि भगवच्छङ्करपादप्रभृतिभिः प्रपञ्चितम् । एतत् सर्वमभिप्रेत्येहानन्दवल्ल्येवोदाहृता । क्कचिद्‌भूषणसारपुस्तके--भृगुवल्ल्यामित्यादिग्रन्थो दृश्यते, स तु न युक्तः, उक्तहेतुभ्याम् । अथवोक्तास्वरसादेव भृगुवल्ल्युपन्यासानन्तरमानन्दवल्ल्युपन्यास इति योजना विधेया । ननु व्याकरणज्ञानं विनोत्पन्नस्फोटज्ञाने व्यभिचारोऽत आह--तथा च ब्याकरणेति । वैजात्यं कल्प्यत इति । तथा च कार्यतावच्छेदकभेदान्न व्यभिचारः । मन्त्रेति । मन्त्रेणार्थस्मृतिः प्रकारान्तरेणापीति व्यभिचारवारणाय मन्त्रजन्यार्थस्मृतौ वैजात्यं मीमांसकैः कल्प्यते तद्बदत्रापीति भावः । 'मन्त्रजन्य'मित्यस्य मन्त्रजन्यतावच्छेदकमित्यर्थः । वेदान्तेति । तच्छ्रुवणजन्यतावच्छेदकम् । अन्यथा भाषाग्रन्थश्रवणेनापि ब्रह्मज्ञानस्योत्पत्तेर्व्यभिचारापत्तिरिति वेदान्तिभिस्तत्र वैजात्यं यथा कल्प्यते तथेति भावः । तस्य च ज्ञानस्येति । शास्त्राभ्यासजनितस्फोटज्ञानस्येत्यर्थः । शरीरादिशुद्धावुपयोग इति । एवं च न शास्त्रवैयर्थ्यमिति भावः । परम्परया वेति । यज्ञाद्यनुष्ठानद्वारा वेत्यर्थः ।
उक्तार्थे वाक्यपदीयं प्रमाणयति--तदुक्तमिति । चिकित्सा संजीता यत्रेत्यर्थः । वाङ्मूलानामपनयहेतुरिति पर्यवसितोऽर्थः । अधिविद्यमिति-विभक्त्यर्थेऽव्ययीभावःि । सर्वविद्याव्यापकमिति पर्यवसितोऽर्थः । अतीतेति । अतीतो विपर्यासो भ्रमो यस्येत्यर्थः । केवलाम् = पराख्यां वाचम् । कथं वास्तवेति । अलीकजलोदेर्वास्तवतृडादिनिवृत्तिजननादर्शनादलीकप्रकृत्यादिकल्पनया वास्तवस्फोटप्रतीतिर्न संभवतीति भावः । वक्ष्यमाणत्वादिति । 'अनेकव्यक्त्यभिव्यङ्ग्ये'त्यादिग्रन्थेन पञ्चकोशादिवत् सद्रसद्वैलक्षण्यस्य सूचयिष्यमाणत्वात् । आदिना = 'पञ्चकोशादी'त्यादिपदेन ।। 66 ।।
वर्णजातीनाम् = वर्णवृत्तित्वेनाबिमतकत्वादिजातीनाम् । उत्पन्न इति न स्यादिति । इति प्रतीतिर्न स्यादित्यर्थः । जातीनां नित्यत्वाबिधानं--'शिखी ध्वस्त'इति वद्विशेषणीभूतजातिविषयकतयैवो'त्पन्नः ककार' इत्यादिप्रतीतिनिर्वाह--इत्यस्य निराकरणाय । इदमुपलक्षणं 'विनष्टः ककार'इति प्रतीतेरिति बोध्यम् । आविद्यको धर्नविशेषो जातिरिति मते नोक्तप्रतीत्यनुपपत्तिरित्यत आह--वायुसंयोगेति । परैरपीति । मूले--'पर'शब्दो मीमांसकपरः । मूले--'स्वरदैर्ध्याद्यपि ह्यन्ये' इत्यत्राद्योऽन्यसब्दोऽपि तत्परः । 'स्वरदैर्ध्यादी'त्यत्र स्वरशब्देनोदात्तत्वादिस्वरो ग्राह्यः । 'विनाशादी'त्यादिपदेन प्रागबावसंग्रहः । तस्यैकत्वात् = स्फोटात्मकवर्णस्यैकत्वादित्यर्थः । तथा च विरुद्धोदात्तत्वाद्यनेकधर्मसमावेशानुपपत्तिः । न चेदात्तादीनामविरोध एवेति वाच्यम्, 'अग्नि'मित्याकारोऽनुदात्तः, 'यज्ञस्य'त्यादिस्थलीयोऽकार उदात्त इत्यादिप्रतीत्यनापत्तेः । ननु तस्यानित्यत्वमङ्गीक्रियत इति नोक्तप्रतीत्यनुपपत्तिरित्याशङ्क्याह--तस्य नित्यत्वाच्चेति । न च गत्वावच्छिन्नेति । तथा च पूर्वंकालैतत्कालभवगकारयोः परस्परं तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदेऽपि गत्वावच्छिन्नप्रतियोगिताकभेदो न गत्वावच्छिन्ने गकारे इति तादृशभेदाभावोऽक्षत इति भावः । तद्विषयः = स एवायं गकार इति प्रत्यभिज्ञाविषयः । एवं च वर्णानामनेकत्वे न क्षतिरिति नोदात्तादिप्रतीत्यनुपपत्तिरिति भावः । व्यक्त्याशाभेदस्येति । एतत्कालवृत्तिव्यक्तावतीतकालवृत्तिव्यक्तेस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावस्येत्यर्थः । त्यागायोगादिति । अन्यथा पदार्थमात्रस्य क्षणिकत्वापत्तिः, प्रत्यभिज्ञाया उक्तरीत्यैवोपपत्तिरिति भावः । अनुभवेति । 'उत्पन्नो गकार'इत्यस्य त्वभिव्यक्तो गकार इत्यर्थ इति तात्पर्यम् । ननू'त्पन्नो घट'इतिवदु'त्पन्नो गकार'इति प्रतीतेः प्रागसत्त्वविशिष्टसत्त्वरूपोत्पत्तिरेव विषयो वाच्यः, समानाकारप्रतीत्योर्विभिन्नविषयत्वस्यानुचितत्वादित्याशङ्क्याह--किं चेति । उच्चरितत्वं ताल्वोष्ठपुटसंयोगजन्यत्वमेवेत्युत्पत्तिप्रतीतिर्जागर्त्येवैत्याशङ्कायामाह--उच्चरितत्वं चेति । परम्परया = स्वाश्रयव्यङ्ग्यत्वरूपपरासंबन्धेन । उत्पत्त्यादे'रित्यादिपदेन नाशपरिग्रहः । तस्य तु स्वप्रतियोगिव्यङ्ग्यत्वरूपः संबन्धो योध्यः । वर्णनिष्ठत्वेति । नित्यवर्णनिष्ठत्वाभ्युपगमादित्यर्थः । इत्थं च पूर्वानूभूतेनेदानींतनानुभूतस्याभेदसिद्धौ तावत्कालस्तिरं चैनं कः पश्चान्नाशयिष्यति" इति न्यायेन वर्णानां नित्यत्वं सिद्धमेवेति भावः । साक्षात् संबन्धांशे इति । उत्पत्त्यादेः साक्षात्संबन्धेनोत्पन्नो गकार इति साक्षात्‌संबन्धांशे या प्रतीतिस्तस्या भ्रत्वरूपं दूषणमवशिष्यत इत्यर्थः । व्यक्त्यभेदांशे इति । व्यक्तयभेदावगाहिनी या 'स एवायं गकार'इति प्रतीतिस्तस्या अभेदाशे इत्यर्थः । तव भ्रमत्ववदिति । तस्याः प्रतीतेर्यथा तव मते भ्रमत्वं तथा साक्षात्संबन्धेनोत्पत्त्यादिप्रतीतेमम मते भ्रमत्वं तुल्यमित्यर्थः । एकप्रतीतेर्भ्रमत्वापत्तिरूपं दूषणं मतद्वयेन समानमिति पर्यवसितोऽर्थः । ननु पक्षद्वये दूषणसाम्ये नित्यनानावर्णपक्षोपेक्षा निर्वीजेत्याशङ्क्याह--परन्त्विति । मम - नित्यवर्मवादिनः । लाघवमतिरिच्यत इति । परमते तूक्तगौरवात् तत्पक्षोपेक्षेति भावः । वर्णस्थले ध्वनिनैयत्यं यदि स्यात् तदा परंपरासंबन्धेनोत्पत्त्या प्रतीतिनिर्वाहस्तत्र ध्वनिसत्त्वे एव तु न मानमित्याशयेन शङ्कते--न चेति । ननु गकार उत्पन्न इत्यादिप्रतीत्यथानुपपत्तिरेव तत्र मानं भविष्यतीत्याशङ्क्याह--तदुत्पादकेति । ध्वन्युत्पादकसामग्र्यभावेन तदसंभवः । न ह्यन्यथानुपपत्तिरेव कार्योत्पादिका, सामग्रीं विनान्यथानुपपत्तिशतमपि कार्योत्पादनसमर्थं न दृष्टचरमिति भावः ।
समाधत्ते--ककाराद्युच्चारणेति । ककाराद्युच्चारणस्वरूपयोग्ययत्नादिसत्त्व इत्यर्थः । ईषदन्तरेति । ईषद्विश्लेषे सतीत्यर्थः । जिह्वेति । जिह्वातत्तत्स्थानयोर्योऽभिघाताख्यसंयोगस्तज्जन्यो यो वायुकण्ठसंयोगादिस्तस्येत्यर्थः । ध्वनिजनकत्वेति । अन्वयव्यतिरेकाभ्यामुक्तविधावायुतत्स्थानसंयोगादेर्ध्वनिजनकत्वकल्पनादित्यर्थः । तस्य = तादृशवायुसंयोगादेः । सत्त्वादिति । तथा च सामग्रीसत्त्वेन वर्णोत्पत्तिस्पलेऽपि ध्वन्युत्पादोऽक्षत एवेति भावः । वर्णोत्पादकसामग्र्याः प्रतिबन्धकत्वान्न वर्णोत्पत्तिस्थले ध्वन्युत्पादसंभव इत्याशङ्कते--तवैवेति । एवम् = उक्तरीत्या वर्णानां नित्यैकत्वरूपत्वे । 'दीर्घत्वादिकमपी'त्यपिनोत्पत्त्यादिपरिग्रहः । तथा चोत्पत्त्यादिवद्दीर्घत्वादिकमपि न वर्णनिष्ठं विरोधादिति भावः । तेषां = मीमांसकानां । प्रमादादिपूर्वकोच्चारितशब्दात् प्रयोक्तृनिष्ठप्रमादजन्यत्वानुमानानुपपत्तिस्तु न शङ्कनीया, एतन्मते तदनुमापकस्य तत्तदुच्चारितशब्दे वैजात्यस्यासम्भवेपि प्रमादादिजन्यतावच्छेदकताल्वोष्ठसंयोगादिगतवैजात्यस्य बर्णेष्वारोपेण प्रमादादिजन्यत्वानुमानोपपत्तेः । धूमत्वेन ज्ञायमानपदार्थान्तरेणापि वह्न्यनुमितेर्दृष्टत्वात् । न च 'सेयं गुर्जरी' 'सेयं दीपकलिके'ति प्रत्यभिंज्ञावशात् तेषामपि नित्यत्वं स्यात् । गुर्जरी रागविशेष इति वाच्यम् । तत्र मानान्तरेण नाशप्रतियोगित्वसिद्धौ अगत्या प्रत्यत्रिज्ञाया भ्रमत्वस्य साजात्यावलम्बस्य वाङ्गीकारात् । वर्णानामेकत्वे 'घटिक' इत्यत्र द्व्यज्लक्षणष्ठान् घटेन तरतीत्यर्थे आवृत्तिगतद्वित्वसंख्यामारोप्य निर्वाह्यः । एवं 'घटेने'त्यादौ 'सावेकाचः--' इति विभक्त्‌युदात्तत्वमपि आवृत्तिगतद्वित्वसंख्ययैकत्वस्य बाधाद्वारणीयम् । स्पष्टं चेदं सर्वं प्रत्याहारह्निके भाष्यदौ इत्यास्तां विस्तरः । प्रतिबन्द्येवोत्तरमिति । क्कचित् प्रतिबन्देरप्युत्तरत्वमिति भावः । एतादृशस्थले प्रतिबन्देरनुत्तरत्वे परसिद्धान्तस्यैव भङ्गापत्तेः । पञ्चेति । वर्णपदवाक्यस्फोटास्त्रयः, चरमयोः सखण्डत्वाखण्डत्वाभ्यां द्वैविध्यमिति व्यक्तिस्फोटानां पञ्चविधत्वमिति भावः ।। 70 ।।
*इति व्यक्तिस्फोटनिरूपणम्*
'बोपदेव'रीतिमवलम्बव्य जातिस्फोटमाह--शक्यत्व इवेति । ननु अखण्डस्फोटबादिना वर्णानामनह्गीकारादाश्रयं विना जातेरसंभवाज्जातेर्वाचकत्वमसंभवदुक्तिकमित्याशङ्कामपाकर्तुमाह--अयं भाव इत्यादिना । उक्तरीत्येति । वर्णानङ्गीकारसहितः स्फोटाह्गीकार इत्युक्तरीत्येत्यर्थः । नन्वेतन्मते 'योऽयं गकार' इत्यादिप्रतीतिरिष्टैव । अद्वैतवादिमते 'योऽयं देवदत्तः स यज्ञदत्त' इतिवदित्य आह-गकारोऽयं नेति । नन्वासेपितभेदावलम्बनो 'गकारोऽयं न हकार' इति प्रत्यय उपपद्यते, वेदान्तिनये परस्परं जीवभेदप्रत्ययवदित्यनुशयानो दूषणान्तरमाह-किं चेति । गत्वादीति । अनारोपितं गत्वाद्यभ्युपेयं न वेत्यर्थः । आरोपितस्व परेणाप्यङ्गीकाराद्यथाश्रुतासंगतेः । तदेव = गत्वाद्येव । गत्वादेर्गकारादिरूपत्वे हेतुमाह--वर्णनित्यतेति । अतिरिक्तेति । वर्णातिरिक्तेत्यर्थः । गत्वानङ्गीकारादिति । गत्वाद्यनङ्गीकारादित्यर्थः । अनेकव्यक्तीनामानुगतप्रतीतये हि अतिरिक्तजात्यभ्युपगमः । वर्णानां नित्यत्वमते तु गकारादिव्यक्तेरैक्येनाननुगमाप्रसक्त्या गकाराद्यतिरिक्तगत्वाङ्गीकारस्य निष्प्रयोजनत्वादिति भावः । तथा च - स्फोटे गत्वाद्यभ्युपगमे च । अथवा गकारादेर्गत्वादिरूपत्वे चेत्यर्थः । अतिरिक्तस्फोटेति । गत्वाद्यतिरिक्तस्फोटकल्पने इत्यर्थः । गौरवम् = अतिरिक्तस्फोटात्मकधर्मिकल्पनागौरवमित्यर्थः । अन्त्ये = स्फोटे गत्वाद्यनभ्युपगमपक्षे । प्रतीतिविरोध इति । गत्वाद्यभावे गत्वादिप्रकारकोक्तप्रतीत्यनुपपत्तिरित्यर्थः । आरोप्य तथा प्रत्यय इति । गत्वादेः स्फोटावृत्तित्वेऽपि वायुसंयोगादिवृत्तिगत्वादिप्रकारकारोपे बाधकाभाव इति भावः । आरोप्येत्यस्य स्थितस्येत्यध्याहारेणोपपत्तिः । अन्यथा प्रतीतिभवनसमानकर्तृकत्वाभावेन क्त्वाप्रत्ययानुपपत्तेः । पौर्त्रकालिकारोपानुसरणं तु तथाविधप्रत्ययमूलकस्य व्यवहारस्योपपत्तेः । एवं च प्रत्ययोर्व्यवहार इत्यर्थः । यद्वा समानकालिकत्वं प्रत्ययभवने संबन्धतया भासत इति यथाश्रुतार्थकमेव प्रत्ययपदमस्तु । 'वायुसंयोग एवे'त्येवेन स्फोटव्यवच्छेदः । गकारोऽपीति । तथाविधप्रत्ययविषयोऽपीत्यर्थः । एवं च प्रतीतेर्न भ्रमत्वप्रसक्तिः । अपिना--'ककार' इत्यादिप्रत्ययविषयसंग्रहः । तस्य = वायुसंयोगस्य । अतीन्द्रियत्वं दोष इति । संयोगप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वमभ्युपेयम्, अन्यथा घटाकाशसंयोगप्रत्यक्षापत्तेः । तथा च वायोरप्रत्यक्षत्वेन वायुतत्तत्स्थानसंयोगस्यातीन्द्रियतया गकार इत्यादिप्रत्यक्षानुपपत्तिरित्यर्थः । धर्मवदिति । वायुधर्मस्य स्पर्शवदित्यर्थः । यथा वायोरतीन्द्रियत्वेऽपि वायुस्पर्शस्त्वाचप्रत्यक्षविषयस्तथा ताल्वाद्यनुयोगिकवायुसंयोगा ऐन्द्रियिको भविष्यति बहिर्द्रव्यग्राहकेन्द्रियजन्यसंयोगप्रत्यक्षे एव यावदाश्रयप्रत्यक्षस्य हेतुत्वाङ्गीकारादिति भावः । अथवा 'गगने शब्द' इतिवद्वायुसंयोगे गत्वामिति संयोगविशेषणकं संयोगोपनीतमेव गत्वादिविशेष्यकं तदशे लौकिकप्रत्यक्षमस्तु, संयोगलौकिकप्रत्यक्षे एव यावदाश्रयप्रत्यक्षस्य हेतुत्वात् । तदेक प्रत्यक्षं 'गकार' इति शब्देनाभिलप्यत इति भावः । एतत्पक्षे धर्मवत् = अतीन्द्रियगगनादिधर्मवदिति व्याख्येयम् । कृतं स्फोटेन = अलं स्फोटेन तत्तद्वायुसंयोगैरेव तत्तदर्थबोधनिर्वाहादिति भावः । तत्तत्संयोगसमुदाय एव इदमेकपदमित्यादिप्रतीतिविषय इति हृदयम् । वस्तुतस्त्वेतत्प्रतीत्यन्यथानुपपत्त्यातिरिक्तस्फोटाङ्गीकार आवश्यक इत्याहुः । निरूपितं चैतत् पूर्वम् ।
आकृत्यधिकरणेति । तत्र हि यथा आनन्त्यव्यबिचाराभ्यां व्यक्तिर्न शब्दवाच्या किं तु जातिरित्युक्तम् । तथा शब्दवता जातिरेव वाचिकेति स्वीकारः, समुचितस्तुल्यहेतीरित्यर्थः । ननु वर्णवृत्तिजातीनामपि नानात्वात् कथं वाचकत्वनिर्वाह इत्याशङ्क्याह--इदं हरीति । ननु नानुगतप्रतीत्या जातिसिद्धिः संमता तन्त्रिकाणामपि तु कारणतावच्छेदकतया, कार्यतावच्छेदकतवा वेत्यत आह--हर्तुपस्तितीति । तदवच्छेवकतया = हेतुतावच्छेदककोटिप्रविष्टतया । वर्णानुपूर्व्यैवानुगतप्रतीतिनिर्वाहः, सैव च हेतुतावच्छेदिका भविष्यीति कृतमतिरिक्तजातिस्वीकारेणेत्याशङ्कते--न चेति । अन्यथासिद्ध्यापत्तेरिति । संयोगविशेषविशिष्टमृदादिभिरेव घट इत्याद्यनुगतप्रतीतेर्दण्डादिकार्यतावच्छेदकत्वस्य च निर्वाहाद् घटत्वादिजातिरपि न सिध्येत् । संयोगविशेषावच्छिन्नमृदादिकं प्रति दण्डादेः कारणत्वस्य वक्तुं शक्यत्वादिति भावः एवं घटादिरवयव्यपि न सिध्येत्, घट इत्यादिप्रतीतेः-संयोगविशेषविशिष्टमृदादिविषयकत्वेनैवापपत्तेरित्यर्थः । आकारः = अनुगतसंस्थानविशेषः । यद्यवयवसंयोगानामननुगमाद् घटत्वादिजात्यभ्युपगम आवश्यकः, एवं संयोगविशेषविशिष्टानामवयवानां नानात्वात् 'घट' इति प्रतीतेस्तद्विषयकत्वे गौरवनेको घट इति प्रतीत्यनुपपत्तिश्चेति घटघटत्वाद्याश्रयणमिति चेत्, प्रकृतेऽपि तुल्यमित्याशयेनाह--तस्मादिति । उक्तरीत्या जातिस्वीकारादित्यर्थः । ननु पदादिवृत्तिजातेरेव वाचकत्वे तद्‌वृत्तिधर्मस्य सकलघटादिपदसमवेतत्वविशिष्टघटपदाद्यरिक्तासमवेतत्वरूपस्य वाचकतावच्छेदकत्वमुररीकतव्यं, तथा चातिगौरवमित्यत आह--तादात्म्येनेति । अवच्छेदिका = वाचकतावच्छेदिका, तादात्म्यत्य वृत्त्यनियामकत्वेऽप्यवच्छेदकतावच्छेदकत्वस्य नानुपपत्तिः, स्वाधिकरणसम्बद्धत्वस्यवावच्छेदकतायां तन्त्रत्वादिति भावः । जात्योः सत्त्वादिति । पदद्वयेऽपि आश्रयीभूतानां मे पामेव वर्णानां सत्त्वाद्विनिगमनाविरहेणैकस्मिन् जातिद्वयसत्त्वाविशेषादित्यर्थः । वाशब्दस्य विकल्पार्थकत्वेऽथोसंगतिरत आह--वा त्वर्थे इति । त्वर्थश्च प्रकृतेऽवधारणमित्याशयेनाह--सैवेति । भेदः कारणीभूतेति । तथा चोभयत्र वर्णानामभेदेऽप्यानुपूर्वीभेदस्य जागरूकतया तत्तदानुपूर्वीविशेषेण एकैव जातिरभिव्यज्यते एकत्र, अन्यत्रान्यैव जातिरभिव्यज्यत इति तत्तज्जातिज्ञानरूपकारणभेदात् 'सरो' 'रस' इत्यत्र विलक्षणबोधरूपकार्योपपत्तिरित्यर्थः । व्यञ्जिकेतीति । इति = इति हेतोः । कारणीभूतज्ञानस्य भेद इति योजना । अतिप्रसङ्गः = अविलक्षणबोधस्यातिप्रसङ्गः । उपाधिप्रयुक्तेति । बलवदुच्वारितत्वादिकं तत्रोपाधिः । तेन यथा 'तारो' 'मन्द' इति प्रतीतिवैलक्षण्यं तद्वदित्यर्थः ।। 71 ।।
जातेरिति । घटपदादिवृत्तित्वेनाभिमतजातेः । स्फुटति बोधविषयो भवत्यस्मादर्थ इति व्युत्पत्त्या स्फोटपदं बोधकपरमित्याह--योगार्थतयेति । अपास्तमिति । जातेः सर्वदा सत्त्वेऽप्यभिव्यक्तिविशिष्टाया असत्त्वेन नोक्तदोषः, अभिव्यक्तिविशिष्टाया एव जातेर्बोधकत्वादिति भावः ।
नन्वेवमपि पदघटकद्व्यादिवर्णेभ्योऽर्थबोधो दुर्वार एवाबिव्यक्तिविशिष्टजातेः सत्त्वात् । न च पदघटकयावद्वर्णैरेव जातेरभिव्यक्तिरित्यभ्युपगमान्न दोष इति वाच्यम् । तथा सति पदस्फोटेवाक्यस्फोटे वा पर्यसामेनैतत्पक्षे वर्णस्फोटोच्छेदापत्तेस्त्यिाशङ्कामपाकर्तुमाह--अयं भाव इति । कथतदोषः = यत्‌किञ्चिद्‌वर्णादर्थबोधापत्तिरूपो दोषः । पक्षयोर्नेत्यत्र 'कथित दोषः' इत्यनुकृष्यते । तत्र व्यासज्यवृत्तित्वस्य = पदादिघटकयावद्वर्णसमुदायवृत्तित्वस्य । वर्णस्फोटपक्षे तु नैवं वक्तुं शक्यम् । प्रत्येकावृत्तेस्तदनतिरिक्ततावद्वर्णसमुदायवृत्तित्वस्यासम्भवात् । समुदायस्यातिरिक्तत्वे तु पदस्फोटो वाक्यस्फोट एव वा सिध्येन्न वर्णस्फोट इति भावः । पदवाक्यपक्षयोः = तयोः धार्मिग्राहकेति । धर्मो = जातिरूपस्तद्‌ग्राहकं मानम् = इदं हरिपदमित्याद्यनुगतप्रतीत्यादिरूपं, तत्सिद्धत्वात् । तथा च वर्णंस्फोटोऽस्मिन् पक्षे दुष्टत्वान्नाभ्युपेयत इति भावः । मूले व्यक्त्य एवास्या इति । अस्याः = जातेर्व्यञ्जिकेति शेषः । शेषार्थः = 'कैश्चिद्व्क्तय' इत्याद्युरार्धस्यार्थः । वर्णव्यक्तीनां स्फोटव्यञ्जकतया तत्र ध्वनिरिति व्यवहारःकृतइ त्यपेक्षायामाह--उक्तं हित्यादिना । स्फोटव्यञ्जकस्येति । वर्णव्यक्तीनां स्फोटव्यञ्जकतया तत्र ध्वनिरिति व्यवहारः कृत इत्यर्थः ।। 72 ।।
अद्वैतसिद्धान्ते "आत्मैवेदं सर्वम्" "नेह नानास्ति किंचन" इत्यादिश्रुतिभ्यो ब्रह्मातिरिक्तपदार्थमात्रस्यासत्यतया कथं जातेः सत्यत्वमित्याशङ्क्याह--तत्तद्वयक्तिविशिष्टं ब्रह्मैवेति । आधेयतासंबन्धेन तत्तद्वयक्त्युपहितं ब्रह्मैव जातिरूपमिति तस्या नित्यत्वं नानुपपन्नमिति भावः । विशेष्यान्वयिविधेयानन्वयी व्यावर्तक उपाधिः । विशेष्यान्वयिविधेयान्वयी व्यावर्तको विशेषणम् । 'कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रक'मित्यत्र कर्णशष्कुल्युपाधिः । श्रोत्रत्वरूपविधेयानन्वयात् । विधेयान्वयाच्च रूपविशिष्टो घटोऽनित्य इत्यत्र रूपं विशेषणम् । प्रकृते च तत्तद्वयक्तेरुपाधित्वमेव । जातित्वरूपविधेयानन्वयादिति बोध्यम् । एतच्च--
"संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।।"--
--इति वाक्यपदीये उक्तम् । असत्येति । पस्पशाह्निके--"द्रव्यं नित्यम्'इति बाष्यमुपादायेदं कैथटे उक्तम् । ब्रह्मतत्त्वमेवेति । प्रत्याहाराह्निके "चन्द्रतारकवत् प्रतिमण्डितो वेदितव्यो ब्रह्राशिः" इत्यत्रायं कैयटग्रन्थः । इति कैयट इति । अयमपि कैयटग्रन्थ "आकृतिरनित्या" इति पस्पशास्थभाष्यस्थो द्रष्टव्यः । अविद्येति । ञत्र धर्मविशेषः इत्यत्र जातिरिक्त इत्यनुपज्यते । स्पष्टं चेदं कौस्तुभे ।। 73 ।।
मूले--निरञ्जनम् = अज्ञानरहितमित्यर्थः । समारम्भ इति भावानां = दृश्यमानघटादिपदार्थानां, समारम्भः = उत्पत्तिरित्यर्थः । अनादीति । प्रागभावप्रतियोगीत्यर्थः । 'शाश्वतमित्यनेन ध्वंसाप्रतियोगित्वमुक्तम् । तथा च प्रागभावाप्रतियोगित्वविशिष्टं ध्वंसाप्रतियोगित्वरूपं नित्यत्वं लब्धम् । प्रचयान्ते मङ्गलमिति । 'कारिकावली'रूपग्रन्थान्ते इत्यर्थेः । शिष्टाचारानुगृहीताद् "ग्रन्थादौ ग्रन्थमध्ये च ग्रन्थान्ते मङ्गलं चरेत्" इत्यभियुक्तवचनाद् ग्रन्थान्ते मङ्गलमाहेत्यर्थः । स्तुतिनतीति । 'नमः' इत्यनेन नतिः, संपूर्णात्मने' इत्यनेन स्तुतिः प्रतिपाद्यते । पूर्णत्वमप्रतिहतेच्छत्वं, समाप्तकामत्वेन निरिच्छत्वं वा । सोऽकामयत वहु स्यां प्रजायेय' इत्यनारोपितैव तत्रेच्छेति न विरोथः । स्वीयसुखेच्छावदन्यत्वं वा पूर्णत्वम् । स्पष्टं चेदं " पूर्णाय परमात्मने" इति दीधितिव्याख्याने गदाधरीये इत्यलमतिविस्तरेणेति शिवम् ।। 74 ।।
योऽभूत्पण्डितमण्डलीपरिणतः श्रोताब्धिसारज्ञतामाप्तो वेदविदां वरः परिवृढैर्भूमेः सदा वन्दितः ।
श्रीमद्भैरवशङ्करीपदरजःसेवाप्तपूर्णार्थकः श्रीमत्केशवदीक्षितः समभवत्तस्यात्मजोऽभूद्धरिः ।।
रामान्तःशिवपालिते शिवपुरे श्रीकाशिशब्दाभिधे तेनेयं खलु निर्मिता कृतिवरा श्रीभूषणे काशिका ।
श्रीमद्भैरवपादसेवनवपुः श्रीकण्ठपादेऽप्रिता मोदं सन्तनुतां सदाप्तविदुषां सद्युक्तिभाजां चिरम् ।।
धनराजानुजः श्रीमान् सखीदेव्यास्तु गर्भजः ।
व्याख्यांचक्रे भूषणस्य यथामति शिवाप्तये ।।
युगभूतदिगीशात्मसंमिते वत्सरे गते ।
मार्गशीर्षशुक्लपक्षे पौर्णमास्यां विधोर्दिने ।।
रोहिणीस्थे चन्द्रमसि वृश्चिकस्थे दिवाकरे ।
समाप्तिमगमद् ग्रन्थस्तेन तुष्यतु नः शिवः ।।

------***------