वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/मङ्गलाचरणम्

वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
मङ्गलाचरणम्
[[लेखकः :|]]
धात्वर्थनिर्णयः →

।। शांकरी व्याख्या ।।
।। श्रीवनशंकरीवनशंकराभ्यां नमः ।।
भारद्वाजं कुलं यस्य शाखा यस्य च वाह्‌वृची।
रमाख्या जननी, पूज्यो रङ्गभट्टाभिधः पिता।। 1 ।।
ज्यायान् भ्राता नरहरिर्मीमांसाद्वयपण्डितः।
जगद्‌गुरुपदारूढो विद्याशंकरभारती।। 2 ।।
नाम बिभ्रत्कारवीरपीठाधीशो विराजते।
यस्यैवं वंशवृत्तं स शंकरः शास्त्र्युपाधिभूत्।। 3 ।।
नत्वा दक्षिणकेदारं स्मृत्वा गुरुपदाम्बुजम्।
व्याख्यां भूषणसारस्य सुगमां तनुतेऽल्पधीः।। 4 ।।
इह खल्ववजिगमिषूणामवगमाय भट्टोजीदीक्षितप्रणीता वैयाकरणसिद्धान्तकारिका व्याचिख्यासू रङ्गोजीभट्टात्मजः कौण्डभट्टनामा सुधीः पण्डितः सर्वस्यापि कार्यस्यान्तरायव्याप्तेत्वं मन्यमानः प्रारिप्सितस्य वैयाकरणसिद्धान्तविषयकग्रन्थस्य प्रचारपरिसमाप्त्यादिप्रतिबन्धकप्रत्यूहव्यूहप्रशमनाय कृतं सकलजगत्कर्तृभूतगौरीप्रणात्मकश्रीलक्ष्मीरमणस्तुतिरूपं मङ्गलं शिष्यासिक्षणार्थं ग्रन्थादौ निबध्नाति-श्रीलक्ष्मीरमणमिति। श्रीः सरस्वती, लक्ष्मीर्हरिप्रिया। तयो रमणः। रमत इति रमणः। नन्द्यादित्वात्कर्तरि ल्युः। `श्रीश्च ते लक्ष्मीश्च पन्त्यौ' इति मन्त्रे श्रीशब्देन सरस्वती, नतु लक्ष्मीः। लक्ष्म्याः पृथगुपादानात्। ननु शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः। विष्णुरुद्रान्तरं यच्च यो ब्रूते मूढधीस्तु सः।। इत्यादिवचोभ्यो हरिहरयोर्भेदस्यानर्थावहत्वात्कवेलविष्णोः स्तवने पार्थक्येन शिवविष्णोः स्तवने च भेदः प्रतीयेतेति तन्निरसनद्वाराऽभेदप्रतिपत्त्यर्थं लक्ष्मीरमणस्याभेदेन विशेषणमाह-गौरीरमणेति। गौरी पार्वती तस्या रमणः शिवः, स्तस्य रूपं स्वरूपं तदस्यास्तीति मत्वर्थीय इनिः। अन्ये तु तु गौरीरमणं रूपयति स्वाभिन्नतया प्रदर्शयतीति सुप्यजाताविति ताच्छील्ये कर्तरि णिनिरिति व्याचक्षते। तद्बीजं तु `रसादिभ्यश्च'(पा.सू.5-2-95) इति मतूब्‌विधानस्यात इनिठनौ, इत्यादिस्वान्यमत्वर्थीयनिवृत्त्यर्थतया रूपशब्दस्य रसादिगणे पठितत्वात्तस्मादिनिप्रत्ययो दुर्लभ इति। अनेन विशेषणेन हरिहरयोरभेदः स्पष्ट एवोक्तः। तथा च गौरीरमणाभिन्नं लक्ष्मीरमणं विष्णुं नौमि स्तौमीत्यर्थः। णु स्तुताविति पाणिनिस्मरणात्। स्तुतिश्च सर्वोत्कृष्टगुणवत्त्वेन प्रतिपादनम्। लक्ष्मीरमणं सर्वोत्कृष्टगुणवत्त्वेन प्रतिपादयामीत्यर्थः। स्फोटरूपमिति। लक्ष्मीरमणविशेषणमेतत्। स्फुटति प्रकाशतेऽर्थो यस्मादिति व्यत्पुत्त्या सकलार्थप्रकाशकं तत्त्वं स्फोटः। तच्च तत्त्वं वेदान्तेषु वर्ण्यमानं सकलजगन्निदानं मायाशबलितं ब्रह्मैवेति स्फोटो ब्रह्मेत्यर्थः। तद्रूपं तत्स्वरूपं सकलजगन्निदानभूतब्रह्माभिन्नमिति यावत्। एतादृशं लक्ष्मीरमणमित्यर्थः। जगतो विशेषणं वा। अस्मिन्‌पक्षे स्फुटति व्यक्तीभवति घटपटाद्यर्थो यस्मादिति स्फोटो वाचकः शब्दः। रूप्यते बोध्यत इति रूपमर्थः। तयोः समाहारद्वंद्वे नपुंसकैकवचनम्। वाच्यवाचका(नामरूपा)त्मकमेतत्परिदृश्यमानं सर्वं जगद्यतो विवर्तते, यत इति आद्यादित्वात्षष्ठ्यर्थे तसिः, यस्य विवर्तो भवति तं लक्ष्मीरमणमिति संबन्धः। यस्य कस्याचिदेकस्य नामरूपात्मकस्य वस्तुन उत्पत्तेरन्यस्मात्पामरादपि संभवादित्युक्तं सर्वमिति। विवर्तो नामातात्त्विकोऽन्यथाभावः। स च पूर्वरूपापरित्यागेनासत्यनानाकारप्रतिभासः। यथा शुक्तिकायां रजतस्य रज्ज्वां वा सर्पस्य प्रतीतिः। अत्र शुक्ती रज्जुर्वा स्वस्वरूपमपरित्यज्यैवान्यरूपेण रजतरूपेण सर्परूपेण वा प्रतिभासते। यत्र यदविष्टानं स्वयमविकृतं सदेवान्यथा भवति स विवर्त इति भावः। तात्त्विकोऽन्यथाभावः परिणामः। पूर्वरूपपरित्यागेनान्यथाभवनम्। यत्र यदधिष्ठानं स्वयं विकृतं सदेव अन्यथा भवति स परिणाम इत्यर्थः। यथा दुग्धस्य दध्यात्मना परिणामः अत्र दुग्वं स्वयं विकृतं सदेव पूर्वरूपं परित्यज्यैवान्यथा भवति दध्यात्मना परिणमते। एतेन भगवतो लक्ष्मीरमणस्य विवर्ताधिष्ठानत्वरूपं सर्वजगान्निदानत्वमुक्तम्। तेन सर्वोत्कृष्टतपा स्तुत्यर्हत्वमावेदितम्। स्फोटस्य वैयाकरणोपास्यत्वेन समुचितेष्टदेवतायाः स्तुतिरूपं मङ्गलं च सूचितम्।। 1 ।।
इदानीं व्याकरणशास्त्रव्याख्यातृत्वेनातिश्रेष्ठो यः शेषस्तद्विशिष्टं देवं स्तौति-
शेषाशेषार्थेति। शेषस्य शेषाख्यनागस्य महाभाष्यकारस्य, अशेषाः कृत्स्ना येऽर्था वाच्यादयः स्फुटा अस्फुटाश्च महाभाष्यस्थास्तेषां लाभार्थं प्रतिपत्तय इत्यर्थः। शेषभूषणं--शेषोऽनन्तोऽलंकारत्वेन पर्यङ्कत्वेन वा भूषणं यस्य तं शिवं शेषशायिनं विष्णुं च प्रार्थय इति संबन्धः। ननु शेषार्थलाभाय शेष एव प्रार्थ्यतां न शिवादिरित्याशङ्क्य तद्विशेषं निर्वक्ति-अशेषफलेति। अशेषाणां कृत्स्नानामैहिकामुष्मिकाणामपवर्गपर्यन्तानां फलानां दातारमिति तृजन्तस्य तृन्नन्तस्य वा शेषषष्ठ्यन्तेन समासः। अशेषफलदातृत्वं चेश्वरस्य `यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति' लभते च ततः काप्रान्मथैव विहितान् हितान्, इत्यादिश्रुतिस्मृतिषु प्रसिद्धम्। ननु प्रतिबन्धकांहोबहुत्वे कथमिव शेषाशेषार्थलाभः स्यादित्याशङ्कां दूरीकर्तुं तद्विशेषणमाह--भवाब्धीति। भवः संसारः, स एवाब्धिरिति मयूरव्यंसकादित्वात्समासः। यद्वा भवोऽब्धिरिवेत्युपमितसमासः। भवाब्धेस्तरणं तत्र तरीं नौकां साधनमिति यावत्। `तरति शोकमात्मवित्' इति श्रुतेः। तथा चानन्यसाध्या योऽनेकदुःखपरम्परारूपसंसारस्य निवृत्तिस्तत्र यः समर्थस्तस्य प्रतिबन्धकदुरितनिवृत्तौ सुतरां सामर्थ्यमस्तीति किमु वक्तव्यमिति भावः। तथा च प्रतिबन्धकदुरितनिवृत्त्याऽनायासनैव शेषाशेषार्थलाभः स्यादिति न तत्र संशयलेशमप्यवगाहते मन्मन इत्याशयः।। 2 ।।
अथ तात्कालिकनिखिलपण्डितमूर्धन्यं स्वपितृव्यं भट्टोजीदीक्षितं तत्कीर्त्यनुवृत्त्यर्थं स्तौति--
वाग्देवी सरस्वती मत्स्वारस्यज्ञपण्डितश्रेष्ठपुरुषलाभेन सदाऽऽनन्दिता सती यस्य जिह्वाग्रे नरीनर्ति पुनः पुनरतिशयेन वा नृत्यं करोति तं पितृव्यं पितुर्भ्रातरं भट्टोजिदीक्षितं कौण्डभट्टोऽहं तत्कृतकारिकाणां व्याख्यानभूतस्यास्य भूषणसाराख्यग्रन्थस्य सिद्धये निष्प्रत्यूहं परिसमाप्तयेऽध्येयत्वेनानेकजनसंबन्धरूपप्रचारायच नौमि स्तवीमीत्यर्थः। अत्र यतोऽयं कौण्डभट्टः स्वबुद्धिस्थवैयाकरणभूषणसाराख्यग्रन्थस्य सिद्धये पितृव्यं भट्टोजीदीक्षितं स्तवीति ततोऽयं पितृव्यो भट्टोजीदीक्षितः कौण्‍भट्टस्य विद्याप्रदाता गुरुरिति ज्ञायते। विद्याप्रदातृगुरोश्च दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्‌गुरोर्ज्ञानदातुरित्यभियुक्तोक्त्या सर्वातिशायिश्रेष्ठत्वावगमादेव जन्मप्रदपितृवन्दनात्पूर्वं पितृव्यवन्दनं युज्यते। अन्यथा जन्मप्रदत्वेन द्विजत्वसंपादकव्रतबन्धकर्तृत्वेन च पितृव्यापेक्षया पितुः पूज्यतरत्वात्पितृवन्दनात्पूर्वं पितृव्यवन्दनं न संगच्छेतोति भावः। जिह्वाया रसज्ञत्वात्तद्‌द्वाराऽस्य सकलसारस्वतरसाभिज्ञत्वमाविष्कर्तुं यस्य जिह्वेत्युक्तम्। वाग्देव्या जिह्वाग्रे नर्तनं च झटित्येवानवरतं प्रवाहरूपेण शब्दार्थस्फोरणम्। एतेन लोकोत्तरं पाण्डित्यं वक्तृत्वं चाऽऽवोदितमिति।। 3 ।।
व्याकरणशास्त्रप्रवर्तकपाणिन्यादिमुनित्रयादिनमनरूपं मङ्गलं निबध्नन् प्रेक्षावतां प्रवृत्तिसिद्धयेऽधिकारिविषयसंबन्धप्रयोजनाख्यमनुबन्धचतुषट्यं प्रदर्शयञ्छिष्यावधानाय चिकीर्षितं निवेदयति--
पाणिंनिकात्यायनपतञ्जलिमुनीन्, रङ्गोजिभट्टनामानं पितरं, ढुण्ढिं सिद्धिविनायकं प्रणम्य प्रकृष्टं साष्टाङ्गत्वगुणविशिष्टनमस्कारं कृत्वा गौतमजैमिनिवचनव्याख्यातृभिर्दूषितान् सिद्धान्तान्--वैयाकरणसिद्धान्तान्-धातोरेव भावनावाचकत्वं तिङामेव च कर्त्रादिवाचकत्वमित्येवंरूपानित्यर्थः। उपपत्तिभिर्युक्तिमिः प्रकटये, सिद्धान्तानामुपपन्नत्वे युक्तीः प्रकाशये, इत्यर्थः। तेषां--गौतमजैमिनीयवचोव्याख्यातॄणामाधुनिकतार्किकमीमांसकानां वचो युक्तिशून्यत्वेनानुपपत्तिदोषग्रस्तमिति च स्थापये, इत्यर्थः। नमस्कारश्च स्वनिष्ठापकृष्टतानिरूपितपरनिष्ठोत्कृष्टताबोधनानुकूलः करशिरःसंयोगात्मको, नमःशब्दोच्चारणात्मको वा व्यापारः। व्याख्यातृभिर्दूषितानिति। व्याख्यातृशब्दप्रयोगेण जैमिनिगौतमादिमुनिनां पाणिन्यादिभिरविरोध एवेति सूच्यते। पाणिनिरादिर्येषां ते च ते मुनयश्चेति बहुव्रीहिगर्भः कर्मधारयः। बहुव्रीहिश्च सर्वादीनीतिवत्तद्‌गुणसंविज्ञानः। तेन पाणिनेरपि नमस्कार्यत्वलाभः। गौतमजैमिनीयवचनानि तु न्यायसूत्राणि मीमांसासूत्राणि च। पितृव्यस्य विद्याप्रदगुरुत्वेन सूचनात्स्वपितू रङ्गोजिभट्टस्याविद्वत्त्वमाशङ्क्येतातस्तं विशिनष्टि-द्वैतध्वान्तेत्यादि। द्वे इत आश्रयत्वेन प्राप्तो द्वीतो भेदः, तस्येदं ज्ञानं द्वैतम्। अनेकत्वावगाहिज्ञानमिति यावत्। तदेवाऽऽच्छादकत्वाद्‌ध्वान्तं तमो मोह इति यावत्। तस्य निवारणं निरसनं, तत्--आदि प्रथमं फलं यस्याः सा, एतादृशीं, पुंभाववाग्देवतां--पुंसो भाव आकारो यस्याः सा पुंभावा, पुरुषाकृतिकेत्यर्थः। सा चासौ वाग्देवता च सरस्वती तद्रूपमित्यर्थः। वाग्देवतां पितरमित्यनयोरजहल्लिङ्गत्वात् `स्त्री प्रधानं' इतिवत्सामानादिकरण्यम्। अनेनाद्वैतप्रतिपादकोत्तरमीमांसायां सर्वातिशायिनैपुण्यं सूचितम्। ढुण्ढिमित्यपि पितृविशेषणम्। तद्यथा--न केवलं वाग्देवतास्वरूपोऽपितुं महागणपतिस्वरूपोऽपीति। अन्यथा पितृनमनानन्तरं महागणपतिनमनमत्यसंगतं स्यादिति भावः। `सिद्धान्तानुपपात्तेभिः प्रकटये' इत्युक्त्या वैयाकरणसिद्धान्ता विषयः, विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः, तज्जिज्ञासुरधिकारी, तज्ज्ञानं च फलमिति सूचितमिति बोध्यम्।। 4 ।।
प्रत्यूहप्राचुर्यशङ्क्या पुनरपि गणेशादिनमनरूपं मङ्गलं विदधत्स्वकीर्त्यनुवृत्तये स्वनाम स्वचिकीर्षीतग्रन्थस्य च नाम निबध्नाति--नत्वा गणेशेति।
गणानां शिवगणानामीशो नियन्ता गणेशस्तस्येत्यर्थः। यद्वा भक्तगणानामिः कामः, कामेत्युपलक्षणं क्रोधादीनामपि। तथा च कामक्रोधादिषड्‌वर्गं श्यति तनूकरोतीति गणेशः। तस्य पादाब्जं पादावेवाब्जं कमलं, अतिशयश्लिष्टत्वादेकवचनम्। गृणात्यज्ञानं नाशयति ज्ञानोपदेशद्वारेति गुरुः। कृग्रोरुच्चेत्यौणादिकः कुः। निगूढमर्थं गृणात्युपदिशतीति वा गुरुः। सरोऽमृतसरस्तद्वती सरस्वती। व्याकरणं शास्त्रमधीयते विदन्ति वा वैयाकरणास्तेषां भूषणमलंकारमिव शोभादायकमित्यर्थः। तदेतदन्वर्थं ग्रन्थनाम। अर्थप्रक्रियाप्रतिपादकममुं ग्रन्थमनधीत्य केवलशब्दप्रक्रियाग्रन्थाध्ययनेन वैयाकरणा अनलंकृता इव न परिपूर्णतया शोभन्त इति यावत्। एतेन व्याकरणशास्त्राध्येतॄणामेतद्‌ग्रन्थस्यावश्योपादेयत्वं सूचितम्। अनेनैव कौण्डभट्टेन महाविदुषा नैयायिकमीमांसकप्रोक्तार्थप्रतिपादनरीत्युपपादनतत्खण्डनपुरःसरं सुविस्तृतं पाण्डित्यप्रचुरं यद्‌व्याख्यानं कृतमस्ति तदेव `वैयाकरणभूषणं' इत्युच्यते, क्वचित्तु विस्तृतत्वाद्' बृहद्भूषणं' इत्युक्तम्। तदुत्तमाधिकारिणामेवोपकारकं, न मध्यमाद्यधिकारिणामित्यालोच्य तेषामप्युपकारार्थं सारभ्‌तान् सिद्धान्तानादाय संक्षेपतस्तदुपपादनेनेदं व्याख्यानं निरमायीत्यस्य `वैयाकरणभूषणसारः' इत्येव नाम सुप्रसिद्धम्। नामैकदेशे नामग्रहणमिति न्यायेन वैयाकरणभूषणमित्युक्तं मूले। उभयत्रापि व्याख्येयभूताः कारिकाः स्वगुरुभट्टोजिदीक्षितप्रणीताः समाना एवेत्यग्रे स्फुटीभविष्यतीति बोध्यम्।। 5 ।।
इदानीं व्याख्यानमूलभूतकारिकाकृद्भट्टोजिदीक्षितश्चिकीर्षितस्वग्रन्थप्रतिबन्धकविघाताय समुचितेष्टदेवतास्मरणरूपं मङ्गलमाचरतीत्याह--प्रारिप्सितेत्यादि। प्रारब्धुमिष्टो यो ग्रन्थ- `फलव्यापारयोर्धातुः' इत्यादिकारिकासमूहरूपः, तत्र प्रतिबन्धकानि यानि दुरितानि तेषामुपशमो नाशस्तस्मा इत्यर्थः। अत्राऽऽहत्य प्रतिबन्धकोपशमनायेत्युक्तत्वादलौकिकाविगीतशिष्टाचारानुमितश्रुतिप्रमाणकस्य मङ्गलस्य न समाप्तावुपयोगः, नास्तिकग्रन्थे विनैव मङ्गलं समाप्तिदर्शनेन मङ्गलस्य समाप्त्युपयोगित्वाभावात्। किंतु कार्यमात्रे प्रतिबन्धकाभावस्य कारणतया क्लृप्तत्वात्प्रतिबन्धकनाश एव मङ्गलस्योपयोगः। समाप्तिस्तु नवनवोन्मेषशालिमतिबुद्ध्यादिर्या ग्रन्थविरचनसावधनसामग्री तयैव सिध्यतीति सूचितम्। फणिस्मरणेति। महाभाष्यस्थसकलसिद्धान्तप्राप्तये, इष्टदैवतं शेषाख्यः फणी, महाभाष्यकारस्य शेषावतारत्वादिति फणिस्मरणरूपं मङ्गलं समुचितमेवेति भावः। नन्वथापि मङ्गलस्य ग्रन्थादौ निवेशने किं प्रयोजनमिति जिज्ञासायामाह--शिष्यशिक्षार्थमिति। ग्रन्थारम्भसमये शिष्यैरपि तादृशनिबद्धश्लोके पठिते सति तेऽपि, `मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि आयुष्मत्पुरुषकाणि च भवन्ति अध्येतारश्च वृद्धियुक्ता यथा स्युः' इति महाभाष्यकारोक्तमङ्गलफलभाजो भवेयुरित्येवमर्थमित्यर्थः। चिकीर्षितमिति। कारिकावलीरूपं ग्रन्थम्। प्रतिजानीत इति। कर्तव्यत्वेन बोधयतीत्यर्थः। प्रत्युपसर्गविशिष्टज्ञाधातोः कर्तव्यत्वेन बोधानुकूलो व्यापारोऽर्थः। तत्र कर्तव्यत्वेन बोधो विषयतासंबन्धेन चिकीर्षितग्रन्थनिष्ठः। तादृशबोधानुकूलव्यापारश्च ग्रन्थकारनिष्ठः। स च व्यापारः `मया अमुकग्रन्थः क्रियते' इत्येवंशब्दप्रयोगरूपः।
केनोद्‌धृत इत्युद्धरणक्रियाकर्तृजिज्ञासायामाह-अस्माभिरिति। शब्दकौस्तुभकर्तृत्वेन भट्टोजिदीक्षितानां सुप्रसिद्धत्वादस्माभिरित्यस्य भट्टोजिदीक्षितैरित्यर्थः। तत्र--शब्दकौस्तुभे। इह--कारिकावलीरूपे ग्रम्थे। तथा च शब्दकौस्तुभे येन योऽर्थो निर्णीतस्तेनैव सोऽर्थः इह--कारिकावलीग्रन्थे संक्षेपेण कथ्यते इत्यर्थस्य प्रत्यासत्त्या लाभाच्छब्दकौस्तुभकारिकावलीग्रन्थकर्त्रोरैक्यावगमाद्वैयाकरणसिद्धान्तकारिका भट्टोजिदीक्षितकृताः, इति पर्यवस्यति। एतेन कारिकावलीग्रन्थकर्तुरतिशयितपाण्डित्यप्रकाशनद्वारा तत्कृतकारिकावलीग्रन्थस्यावस्योपादेयत्वं सूचितम्। शब्दकौस्तुभोद्धरणेऽवदित्वेन भाष्याब्धेरुपादानस्य प्रयोजनमाह--शब्दकौस्तुभोक्तेत्यादिना निरासायेत्यन्तेन ग्रन्थेन। आधुनिकोत्प्रोक्षितत्वनिरासस्य फलमाह--अन्यथेति। उक्तवैपरीत्ये। आधुनिकोत्प्रेक्षितत्वनिरासस्याकरणे इत्यर्थः। तन्मूलकस्य--शब्दकौस्तुभमूलकस्य। अस्यापि--कारिकावलीग्रन्थस्याषि। आधुनिकोत्प्रेक्षितेति। आधुनिकेनेदानींतनेनार्वाचीनेनेति यावत्। उत्प्रोक्षित उद्भावितो यः शब्दकौस्तुभस्तत्सारत्वापत्तौ--तत्सारत्वनिश्चयापत्तावित्यर्थः। पाणिनीयानां पाणिनिमुनिप्रोक्तशास्त्राघ्येतॄणाम्। अनुपादेयतापत्तेरिति। तथा चावश्योपादेयत्वकथनमेवाऽऽधुनिकोत्प्रेक्षितत्वनिरासस्य फलमिति भावः। तत्र निर्णीत इत्युक्तेः प्रयोजनं दर्शयति--इतोऽपीत्यादिध्वनयितुमित्यन्तेन। देवतान्तरसत्त्वेऽपीह फणिन एव ग्रहणं तु शेषाख्यफण्यवतारत्वाव्द्याकरणशास्त्रप्रवर्तकाचार्याभ्यर्हितत्वाच्च प्रतिपाद्यविषयानुकूलेष्टदेवतात्वं प्रकृते महाभाष्यकारस्यैवेति सूचयितुमिति बोध्यम्।। 1 ।।
प्रतिज्ञातार्थमिति। प्रतिपाद्यत्वेन बोधितार्थमित्यर्थः। आह-ब्रूते-