वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/सङ्ख्याविवक्षादिनिर्णयः
← अभेदैकत्वसङ्ख्यानिर्णयः | वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः) सङ्ख्याविवक्षादिनिर्णयः [[लेखकः :|]] |
क्त्वाद्यर्थनिर्णयः → |
।। अथ संख्याविवक्षानिर्णयः ।।
स्मृतस्योपेक्षानर्हत्वमिति न्यायेन प्रसङ्गसंगत्या स्मृतयोः संख्याविवक्षाविवक्षयोर्निरूपणार्थं भूमिकामारचयति-संख्याप्रसङ्गादिति। अभेदैकत्वसंख्यानिर्णयप्रक्रमादित्यर्थः। दृष्टान्ते कपिञ्जलानित्यत्र बहुवचनेन त्रित्वसंख्याविवक्षादर्शनप्रसङ्गादिति यावत्। ननु यत्रैकवचनादिकं श्रूयते तत्र तादृशसंख्याया विवक्षैव। तत्तत्संख्याविवक्षायामेवैकवचनादेर्विधानात्। अर्थत्तत्र तदितरसंख्याया अविवक्षा सिद्धैवेति क्व संख्याविवक्षाविवक्षयोर्निर्णयप्रसक्तिरत आह-उद्देश्यविधेययोरिति। उद्देश्यगतसंख्याया विवक्षाऽविवक्षा वा, तथा विधेयगतसंख्याया विवक्षाऽविवक्षा वेति वचनोपत्तसंख्यायामेव विवक्षाविवक्षयोर्दर्शनेन संशयात्तन्निर्णयप्रसक्तिरित्यर्थः। लक्ष्यानुरोधात्संख्याया इति। उद्देश्यविशेषसंख्याया अविवक्षां दर्शयति-ग्रहं संमार्ष्टीति। ज्योतिष्टोमे श्रूयते-दशापवित्रेण ग्रहं संमार्ष्टीति। दसापवित्रं-पटखण्डः। ग्रह-सोमपात्रम्। संमार्जनं-संशोधनम्। तथा च सोमावसिक्तं पात्रं पटखण्डेन शोधयेदित्यर्थोऽनेन विधीयत इति केचित्। अन्ये तु ग्रहणकाले पात्रस्य बहिर्लग्नानां विप्रुषां प्रोञ्छनं कुर्यादित्यर्थमाहुः। प्रोञ्छनं नाम महाराष्ट्रभाषायां(पुसर्णे)इति शब्दाभिलप्यमाना क्रिया। तत्र ग्रहमिति द्वितीयैकवचनेन ग्रहगतैकत्वसंख्या प्रतीयते। ग्रहाश्चैन्द्रवायवादयो दश। सत्येवमेकत्वसंख्याया उपादानादुपात्तसंख्यायाः परित्यागे कारणाभावाच्च तेषां मध्ये कोऽप्येक एव ग्रहः संमार्जनीय इति पूर्वपक्षयित्वा ग्रहमिति द्वितीयया ग्रहस्येप्सिततमत्वेनोद्देश्यत्वं, यदीप्सिततमं तदुद्देश्यं भवति। तथा ग्रहैर्जुहोतीति तृतीयया करणत्वप्रतीतेर्ग्रहणां होमस्वरूपसाधकतया फलवत्त्वरूपप्रयोजनवत्त्वं च भवति। यदुद्देश्यं यच्चापि फलवत्तस्य श्लोके मुख्यत्वं दृश्यत इति ग्रहस्योद्देश्यत्वात्फलवत्त्वाच्च प्राधान्यमवगम्यते। तेन संमार्जनं ग्रहापेक्षया गुणभूतं भवति। तथा च ग्रहं संमार्ष्टित्यत्र ग्रहः प्रधानं संमार्गश्च गुम इति स्थिते `प्रतिप्रधानं गुणावृत्तिः' इतिन्यायेन यावन्तो ग्रहाः सन्ति तावन्तस्ये संमार्जनीया इत्येवं निश्चये सति कति ग्रहाः संमार्जनीया इति बुभुत्साया अभावादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितमिति सिद्धान्तितं जैमिनीये तृतीयाध्याये प्रथमपादे सप्तमेऽधिकरणे। तथा चोद्देश्यग्रहगतैकत्वस्याविवक्षेति यथा मीमांसकनियमस्तथा वैयाकरणानामुद्देश्यविशेषणस्याविवक्षेति न नियम इत्याह--नास्माकमिति। वैयाकरणानामस्माकमित्यर्थः। उद्देश्यविशेषणस्याविवक्षानियमाभावे हेतुमाह-धातोरित्येकत्वस्येति। प्रत्ययविधावुद्देश्यभूतधातोरितिसूत्रस्थधातुपदार्थविशेषणस्यैकत्वस्य व्याकरणशास्त्रे विवक्षितत्वेन तादृशनियमस्य व्यभिचारादित्यर्थः। यदि तत्रैकत्वस्थाविवक्षा क्रियते चेद्धातुसमुदायादपि प्रत्ययोत्पत्त्यापत्तिः स्यादिति भावः। धातोरित्यत्रैकत्वविवक्षा मीमांसकानामपि संमतेत्याह--उत्पद्येतेति। तन्त्रवार्तिकस्थमिदं पद्यम्। द्वंद्वीत्पन्नेति। द्वंद्वसमासात्क्रियमाणसुबर्थसंख्यादिन यथा द्वंद्वघटकाः सर्वे पदार्था विशेष्यन्ते-सुबर्थसंख्यानिष्ठविसेषणतानिरूपितविशेष्यतावन्तः क्रियन्ते, एवं धातुसमुदायाद्यदि प्रत्यय उत्पद्येत तदा तावन्तो धात्वर्थाः प्रत्ययार्थेन संबध्येरन्नित्यर्थः। शब्दान्तराधिकरण इति। शब्दान्तरे कर्मभेदः कृतानुबन्धित्वात्(जै.अ,2 पा.2 अधि.1 सू.1)इत्यत्रेत्यर्थः। भट्टपादैरिति। कुमारिलभट्टैरित्यर्थः। यजति, ददाति, जुहोति, इत्यादौ भिन्नभिन्नधातूत्तरमुत्पन्नस्य भावनावाचिन आख्यातस्यैकत्वेन यागदानहोमभावनानामेकत्वं युक्तमिति प्राप्ते-उत्तरमाह-शब्दान्तर इत्यादि। शब्दान्तरे-धातुभेदे सति, कर्मभेदः-यागादिकर्मभावनाया भेदः। भवतीति शेषः। भावनाभेदे हेतुमाह-कृतानुबन्धित्वादिति। कृतः, अनुबन्धः-भावनाव्यवच्छेदोऽनेनेति कृतानुबन्धित्वं तस्मात्। एकधात्वर्थस्यैकबावनायामन्वये सति तदितरभावनाव्यवच्छेदाद्यागदानहोमभावनाः परस्परं भिद्यन्त इति तदर्थः। धातुसमुदायात्प्रत्ययोत्पत्तौ समुदायस्याङ्गसंज्ञायामड्द्विर्वचनादिकमपि समुदायस्यैव स्यादित्यपि बोध्यम्। ननु भवदिगणपठितत्वसमानाधिकरणक्रियावाचकत्वरूपधआतुत्वस्य प्रत्येकपर्याप्तत्वेन स्वाङ्गसमुदाये स्वाङ्गत्वाभाववद्धातुसमुदाये धातुत्वाभावादेव समुदायात्प्रत्ययोत्पत्तेः सुतरां वक्तुमशक्यत्वेन नोक्तयुक्तिरुद्देश्यविशेषणैकत्वविवक्षायाः साधिका, नाप्येकत्वविवक्षायास्तत्रोपयोग इत्यत आह-आर्धधातुकस्येडिति। अनुवाद्येति। इड्विधावुद्देश्यत्वेन गृहीतस्याऽर्धधातुकस्य यद्विशेषणं वलादेरिति तस्य विवक्षितत्वादित्यर्थः। उद्देश्यविशेषणस्याविवक्षितत्वनियमे त्वार्धधातुकविशेषणस्य वलादेरित्यस्य वैयर्थ्यापत्तिः स्यादिति भावः। एवं चोद्देश्यविशेषणस्याविवक्षैवेति नियमो व्याकरणशास्त्रे नाङ्गीकर्तुं शक्य इति तात्पर्यम्। एवमिति। उद्देश्यविशेषणस्याविवक्षैवेति नियमानङ्गीकारवदित्यर्थः। पशुनेति। यथा ग्रहं समार्ष्टीत्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितं तद्वत्पशुनेति नाप्रत्ययोपात्तं पशुगतमेकत्वमविवक्षणीयमिति पूर्वपक्षयित्वा पशुना यजेतेत्यत्राग्नीषोमीयवाक्यप्राप्तं यागं यजेतेति यजिनाऽनूद्य तदङ्गत्वेन पशुर्विधीयते, पशुना यागं भावयेदितीति उद्देश्यत्वेन प्रधानं यागं प्रति विधीयमानः पशुर्गुणभूतः। तत्र प्रतिप्रधानं गुणावृत्तिरितिवत्प्रतिगुणं प्रधानावृत्तिरिति नहि कश्चिन्न्यायोऽस्तीति यागस्योद्देश्यत्वेन प्राधान्यात्कियद्भिः पशुभिर्यागः कर्तव्य इति बुभुत्सितत्वादेकवचनेनैकत्वंसंख्याया उपादानादपात्तसंख्यापरित्यागे कारणाभावाच्छैकवचनेन प्रतीयमानं विधेयगतमेकत्वं विधेयविशेषणं विवक्षितमेवेति यो मीमांसकनियमः सोऽपि नास्माभिर्व्याकरणशास्त्रआश्रयितुं शक्यः। कुत इत्यत आह-रदाभ्यां निष्ठात इति। नकारद्वयविधानानापत्तेरिति। रेफदकाराभ्यां परस्य निष्ठातकारस्य नकारविधानान्न इत्येकवचनेन प्रतीयमानस्यैकत्वस्य विधेयविशेषणतया तद्विवक्षायां क्रियमाणायामेकस्य नकारस्य विहितत्वान्नकारद्वयस्य विधानं न स्यादित्यर्थः। ननु मा भवतु नकारद्बयविधिः, का क्षतिरित्यत्र आह-तथा चेति। भिन्नमित्यादौ नकारद्वयं न लभ्येतेति विधेयविशेषणस्य विवक्षायां दोष इत्यर्थः। ननु रेफदकारनिरूपित परत्ववन्निष्ठातकारतत्पूर्ववर्तिदकारयोर्नकारो भवतीत्येकवाक्यतया विधाने नकारद्वयालाभेऽपि निष्ठातकारस्य नकारो भवति, अथ तत्पूर्ववर्तिदकारस्य च नकारो भवतीत्येवं वाक्यभेदेन विधाने नकारद्वयलाभः सुवचः, `पूर्वस्य च दः' इति चशब्दोपादानाद्वाक्यभेद एव च पाणिनेः संमत इति विधेयविशेषणस्य विवक्षितत्वमेवेति नियमाङ्गीकारेऽपि दोषाभावेन व्याकरणशास्रे तादृशनियमानाश्रयणे किं बीजमित्यत आह-आदगुण इति। उपेन्द्र इत्याद्युदाहरणे पूर्वपरयोः स्थाने एक एव गुणादेशो जायतां नतु स्थानिभेदाद् द्वावित्येतदर्थमेकः पूर्वपरयोरिति सूत्र एकग्रहणं कृतम्। यदि च विधेयविशेषणं विवक्षितमेवेति मीमांसकनियमो व्याकरणशास्त्रे परिपाल्येन तदा आद्गुण इत्यत्र गुमस्य विधेयत्वात्तत्रैकवचनेन प्रतीयमानस्यैकत्वस्य तद्विशेषणत्वाद्विधेयविशेषणस्य च विवक्षावश्यंभावनियमादुपेन्द्र इत्यादौ पूर्वपरयोः स्थाने एक एव गुणादेशः स्यादिति पुनः क्रियमाणमेकग्रहणं व्यर्थ स्यात्। तस्मात्तदेवेत्थमवगमयति यद्विधेयविशेषणं विवक्षितमेवेति नियमः पाणिनेर्नाभिमत इत्यर्थः। नन्वेवं व्याकरणशास्त्रे उद्देश्यविशेषणं विवक्षितमेव विधेयविशेषणं चाविवक्षितमेवेति मीमांसकवैपरीत्येन नियमोऽस्त्विति चेत्तदपि न। उपेयिवाननाश्वाननूचानश्चेत्यत्रोद्देश्यविशेषणस्योपेत्यस्याविवक्षितत्वदर्शनादिको यणित्यत्र विधेयविशेषणस्यैकत्वस्य विवक्षितत्वदर्शनाच्च। अन्यथा ईयिवान् समीयिवानिति सिद्ध्यनापत्तेः सुध्युपास्य इत्यादाविकारस्य स्थानेऽनन्तयकारापत्तेश्चेति ज्ञेयम्। एतत्सर्वं मनसिकृत्याऽऽह-शब्दार्थस्त्विति। संख्याविवक्षाविवक्षाशब्दार्थ इत्यर्थः। संख्याया इत्यादि।उद्देश्यविशेषसंख्याया विधेयविशेषणसंख्यायाश्च तन्त्रातन्त्रे-विवक्षाविवक्षे(तन्त्रं-विवक्षा, अतन्त्रं--अविवक्षा। विवक्षा-प्रतिपादनेच्छा, तदभावः-अविवक्षा लक्ष्यानुरोधात् उदाहरणानुसारात्, यतो यस्माद्धेतोर्मते अभिमते अभिष्टे। व्याकरणशास्त्रप्रवर्तकाचार्याणामिति शेषः। धातोरित्यत्रोद्देश्यविशेषणमेकत्वं विवक्षितं, उपेयिवानित्यत्रोपेति चाविवक्षितं, तथा इको यणित्यत्र विधेयविशेषणमेकत्वं विवक्षितं, ज्वरत्वरेत्यत्र विधेयविशेषणमेकत्वमविवक्षितं, अत एव `उपधाया वकारस्य च प्रत्येकमूठ्' इति द्वावूठावित्युक्तं भाष्ये। लक्ष्यानुरोधाद्विवक्षाविवक्षयोरिति भावः। अतो हेतोरित्यर्थः। पश्वेकत्वाधिकरणेति। तत्र हि पशुनेति करणतृतीयाविभक्त्येकवचनोपादानात्करणकारकमेकत्वं पुंस्त्वं चेति त्रितयमेकस्मादेव `ना' द्दति प्रत्ययात्प्रतीयते। तत्रैकत्वं पुंस्त्वं चाङ्गम्। करणकारकमङ्गि-प्रधानम्। येन `ना' इति प्रत्ययेन करणकारकमभिहितं तेनव प्रत्ययेनैकत्वपुंस्त्वयोरभिधानमिति समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्त्यर्थलिङ्गसंखअययोर्विभक्त्यर्थकरणकारक एवान्वयः। परंतु अरुणाधिकरणोक्तरीत्या विभक्त्यर्थस्यैकत्वस्य, पुंस्त्वस्य, पशोश्च प्रथमतो यागभावनायां पृथगन्वयः। तथा च पशुना, एकत्वेन, पुंस्त्वेन च यागं भावयेदिति पश्वादित्रितयकरणिका यागभावनेति बोधः। पश्चात्प्रकृत्यर्थेन पशुना पुंस्त्वैकत्ययोरन्वयो भवति। स यथा-लिङ्गसंख्ययोर्निराश्रितयोरवस्तित्य दर्शनेन किंनिष्ठमेकत्वं पुंस्त्वं चेत्येकत्वपुंस्त्वयोराश्रयाकाङ्क्षायां प्रत्यासत्त्या पशुरेवतदाश्रयत्वेन बुध्यते। यागसाधनीभूतो यः पशुः स एकः पुमांश्चेति पार्ष्ठिको मानसो बोध इत्युक्तम्। यथा अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं क्रीणातीत्यत्र कारकाणां क्रिययैवान्वयनियमादारुण्यपिङ्गाक्षीत्वादीनां चतुर्णां पर्सपरमनन्वितानामेव पार्थक्येन क्रयभावनायामन्वयः। आरुण्यकरणिका, पिङ्गाक्षीकरणिका, एकहायनीकरणिका, गोकरणिका च क्रयभावनेति बोधः। ततः किंनिष्ठमारुण्यादिकमिति वीक्षायां क्रयसाधनीभूता या गौः सैवाऽऽरुण्यगुणविशिष्टा सैव च पिङ्गाक्षी एकहायनी चेति प्रत्यासत्त्या पार्ष्ठिको मानसो बोधो जायते, न शाब्दस्तद्वदिति भावः। आदिना ग्रहैकत्वसंग्राहः। ग्रहं संमार्ष्टीत्यत्र प्राजापत्या नव ग्रहाः, इत्यादिमाक्यविहितनवत्वसंख्गविरुद्धग्रहोद्देशेन संमार्गो विधीयते। तत्र वाक्यान्तरगतनवत्वसंख्यया विरोधादेतद्वाक्यगतमेकत्वं नोद्देश्यकोटौ निवेशयितुं शक्यं, किंतु तदपि विधेयं स्यात्। तथाच ग्रहं संमृज्यात्तं चैकमिति वचनव्यक्तो वाक्यभेदः स्पष्ट एवेति ग्रहैकत्वमविवक्षितमित्युच्यते। तदुक्तं वाक्यपदीयेग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक्। प्राजापत्या नवेत्येवमादिभेदसमन्विताः।। अङ्गत्वेन प्रतीतानां संमार्गे त्वङ्गिनां पुनः। निर्देशं प्रति या संख्या सा कथं स्याद्गिवक्षिता।। इति। इत्युक्तानां हेतूनामाश्रयणमित्यर्थः। नास्मत्सिद्धान्तेति। महाभाष्यप्रतिपादितसिद्धान्तसिद्धं न भवतीत्यर्थः।। 56 ।।
अथ विधेये भेदकं तन्त्रमितिकारिकामवतारयितुं भूमिकामारचयति-नन्वित्यादि। विधेयविशेषणेति। विधेयविशेषणस्यैकत्वस्येत्यर्थः। तादृशैकत्वस्य विवक्षावश्यकत्वमेव दर्शयितुमाह-अन्यथेति। विधेयविशेषणस्यैकत्स्य विवक्षितत्वाभावे इत्यर्थः। सुध्युपास्य इति। इको यणिति विधेययण्विसेषणस्यैकत्वस्याविवक्षितत्वे सतीकः स्थाने यण् भवतीत्येवं संख्यावैशिष्ट्येन विधानाबावादिकारस्य स्थाने एकयकारस्येव यकारद्वयस्य यकारत्रयस्य चाप्यापत्तेरित्यर्थः। अन्येषामिति। भिन्नमित्यादौ तकारदकारयोर्यथा द्वौ नकारौ भवतस्तद्वदिकारस्य स्थाने एकयकारादन्येषां द्वित्र्यादियकाराणामप्यापत्तेरित्यर्थः। यदि विधेयविशेषणमेकत्वं विवक्ष्यते तर्हि `एकः पूर्वपरयोः' इत्यत्रत्यैकग्रहणस्य वैयर्थ्यं स्यादित्याशङ्कां निरस्यति-एकग्रहणं चेति। स्थानिभेदादिति। पूर्वपरयोरित्यत्र लाघवानुसारेण पूर्वपरस्येति समाहारद्वंद्वेन निर्देशे कर्तव्ये गौरवेण पूर्वपरयोरितीतरेतरयोगद्वंद्वेन निर्देशकरणात्पूर्वपरयोः प्रत्येकं स्थानित्वबोधनेन स्थानिभेदात्तदनुरोधेन विधेयविशेषणस्याविवक्षया गुमस्यापि भेदेन द्वयोः स्थाने द्वौ गुणादेशौ मा भूतामित्येकग्रहणं कृतमित्याद्यनुसंधाय ब्रूते-विधेये भेदकं तन्त्रमिति। विधेये भेदकमिति। विधेयनिरूपितं भेदकं-विशेषणम्। विशेषणतावत्तन्त्रं विवक्षितमित्यन्वयेनाऽऽह-विधेयविशेषणमिति। विदेयनिष्ठविशेष्यता निरूपितप्रकारतावद्विवक्षितमस्त्वित्यर्थ इति यावत्। अन्यत इत्यादिद्वितीयचरणस्यार्थमाह-तथाऽपीत्यादिना। अनुवाद्यस्येति। उद्देश्यविशेषणस्येत्यर्थः। उद्देश्यनिष्ठविशेष्यतानिरूपितविशेषणतावत इति यावत्। नियमो नेति। उद्देश्यविशेषणमविवक्षितमेवेति यो नियमः स व्याकरणशास्त्रे नास्तीत्यर्थः। नियमाभावस्य तात्पर्यमाह-क्वचित्तन्त्रमिति। भाष्याद्यनुगृहीतलक्ष्यानुरोधात्क्वचिदुद्देश्यविशेषणं विवक्ष्यते क्वचित्तु न विवक्ष्यत इति भावः। वाक्यभेदादिरिति। वाक्यभेदरत्वधुनैव पुरस्ताद्वर्णितः। आदिपदेन ग्रहमिति द्वितीयया ग्रहस्येप्सिततमत्वेनोद्देश्यत्वात्प्राधान्यं प्रतीयते। ततश्च प्रतिप्रधानं गुणावृत्तिरितिन्यायेन यावन्तो ग्रहास्ये सर्वे संमार्जनीया इत्यर्थात्सकलग्रहसंमार्गसिद्ध्या तत्र श्रुतमप्येकत्वामिविवक्षितमिति विवक्षाफलाभावरूपहेतोः परिग्रहः सोऽयमपि वाक्यभेदादपि पुरस्ताद्वर्णितो विस्तरेणेति तत्रैव द्रष्टव्यः। तस्येति। उद्देश्यविशेषणस्याविवक्षितत्वविषये निरुक्तस्य हेतोरित्यर्थः। अनाकरमिति। व्याकरणशास्त्रेऽङ्गीकरणं भाष्याद्याकरग्रन्थासिद्धं तद्विरुद्धं वेत्यर्थः ननु ग्रहैकत्वमिव धातोरित्यत्रैकत्वस्य, आर्धधातुकस्येडित्यत्र बलादित्वस्य चाविवक्षा स्यादित्याशङ्कायामाह-एकत्वविशिष्टं धातुमित्यादि। एकत्वविशिष्टं ग्रहमुद्दिश्य संमार्गविधाने यथा वाक्यभेदादिकं बाधकं समस्ति तथाऽत्र न किंचिद्बाधकमिति एकत्वविशिष्टधातु वलादित्वविशिष्टार्धधातुकं चोद्दिश्य प्रत्ययेडोर्वीधः संभवतीति न वाक्यभेदो, नाप्येकत्वादिविशिष्टानुवादसामर्थ्यादेकत्वादेरविवक्षा संभवतीति भावः। पशुनेत्यादौ नाप्रत्ययेनैकत्वसंख्याया उपादानादुपात्तसंख्यापरित्यागे कारणाभावात्समानपदोपात्तत्वप्रत्यासत्त्या तदेकत्वस्य प्रकृत्यर्थेनैवान्वयादेकत्वविशिष्टपशुना यागं भावयेदित्येवं विशिष्टविधानादेकत्वं विवक्षितम्। विशिष्टविधानादेव च न वाक्यभेदप्रसक्तिः। विशिष्टस्य श्रुत्याऽङ्गत्वबोधनात्पशुत्वादिविशेषणवैकल्य इवैकत्ववैकल्येऽपि विशिष्टाननुष्ठानाद्यागवैकल्यमपि सिद्धम्। एतद्वद्व्याकरणशास्त्रे इकोयीणत्यादावेकत्वविशिष्टयणादेर्विधानान्नानेकयकाराद्यापत्तिर्नापि वाक्यभेदापत्तिरिति विधेयविशेषणं विवक्षितमेवेति नियमाश्रयणे न किंचिद्बाधकं वैयाकरणानामित्याशयः।। 57 ।।
ननु विदेयविशेषणं विवक्षितमेवेति नियमाश्रयणे क्वचिद्दोषः स्यादित्याशङ्कते-नन्वेवमिति। नकारद्वयलामो नेति। निष्ठातो न इत्येकवचनोपात्तं विधेयनकारविशषणमेकत्वं विवक्ष्यते चेदेकत्वविशिष्टो नकारादेशस्तकारदकारयोः स्थाने भवतीत्यर्थाद्भिन्नमित्यादौ द्वौ नकारौ न लभ्येयातां, किंतु गुणादिवदेक एव नकार उभयोः स्थाने स्यादित्याशङ्कां निरसितुमाह-रदाभ्यां वाक्यमेदेनेति। वाक्याभेदलाघवाच्चशब्दाकरणरूपलाघवातिशयाच्च रेफदकारावधिकपरत्ववन्निष्ठातकारतत्पूर्ववर्तिदकारयोर्नकारो भवतीत्येकवाक्यतया विधानपक्षे विधेयनकारगतैकत्वविवक्षणेन भिन्नमित्यादौ यद्यपि नकारद्वयं न लभ्यते तथाऽपि रेफदकारावधिकपरस्य निष्ठातकारस्य नकारो भवत्यथ निष्ठापेक्षया पूर्वस्य दकारस्य च नकारो भवतीत्येवं वाक्यभेदेन विधाने नकारद्वयं लभ्यत एव, चकारघटितसूत्रपाठकरणेन च वाक्यभेद एवेष्टः पाणिनेरिति विधेयविशेषणस्य विवक्षितत्वमेवेति नियमाङ्गीकारे न किंचिद्भाधकमिति भावः।। 58 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां संख्याविवक्षाविवक्षयोर्निर्णयः।
रङ्गभट्टतनूजेन संकरेण विनिर्मिते।
संख्याविवक्षयोरस्मिन्व्याख्याने निर्णयः कृतः।। 12 ।।