वैयाकरणमतोन्मज्जनम्
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः।
वैयाकरणशिरोमणिना भट्टोजीदीक्षितेन वैयाकरणसिद्धान्तप्रतिपादको शब्दकौस्तुभनामको ग्रन्थः प्रणीतः । तत्र निर्णीतानां व्याकरणमूलसिद्धान्तानां प्रतिपादनाय तैरेव चतुसप्ततिः कारिका विरचिताः । अस्य कारिकाग्रन्थस्य अपरं नाम अस्ति वैयाकरणमतोन्मज्जनम् । ग्रन्थस्यास्य व्याख्नयारूपत्वेन परिलसति कौण्डभट्टविरचितः भूषणासारः ।।
फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः । तत्र निर्णीत एवार्थः सङ्क्षेपेणेह कथ्यते ॥ १॥
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ २॥
फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः। व्यापारे शप्श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ॥ ३ ॥
उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् ॥ तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४ ॥
व्यापारो भावना सैवोत्पादना सैव च क्रिया ॥ कृञोऽकर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते ॥५॥
किन्तूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत् तद् दृशेरिव ॥ ६॥
निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते । न तु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ॥ ७ ॥
तस्मात् करोतिर्धातोः स्याद् व्याख्यानं न त्वसौ तिङाम् । पक्ववान् कृतवान् पाकं किं कृतं पक्वमित्यपि ॥ ८॥
किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥ ९ ॥
सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः।।
न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ।। १० ॥
धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च क्रियाऽर्थता । अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाऽऽकरम् ॥ ११ ॥
अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥ १२ ॥
फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १३ ॥
आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ १४ ॥
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिवन्धनः ॥ १५ ॥
संबोधनान्तं कृत्वोर्थाः कारकं प्रथमो वतिः। धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६ ॥
तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ १७ ॥
यदि पक्षेऽपि वत्यर्थः कारकञ्च नञादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥ १८ ॥
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ १९ ॥
कृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत्सन्ति हि क्वचित् । अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥
भेद्यभेदकसम्बन्धोपाधिभेदनिवन्धनम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ २१ ॥
वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ॥ २२ ॥
ह्यो भूते प्रेरणादौ च भूतमात्रे लङादयः । सत्यां क्रियातिपत्तौ च भूते भाविनि लृङ् स्मृतः ॥ २३ ॥
आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ॥
यथायथं विभक्त्यर्थः सुपां कर्मेति भाष्यतः ॥ २४ ॥
एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ १५ ॥
शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नो चेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थोऽवभासते ॥ २६ ॥
अत एव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् ॥ २७ ॥
सुपा सुपा तिङा नान्ना धातुनाऽथ तिङां तिङा ॥ सुबन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥ २८ ॥
समासस्तु चतुर्द्धेति प्रायोवादस्तथा परः ॥ योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २७ ॥
भौतपूर्व्यात्सोऽपि रेखागवयादिवदास्थितः ॥
जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा ॥ ३० ॥
भेदः संसर्ग उभयं वेति वाच्यव्यवस्थितेः ॥ समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ॥ ३१ ॥
बहूनां वृत्तिधर्माणां वचनैरेव साधने ॥ स्यान्महद् गौरवं तस्मादेकार्थीभाव आश्रितः ॥ ३२ ॥
चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् ।। कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ ३३ ॥
अषष्ठ्यर्थवहुव्रीहौ व्युत्पत्त्यन्तरकल्पना ॥ क्लृप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः ॥ ३४॥
आख्यातं तद्धितकृतोयत्किञ्चिदुपदर्शकम् ।। गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ।। ३५ ॥
पर्यवस्यच्छाब्दवोधाविदूरप्राक्क्षणस्थितेः ।। शक्तिग्रहेऽन्तरङ्गत्ववहिरङ्गत्वचिन्तनम् ॥ ३६॥
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरर्थैः शब्दानां सम्बन्धो योग्यता तथा ॥ ३७ ॥
असाधुरनुमानेन वाचकः कैश्चिदिष्यते ।। वाचकत्वाविशेषे च नियमः पुण्यपापयोः ॥ ३८ ॥
सम्बन्धिशब्दे सम्बन्धो योग्यतां प्रति योग्यता । समयाद् योग्यता संविन्मातापित्रादियोग्यवत् ।। ३९ ॥
नञ्समासे चापरस्य प्राधान्यात्सर्वनामता। आरोपितत्वं नञ्द्योत्यं न ह्यसोऽप्य(सर्वोड)तिसर्ववत् ॥ ४० ॥
अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥ ४१ ॥
द्योतकाः प्रादयो येन निपाताश्चादयस्तथा । ‘उपास्येते हरिहरौ’ लकारो दृश्यते यथा ॥ ४२ ॥
तथाऽन्यत्र निपातेऽपि लकारः कर्मवाचकः । विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥ ४३ ॥
पदार्थः सदृशाऽन्वेति विभागेन कदापि न ।
निपातेतरसङ्कोचे प्रमाणं किं विभावय ॥ ४४ ॥
शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन् रसानिव।
इत्यादावन्वयो न स्यात्सुपाञ्च श्रवणं ततः ॥ ४५ ॥
नञ्समासे चापरस्य द्योत्यं प्रत्येव मुख्यता ।
द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४६ ॥
नञ्समासे चापरस्य द्योत्यं प्रत्येव मुख्यता ॥ द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४७ ॥
निपातानां वाचकत्वमन्वयव्यतिरेकयोः ॥ युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥ ४८ ॥
निपातत्वं परेषां यत्तदस्माकमिति स्थितिः ॥ व्यापकत्वाच्छाक्ततायास्त्वच्छेदकमिष्यते ॥ ४९ ॥
कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् ॥
त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ ५० ॥
अत्रार्धजरतीयं स्यादर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छृणु ॥ ५० ॥
प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् । धर्ममात्रं वाच्यमिति यद्वा शब्दपरा अमी ॥ ५१ ॥
जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते ॥ प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् ॥ ५२ ॥
अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः ॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥ ५३ ॥
प्रदेय एव वा शक्तिः प्रकृतेर्वाऽस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः ॥ ५४ ॥
क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता । वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५ ॥
अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ॥ ५६ ॥
लक्ष्यानुरोधात्संख्यायास्तन्त्रातन्त्रे मते यतः। पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥
विधेये भेदकं तन्त्रमन्यतो नियमो न हि । ग्रहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५८ ॥
रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः । क्षतिर्नैवास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥ ५९ ॥
अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः। समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥ ६० ॥
वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः। साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः॥ ६१ ॥
व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा । किञ्चाऽऽख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२ ॥
कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ॥ तरबाद्यन्ततिङ्क्ष्वस्ति नामता कृत्स्तिव स्फुटा ॥ ६३ ॥
नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्यताम् ॥ अथाऽऽदेशा वाचकाश्चेत्पदस्फोटस्तत स्फुटः ॥ ६४ ॥
घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता ॥ वस्नसादाविवेहापि सम्प्रमोहो हि दृश्यते ॥ ६५ ॥
हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोट विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत् समं पदे ॥ ६६ ॥
लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत्तथा ॥ सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥ भाट्टास्तेऽपीत्थमेवाऽऽहुर्लक्षणाया ग्रहे गतिम् ॥ ६७ ॥
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।। ६८ ।।
पञ्चकोशादिवत्तस्मात्कल्पनैषा समाश्रिता । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ॥ ६९॥
कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि । स्वरदैर्घ्याद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ ७० ॥
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ॥ ७१ ॥
अनेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृता । कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ ७२ ॥
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ ७३ ॥
इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् । ब्रह्मैवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः ॥ ७४ ॥
इति भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः समाप्ताः ।