वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२२

← वैयाकरणसिद्धान्तमञ्जूषा-२१ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२२
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२३ →

?0अथ जहत्स्वार्थनिरुपणम्

यद्वा, अवयवशक्तिं लक्षणां चाजानतां बालानां समुदायशक्यैव बोधस्य सर्वानुभवसिद्धत्वेन प्रागुक्तरीत्या चावश्यकल्प्यया तयैव राजविशिष्टपुरुषबोधसंभवे राजपुरुषापदयोः पुनस्तद्बोधकत्वं न कल्प्यम्, वृषभादिपदे वृषादिवत् । आनुपूर्व्यन्तरघटकत्वाभावविष्टानुपूर्व्या एव शक्ततावच्छेदकत्वात् । अन्यथा रामादिपदादपि द्रव्यचतुर्मुखनारायणादीनामवयवार्थानां पदार्थोपस्थितिशाब्दबोधयोरापत्तिः, अवान्तरसुबुत्पत्त्यापत्तिश्च, धनमित्यादौ जस्त्वाद्यापत्तिश्च, पटुजातीयायेत्यादौ सर्वनामत्वाद्यापत्तिश्च ।

वाकये तु पदान्यर्थवन्त्येव ।'राजसम्बन्धवान् पुरुषः' इतयाद्यर्थे 'राज्ञः पुरुषः, राज्ञः' इति विशिष्टानुपूर्वीद्वयस्य शक्ततावच्छेदकत्वकल्पनापेक्षया पदशक्तिकल्पनाया एव लघीयस्त्वात् । एकार्थत्वञ्चैकवत्त्यार्थबोधकत्वम् । च्विप्रत्ययस्तु प्राग्वदेव ।

न च वृत्त्यन्तर्गतानामर्थवत्त्वहानौ तन्निमित्तकप्रातिपदिकत्वापदत्वयोरपि हान्यापत्तिः, समासादिषु तयोरुपजीव्यत्वेन तदानीं वृत्तिस्वीकारात्, "समर्थ"सूत्रप्रामाण्येनोपजीव्यस्याप्यर्थस्य बाधाच्च ।

"सास्य देवता", "कर्त्तरि कृत्" [ 4।2।24], "चार्थेद्वन्द्वः" [ 3।4।67 ] इत्यादि तु "लः कर्मणि" [ 3।4।69 ] इतिवत् काल्पनिकार्थमादाय ।

न च वृत्तिघटकधातुप्रतिपदिकादीनामनर्थकत्वात्तेषां विशिष्टरपोपादानविहित "पथिमथि" [ 7।1।85 ] इत्यात्वाद्यनापत्तिः, अर्थवद्ग्रहणेऽनर्थकस्याग्रहणादिति वाच्यम्, "प्रत्ययोत्तरपदयोश्च" [ 7।2।98 ] इत्यादिसूत्रस्थभाष्यादिप्रामाण्येन वृत्तिप्राग्वर्त्त्यर्थारोपेण शास्त्रप्रवृत्त्याऽक्षतेः ।

न चैवम् 'वाप्यश्वः' इत्यादौ "ईदूतौ च सप्तम्यर्थे" [ 1।1।11 ] इति प्रगृह्यत्वमाशङ्क्य जहत्स्वार्थायां वृत्तावानर्थक्याद् न दोष इति भाष्योक्तं विरुध्येत, आरोपितार्थमादाय इतरशास्त्रवत् तस्यापि प्रवृत्तिसम्भवादिति वाच्यम्, तत्रार्थग्रहणसामर्थ्येनेदृशार्थस्याग्रहात् ; स्पष्टमस्मत्कृत?0शब्देन्दुशेखरे ।

यत्तु, 'अर्थवद्ग्रहण'परिभाषा नास्त्येव, तज्ज्ञापकैः "टिङ्ढाणञ्o" [ 4।1।15], " दयायासश्च " [ 3।1।37 ] इत्यादिसूत्रस्थाञ्‌ठञ्‌दयादिग्रहणैर्विशिष्टरूपोपादा 1[fn अत्र ".... विशिष्टरूपोपादानादन्यत्रेकदेशभूतस्यैव ....." इति पाठः प्रकरणानुकूलः प्रतिभाति, अन्यथा अर्थाङ्गतिः । ] नेऽन्यानेकदेशभूतस्यैव ग्रहणं ज्ञाप्यत इति न दोष इति, तत्, न ; लौकिकन्यायसिद्ध्या 'अर्थवत्'परिभाषायाः प्रत्याख्यातुमशक्यत्वात् । त्वत्पक्षे 'प्रौढघट' इत्यादौ वृद्ध्यनापत्तिश्चेति, यत्किञ्चिदेतत् ।

न च समासात् पूर्वं पदानामर्थवत्त्वम्, तदुत्तरमनर्थकत्वं विरुद्धमिति वाच्यम्, एकस्यैव मणेरुत्तेजकासमवधानसमवधानाभ्यां प्रतिबन्धिकत्वाप्रतिबन्धकत्ववदुपपत्तेः । पङ्कजादौ तु योगार्थाद्यन्तर्भावेणैव समुदायशक्तिरिति न योगरुढ्युच्छेदः ।

वृक्षविशेषशक्ताश्वकर्णपदादौ योगार्थस्य शक्तावननुप्रवेशात् केवलरूढतैव । 'शिव इव सत्यासक्तमनाः' इत्यादौ त्वनेकार्थशक्तानेकसमासात् तन्त्रेणोच्चारिता दनेकार्थबोधः ।

न च 2[fn अत्र 'ओङ्कारस्य अकारोकारमकारैर्ब्रह्मत्वविष्णुत्वशिवत्व ...' इत्यादि साधुपाठः कल्पनीयः, अन्यथा क्रमभङ्गप्रसङ्गः । ]ओङ्कारोऽकारमकारैर्विष्णुत्वशिवत्वब्रह्मात्वादिना बोधकत्वप्रतिपादकाथर्वशिखादिविरोध इति वाच्यम्, वर्णसमाम्नायादौ ऋषिभिर्व्याञ्जनस्यार्धमात्रिकत्वाभिधानाद् मकारेण सह प्रश्नोपनिषदुक्तमात्राभयस्याथर्वशिखोक्तसार्धमात्रात्रयस्य चरमार्धमात्रायां नादबिन्दुकलाविकलेति भेदस्यानेकश्रुतिपुराणाद्युक्तस्यैवमप्यनुपपत्तेः ।

अपासनात्वेन च तद्वदेव वर्णत्रयकलपनसयाप्युपपत्तेः ।
एवञ्च 'ओमित्येकाक्षरं ब्रह्म' इति भगवद्वचनादखण्डैकाक्षररूपस्य प्रणवस्य नारायणशिवब्रह्ममायावच्छिन्नैकेश्वरचैतन्यबोधकत्वमिति बोध्यम् ।

नन्वत्र पक्षे राजादिपदेः सर्वथा स्वार्थस्य त्यागे तद्भानं न स्यात्, पुरुषमात्रस्यानयनञ्च सयात् ।
किञ्च, राजपदार्थः पुरुषे विशेषणमिति च व्यवहारो न स्यादिति चेत्, न ; विशिष्टेनैव राजसम्बन्धिपुरुषोपस्थानोनाद्यदोषाभावात् । 1[fn अत्र 'सुमनस्' इति शब्दो नित्यबहुवचनान्तःस्त्रीलिङ्गः, अत एव 'निष्कीर्णासु' इति विशेषणं सङ्घ्टते, उक्तञ्चैतत् 'स्त्रियः सुमनसः पुष्पम्....' इत्यादि कोशात् । (द्रo नामलिङ्गनुशासनस्य द्वितीयकाण्डे वनोषधिवर्गः ) । ]निष्कीर्णास्वपि सुमनस्सु आमोदान्वयमात्रेण चम्पकपुट इत्यादिव्यवहारवत् तत्सदृशार्थान्वयमात्रेण तथा व्यवहारोपपत्तेश्च । अयमेव च पक्षो ग्रन्थेषु जहत्स्वार्थेति व्यवह्रियते ।

यद्यपीदं पक्षद्वयं प्रागुक्तरीत्या भाष्यसम्मतम्, 'एकार्थीभावो वा सामर्थ्यम्, व्यपेक्षा वा' इति प्रतीकमुपादाय 'पृथगर्थानाम्' इति च प्रतीकमुपादाय कैयटेन स्पष्टमेवोक्तम् "ईदूतौ च सप्तम्यर्थे" [ 1।1।19 ] इत्यादिसूत्रेषु भाष्ये व्यवहृतञ्च, तथापि जहत्स्वार्थापक्षो न युक्तः, अवयवानां क्लृप्तार्थवत्त्वत्यागेनारो पिततत्स्वीकारे गौरवात् ।

कस्यचिद्‌विशिष्टशक्तिग्रहाद् बोधस्तु नानर्थकत्वमवयवानां साधयितुमीष्टे । वाक्यादपि कस्यचित् तथाबोधेन तत्राप्यवचवानर्थक्यापत्तौ वाक्ये 'पृथगथौ' इति भाष्यविरोधापत्तेः, अर्धजरतीयापत्तेश्च ।

एतदेवाभिप्रेत्य हरदत्तेनोक्तम् 'जहत्स्वार्थावृत्तिरवयवानां नैरर्थर्क्यमिति वयं न रोचयामहे' इति । बोद्धृभेदेनेदं पक्षद्वयं कस्यचिदवयवशक्त्यज्ञानपूर्वकविशिष्टशक्त्यैव बोधेन कस्यचित् तज्ज्ञानपूर्वकमेव बोधेनोभयोरप्यावश्यकत्वाद् इति तत्त्वम् ।

इति जहत्स्वार्थानिरूपणम्

अयञ्चैकार्थीभावः पचतीत्यादौ न, कल्पकाभावात् । अत एव तत्र उद्देश्यविधेयभावेनान्वयः सङ्गच्छते । तदुक्तं?0 भाष्ये?0 --- 'एकार्थीभावे सामर्थ्ये समास एकः सङ्गृहीतः, विभक्तिविधानं पराङ्गवद्भावश्चासङ्गृहीतम्' इति । अत्र समासपदं1[fn कृदन्तादिवृत्तीनामिर्त्थः । एकोपस्थितिजनकसमुदाशक्तिरूपत्त्याश्रयत्वात् तेषां वृत्तित्वव्यवहारः ।
'विग्रहवाक्यभिधाने शक्तः सन् साधुः' इति सूत्रार्थस्य भाष्याल्लभात् समासपदं वृत्तिमात्रोपलक्षण् ।
पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तधातरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव । ] वृत्तिमात्रोपलक्षणम् । अत एव 'पदविधि' ग्रहणं चरितार्थम् । पदोद्देश्यकविधिमात्रग्रहणार्थ हि तत् । शेषमुपरिष्टाद् वक्ष्यामः ।

येऽपि नित्या अखण्डा निरवयवाः सर्वे शब्दाः, शास्त्रं तु 2 [fn यथा चित्रे चित्रितस्य गवयादिलाङ्गूलादेः सादृश्येन वास्तवलाङ्गूलादिबोधनद्वरा वास्तवपशुबोधकत्वम्, तथा प्रकृतिप्रत्ययादिसादृश्येन अखण्डपदवाक्यगतप्रकृतिप्रत्ययादिबोधद्वारा वास्तवपदवाक्यबोधो भवति । शास्त्रं तु परिचायकमात्रम् । ] रेखागवयन्यायेन प्रकृति प्रत्ययादिविभागकल्पनयान्वाक्यानमात्रमिति वदन्ति, तेषामपि वृत्तौ पचतीत्यादिवद्विशेषणान्वयादिवारणाय विलक्षणव्युत्पत्तिकत्वरूपैकार्थीभाव आवश्यक इत्यलं पल्लवितेन ।

?0व्यपेक्षावादिन?0स्तु परस्परान्वयरूपा व्यपेक्षैवात्र सामर्थ्यम्, 'इसुसोः सामर्थ्ये' [ 8।3।44 ] इत्यादौ तथा क्लृप्तत्वात्, पराङ्गवद्भावानुरोधाच्च । अन्यथा पराङ्गवद्भावे एतत् समासादावेकार्थीभाव इति वाक्यभेदः स्यात्, तत्र परिभाषाप्रवृत्त्यभावे तु 'ऋतेन मित्रावरुणावृतावृधावृतस्पृश' इत्यादौ ऋतेनेत्यादेः "सुबामन्त्रिते" [ 2।1।2 ] पराङ्गवद्भावे "आमन्त्रितस्य च [ 6।1।188 ] इत्याद्युदात्ततापत्तिः । मित्रवरुणावित्यस्य सम्बनोधनप्रथमान्ततयामन्त्रितस्य परस्य सत्त्वात् ।"

न च 'तन्निमित्तग्रहणं कर्तव्यम्' इति वार्त्तिकात्, तस्यामन्त्रितार्थस्य यन्निमित्तं तत्प्रतिपादकं यत्, तदेव पराङ्गवत् स्यादित्यर्थकाद् नायं दोष इति वाच्यम्, समर्थपरिभाषामाश्रित्य तत्प्रतयाख्यानस्यैव न्याय्यत्वात् । ऋतेन मित्रावरुणावित्येतयोरानशाथे इत्यर्थकेनाशाथे इत्यनेनान्वयेन परस्परमसामर्थ्यात् । मित्रावरुणावृतावृधा इत्यनयोस्तु पार्ण्णिकान्वयसत्त्वादस्त्येव सामर्थ्यम् । स्पष्टचेदं वेदभाष्यकौस्तुभयोरिति दिक् ।

अत एव 'पुरपषो राज्ञः' 'भार्या देवदत्तस्य' इत्यत्र समासो न । 'ऋद्धस्य राजपुरुष' इत्यपि न, राजपदस्य राजसम्बन्धिनि लक्षणया राज्ञः पदार्थोकदेशत्वेन तत्र विशेषणान्वयासम्भवात् ।

न च 'शोभनायां गङ्गायां घोषः' इत्यादौ लाक्षणिके लिङ्गशोभनादिविशेषणान्वयवत् प्रकृतेऽपि तदन्वयो दुर्वार इति वाच्यम्, तत्रापि गङ्गापदस्यैव शोभनङ्गातीरे लक्षणायां पदन्तरस्य तात्पर्यग्राहकत्वात् ।

न चैवमपि 'चैत्रस्य नप्ता' इत्यादाविवेकदेशा1 [fn यत्किञ्चित् पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति मुख्यविशेष्यता यत्किञ्चित् पदजन्योपस्थितिः कारणम्, इत्येतादृशकार्यकारणभावमूलकेन 'पदार्थः पदार्थेनान्वेति न तु पदार्थपदेशेन' इति नियमेन विरोधादिति भावः । ] न्वयो दुर्वारः, तत्र हि नप्तृत्वं स्वजन्यजन्यपुंस्त्वम्, तदेकदेशे जन्यत्वे चैत्रस्यान्वय इति वाच्यम्, 2 [fn घटत्वगोत्वादौ नित्यपदार्थान्वयतात्पर्येण 'नित्यो घटः, नित्यो गौः' इत्यादेः प्रामाण्यवारणायोक्तव्युत्पत्तिस्वीकारेऽपि 'देवदत्तस्य नप्ता' इत्यादौ देवदत्तस्य निरूपितत्वसम्बन्धेन गुरुत्वादावेवान्वयस्याभिमततयोक्तकार्यकारणभावे अभेदसम्बन्धावच्छिन्नायाः प्रकारताया नित्यसाकाङ्क्षेतरावृत्तिविसेष्यताया वा कार्यतावच्छेदककोटौ निवेशेन देवदत्तनिष्ठप्रकारताया अभेदसम्बन्धावच्छिन्नत्वाभावेन, जन्यत्वस्य नित्यसाकाङ्क्षत्वेन वा व्युत्पत्तेर्विषयत्वाभावाद् न दोष इति फलितार्थः । ] ससम्बन्धिकातिरिक्ते तथानङ्गीकारात् ।

?0यद्वा?0 --- तत्रापि स्वजन्यपुत्रसम्बन्धेन नप्तर्येवान्वयः । एवं घटादन्य इत्यादावपि स्वप्रतियोगिकभेदसंसर्गेणान्यस्मिन्नेवान्वय इति न दोषः ।

अत एव 'देवदत्तस्य गुरुकुलम्' इत्यादौ समासो भवत्येव । पक्षद्वयमपीदं समर्थसूत्रे भाष्ये स्पष्टम् ।

न च राजसम्बन्ध एव लक्ष्योस्तु, तस्य च भेदेन पुरुषेऽन्वयोऽस्तु, किं सम्बन्धिलक्षणयेति वाच्यम् ;
'ओदनः पचति' इत्यादावन्वयबोधवारणायाभेदातिरिक्तसंसर्गकनामार्थकारकशाब्दभोदे तद्विहितप्रत्यजन्योपस्थितेर्हेतुत्वात् ।

प्रत्ययत्वञ्च संङ्केतविशेषसम्बन्धेन प्रतययपदवत्त्वं जातिविशेषो वेति नाननुगमः । न चैवं राजसम्बन्ध इत्यादौ सम्बन्धादिपदे ङ्सपदत्वभ्रमदशायां जायमानस्य भेदसम्बन्धेन राजादिप्रकारकसम्बन्धादिविशेष्यकान्वयबोधस्यानुपपत्तिः, वस्तुतः प्रत्ययजन्योपस्थितेरभावात् । तथा 'राज्ञः पुरुषः' इत्यादौ ङसादिषु सम्बन्धपदत्वभ्रमदशायां सम्बन्धाद्यंशे भेदसम्बधेन राजादिप्रकारकान्वयबाधापत्तिरिति वाच्यम्, साधारणधर्मदर्शनाभावेन तथाविधभ्रमस्यैवाभावात् ।

यदि तु अस्त्यानुभविकस्तव तथा भ्रमः, तदा प्रत्ययभिन्नत्वेनागृहीतं यत्, तज्जन्योपस्थितेर्हेतुत्वाद् न दोषः । प्रत्ययत्वेन गृहीतमितितु नोक्तम्, 'राज्ञः परुषः' इत्यादौ षष्ठ्यादेः प्रत्ययत्वादिनाऽनुपस्तितिदशायामपि तथाबोधानुभवादित्यलं भ्रान्तविचारेण ।

अभेदसंसर्गकतद्बोधे च दातुप्रातिपदिकान्यतरजन्यैवोपस्तितिर्हेतुः । 'नीलो घटः' इत्यादौ च विशेषणविभक्तिः साधुत्वार्था । तथा च "अनभिहित" सूत्रे भाष्यम् --- 'कट एव कर्म, तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया' इति । 'भीष्मादीनां स्वयमकर्मैत्वेऽपि विशेष्यसम्बन्धिन्यैव विभक्त्या भाव्यम्, तदेकयोगक्षेमत्वात्' इति कैयटः ।

अत एव "पुरणगुण" [2।2।19] इति षष्ठीसमासनिषेधः सङ्गच्छते ।

न चैवम् "घटो न पटः, चन्द्र इव मुखम्" इत्यादौ नञथभेदे इवार्थसादृश्ये च घटपटादेर्भेदेनान्वयो न स्यात्, नञाद्यर्थस्य च पटादौ तथान्वयो न स्यादिति वाच्यम्, भेदान्वये निपातप्रत्ययान्यतरजन्योपस्थितेस्तन्त्रतयाऽभेदबोधकार्यकारणभावे निपातातिरिक्तत्वावविशेषणदानेन चादोषात् ।

न च समासातिरिक्त्वाविशेषणदानाद् ममापिन दोषः, गौरवापत्तेः, क्लृप्तलक्षणायां सम्बन्धिविषयकत्वकल्पनयैव निर्वाहाच्च । निपातानां द्योतकत्वनये घटपदस्य घटभिन्ने, चन्द्रपदस्य तत्सदृशे लक्षणया तत्राक्षतेश्च ।

न च देवदत्तो घटमानयतीत्यत्र सति तात्पर्ये देवदत्तघटयोरभेदान्वयापत्तिरिति वाच्यम्, विशेष्यतासम्बन्धेनाभेदसंसर्गकतन्नामार्थप्रकारकशाब्दबोधं प्रति तन्नामोत्तरसार्थकविभक्त्युपस्थित्यकालिकतन्नामसमभिव्याहृतपदजन्योपस्थितेः कारणत्वादक्षतेः । अत एव राज्ञः सुतस्य घनमित्यादौ न दोषः ।

सार्थकत्वं च सङ्ख्यातिरिक्तार्थकृतं विवक्षितम् । तेन 'वेदाः प्रमाणम्' 'शतं विप्राः' इत्यादौ न क्षतिः । आद्ये एकजातीयप्रमामत्वव्युत्पादनाय विभक्तेः प्रकृत्यर्थतावच्छेदकगतैत्वार्थकत्वे, द्वितीये समुदायगततदर्थकत्वे च नक्षतिः । 1[fn अत्र 'समानवचनत्वं समानलिङ्गत्वञ्च' इति पाठः समीचीनः। यथाश्रुतपाठे चस्य वैयर्थ्यं त्यात् । ] समानवचनत्वसमानलिङ्गत्वे न नाभेदानवयबोधे तन्त्रम्, 'वेदाः प्रमाणम्' 'राज्ञः सुतस्य धनम्' 'शैत्यं हि यत्सा प्रकृतिर्जलस्य' इत्यादौ व्यभिचारात् ।

?0यद्वा?0, तथा बोधं प्रति तन्नामसमभिव्याहृतनामजन्याविरुद्धरूपेणानुपस्थितिस्तन्त्रम् ।
प्रकृत्यर्थतावच्छेदकगतैकत्वञ्च व्यक्तिगतबहुत्वेन न विरुद्धमिति न दोषः ।

अत एव व्यक्तिगतैकत्वाद्यभिप्रायेण प्रयुक्तान्नीली घट इति वाक्याद् न तथाबोधः । विरोधश्च लिङ्गातिरिक्तकृतो ग्राह्यः । 2[fn अत्र 'तेन' इत्यतः पूर्वम् 'अत एव' इति 'तेन' इति वा पाठोऽपेक्ष्यते । अन्यथा परस्परमसम्बद्धत्वापत्तिः स्यात् । ]"तेन तुल्यं क्रिया" [ 5।1।115 ] इत्यादौ न दोषः । एवञ्चासि विशेषविधौ शिष्टप्रयोदे च समानाधिकरणविशेष्यबोधकपदयोः समानलिङ्गसमानवचनविभक्त्यन्तप्रयोग एव साधुः, नान्य इति बोध्यम् ।

नामजन्योपस्थितिश्च विशेष्यत्वावच्छिन्नैव ग्राह्या । अतो घटो नित्य इत्यादौ लक्षणं विना न घटत्वे नित्याभेदान्वयः । अभेदश्चात्र तादात्म्यं स्ववृत्त्यसाधारणधर्मरूपम् ।

एतेनाभेदो भेदत्वावच्छिन्नाबावश्चेत्, अप्रसिद्धः भेदप्रतियोगिकाभावश्चेद्ववह्न्यादावपि द्वित्वादिना नीलभेदाभावस्य सत्त्वाद् वह्निर्नील इत्यादेरापत्तिरिति परास्तम् इत्याहुः ।

न च प्रत्ययान्ततन्नामार्थप्रकराकाबेदातिरिक्तसंसर्गंकबोधं प्रति तद्विहितप्रत्ययजन्योपस्थितेर्हेतुत्वान्न दोष इति वाच्यम्, 'दधि भुक्तम्' इत्यादौ सति तात्पर्ये प्रथमान्तदधिपदार्थस्य भोजने करणत्वेनान्वयापत्तेः । न च लुप्तप्रतययतयेदं प्रत्ययान्तमेव, प्रकृतेऽपि तुल्यत्वात्, गुरुतरकार्यकारणाभावापेक्षया सम्बन्धिनि लक्षणाया एव लघुत्वाच्च । अतः सम्बन्धिन्येव लश्रणा निरादीनाञ्च क्रान्ताद्यर्थे लश्रणास्वीकारान्न निष्कौशाम्ब्यादौ क्रान्तादीनां पृथक् प्रयोगः, 3[fn 'उक्तार्थानामप्रयोगात्' इति नियमात् । ] उक्तार्थत्वात् । सा च निरूढलक्षणा, नियततात्पर्यानुरोधात् । तेन लक्षणाया अभावे तथा प्रयोगापत्तिरिति निरस्तम् ।

नन्वत्र पक्षे समासस्यानार्थक्यात् प्रातिपदिकत्वं न स्यादिति चेत्, न; अर्थवत्पदसामर्थ्येनार्थवाचकघटितसमुदायेऽनर्थकेऽपि तत्स्वीकारात् । अन्यथा 'अदातुः' इत्यादिपर्युदासेनार्थवत्त्वे लब्धे स्पष्टमेव । अत एव प्रत्ययान्तपर्युदासश्चरितार्थः, 'बहुपटवः, शशश्रृङ्गम्' इत्यादौ दोषाभावश्च । पचतकीत्यादौ च प्रत्ययान्तत्वान्निषेधः, समासग्रहणस्य नियमार्थत्वाच्च वाक्ये न दोषः ।
1[fn 'असति प्रयोजने शक्यार्थबाधप्रतिसन्धानपूर्वकतत्सम्बन्धपरार्थबोधे निरूढा लक्षणा' यथा 'त्वचा ज्ञातम्' इत्यादौ त्वगादिशब्दानां त्वगिन्द्रिये लक्षणा । अत्र लक्षणायां किमपि प्रयोजनं नास्ति । परम्परेवात्र प्रमाण्म् । ]

2यत्तु, सर्वत्र समासे उत्तरपदे लक्षणा प्रातिपदिकसंज्ञापि तस्यैवेति । तत्, न ; तन्मात्रस्य प्रातिपादिकसंज्ञायां पूर्वपदोत्तरसुपोलुगनापत्तेः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेन तदसम्भवाच्चेति दिक् ।

कर्मधारये तु, अवयवशक्त्योपश्थापितपदार्थयोरभेदस्य संसर्गविधयैव मानसम्भवेन शक्तिः, न वा लक्षणा । 'उपकुम्भम्' इत्याद्यव्ययीभवे समीपकुम्भादिपदानां लक्षणा । उपादिपदं तात्पर्यग्राहकम् । अतो धववन्तमानयेत्यादौ कर्मत्वाद्यन्वयवारणाय क्लृप्तया 'प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्व' व्युत्पत्त्या विरोधो न । अत एव पाणिपादमित्यादिसमाहारद्वन्द्वेऽपि उत्तरपदस्य पाणिपादादिसमाहारे लक्षणा ।

यत्तु, समुदाये लक्षणेति । तत्, न ; तस्य शक्त्यभावात् । 'श्कयसम्बन्धो हि लक्षणा' । ननु 3ज्ञाप्यसम्बन्ध एव लक्षणा, 'गभीरायां नद्यां घोषः' इत्याद्यनुरोधेन तस्या एवोचितत्वात् । तथाहि -- न तावद् गभीरपदं तोरलक्षकम्, नद्यामित्यनन्वयापत्तेः, नहि तीरं नदी । अत एव न नदीपदेऽपि गभीरपदार्थानन्वयाप्ततेः । न च पदद्वये प्रत्येकम्, विशिष्टनदीतीराप्राप्तिप्रसङ्गात् । न च नदीपदेन गभीरनदीतीरं लक्ष्यते, गभीरपदं
तात्पर्यग्रहकमिति वाच्यम्, विनिगमनाविरहात् । न च पदद्वये प्रत्येकम्, विशिष्टनदीतीराप्राप्तिप्रसङ्गात् । न च नदीपदेन गभीरनदीतीरं लक्ष्यते, गभीरपदं तात्पर्यग्रहकमिति, वाच्यम्, विनिगमनाविरहात् । न च 'प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्व'व्युत्पत्त्या नदीपद एव, न गभीरपदे, तद्विभक्तेः साधुत्वार्थत्वादिति वाच्यम्, नैयायिकैरभेदार्थकतया मीमांसकैश्च 'अरूणाधिकरण'न्यायेनार्थवत्त्वस्वीकारात् । गभीरपदे लक्षणायां तस्यैव विशेष्यत्वसम्भवाच्च । न च नदीपदस्य द्रव्यवाचकतया साक्षात्सम्बन्धातुरोधेन तत्रैव सेति वाच्यम् ; गभीरपदस्यापि नित्यगुणिवाचकतया तेनापि साक्षात् सम्बन्धस्यैव सत्त्वात् । तस्माद्धिनिगमनाविरहात् पदद्वयलक्षणायां गोरवात् लाघवेन समुदाये एव साङ्गीकार्या । अत एवार्थवादवाक्ये प्राशस्त्यलक्षणाहुरिति चेत्, न ; अपभंशेऽपि लक्षणापत्तेः । तज्ज्ञाप्यस्य सत्त्वात् ।

किंञ्चैवं प्रत्येकं पदैवाक्येन च विनिगमनाविरहात् पदयोर्वाक्ये च तदापत्तावतिगौरवं स्यात् ।

अपि च, "ज्ञप्यसम्बन्धः" इत्यस्य स्वनिष्ठज्ञापकतानिरूपितज्ञाप्यतावदर्थसम्बन्ध इत्यर्थः ।

तत्र ज्ञापकत्वं किं वृत्यार्थभोधजनकत्वम्, उतार्थबोधजनकज्ञानविषयत्वमात्रम् ?

नाद्यः, वाक्ये लक्षणानापत्तेः । नान्त्यः, प्रत्येकवर्णानामप्यर्थवत्त्वापत्तौ विभक्त्याद्युत्पत्त्यापतिः । अपि च एवं सति पदघटताप्यानुपूर्वी लक्षकतावच्छेदिका वाच्येत्यगिगौरवम् । मम तु वाक्ये तद्विरहाद् न सा तथेति लाघवम् । ज्ञाप्यसम्बन्धस्य लक्षणात्वे एतत्सम्बन्धिज्ञा कमिदमिति ज्ञानजन्योपस्थितिरेव लक्षणा, जन्येति पर्यवसितम् । तथा च समवायादिना घटादिपदज्ञाप्या काशसम्बन्धिनोऽप्युपस्थितस्य शब्दबोधविषयत्तिरित्यपि वदन्ति ।

तस्मात् 'शक्यसम्बन्धो लक्षणा' इत्येव युक्तम् । सा च न समुदाय इति स्पष्टमेव । समाहारस्य वादनकर्मत्वादिकं तु स्वाश्रयवृत्तित्वादिरूपपरम्परया बोध्यम् ।

यद्वा, न तत्र समाहारः प्रतीयते, अतो न लक्षणा । एवञ्च साक्षादेव कर्मत्वम् । द्विवचनादिकं त्वनुशासनेसाधुत्वबोधनाद् च । समाहारद्वन्द्वादिव्यवहारस्तु प्राण्यङ्गादिद्वन्दवे एकवचनविधानात् समाहार इव द्वन्द्व एकवचननिमित्तत्वादिति गौणो बोध्यः । एवमितरेतरयोगेऽपि साहित्यविशिष्टयोर्लक्षणा । अत एव द्विवचनाद्यन्वयः । समाहारे तु साहित्यं विशेष्यमिति ततो भेदः ।

यद्वा, नात्रापि लक्षणा, एकस्मृत्युपारूढपदद्वायात् स्वस्वशक्त्योपस्थिततयोरर्थयोर्द्वित्वाद्यन्वयसम्भवात्, एकक्रियान्वयित्वरूपस्यैकबुद्ध्यवच्छिन्नत्वरूपस्य वा 1[fn एकधर्मावच्छिन्नस्य एकधर्मावच्छिन्नसंसर्गेण एकधर्मावच्छिन्नेऽन्वयः साहित्यम् । एकधर्मश्च समुदायत्वरूपः । एवञ्च 'ईश्वरं गुरुञ्च भजस्व' इति प्रयोगे ईश्वरस्य गुरोश्च ध्यानसेवनरूपविभिन्नक्रियायामन्वये साहित्यस्याभावात् समासाभावः ।
एवम् 'भिक्षामट, गाञ्चानय' इत्यादौ भिक्षायाः, कर्मतया 'अट' धात्वर्थक्रियायाम्; गोश्च कर्मतया 'आनयन' क्रियायाम् अन्वयेन तयोः समासः । ] साहित्यस्य पश्चादेवागमेन पूर्वं लक्षणाया अनौचित्याच्च ।

न च साहित्याभानेऽन्यतरस्यान्यतरक्रियान्वयविवक्षायां पश्य धवम्, खदिरं छिन्धीति वाक्यवत् पश्य धवखिदिरौ छिन्धीति प्रयोगापत्तिरिति वाच्यम्, द्वित्वरूपैकधर्मावच्छिन्नस्यैकत्रान्वयस्यैवौचित्यात् । न च द्वित्वान्वययोग्यतावच्छेदकसाहित्यमन्तरेण द्वित्वान्वयो दुर्लभ इति वाच्यम्, योग्यतावच्छेदकोपस्थितेरनपेक्षणात्, उपस्थिते योग्य एव तदन्वयनियमात् । अत एव घटेन जलमाहरेत्यादौ छिद्रेतरस्यैव योग्यताबलेनान्वयः, न तु च्छिद्रेतरत्वप्रकारकशाब्दबोधः, प्रकृत्यर्थतावच्छेदकस्यैव द्वित्वच्छेदनाद्यन्वये योग्यतावच्छेदकत्वे क्षत्यभावाच्च ।

ननु सङ्ख्यायामन्वयितावच्छेदकव्याप्यत्वविशिष्टपर्याप्त्या प्रकृत्यर्थेऽन्वयो वाच्यः, केवलपर्याप्त्या तदन्वये तु एकव्यक्तिपराकाशादिपदादपि द्विवचनापत्तेः, घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वेन प्रत्येकमाकाशादौ तदभवास्य वक्तुमशक्य2[fn 'न हि प्रत्येकमपर्याप्तस्य समुदाये पर्याप्तिः' इति नियमादिति भावः । ]त्वात्, प्रत्येकावृत्तेः समुदायावृत्तित्वात् ।

न चैवं पर्याप्त्यङ्गीकार एव व्यर्थः, अन्वयितावच्छेदकव्याप्यत्वविशिष्टसमवायस्यैव सम्बन्धत्वे क्षत्यभावादिति वाच्यम्, समावायस्यैकत्वनये घटनिष्ठद्वित्वादिसमवायस्य पटादावपि सत्त्वाद् घटत्वाव्याप्यत्वेन घटावित्यादिप्रयोगाणामप्रामाण्यापत्तेः । तस्य नानात्वे तु तादृश्वयाप्यत्वविशिष्टतत्तत्सम्बन्ध एव पर्याप्तिरस्तु । चैवमपि घटद्वयवृत्तिद्वित्वस्य घटत्वव्याप्यपर्याप्तिसम्बन्धेनैकघटेऽपि सत्त्वेनैकघटाभिप्रायेणापि घटाविति प्रयोगापत्तिरिति वाच्यम्, व्यासज्यवृत्तिधर्मोधकपदसमभिव्याहारस्यान्वयितावच्छेदकावच्छिन्नयावत्स्वाश्रयान्वयिस्वार्थंबोधकारणतया दोषाऽभावात् ।

न च तत्समभिव्याहारस्य यावत्स्वाश्रयान्वयिस्वार्थबोधकत्वमेवाङ्गीक्रियताम्, किं व्याप्यत्वनिवेशेन, किञ्च पर्याप्त्येति वाच्यम्, आकाशावत्रेति वाक्यत् योग्यताब्रमशायामेकव्यक्तिमात्रविषयद्वित्वाद्यन्वयबोधेन तथा कार्यकारणभावस्य कल्पयितुमशक्यत्वाद् द्वित्वादेरेकत्ववादिमतेऽसम्भवाच्च् ।

एवञ्च धवखदिसौ छिन्धीत्यादौ साहित्यभानमावश्यकम् । अन्यथान्वयितावच्छेदकधवत्वखदिरत्वादिव्याप्यद्वित्वादिद्वयप्रतीत्यापत्तेः । तथा चैकैकधवखदिरादितात्पर्येण तथाप्रयोगानुपपत्तिरिति चेत्, न ; यत्रैकधर्मस्यान्वयितावच्छेदकता, तत्रैव तादृशपर्यापतेः संसर्गतानियमः । यत्र त्वनेकधर्मस्यैव तथात्वम्, तत्र केवलपर्वाप्तेस्तथा । समवायस्यैव वा तत्त्वाभ्युपगमाद् न दोषः । एषैव च पुष्पवन्तादिपदे गतिः, नहि तत्र साहित्यभाने मानमस्ति ।

किञ्चैवमनङ्गीकारे साहित्यबानाङ्गीकारेऽपि अनुपपत्तितादवस्थ्यमेव । तथाहि -- साहित्यान्वये प्रत्यकधर्मायोरेवान्वयितावच्छेदकतया तत्तद्व्याप्यसाहित्यद्वयबोधापत्तिः । तस्मात् प्रागुक्तरीरितिरेव शरणम् ।

न चैवं 'क्षौमे वसानावग्निमादधीयताम्' इत्यादौ समुच्चित्योरन्वयलाभो न स्यादिति वाच्यम्, 'यत्कर्तव्यम्, तदनया सह' इति वाक्यात् तत्सिद्धेः । यद्यपि द्वन्द्वे परस्परान्वयरूपव्यपेक्षासायर्थ्यं नास्ति, तथापि "चार्थे द्वनद्वः" [ 2।2।29 ] इति विधिसामर्थ्यात् समासः । समुच्चयान्वाचययोस्त्वनभिधानात् समासो नेति स्पष्टं भाष्ये ।

यत्त्वेकस्यां क्रियायां कर्मत्वाद्येकरुपेणान्वयित्वं सामर्थ्यम्, 'कृतः सर्वोमृत्तिकया' इत्यादिवारणायैकरूपेणेति । तत्, न; समर्थसूत्रे वाक्यभेदापत्तेः । न चैवं विभक्त्यर्थानन्वयः प्रत्ययानां प्रकृत्यर्थन्वयित्वव्युत्पत्तेः । अत्र च या प्रकृतिः, न तदर्थौ धवखदिरौ, यदर्थौ च तौ, तयोर्न प्रकृतित्वमिति वाच्यम्, प्रत्ययानां सन्निहितार्थबोधकत्वव्युत्पत्तेर्वाङ्गीकारात् । सन्निधानञ् चानुशासनिकम् । तथा च यदुत्तरं यः प्रत्ययोऽनुशिष्टः, स त्दघटकार्थगतस्वार्थबोधक इत्यर्थः ।

अत्र च पदसमुदायाद् विभक्तिरनुशिष्टा । तत्र क्वचित् पूर्वपदार्थे, क्वचिदुत्तरपदार्थे, क्वचिदुभयत्रेत्यत्र योग्यतादिकं नियामकमिति 'अर्धपिप्पलीम्, राजपुरुषं पश्य' इत्यादौ न दोषः । एवं चित्रगुरित्यादिबहुव्रीहावपि अन्यपदार्थे उत्तरपदस्यैव लक्षणा ।

न च गोपदेन गोस्वामिलक्षणायां तत्र चित्रान्वयो न स्यात्, 1[fn 'पदार्थः पदार्थेनान्वेते, न तु पदार्थैकदेशेन' इति व्युत्पत्तिरिति भावः । ]पदार्थेकदेशत्वादिति वाच्यम्, शक्यार्थयोन्वबोधोत्तरं लक्षणाभ्युपगमात् । चित्रपदस्य तात्पर्यग्राहकतया गौपदेनैव चित्रगोस्वामि2[fn 'चित्रगोस्वामिनो लक्षणीयत्वाद्वा' इति पाठः समीचीनः प्रतिभाति । ]लक्षणाद्वा न दोषः । व्युत्पत्तिनैचित्र्यादेकदेशेनाप्यन्वयोऽत्र ?0इत्यन्ये?0 ।

गोपदेन शक्या गौः, लक्षणया स्वामी, एकपदार्थयोरपि परस्परान्वयो व्युत्पत्तिवैचित्र्यादित्यपरे . एवञ्च न क्वापि विशिष्टशक्तेः, एकार्थीभावस्य वा आवश्यकत्वम् । एतदेवाभिप्रेत्य भगवता भाष्यकारेणोक्तम्, 'परस्परव्यपेक्षां सामर्थ्यमेके इच्छन्ति' इति वदन्ति । अयमेव च पक्षो नैयायिकादिसम्मतः ।।

?0अत्र वदन्ति -----?0 पङ्कजशब्दादावपि प्रत्ययादेः पद्मात्वविशिष्टे निरूढलक्षमयैवोपपत्तौ रूढिशक्त्युच्छेदापत्तिः, अवयवमवशक्तिञ्चाजानतोऽपि बोधात्, बाधाच्च, नियततात्पर्यानुरोधाच्च, प्रामाणिकानां शक्तिव्यवहाराच्च, सा सिध्यतीति चेत्, समं प्रकृतेऽपि ।

किञ्च 'कण्ठे कालः' 'दास्याः पुत्रः' इत्यादौ लक्षणायां मानाभावेन सुन्दरे इत्यादिविशेषणान्वयापत्तिदुर्वारा, न च तत्रापि दासीपदस्य दासीसम्बन्धिनि लक्षणा, दासीसम्बन्धिसम्बन्धीति बोधापत्तेः । षष्ठ्यन्तस्य लक्षणा तु दुरुपपादा, शक्यभावात् । षष्ठ्याः सम्बन्धिनि लक्षणायामपि दासीपदार्थस्यैकदेशत्वं दुरुपपादम् ।

अपि च 'पुरुषो राजसम्बन्धी' 'भार्यासम्बन्धी च ' इतिवद् राजपुरुषो भार्यासम्बन्धीत्यस्य राजसम्बन्धी परुषोऽश्वश्चेतिवद् राजपुरुषोऽश्वश्चेत्यस्य चापत्तिः । समासे भिन्नैव व्युत्पत्तिरिति चेत्, सिद्ध एकार्थीभावः ।

अपि च कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र कमण्डलुशब्दात् "इत्थम्भूतलक्षणे" [ 2।3।21 ] इति तृतीयापत्तिः, न च "सुपो धातुप्रातिपदिकयोः" [ 2।4।71 ] इति लुक्, समासोत्तरं जायमानत्वेन प्रातिपदिकानवयवत्वात्, 'तन्मध्यपतित'न्यायात् तद्ग्रहणेन ग्रहणेऽपि तदवयत्वे मानाभावात्, 'लक्ष्येलक्षणस्य' इति न्यायाच्चेति स्पष्टम् "इत्थम्भूतलक्षणे" सूत्रे भाष्यकैयटयोः ।

अपि च कृत्तद्धितसमासादिसाधारण1[fn कृत्तद्धितैकशेषसनाद्यन्तधातुरूपप़्चवृत्तयन्यतमत्वरूपवृत्तित्वलक्षणस्येत्यर्थः । ] वृत्तिलक्षणस्य त्वन्मते दुर्वचत्वम्, पूरवोक्तसामर्थ्यवत् समुदायत्वस्य वाक्येऽति प्रसक्तत्वात् । 2[fn तदभिन्नभिन्नत्वमन्यतमत्वम् । एवञ्च भेदप्रतियोगितया निखिलस्य वस्तुजातस्य प्रवेशाद् गौरवमिति भावः । ]अन्यतमत्वस्य गुरुतरत्वाच्च । मम तु एकार्थीभाववत् समुदायत्वं सुवचमेव ।

किञ्च, समानार्थकवाक्यस्यानिवृत्तये वा वचनारम्भे तव गौरवम् । न च लक्षमया प्रयोगे समासः, अन्यथा वाक्यमिति व्यस्थायाः सम्भवात् ममापि तदनावश्यकम् कर्मधारये लक्षणाया अभावात् । मम त्वेकार्थीभावे वृत्तिः, अन्यथा वाक्यमिति न्यायसिद्धार्थकथनं तत् ।

अपि च, 'वाप्यश्वः' इत्यादौ प्रगृह्यत्वापत्तिः । न चात्र वापीपदस्य नदधिकरणके लक्षमासत्त्वेन सप्तम्यर्थमात्रपर्यवसन्नत्वाभाव इति न दोष इति वाच्यम्, 'सोमो गौरी अधिश्रितः' इत्यादावप्यनापत्तेः । तत्रापि विभक्तिलुकः सत्त्वेन नामार्थयोरन्वयानुरोधाद् गौरीपदस्य गौर्यधिकरणके लक्षणायास्तुल्यत्वात् । मम तु न दोषः,
इतरासंसृष्टत्वेनोपस्थितिजनकत्वरूपसप्तम्यर्थमात्रपर्यवसन्नत्वाभावात् ।

इदमेवाभिप्रेत्य 'अनहत्स्वार्थायाञ्च न दोषः समुदायार्थोऽभिधीयते' इति भाष्ये उक्तम् ।

एतेन जहत्स्वार्थतैवैकार्थीभावः, अजहत्स्वार्था च व्यपेक्षैव, "ईदूतौ" [1।1।19 ] इति सूत्रस्थमिदं भाष्यञ्च व्यपेक्षावाद एवेत्यपास्तम् ।

अपि च, ऋद्धस्य देवस्य पुरुषः' वाक्यवत् कर्मधारयघटितऋद्धदेवस्य पुरुष इत्यादेर्विशिष्टस्य वैशिष्ट्यमिति विषयतावशालिबोध इव विशेष्ये विशेषणम् । तत्र च विशेषणान्तरमिति विषयताशालीबोधऽपि साधुत्वापत्तिः । मम तु न दोषः, ऋद्धनकार्थीभूतस्य तद्वाशिष्टयेनेवतारन्वयात् ।

किञ्च, समुदायस्यार्थवत्वाभावात् प्रातिपदिकसञ्ज्ञा दुरूपपादा । प्रागुक्तप्रकाराश्रयेण 1तूत्तरसूत्रे तदन्तविधिलाभोन स्यात् । मम त्वर्थवत्पदानुवृत्तिसामर्थ्यात् तल्लाभ इतिस्पष्टमाकरे । तव तु, तदनुवृत्तावपि कृत्तद्धितयोरेवार्थवत्वेन विपरीतो दोष एव स्यात् ।

?0किञ्च?0, 'पूर्वशालप्रियः' इत्यादिघटकपूर्वशालाशब्दे प्रातिपदिकत्वापत्तिः । पराङ्गवद्भावे तु न दोषः, तन्निमित्तग्रहणादेव ऋतेनेत्यादेः पराङ्गवद्भाववारणात् । मित्रावरुणावितयादेस्तु छान्दसत्वात् स बोध्यः ।

यद्वा, ऋतकर्मकर्धनकर्तृत्वात् तयोस्तन्निमित्तत्वमप्यस्त्येव । अत एव "सुबामन्त्रित" [2।9.2 ] इति सूत्रे 'सुबिति किमर्थम् ? करोष्यटयन । नैतदस्ति । असामर्थ्यादत्र न भविष्यति । नैष दोषः । 'समानाधिकरणमसर्थवत्' इत्यस्य 'अधात्वभिहितम्' इत्येवं निषेधात्' इत्युक्त्वा षष्ठ्यन्तममन्त्रितार्थं प्रति यत्कारकञ्च, तदेव पाराङ्गवद्धवतीत्यर्थकम् 'षष्ठ्यामन्त्रितकारकवचनं वा कर्तव्यम्' तन्निमित्तग्रहणं वा कार्यम् । 'मद्राणां राजन्, परशुना वृश्यन्' इत्यत्रैव यथा स्यात्, क्षत्रेणाग्ने स्वायुः संरभस्व, मित्रेणाग्ने मित्रधेये यतस्व' इत्यादौ 'क्षत्रेण मित्रेण' इत्यनयोर्मा भूद्' इति भाष्योक्तं सङ्गच्छते, समर्थपरिभाषोपस्थाने हि असामथ्र्याद् एवाप्राप्तौ भाष्यासङ्गतिः स्पष्टैव ।।

यत्तु ; कैयटेन क्षत्रेणेत्यादौ 2'क्रियाद्वारकं व्यपेक्षालक्षणं सामर्थ्यमस्ति' इत्युक्तम् । तत्, न; व्यपेक्षावादे 'कृतः सर्वो मृत्तिक्या' इत्यादौ समासापत्तेः । एवञ्च भो देवदत्त, भगो देवदत्त' इत्यादौ भोशब्दादेः पराङ्गत्वं न भवत्येव । यद्यपि भाष्ये वचनद्वयमारब्धम्, तथापि तन्निमित्तग्रहणमेव ज्यायः, 'गोषु स्वामिन्' इत्यत्रापि पराङ्गवद्भवासिद्धेः । अत एव 'वस्त्रं राज्ञः पुरुषागच्छ' इत्यादौ न पराङ्गवत्त्वम् । वेदभाष्यं तु फणिभाष्यविरोधादनादेयमेवेति दिक् ।

कर्मधारये तु, अवयवशक्त्योपस्तापितपदार्थयोरभेदस्य संसर्गविधयैव मानसम्भवेन न शक्तिः, न वा लक्षणा । 'उपकुम्भम्' इत्याद्यव्ययीभावे समूपकुम्भादिपदानां लक्षणा । उपादिपदं तात्पर्यग्राहकम् । अतो धववन्तमानयेत्यादौ कर्मत्वाद्यन्वयवारणाय क्लृप्तया 'प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्व'व्युत्पत्त्या विरोधो न । अत एव पाणिपादमितयादिसमाहारद्वन्द्वेऽपि उत्तरपदस्य पाणिपादादिसमाहारे लक्षणा ।

?0यत्तु?0, समुदाये लक्षणेति । तत्, न; तस्य शक्त्यभावात् । 'शक्यसम्बन्धो हि लक्षणा' । ननु 3[fn मीमांसकमतमुपस्थाप्य निराकरोति 'ननु' इत्यादिना । ] 'ज्ञाप्यसम्बन्ध एव लक्षणा, 'गभीरायां नद्यां घोषः' इत्याद्यनुरोधेन तस्या एवोचितत्वात् । तथाहि -- न तावद् गभीरपदं तोरलक्षकम्, नद्यामित्यनन्वयाप्तेः, नहि तीरं
नदी । अत एव न नदीपदेऽपि गभीरपदीतीरं लक्ष्यते, गभीरपदं लक्षणायां तस्यैव विशेष्यत्वसम्भवाच्च । न च नदीपदस्य द्रव्यवाचकतया साज्ञात्सम्बन्धानुरधेन तत्रैव सेति वाच्यम् ; गभीरपदस्यापि नित्यगुणिवाचकतया तेनापि साक्षात् सम्बन्धस्यैव सत्त्वात् । तस्माद्विनिगमनाविरहात् पदद्वयलक्षणायां गौरवात् लाघवेन सुदाये एव साङ्गीकार्या । अत एवार्थवादवाक्ये प्राशस्त्यलक्षणामाहुरिति चेत् न ; अपभ्रंशेऽपि लक्षणापत्तेः । तज्ज्ञाप्यस्य सत्त्ववात् ।

किञ्चैवं प्रत्येकं पदैर्वाक्येन च विनिगमनाविरहात् पदयोर्वाक्ये च तदापत्तावतिगौरवं स्यात् ।
अपि च, 'ज्ञाप्यसम्बन्धः' इत्यस्य स्वनिष्ठज्ञापकतानिरूपितज्ञाप्यतावदर्थसम्बन्ध इत्यर्थः ।

तत्र ज्ञापकत्वं किं वृत्त्यार्थबोधजनकत्वम्, उत्तार्थबोधजनकज्ञानविषयत्वमात्रम् ?
नाद्यः, वाक्ये लक्षणानापत्तेः । नान्त्यः, प्रत्येकवर्णानामप्यर्थवत्त्वापत्तौ विभक्याद्युत्पत्त्यापत्तिः । अपि च एवं सति पदघटिताप्यानुपूर्वी लक्षकतावच्छेदिका वाच्येत्यतिगौरवम् । मम तु वाक्ये तद्विरहाद् न सा तथेति लाघवम् । ज्ञाप्यसम्बन्धस्य लक्षणात्वे एतत्सम्बन्धिज्ञा कमिदमिति ज्ञानज्योपस्थितिरेव लक्षणा, जन्येति पर्यवसितम् । तथा च समवायादिना घटादिपदज्ञाप्याकाशसम्बन्धिनोऽप्युपस्थितस्य शब्दबोधविषयतापत्तिरित्यपि वदन्ति ।

तस्मात् 'शक्यसम्बन्धो लक्षणा' इत्येव युक्तम् । सा च न समुदाय इति स्पष्टमेव । समाहारस्य वादनकर्मत्वादिकं तु स्वाश्रयवृत्तित्वादिरूपपरम्परया बोध्यम् ।

यद्वा, न तत्र समाहारः प्रतीयते, अतो न लक्षणा । एवञ्च साक्षादेव कर्मत्वम् । द्विवचनादिकं त्वनुशासनेनासाधुत्वबोधनाद् न । समाहारद्वन्द्वादिव्यवहारस्तु प्राण्यङगादिद्वन्द्वे एकवचनविधानात् समाहार इव द्वन्द्व एकवचननिमित्तत्वादिति गौणो बोध्यः । एवमितरेतरयोगेऽपि साहित्यविशिष्ठोर्लक्षणा । अत एव द्विवचनाद्यन्वयः । समाहारे तु साहित्यं विशेष्यमिति ततो भेदः ।

?0यद्वा?0, नात्रापि लक्षणा, एकस्मृत्युपारूढपदद्वयात् स्वस्वशक्त्योपस्थितयोरर्थयोर्द्वित्वाद्यन्वयसम्भवात्, एकक्रियान्वयित्वयित्वरूपस्यैकबुद्ध्यावच्छिन्नत्वरूपस्य वा 1[fn एकधर्मावच्छिन्नस्य एकधर्मावच्छिन्नसंसर्गेण एकधर्मावच्छिन्नेऽन्वयः साहित्यम् । एकधर्मश्च समुदायत्वरूपः । एवञ्च 'ईश्वरं गुरुञ्च भजस्व' इति पयोगे ईश्वरस्य गुरोश्च ध्यानसेवनरूपविभिन्नक्रियायामन्वये साहित्यस्याभावात् समासाभावः । ] साहित्यस्य पश्चादेवागमेन पूर्वं लक्षणाया अनौचित्याच्च ।

न च साहित्याभानेऽन्यतरस्यान्यतरक्रियान्वयविवक्षायां पश्य धवम्, खदिरं छिन्धीति वाक्यवत् पश्य धवखदिरौ छिन्धीति प्रयोगापत्तिरिति वाच्यम्, द्वित्वरूपैकधर्मवच्छिन्नस्यैकत्रान्वयस्यैवौचित्यात् । न च द्वित्वान्वययोग्यतावच्छेदकसाहित्यमन्तरेम द्वित्वान्वयो दुर्लभ इति वाच्यम्, योग्यतावच्छेदकोपस्थितेरनपेक्षणात्, उपस्थिते योग्य एव तदन्वयनियमात् । अत एव घटेन जलमाहरेत्यादौ छिद्रेतरस्यैव योग्यतावबलेनान्वयः, न तु एकव्यक्तिपराकाशादिपदादपि द्विवचनापत्तेः, घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वेन प्रत्येकमाकाशादौ तदभावस्य वक्तुमशक्य2[fn 'न हि प्रत्येकमपर्याप्तस्य समुदाये पर्याप्तिः' इति नियमादिति भावः । ]त्वात्, प्रत्येकावृत्तेः समुदायावृत्तित्वात् ।

न चैवमेको न द्वावित्यतो बोधानुपपत्तिः ; एकस्मिन्नपि केवलपर्याप्तेः सत्त्वेन केवलपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदस्य बोधयितुमशक्यत्वात्, एकत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदश्चाप्रसिद्धा एवेति वाच्यम्,
द्वित्वादिपर्याप्तेरुभायादिवृत्तिधर्मावच्छेद्यत्वनियमेन तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन तद्वद्भेदस्य तद्वति वृत्तौ बाधकाभावात् ।

न चैवं पर्याप्त्यङ्गीकार एव व्यर्थः, अन्वयितावच्छेदकव्याप्यत्वविशिष्टसमावायस्यैव सम्बन्धत्वे क्षत्यभावादिति वाच्यम्, समवायस्यैकत्वनये घटनिष्ठद्वित्वादिसमवायस्य पटादावपि सत्त्वाद् घटत्वाव्याप्यत्वेन घटावित्यादिफ्रयोगाणामप्रामाण्यापत्तेः । तस्य नानात्वे तु तादृशव्याप्यत्वविशिष्टतत्तत्सम्बन्ध एव पर्याप्तिरस्तु । न चैवमपि घटद्वयवृत्तिद्वित्वस्य घटत्वाव्याप्यर्याप्तिसम्बन्धेनैकघटेऽपि सत्त्वनैकघटाभिप्रायेणापि घटाविति प्रयोगापत्तिरिति वाच्यम्, व्यासज्यवृत्तिधर्मबोधकपदसमभिव्याहारस्यान्वयितावच्छेदकावच्चिन्नयावत्स्वाश्रयान्वयिस्वार्थबोधकारणतया दोषाऽभावात् ।

न च तत्समभिव्याहारस्य यावत्स्वाश्रयान्वयिस्वार्थबोधकत्वमेवाङ्गीक्रियाताम्, किं व्याप्यत्वनिवेशेन, किञ्च पर्याप्त्येति वाच्यम्, आकाशावत्रेति वाक्यात् योग्यताभ्रमदशायामेकव्यक्तिमात्रविषयद्वित्वाद्यन्वयबोधेन तथा कार्यकारणभावस्य कल्पयितुमशक्यत्वाद् द्वित्वादेरेकत्ववादिमतेऽसम्भवाच्च ।

एवञ्च धवखदिरौ छिन्धीत्यादौ साहित्यभानमावश्यकम् । अन्यथान्वयितावच्छेदकधवत्वखदिरत्वादिव्याप्यद्वित्वादिद्वयप्रतीत्यापत्तेः । तथा चैकेकधवखदिरादितात्पर्येम तथाप्रयोगानुपपत्तिरिति चेत्, न; यत्रैकधर्मस्यान्वयितावच्छेदकता, तत्रैव तादृशपर्याप्तेः संसर्गतानियमः । यत्र त्वनेकधर्मस्यैव तथात्वम्, तत्र केवलपर्धाप्तेस्तथा । समवायस्यैव वा तत्त्वाभ्युपगमाद् न दोषः । एषैव च पुष्पवन्तादिपदे गतिः, नहि तत्र साहित्यभाने मानमस्ति ।

किञ्चैवमनङ्गीकारे साहित्यभानार्घीकारेऽपि अनुपपत्तितादवस्थ्यमेव । तथाहि --- साहित्यान्वये प्रत्येकधर्मयोरेवान्वयितावच्छेदकतया तत्तद्व्याप्यसाहित्यद्वयबोधापत्तिः । तस्मात् प्रागुक्तरीतिरेव शरणम् ।

न चैवम् 'क्षौमे वसानावग्निमादधीयताम्' इत्यादौ समुच्चितयोरन्वयलाभो न स्यादिति वाच्यम्, 'यत्कर्तव्यम्, तदनया सह' इति वाक्यात् तत्सद्धेः । यद्यपि द्वन्द्वे परस्परान्वयरूपव्यपेक्षासायर्थ्यं नास्ति, तथापि "चार्थे द्वन्द्वः" [ 2।2।29 ] इति विधिसामर्थ्यात् समासः । समुच्चयान्वाचययोस्त्वनभिधानात् समासो नेति स्पष्टं भाष्ये ।

यत्त्वेकस्यां क्रियायां कर्मत्वाद्येकरूपेणान्वयित्वं सामर्थ्यम्, 'कृतः सर्वोमृत्तिकया' इत्यादिवारणायैकरूपेणेति । तत्, न; समर्थसूत्रे वाक्यभेदापत्तेः । न चैवं विभक्त्यर्थानन्वयः प्रत्ययानां प्रकृत्यर्थान्वयित्वव्युत्पत्तेः । अत्र च या प्रकृतिः, न तदर्थौ धवखदिरौ, यदर्थौ च तौ, तयोर्न प्रकृतित्वमिति वाच्यम्, प्रत्ययानां सन्निहितार्थबोधक्तवव्युत्पत्तेरेवाङ्गीकारात् । सन्निधानञ् चानुशासनिकम् । तथा च यदुत्तरं यः प्रत्ययोऽनुशिष्टः, स तद्घटकार्थगतस्वार्थबोधक इत्यर्थः ।

अत्र च पदसमुदायाद् विभक्तिरनुशिष्टा । तत्र क्वचित् पूर्वपदार्थे, क्वचिदुत्तरपदार्थे, क्वचिदुभयत्रेत्यत्र योग्यतादिकं नियामकमिति 'अर्धपिप्पलीम्, राजपुरुषं पश्य' इत्यादौन दोषः । एवं चित्रगुरित्यादिबहुव्रीहावपि अन्यपदार्थे उत्तरपदस्यैव लक्षणा ।

न च गोपदेन गोस्वामिलक्षणायां तत्र चित्रान्वयो न स्यात्, 1[Fn 'पदार्थः पदार्थेनान्वेति, न तु
पदार्थैकदेशेन' इति व्युत्पत्तिरिति भावः । ] पदार्थैकदेशत्वादिति वाच्यम्, शक्यार्थयोरन्वयबोधोत्तरं लक्षणाभयुपगमात् । चित्रपदस्य तात्पर्यग्राहकतया गोपदेनैव चित्रगोस्वामि2[fn 'चित्रगोस्वामिनो लक्षणीयत्वाद्‌वा' इति पाठः समीचीनः प्रतिभाति । ] लक्षणाद्वा न दोषः । व्युत्पत्तिवैचित्र्यादेकदेशेनाप्यन्वयोऽत्र ?0इत्यन्ये ।

गोपदेन शक्या गौः, लक्षणया स्वामी, एकपदार्थयोरपि परस्परान्वयो व्युत्पत्तिवैचित्र्यादित्यपरे। एवञ्च न क्वापि विशिष्टशक्तेः, एकार्थीभावस्य वा आवश्यकत्वम् । एतदेवाभिप्रेत्य भगवता भाष्यकारेणोक्तम् 'परस्परव्यपेक्षां सामर्थ्यमेके इच्छन्ति' इति वदन्ति । अयमेव च पक्षो नैयायिकादिसम्मतः ।।

?0अत्र वदन्ति ---?0 पङ्कजशब्दादावपि प्रत्ययादेः पद्मत्वविशिष्टे निरूढलक्षणयैवोपपत्तौ रूढिशक्य्युच्छेदापत्तिः, अवयवमवयवशक्तिञ्चाजानतोऽपि बोधात्, बाधादिप्रतिसन्धानं विनापि बोधाच्च, नियततात्पर्यानुरोधाच्च, प्रामाणिकानां शक्तिव्यवहाराच्च, सा सिध्यतीति चेत्, समं प्रकृतेऽपि ।

किञ्च 'कण्ठे कालः' 'दास्याः पुत्रः' इत्यादौ लक्षणायां मानाभावेन सुन्दरे इत्यादिविशेषणान्वयापत्तिदुर्वारा, न च तत्रापि दासीपदस्य दासीसम्बन्धिनि लक्षणा, दासीसम्बन्धीति बोधापत्तेः । षष्ठ्यान्तस्य लक्षणा तु दुरुपपादा, शक्त्याभावात् । षष्ठ्याः सम्बन्धिनि लक्षणायौमपि दासीपदार्थस्यैकदेशत्वं दुरुपपादम् ।

अपि च 'परुषो राजसम्बन्धी' 'भार्यासम्बन्धी च' इतिवद् राजपुरुषो भार्यासम्बन्धीत्यस्य राजसम्बन्धी परुषोऽश्वश्चेतिवद् राजपुरुषोऽश्व्चेत्यस्य चापत्तिः । समासे भिन्नैव व्युत्पत्तिरिति चेत्, सिद्ध एकार्थीभावः ।

अपि च कमण्डलुपार्णिं छात्रमद्राक्षीदित्यत्र कमण्डलुशब्दात् "इत्थम्भूतलक्षणे" [ 2।3।21 ] इति तृतीयापत्तिः, न च "सुपो धातुप्रातिपदिकयोः" [2।4।71 ] इति लुक्, समासोत्तरं जायमानत्वेन प्रातिपदिकानवयवत्वात्, 'तन्मध्यपतति'न्यायात् तद्ग्रहणेन ग्रहणेऽपि तदवयत्वे मानाभावात्, 'लक्ष्ये लक्षणस्य' इति न्यायाच्चेति स्पष्टम् "इत्युम्भूतलक्षणे" सूत्रे भाष्यकैयटयोः ।

अपि च कृत्तद्धितसमासादिसाधारण1[fn कृत्तद्धितैकशेषसनाद्यन्तधातुरूपपञ्चवृत्त्यन्यतमत्वरूपवृत्तित्वलक्षणस्येत्यर्थः । ] वृत्तिलक्षणस्य त्वन्मते दुर्वचत्वम्, पूर्वोक्तसामर्थ्यवत् समुदायत्वस्य वाक्येऽति प्रसक्तत्वात् । 2[fn तदभिन्नभिन्नत्वमन्यतमत्वम् । एवञ्च भेदप्रतियोगितया निखिलस्य वस्तुजातस्य प्रवेशाद् गौरवमिति भावः । ]न्यतमत्वस्य गुरुतरत्वाच्च । मम तु एकार्थीभाववत् सुदायत्वं सुवचमेव ।

किञ्च, समानार्थकवाक्यस्यानिवृत्तये वा वचनारम्भे तव गौरवम् । न च लक्षणया प्रयोगे समासः, अन्यथा वाक्यमिति व्यवस्थायाः सम्भवात् ममापि तदनावश्यकम्, कर्मधारये लक्षणाया अभावात् । मम त्वेकार्थीभावे वृत्तिः, अन्यथा वाक्यमिति न्यायसिद्धार्थकथनं तत् ।

अपि च, 'वाप्यश्वः' इत्यादौ प्रगृह्यत्वापत्तिः । न चात्र वापीपदस्य तदधिकरणके लक्षणासत्त्वेन सप्तम्यर्थमात्रपर्यवसन्नत्वाभाव इति न दोष इति वाच्यम्, 'सोमो गौरी अधिश्रितः' इत्यादावप्यनापत्तेः । तत्रापि विभिक्तिलुकः सत्त्वेन नामार्थयोरन्वयानुरोधाद् गौरीपदस्य गौर्यधिकरणके लक्षणायास्तुल्यत्वात् । मम तु न दोषः, इतरासंसृष्टत्वेनोपस्थितिजनक्तवरूपसप्तम्यर्थमात्रपर्यवसन्नत्वाभावात् ।

इदमेवाभिप्रेत्य'अजहत्स्वार्थायाञ्च न दोषः समुदायार्थोऽभिधीयते' इति भाष्ये उक्तम् ।

एतेन जहत्स्वार्थतैवैकार्थीभावः, अजहत्स्वार्था च व्यपेक्षैव, "ईदूतौ" [ 1।1।19 ] इति सूत्रस्थमिदं भाष्यञ्च व्यपेक्षावाद् एवेत्यपास्तम् ।

अपि च, 'ऋद्धस्य देवस्य पुरुषः' इति वाक्यवत् कर्मधारयघटितऋद्धदेवस्य पुरुष इत्यादेर्विशिष्टस्य वैशिष्ट्यमिति विषयताशालिदोष इव विशेष्ये विशेषणम् । तत्र च विशेषणान्तरमिति विषयताशालबीधेऽपि साधुत्वापत्तिः । मम तु न दोषः, ऋद्धनकार्थीभूतस्य तद्धैशिष्ट्येननैवतरान्वयात् ।

किञ्च, समुदायस्यार्थवत्त्वाभावात् प्रातिपदिकसञ्ज्ञा दुरुपपादा । प्रागुक्तप्रकाराश्रयेण 1[fn "कृत्तद्धितसमासाश्च" इति सूत्र इत्यर्थः । ] तूत्तरसूत्रे तदन्तविधिलाभो न स्यात् । मम त्वर्थवत्पदानुवृत्तिसामर्थ्यात् तल्लाभ इति स्पष्टमाकरे । तव तु, तदनुवृत्तावपि कृत्तद्धितयोरेवार्थवत्त्वेन विपरीतो दोष एव स्यात् ।

?0किञ्च?0, 'पूर्वशालाप्रियः' इत्यादिघटपूर्वशालाशब्दे प्रातिपदिकत्वापत्तिः । पराङ्गवद्भावे तु न दोषः, तन्निमित्तग्रहमादेव ऋतेनत्यादेः पराङ्गवद्भाववारणात् । मित्रावरूणावित्यादेस्तु छान्दसत्वात् स बोध्यः ।

यद्वा, ऋतकर्मकवर्धनकर्तृत्वात् तयोस्तन्निमित्तत्वमप्यस्त्येव । अत एव "सुबामन्त्रित" [ 2।9।2 ] इति सूत्रे 'सुबिति किमर्थम् ? करोष्यटयन । नैतदस्ति । असामर्थ्यादत्र न भविष्यति । नैष दोषः। 'समानाधिकरणमसमर्थवत्' इत्यस्य 'अधात्वभिहितम्' इत्येवं निषेधात्' इत्युक्त्वा षष्ठ्यन्तमामन्त्रितार्थं प्रति यत्कारकञ्च, तदेव पाराङ्गवद्भवतीत्यर्थकम् 'षष्ठ्यामन्त्रितकारकवचनं वा कर्तव्यम्' तन्निमित्तग्रहणं वा कार्यम् । 'मद्राणां राजन्, परशुना वृश्यन्' इत्यत्रैव यथा स्यात्, क्षत्रेणाग्ने स्वायुः संरभस्व, मित्रेणाग्ने मित्रधेये यतस्व' इत्यादौ 'क्षत्रेण मित्रेण' इत्यनयोर्मा भूद्' इति भाष्योक्तं सङ्गच्छते, समर्थपरिभाषोपस्थाने हि असामर्थ्याद् एवाप्राप्तौ भाष्यासङ्गतिः स्पष्टैव ।।

यत्तु ; कैयटेन क्षत्रेणेत्यादौ 2[fn 'क्रियाद्वारकं तु व्यपेक्षालक्षणं सामर्थ्यमस्तीीति स्यात् पराङ्गवद्भावः । इह वचनेनातिप्रसङ्गे निरस्ते पूर्वसूत्र एकार्थीभाव एव सामर्थ्यमाश्रितम् । अन्यथा तु द्विविधमपि सामर्थ्यमाश्रीयेत' इत्येवमानुपूर्वोकः कैयचग्रन्थः । ] 'क्रियाद्वारकं व्यपेक्षालक्षणं सामर्थ्यमस्ति' इत्युक्तम् । तत्, न ; व्यपेक्षावादे 'कृतः सर्वो मृत्तिक्या' इत्यादौ समासापत्तेः । एवञ्च भो देवदत्त, भगो देवदत्त' इत्यादौ भोशब्दादेः पराङ्गत्वं न भवत्येव । यद्यपि भाष्ये वचनद्वयमारब्धम्, तथापि तन्निमित्तग्रहणमेव ज्यायः,'गोषु स्वामिन्' इत्यत्रापि पराङ्गवद्भावासिद्धेः । अत एव 'वस्त्रं राज्ञः पुरुषागच्छ' इत्यादौ न पराङ्गवत्त्वम् । वेदभाष्यं तु फणिभाष्यविरोधादनादेयमेवेति दिक् ।

?0यत्तु?0, 'राजपुरुः' इत्यादौ पूर्वपदे सम्बन्धिनि लक्षणास्वीकारे कर्मधारयत्वापत्तिः, समानाधिकरणतत्पुरुषत्वस्यैव तत्त्वात् । न च समासपूर्वदशायां यत्राभेदान्वयः, तत्र कर्मधारयः, यत्र भेदेन, तत्र तत्पुरुषमात्रमिति वाच्यम्, नित्यसमासे विग्रहशून्यत्वेन तादृशतत्पुरुषकर्मधारययोरव्याप्तेः, अलौकिकविग्रहस्य सत्त्वेऽपि तस्यान्वयबोधे स्वरूपायोग्यत्वात् ।

न च समासात्पूर्वं यत्र तुल्यविभक्तित्वम्, तत्रैव कर्मधारयत्वम्, नान्यत्रेति वाच्यम्, पूर्वावस्थाया असमासार्थविवक्षानुसारेणैव कल्प्यतया तव समासवाक्ये बोधाविशेषेण तद्वैलक्षण्यकल्पनस्याप्यसम्भवादिति। तत्,
न; यत्र समासघटकपदार्थस्य विशष्यत्वे सति तद्घटकीभूतपदानां स्वोत्तरमुत्पत्तियोग्यविभक्त्यर्थवदन्तर्भावेण लक्षणं विना सामानाधिकरण्यम्, तत्र कर्मधारयत्वम्, तदन्तर्भावेण लक्षणया सामानाधिकरण्ये त्वन्य इति विभागसम्भवात् । सत्यन्तेन 'पञ्चमूली' इत्यादिव्यावृत्तिः ।

?0यदपि?0 'ओदनः पचति' इत्यादिवारणाय 'प्रातिपदिकार्थप्रकारकबोधमात्रं प्रति सुप्‌जन्योपस्थितिर्हेतुः' इत्येव कार्यकारणभावो लाघवात्, न त्वभेदातिरिक्तसंसर्गेणेत्यादिनिवेशः । नीलं घटमानयेत्यादौ च प्रत्येकं विशेषमविशेष्ययोर्द्वयोरपि भावनायामन्वयः, पार्ष्णिकस्त्वभेदान्वयः । तदुक्तं भाष्ये 'कटोऽपि कर्म, भीष्मादयोऽपि' इति ।

नन्वत्र परमेण कारकेण कृतमित्यर्थे परिनिष्ठितविभक्त्या समासनुपपत्तिः, असामर्थ्यात् । पार्ष्णिकाभेदान्वयमादाय सामर्थ्यमिति चेत्, अलौकिके तत्कल्पने क्रियान्वयनिमित्तविभक्तेरपगमापत्तिः, निमित्तापगमादिति चेत्, न ; समानाधिकरणप्रकरणे समासविधायकशास्त्रप्रामाण्येन निमित्तापायेऽपि नैमित्तिकस्थितिस्वीकारात् ।

चैत्रः पचति, नीलो घटः, स्तोकं पचतीत्यादौ प्रथमादेरभेद एवार्थः । न चाबेदस्य संसर्गतया भानोपपत्तौ विभक्तेर्वृततिकल्पने गौरवमिति वाच्यम्, यत्राभेदे विशेषणविभक्तेर्लक्षणा, तत्र नीलो घट इति वाक्याद्भेदप्रकारकबोधस्याव्युत्पत्त्यातादृशसमभिव्याहारज्ञानस्य द्विविधबोधहेतुत्वकल्पनापेक्षया वृत्ति कल्पनस्य लघुत्वात् ।

न चैवमेतन्मते 'घटो न नीलः' इति वाक्यान्नीलाभेदाभावप्रतीतिरेव स्यात्, न तु नीलभेदप्रतीतिः, यादृशसमभिव्याहारान्नञः सत्त्वे धर्मिणि येन सम्बन्धेन यद्वत्त्वं प्रतीयते, तादृशसमभिव्याहारस्थले नञा तत्र धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावबोधस्यैव व्युत्पत्तिसिद्धत्वादिति वाच्यम्, इष्टापत्तेः । नीलभेदप्रतीतिस्त्वार्थ्येव । 1[fn अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वम्, भेदाभावाभावस्य च प्रतियोगितावच्छेदकरूपत्वमिति सिद्धान्तः सर्वैरपि स्वीक्रियते । अत्र च ग्रन्थकृता अभेदाभावस्य प्रतियोगिरूपत्वं स्वीकृतमिति तृतीयः कश्चन पन्थाः । ] अत्रेदाभावस्य प्रतियोगिस्वरूपत्वाच्च । समनियताभावानामैक्येन भूतले घटो नास्तीत्यादौ घटकर्तृ कसत्ताभावप्रतीतौ घटाभावप्रतीतेरिव तत्प्रतीतेरूपपत्तेश्च ।

एवञ्च विभक्यर्थमद्वारीकृत्य प्रातिपदिकार्थस्यान्वयाभावाद्राजसम्बन्ध्यभिन्नः पुरुषः इत्याद्यन्वयानुपपत्तिस्तदवस्थैवेति । तदपि न, तद् दधि तिष्ठतीत्यादावन्वयानापत्तेः । नच 2लुप्तस्मरणात् तत्र बोधः, लुकमजानतो बोधानापत्तेः । न च तत्र दध्नो न नामत्वमिति चेत्, राज्ञोऽपि सुपो लुप्तत्वेनातथात्वमिति तुल्यम् ।

न च दधिपदस्य दधिकर्मके लक्षणाघ्रहदशायामपि तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकदर्शनान्वयबोधानुदयाद् द्वितीयान्तदध्यादिपदसमभिव्याहृतपश्यादिसमभिव्याहारस्य हेतुत्वावश्यकत्वेन लुप्तद्वितीयानुसन्धानस्यावश्यकत्वमिति वाच्यम्, राजपुरुष इत्यादावपि षष्ठ्यतिरिक्तविभक्यन्तपदघटितसमासत्वभ्रमदशायां राजसम्बन्धिपुरुष इति बोधानुदयेन तत्रापि लुप्तषष्ठ्यनुसन्धानस्यावश्यकत्वात् । तात्पर्यादिज्ञानकारणतया निर्वाहे तु सममस्माकमिति दिक् ।

अपि च, नीलो द्रव्यञ्च घट इत्यादाविव कर्मधारये नीलघटो द्रव्यमित्यादावपि घटे धर्मिण्येकत्र द्वयमिति न्यायेन नीलद्रव्ययोस्तादात्म्येनान्वयापत्तिः । न च नामार्थस्य तादात्म्यावच्छिन्नविधेयतया बोधे
प्रथमान्तपदजन्योपस्थितिर्हेतुरिति न दोष इति वाच्यम्, दधि द्रव्यमित्यादावपि तथाबोधानापत्तेः । लुप्तप्रथमया प्रथमान्तत्वं तु प्रकृतेऽपि समानम् । समासे उद्देश्यविधेयभावेनान्वयस्य दूषयिष्यमाणत्वेन नीलपदार्थस्येव तस्यापि शुद्धप्रकारतया तेन न्यायेनान्वयस्य दुर्वारत्वाच्च ।

अपि च 'पण्डितो ब्राह्मणः, पाचकः, पाठकः' इतिवत् पण्टितब्राह्मणः, पाचकपाठक इत्यादावुद्देश्यविधेयभावेनान्वयवारणायैकार्थीभाव आवश्यकः । सति हि तस्मिन् घटपटात् घटघटत्वयोरिवेतरसंसृष्टस्वार्थस्यैवोपस्थित्या तथान्वयनियामिकायाः पृथगुपस्थितेरभावान्न दोषः । अत एव 'वषट्कर्त्तुः प्रतमभक्षः' इत्यत्र वषट्कर्त्तृविशिष्टभक्षानुवादेन प्राथम्यविधानापत्तिमाशङ्क्य 'प्रथमभक्षः' इति समस्तमेकं पदम् । तत्रैकप्रसरत्वान्नैकांशेन वषट्कर्तृविशिष्टभक्षणमुद्दिश्य अपरांशेन प्राथम्यविधानं युक्तम्, तथा सति प्रसारभेदात् सामर्थ्यविघातात् समासो न स्यात् । एतेन केवलभक्षानुवादेन प्राथम्यं विधीयत इत्यप्यपास्तम् ।

न च 1[fn सविशेषणानां वृत्तिर्न, वृत्तस्य च विशेषणयोगो न' इति नियमाद् वृत्तिर्नेत्यर्थः । ] सविशेषणत्वाद् वृत्तिनं स्यात्, प्रधानस्य सत्त्वेऽपि क्षत्यभावात् । तस्माद्भक्षान्तरविधिरयमिति मीमांसकाः ।

न चात्र पक्षे उद्देश्यतागमकस्य प्राथम्ययद्वृत्तयोगादेः, विधेयताबोधकपश्चात्तद्वृत्तयोगादेश्चाभावेन कथं तथान्वयापादनमिति वाच्यम्, 'प्रथमो भक्षः, पण्डितो ब्राह्मणः' इत्यादावपि तथाबोधदर्शनेन तस्य व्यभिचरितत्वात् । तस्मात् तथान्वयबोधे उद्देश्यवाचकसमभिव्याहृततदसंसृष्टार्थबोधकविधेयवाचकपदजन्योपस्थितिरेव तन्त्रम् ।

एतेन विशेष्यतयोपस्थितिर्विधेयत्वे नियामिकेत्यपि परास्तम्, पदाद्विशेष्यतयैवोपस्थितेश्च।

?0यत्तु?0, आलङ्कारिकैरुद्देश्यानन्तर्याभावेऽपि विधेयाविमर्श उक्तः 'न्यक्कारोऽयम्' इत्यादौ, तत्र न विधेयत्वाप्रतीतिर्दूषकताबीजम्, किन्तु विपरीतानुपूर्वीप्रतिसन्धानपूर्वकं बिलम्बेन तथाप्रतीतिरेव । अविलम्बिता प्रतीतिर्हि काव्ये उद्देश्या । ध्वनितञ्चेदं वृद्धिसंज्ञासूत्रस्थभाष्यकैयटकौस्तुभादिषु ।

वस्तुतस्तत्रोत्सर्गपरित्यागेन सहृदयोद्वेगमात्रं तथेत्यन्यत्र विस्तरः ।

न च तथा शाब्दबोधं प्रति उद्देश्यविधेयवाचकघटितैकसमस्तपदभिन्नपदजन्योपस्थितिर्हेतुरिति पूर्वोक्ते 'पीतवासाश्चतुर्भुजः' इत्यादौ च न दोष इति वाच्यम्, सकलवृत्तिभेदघटितगुरुतरकार्यकारणभावकल्पनापेक्षयैकार्थीभावस्वीकारस्य लघुत्वात् ।

न चैवम् 'सपतदशारत्निर्वाजपेयस्य यूपो भवति', 'लोहतोष्णीषा ऋत्विजः प्रचरनति', यद्यपि 'चतुरवत्ती यजमानः पञ्चावत्तैव वया कार्या' इत्यादौ वाजपेययूपारत्निमुष्णीवन्तं चानूद्य सप्तदशत्वलौहित्यपञ्चत्वानां विधानं न स्यादिति वाच्यम्, अत्र यूपारत्न्युष्णीषावत्तानामतिदेशप्राप्ततयाऽतिदेशादुपदेशस्य बलवत्त्वेन तत्प्रवृत्तेः । पूर्वमेतैर्विशिष्टविध्यङ्गीकारेणाक्षतेः। तत्पर्यालोचनायां तु लौहित्यमात्रस्य तात्पर्यं गम्यत इति तावन्मात्रविधित्वव्यवहारः ।

न चैवमनया रीत्या प्रथमभक्ष इत्यत्रापि भक्षान्तरविधिर्न स्यादिति वाच्यम्, तत्रोभयोरप्युपदेशेन तथा वक्तुमशक्यत्वादित्याहुः ।

?0यत्तु?0, कर्मधारयेऽप्युत्तरपदलक्षणयैव विशिष्टार्थोपस्तितेर्नोद्देश्यविधेयभावेनान्वय इति, तत्, न;
षष्ठीतत्पुरिषात् कर्मधारयस्य बलवत्त्वानापत्तेः । एतेन कर्मधारये एकार्थीभावो नावश्यक इति परास्तमिति दिक् ।

अपि च, एवं द्वन्द्वसमासे 'सुनदरं घटं पटं च' इत्यादौ सुन्दरमित्यादिविशेषणवद् द्वन्द्वसमासे त्दवारणायैकार्थीभाव आवश्यकः ।

किञ्च, विग्रह इव द्वन्द्वेऽपि च शब्दप्रयोगापत्तिः । अत एव समर्थसूत्रे भाष्ये 'वाक्ये यथा स्वचयोगः -- राज्ञो गौश्चाश्वश्च पुरुषश्चेति । यथा च स्वामित्वयोगः -- देवदत्तस्य च यज्ञदत्तस्य च गौरिति । तथा न समासे राज्ञो गवाश्वपुरुषा इति देवदत्तज्ञदत्तयोगौरितीत्युक्तम् ।'

न चैकक्रियान्वयित्वरूपसाहित्यस्य पश्चादेवावगमनेन तत्र शब्दस्य वृत्तिरिति वाच्यम्, एकरूपेणैकक्रियान्वयित्वादिसमनियतसमस्यमानपदार्थपर्याप्तपदार्थान्तरभूतसाहित्यभानानुभवानुरोधेन वृत्तेरावश्यकत्वात् । अत एव "चार्थे द्वन्द्वः" [ 2।2।29 ] इत्यनुशासनेन तदर्थे समासविधानं सङ्गच्छते ।

न च पदार्थानां वस्तुगत्यैकक्रियाद्यन्वयित्वरूपसाहित्ये सति द्वन्द्व इति तस्यार्थः, न तु तच्छक्तिग्राहकमिति वाच्यम्, एकक्रियान्वयित्वे च शब्दशक्त्यभावात्, क्रियाया वारद्वयं बोधापत्तेश्च । "अनेकमन्यपदार्थे" [ 2।2।24 ] इति साहचर्येण शक्तिग्राहकताया एवौचित्याच्च साहित्याभाने द्वन्द्वस्थले समुदितस्य देवतात्वानापत्तेश्च । साहित्यविषयकबोध एव द्वन्द्वसाधुताया भाष्यकारादिभिरङ्गीकाराच्च ।

?0किञ्च?0, द्वन्द्वविग्रहवाक्येऽपि नियमेन च शब्दप्रयोगानापत्तिः, एकक्रियान्वयित्वस्य द्वन्द्वे इव तत्र पश्चादेवावगम्यमानत्वात् । न चैकक्रियान्वये स तात्पर्यग्राहकः 'अहरहर्नयमानो गामश्वं पुरुषं पशुम्' इत्यादौ तदभावेऽप्येकक्रियान्वयदर्शनात् ।

अथ तत्र साहित्यम् 'च' शब्दार्थः, तर्हि वृत्तिविग्रहयोस्तुल्यार्थत्वनिर्वाहाय समासेऽपि साहित्यभानमावश्यकम् ।

किञ्च, 'पश्व धवं खदिरं छिन्धि' इति वाक्यवत् 'पश्य धवखदिरं छिन्धि' इति प्रयोगापत्तिः ।

किञ्च, 'देवदत्तयज्ञदत्तौ पचतः' इत्यादावाख्यातोपात्तद्वित्वान्वयेऽन्वयितावच्छेदकलाभाय साहित्यभानमावश्यकम् । न च सुबुपात्तद्वित्वमेव तथा, 'चैत्रो मैत्रश्च गच्छतः' इत्यादौ द्विवचनाभावेनानन्वयापत्तेः । न च शब्द एव तद्बोधकः, कोशभाष्यादावनुक्तत्वात् । चार्थे द्वन्द्वविधानेन द्वन्द्वोत्तरञ्च शब्दस्येव द्विवचनस्याप्यनापत्तेश्च ।

किञ्च, 'देवदत्तो यज्ञदत्तश्च पचति, देवदत्तश्च यज्ञदत्तस्य पचतः' इत्येकवचनद्विचनव्यवस्थार्थमितेरतरयोगे तद्भानमावश्यकम् ।

अपि च, सुबुपात्तद्वित्वाद्यन्वयेऽन्वयितावच्छेदकलाभाय साहित्यभानमावश्यकम् ।

यत्तु उक्तम् --- नानाधर्माणामन्वयितावच्छेदकत्वे केवलपर्याप्तेरेव संसर्गत्वमिति । तत्, न; कालाकाशपदयोर्द्वन्द्वे बहुवचनस्य साधुतापत्तेः । कालाकाशघटनिष्ठबुहुत्वस्य शुद्धपर्याप्त्या कालाकाशयोरपि सत्त्वात् । अन्वयितावच्छेदकव्याप्यपर्याप्तेः संसर्गत्वे त्वन्वयितावच्छेदकप्रत्येकधर्मव्याप्याया
द्वित्वादिपर्याप्तेरप्रसिद्ध्याद्विवचनस्याप्यनापत्तेः ।

न च नानाधर्मस्यान्वयितावच्छेदकत्वे यावत् स्वाश्रयान्वयित्वव्युत्पत्तेर्न तथाप्रयोग इति वाच्यम्, 'कालाकाशौ' इत्यतो योग्याताभ्रमदशायां व्यक्तिद्वयमात्रविषयकबहुत्वबोधदर्शनेन तस्याः कल्पयितुमशक्यत्वाद्, 1[fn'अयमेकः अयमेकः;' इत्याद्यपेक्षाबुद्धिजन्या द्वित्वादिसंख्या नास्ति, किन्तु संख्यात्वव्याप्यः परिच्छेदक कश्चन धर्मविशेषः । स चैक एवेति वादिनां मत इत्यर्थः । ] द्वित्वादेरेकतवमतेऽसम्भवाच्च । साहित्याभाने तु न दोषः, अन्वयितावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संसर्गत्वाभ्युपगमात् ।

न च साहित्यान्वयेऽपि दुरवस्थैवेति वाच्यम्, धर्मिग्राहकमानेन साहित्ये यावत्स्वाश्रयान्वयित्वस्यैवाङ्गीकारात् पुष्पवन्तादिपदेऽपि साहित्यमेवान्वयितावच्छेदकम् । इदमेवाभिप्रेत्य 'एकचोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इत्यमरः । एकयोक्त्येत्यस्यैकशक्यतावच्छेदकप्रकारेणेत्यर्थः ।

यत्तु, पुष्पवन्तपदं चन्द्रे सूर्ये च शक्तिमितयाकारः शक्तिग्रहः, तत्कार्यतावच्छेदकञ्च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतित्वं तादृशशाब्दत्वञ्च, चन्द्रसूर्योभयनिष्ठाया एव तस्याः शक्तेश्चन्द्रत्वसूर्यत्वयोर्व्यासज्यत्त्यवच्छेदकतास्वीकारात् केवलसूर्यात्वादिप्रकारकबोधे च केवलतद्धर्मे शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । उभयत्र शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य चोभयप्रकारकबुद्धित्वमेव कार्यतावच्छेदकम्, अतो न तत एकतरमात्रबोधः । नानार्थपदे च प्रत्येकधर्मावच्छिन्नस्यापि प्रतीत्या प्रत्येकं धर्मे एवावच्छेदकतापर्याप्तेः सत्त्वेन न दोष इति । तत्, न ; अवच्छेदकताया एकधर्मिनिष्ठैकविशेष्यतानिरूपितविशेषणतापन्नेषु नानाधर्मेष्वेव पर्याप्तिस्वीकारेणात्र तदभावात् प्रकृते चन्द्रसूर्ययोर्भेदेन तन्निष्ठविशेष्यताया ऐक्यासम्भवात् ।

यदि तु -- यत्र नानाधर्मान् धर्मितावच्छेदकीकृत्य व्यासज्यवृत्तिधर्मान्तरभानम्, तत्र विभिन्नधर्मिविशेषणेष्वपि नानाध्रमेष्ववच्छेदकतापर्प्याप्तिरावश्यकी । यथा 'घटपदौ न स्तः' इत्यत्र उभयत्वावच्छिन्नाभवाप्रतीतौ घटत्वपटत्वयोस्तादृसाभावप्रतियोगितावच्छेदकतापर्याप्तिरिति विभाव्यते, तर्हि प्रकृतेऽपि साहित्यविशिष्टे शक्तिरावश्यकी । तत्र साहित्यं शक्यतावच्छेदकमेव, न शक्यमित्यादि नामार्थोक्तरीत्यानुसन्धेयम् ।

न च 'घटपटौ न स्तः' इत्यत्रोभयत्वमेव प्रतियोगितावच्छेदकम्, न तु घचत्वादीति वाच्यम्, यत्किञ्चिदुभयवति तादृशप्रतीत्यनापत्तेरिति दिक् ।

यदपि, पुष्पवन्तादिपदजनानार्थानुभवे तत्पदज्ञाने नानार्थानुभवजनकत्वनिश्चयः, कारणम्, एकमात्रानुभवे च प्रतिबन्धकः, अतो न दोषः । अत एव तादृशनिश्चयविरहिणः कदाचिच्छक्त्याप्येकमात्रबोधः, उभयध्रमावच्छिन्ने शक्तिग्रहेऽप्युद्बोधकवशादेकधर्मावच्छिन्नमात्रसमृतिसम्भवादुभयधर्मावच्छिन्नस्मृतावपि योग्यतावशादेकधर्मावच्छिन्नस्यैव शाब्दबोधसम्भवाच्चेति ।

तदपि न, बोधकतातिरिक्तशक्त्याभावस्य निर्णीतत्वात् । एकधर्मावच्छिन्नबोधकत्वग्रहवतस्तथाबोधेऽपि कोशादिविरोधाद् न तत्र साधुत्वम् । यथा स्त्र्यर्थकदारशब्दस्यैकवनादौ ।

?0वस्तुतस्तु?0 पुष्पवन्तपदं चन्द्रत्वसूर्यत्वोभयप्रकारबोधजनकमित्येव तत्र शक्तिग्रह इति नैकतरमात्रबोधस्ततः । एकयोक्त्या इत्यस्य चैकया शक्त्या इत्यर्थः। 'पुष्पवन्तौ' इत्यस्य च पुष्पवन्तपदप्रतिपाद्यावित्यर्थः ।

?0यद्वा ---?0 एकयोक्त्येत्सस्यकोच्चारणेनेत्यर्थः । नानार्थस्थले तु नावृत्तिमन्तरेण नानार्थबोधः । प्रकृते तु शक्यैक्यात् सकृदुच्चारितात् सकृदेवार्थद्वयप्रत्यय इत्यन्यत्र विस्तरः ।

?0यत्तु?0, एकबुद्धिविषयत्वमेव चार्थ इति । तत्, न; तस्यापि पश्चाद् ग्रहात्, तत्प्रकारकबोधस्यानुभवविरुद्धत्वाच्च, घटः कर्त्तेत्यत्र द्वन्द्वापत्तेश्च । बुद्धिवेशेषविषयत्वं तथेति चेत्, अननुगतत्वेनानन्तशक्त्यापत्तेः ।

एतेन भेदश्चार्थ इत्यप्यपास्तम्, तस्य केवलान्वयित्वेनाव्यावरित्तकतयाचार्थ इत्यस्य वैयर्श्यपत्तेश्च ।
न च कर्मधारयविषये द्वन्द्ववारणार्थं तत्, 'ग्रामं गतः' इत्यादौ द्वितीयातत्पुरुषेणेव तेनापि बाधसम्भवात् । अन्यथा द्वितीयातत्पुरुषविषये भेदस्य सत्त्वेन द्वन्द्वो दुर्निवारः स्यात् । चार्थः साहित्यम्, परं भिन्नानामेवेत्यन्यदेतत् । तस्मात् साहित्यविषयकबोधार्थ तदिति तत्त्वम् ।

साहितयञ्चैककालिकदेशिकैकक्रियाकर्तृत्वादिसमनियतम्, एकरूपेणैककालिकैकपदोपस्थाप्यक्रियान्वयित्वसमनियतञ्च पदार्थान्तरेव । अत एव सहिताभ्यां कृतम्, सहितौ दृष्टौ, सहितेभ्यो दत्तम्, सहितयोरन्वय इत्यादतिव्यवहारः सङ्गच्छते । द्वन्द्वे त्वविशेषात् सर्वं भासते । अत एव द्वन्द्वे साहित्यावगमादेकं देवतात्वमिति मीमांसका व्यवजह्रुः ।

यत्र तु पूर्वस्य बाधः, यथा धवखदिरौ छिन्धीत्यादौ, तत्र द्वितीयमेव भासते । आद्यस्यापि चैककालिकत्वरहितस्यैकजातीयक्रियाकर्मत्वसमनियतस्य भानम् ।

'पित्रोः श्राद्धं कुर्यात्' इत्यादौ तु शास्त्रस्थाल्पविषयतापत्तिबाधकादुद्देश्यविशेषणत्वाद् बाधस्य त्यागः । एकक्रियान्वयित्वसमनियतं तु सार्वत्रिकम् । इदमेवाभिप्रेत्य तुल्यवदेकक्रियान्वयित्वं साहित्यमिति प्राञ्चः ।

तुल्यवदित्यसयैककालमेकरूपेण चेत्यर्थः । तच्चतरेतरयोगे विशेषणम्, व्युत्पत्तिवैचित्र्यात् । अत एव तत्प्रकरणस्य नियामकत्वं भाष्याद्युक्तं संगच्छते । तच्च समुदायसमाहारद्वन्द्वे तु समाहार एव विशेष्यः, स च समुदायः, स चातिरिक्तएव विशिष्टवत् । न च समुदायिन एवाबुद्धिविषयत्वौपाधिकीति वाच्यम्, घटानां समाहारः = समूहः इत्यादौ भेदनिबन्धनषष्ठ्यनापत्तेः ।

न चारोपितो भेदः, तावतैव द्वन्द्वसाधुत्वस्य व्यवहारस्य चोपपत्तेः । तस्मात् समुदायो विलक्षणसमुदायिसंयोगजन्योऽतिरिक्त एव तद्विशेष्यकबोधायैकार्थीभव आवश्यकः ।

वस्तुतस्तु उद्भूतावयवभेदसमूहस्य विशेष्यत्वे इतरेतरयोगः । अनुद्भूतावयवभेदस्य तत्त्वे तु समाहार इति बोध्यम् ।

एवञ्च समाहारस्यैकत्वादेवैकवचने सिद्धे तदर्थं वचनं नारम्भणीयम् । अत एव तत्प्रकरणस्य नियामक्तवं भाष्याद्युक्तं सङ्गच्छते । तच्च समुदायशक्यमेव, अन्यतरपदलक्षणायां विनिगमनाविरहात् ।

न च प्रत्ययानां सन्निहितपूर्वपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरुत्तरपदे तत्करणए विनिगमिका, 'राज्ञः परुषः' इत्यादौ षष्ठ्यार्थस्य पुरुषेऽन्वयवारणाय पूर्वपदार्थेतीति वाच्यम्, सर्वक इत्यादौ व्यभिचारात् ।

दधीयद् ददातीत्यादौ वतुबर्थान्वयापत्तेश्च, सांनिध्यसत्त्वात् । दधि बहुवटुर्दतातीत्यादौ दध्नि बहुजर्थान्वयापत्तिः, पटानन्वयापत्तिश्च ।

?0अपि च?0, तथा सति द्वन्द्वस्यैवानापत्तिः । चार्थे वर्त्तमानानेकसुबन्तानामेव तद्विधानात् । अन्यपदार्थेऽपि पूर्वोक्तरीत्योत्तरपदस्यैव लक्षणायाऽन्यपदार्थे वर्त्तमानानेकसुबन्ताभावेन चित्रग्वादौ बहुव्रीह्यनापत्तेश्च ।

?0अपि च?0, घटादिपदेष्वपि घाटिदिधातुभ्यो विहताच्प्रत्ययादिरूपचरमवर्णस्यैव लक्षणया शक्त्या वा उपपत्तौ विशिष्टशक्तिकथैवोच्छिद्येत । तात्पर्यग्राहकत्वेऽपि बोधकारणताया आवश्यकत्वेन शक्तेर्दुर्वारत्वाच्च । न च अवयवमवयवशक्तिं चाजानतामपि समुदायव्युत्पत्त्या बोधात् तत्र विशिष्टे सा, प्रकृतेऽपि तुल्यत्वात् ।

अत एव राजपुरुषादौ समुदायव्युत्पत्त्या समुदायार्थबोधेऽपि व्याकरणव्युत्पत्तिं विना पदविभागसामर्थ्याभाव इत्यनुभवसिद्धम् ।

न च समुदायशक्त्यज्ञानेऽवयवलक्षणाज्ञानेनापि बोधाद् न शक्तिः, गङ्गादिपदानां तीरादौ शक्तिं गृहीतवतो लक्षणया प्रवाहबोधात्, गङ्गापदस्य प्रवाहे शक्तिसिद्ध्यनापत्तेरिति दिक् ।

?0अपि च?0, एवं प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिभङ्गः, उत्तरपदमात्रस्याप्रकृतित्वात् ।

न च प्रकृत्यर्थशब्देन वृत्त्या प्रकृतिजन्यज्ञानवियस्य ग्रहणाद् दोषः । यद्वा, प्रकृतित्वं न तत्र पर्याप्त्यधिकरणत्वम्, किन्तु तदाश्रयत्वामात्रम्, तच्चावायवमात्रेऽपीति वाच्यम्, 'चित्रगुमानय' 'दण्डिनं पश्य' इत्यादौ सति तात्पर्ये विना लक्षणां चित्रगोदण्डादावानयनकर्मताद्यन्वयप्रसङ्गात् । न च दण्डादीनां पदार्थैकदेशात्वाद् न तत्रान्वयः, 'ऋद्धस्य राज्ञः परुषः' इत्यादौ राजादीनामिव स्वातन्त्र्यस्याबाधात् । अन्यथा 'वह्निमान् धूमान्' इत्यादौ, 'सन्निधानञ्चानुशासनिकम्' इत्यादि; तदप्यापस्तम् ।

न च दण्डिनमित्यादावनासन्नत्वादेव नान्वय इति वाच्यम्, न हि पदाव्यवधानमासत्तिः, गिरिरग्निमान् भुक्तं देवदत्तनेत्यर्थे तात्पर्यग्रहवतोऽपि पुंसो गिरिर्भुक्तग्निमान् देवदत्तेनेत्यतो वाक्याद बोधानापत्तेः । किन्तु पदजन्यपदार्थोपस्थितिमात्रं सा । सा च समूहालम्बनादिरूपास्त्येव । अत एव 'भजे सरोरुहसदृशं भगवतश्चरमारविन्दम्' इत्यादितः शाब्दबोधः सङ्गच्छते ।

एतेन प्रत्ययाव्यवहितप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वम् । तच्च द्वन्द्वादावुभयोः, अव्ययीभावादौ पूर्वपदाद्यर्थस्यैव । अव्यवधानांशनिवेशाद् दण्डिनमित्यत्र प्राग्वर्त्तिदण्डपदजन्यबोधविशेष्ये दण्डेनातिप्रसङ्ग इति परास्तम् । 'बहुपटुः, सर्वकः, इत्यादावव्याप्तेः । दधीयद् ददातीत्यादौ दध्नि ददीतूतियीदौ दध्नि'वतुबर्थान्वयापत्तेश्च ।

यस्मात् प्रतययविधानावधित्वमेव प्रकृविम्, प्रकृतिवृत्त्युपस्थितिविशेष्यत्वञ्च प्रकृत्यर्थत्वम् ।

ननु 'प्रत्यायानां प्रकृत्यर्थान्वयः' इत्यस्य कोऽर्थः ? न च प्रत्ययार्थविषयकशाब्दोबधे प्रकृतिजन्योपस्तितिर्हेतुरित्यर्थ इति वाच्यम्, प्रत्ययत्वप्रकृतित्वाद्यजनतां तथा कार्यकारणभावग्रहासम्भवात्, 'घटः कर्मत्वम्' इत्यतस्तथाव्युत्पन्नस्य बोधे व्यभिचाराच्च । तस्माद् घटप्रकारककर्मत्वविशेष्यकबोधे घटबोधकतत्तत्पदसमभिव्याहृतकर्मत्वार्थकतत्तज्जन्योपस्तितिर्हेतुरिति विशिष्यैव स वाच्य इति न दोष इति चेत्, न;
तत्तत्कारणग्रहैस्तस्य तस्य तथा तथा व्युत्पन्नस्य तथा तथा बोधसम्भवेऽपि स्वस्वप्रकृतिवृत्त्युपस्थाप्यार्थान्वय एव प्रत्ययानां साधुत्वम्, स्वस्वप्रकृतिकप्रत्यायार्थान्वये एव च तत्तत्प्रकृतेः साधुत्वम् नान्यथेत्येतावत एवार्थस्य विचारविषयत्वात् ।

  ननु तत्रेव साधुत्वे किं मानमिति चेत्, प्रातिपदिकात् कर्मत्वेऽर्थे 'अम्' भवतीत्युक्ते प्रत्यासत्तिन्यायेन तल्लाभात् । न च प्रकृतिघटकार्थान्वयेऽपि तदस्त्विति वाच्यम्, दण्डस्य कर्मत्वान्वये दण्डिनं पश्येत्यादेर्विनापि लक्षणां साधुत्वापत्तेः ।

एवमुद्देश्यविधेयभावेनान्वये पृथगुपस्थितिजनकपदसमुदाय एव साधुरित्यर्थः, एका संज्ञा परं कार्यमित्यादिनिर्देशैर्बोध्यते । एवमन्येऽपि व्युत्तपत्यंशाः साधुत्वनिर्णायकास्तत्तसूत्रभाष्यादिबलात् सुधीभिरुन्नेयाः । उक्तञ्च हिरणा -----
भेद्यभेदकसम्बन्धोपाधिभेद 1[fn आधुनिकेषु मुद्रितपुस्तकेषु 'निबन्धनम्' इत्येव पाठ उपलभ्यते । ] नियन्त्रितम् ।
साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ।। इति ।
इति दिक्।

अत्रेदं बोध्यम् -- संख्यातिरिक्तप्रत्ययार्थस्यैव प्रकृत्यर्थविशेष्यानवयित्वनियमः । अत एव 'सम्पन्नो व्रीहिः' इत्यादौ संख्याया जातावन्वयेऽपि न दोषः । न च यत्र पाककर्त्तादेर्द्वित्वादिकं बाधितम्, पाकादेस्तदबाधितम् तत्र पचन्तौ पश्येत्यादिप्रयोगापत्तिरिति वाच्यम्, धातुना निवृत्तभेदाया एव क्रियाया उपस्थानात् तत्र द्वित्वान्वयानुपपत्तेः । अत एव पचन्तीत्यादौ धात्वर्थे न सङ्ख्यान्व इत्याहुः ।

वस्तुतो यत्र विशेष्ये प्रत्ययार्थान्वयबाधः, तत्र विशेषणेऽपि तदन्वयः । अत एव पण्डितरूप इत्यादौ पाण्डित्ये प्राशस्त्यान्वयः । यत्र तु अबाधः, तत्र विशेष्य एव । अत एव धात्वर्थफलस्य तदर्थभावनायां कर्मत्वकरणत्वादिनान्वये धातोस्तृतीयाद्यापादनम्, अप्रातिपदिकत्वन्नेति समाधाऩ्च प्राचां सङ्गच्छत इति दिक् ।

एवञ्च समुदाये शक्तिरावश्यकी । एतेन समार्थ्याभावेऽपि विधानसामर्थ्याद् द्वन्द्व इति परास्तम्, एकार्थीभावसामर्थ्यस्व सत्त्वात् । अत एव समुच्चयान्वाययोर्न समासः । समुच्चये हि परस्परनिरपेक्षस्यैधर्मावच्छिन्नेऽन्वयः । चकारस्त्वनेकस्यैकक्रियान्वयमात्रे तात्पर्यग्राहकः, तत्त्क्रिययोरेककालिकत्वद्योतश्च । 'अहरहर्नयमानो गामश्वं पुरुषं पशुम्' इत्यादौ तु चकाराभावेऽपि तात्पर्यवशात् अन्वयश्च विशेष्यतया विशेषणतया वा ।

अत एव 'देवदत्तः पचति, हसति च' इत्यादौ क्रियासमुच्चयते नाव्याप्तिः । काल एकत्वं बुद्धिविशेषविषयत्वमिति भजनद्वयस्यैककालिकत्वाभावात् 'ईश्वरं गुरुञ्च भजस्व' इत्यादौ समुच्चयो न स्यादिति न वाच्यम् किन्तु समुच्चयेऽपि साहित्यभानम् । अत एव समुच्चये देवदत्तो यज्ञदत्तश्च पचतीत्यादौ नित्यमेकवचनान्ताख्यातप्रयोग एवेत्याहुः ।

एवञ्च चार्थेऽनेकसुबन्तानां वृत्त्यभावात् समासस्य प्राप्तिरेव नास्ति । अत एव तत्र नैकार्थीभावः ।

इतरेतरयोगे मिलतस्यैककालमेवैकधर्मावच्छिन्ने इतरान्वयः, 'धवखदिरौ छिन्धि' इत्यादौ तथैवानुभवात् । अत एव तद्विग्रहवाक्ये चकारद्वयप्रयोगः । 1[fn चाकरेण हित्यर्थः । ]तेन ह्यन्योऽन्यस्मिन्नन्योऽन्यसाहित्यं गम्यते
। साहित्यमेव च चार्थः । न च चाभ्यां साहित्यद्वयप्रतीत्यापत्तिः, चाभ्यामेव तद्योतनात् । अत एवेतरेतरयोगे 'देवदत्तश्च यज्ञदत्तश्च पचतः' इत्यादौ नित्यं द्विवचनान्ताख्यात एव ।

एतेनार्थचतुष्टयानुस्यूतं साहित्यमेव चार्थ इत्यपास्तम् ।
एवञ्च तत्र तदबोधनार्थमेकार्थीभाव आवश्यक एव । यत्र तु अहरहरित्यादिवत् प्रकारान्तरेण गृहीततात्पर्याच्च विनापि समुच्चयम्, तत्रैकचकारप्रयोगेऽपि साहित्यावगतिर्भवत्येव । यथा2[fn सांकाश्यकावयवः समुदायः सांकाश्यकशब्देनोच्यते, पाटलिपुत्रकावयवश्च पाटलिपुत्रकशब्देनोच्यते । ] सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमा इत्यादौ । स्पष्टञ्चेदम्3[fn 'एकचकारप्रयोगेऽपि साहित्यावगतिर्भवति' इदञ्चेत्यर्थः । ] "द्विवचनविभज्य" [ 5।3।57 ] इत्यत्र भाष्यकैयटयोः ।

'एकधर्मावच्छिन्ने' इत्युक्तेः 'अजां ग्रामं नयति' इत्याद्यर्थे अजाग्रामौ नयतीति न प्रयोगः ।

अत एव च 'विकृताविकृता देहं धनन्तिः ते वर्त्तयन्ति च' इत्यादेः साधुत्वसिद्धिः । साहित्यावच्छिननक्रियाद्वेये प्रथमतः समुदायान्वये तदनन्तरं पार्ष्णिकप्रत्येकान्वयबोधादित्याहुः ।

न चैवम् 'यदग्नये च प्रजापतये च' इत्यादौ परस्परसाहित्यावगमेन समुदितस्यैव देवतात्वं स्यादिति वाच्यम्, प्राधान्येन चस्य प्रत्ययार्थे एवान्वयेन देवतात्वयोरेव समुच्चयेनादोषात् ।

किञ्च, तत्र समासे एकपदोपस्थाप्यसमप्रधानयोरेककालमेवेतरान्वयस्य व्यपुत्पित्तिसिद्धत्वेन पुष्पवन्तादौ क्लृप्तत्वेन च समुच्चयत्वस्यैव भङ्गापत्तेः ।

एतेनान्वाचये समासापादनं निरस्तम्, तत्रानुषङ्गिकत्वस्य चद्योत्यत्वेऽपि एकस्यैव तद्द्योतनेन चार्थेऽनेकसुबन्ताभावाच्च ।

प्रायेणान्वाचयश्चस्य क्रियान्वये भवति । यत्र तु क्रियान्वयेऽपि चद्वयम्, यथा 'पचन्ति च, हसन्ति च' इत्यादौ, तत्र परस्परसाहित्यावगमान्नानुषङ्गिकत्वप्रतीतिः ।

इदमेवाभिप्रेत्या 1[fn "चार्थे द्वन्द्वः" इत्यत्र अर्थग्रहणासामर्थ्यादित्यर्थः । तत्र हि -- 'चे द्वन्द्वः' इतीयता सिद्धम् । कथं पुनश्चे नाम वृत्तिः स्यात्, शब्दो ह्येषः ? शब्दे कार्यासम्भावदर्थे कार्यं विज्ञास्यते । सोऽयंमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत् प्रयोजनम् -- एवं यथा विज्ञायेत -- चेन कृतोऽर्थश्चार्थ इति भाष्ये उक्तम् । ]र्थग्रहणसमर्थ्यात् समुच्चयान्वाचययोर्न समास इति भाष्ये उक्तम् । 'चे द्वन्द्वः' इति न्यासे हि च प्रयोगयोग्यसमभिव्याहारघटितानेकसुबन्तानां द्वन्द्व इत्यर्थः स्यादिति तद्भाव इति दिक् ।

एतेन बुहव्रीहावप्युत्तरपद एवान्यपदार्थलक्षणेत्यपास्तम् ।

अत एव अरूणाविकरणारम्भ उपपद्यते । तत्र हि 'किमरुणिमा वाक्याद् भित्वा प्रकरणे निवेश्य, उत क्रीणातिना सम्बध्य आश्रयतया तत्परिछेदकत्वात् तद्ङगमेकहायन्यादीति संशये, क्रोणातिना सम्बन्धे हि अरुणयेति करमकारकं स्यात् । न चामूर्त्तस्य तद्युक्तमिति नास्य क्रयसम्बन्ध इति ततः पृथग्भूय प्रकरणे निविशते । यत्किञ्चिद्येन द्रव्येण क्रियते तदुरुणकेनेति पूर्वपक्षितम् । त्वद्रीत्या एकहायनीपदादेरपि पिङ्गाङ्क्षित्वैकहायनत्वादेरेव वाच्यत्वात् तेषां चामूर्त्तत्वात् क्रीणातौ करणत्वासम्भवेनारूण्यांश एव शङ्काया
निर्बीजत्वापत्तेः । निरूढलक्षणया द्रव्याभिधायकत्वमपि त्रयाणां समम् ।'

?0किञ्च?0, प्रकरणोपात्तद्रव्यनिवेशापेक्षया स्ववाक्योपात्तद्रव्यनिवेश एव उचितः । प्रकरणाद् वाक्यस्य बलवत्त्वादिति सिद्धान्तोऽप्ययुक्तः स्यात्, तयोरपि द्रव्यवाचक्वाभावात् । लक्षणा तु अरूणापदेऽपीति स्वपदीयद्रव्यनिवेशसम्भवेन वाक्यीयद्रव्यनिवेशो दूरापास्त एव स्यात् । शक्तौ तु शीघ्रोपस्थितेः पिङ्गाक्ष्यादिपदोपात्तेऽन्वये सम्भवति बिलम्बोपस्थितलाक्षणिकान्वयो न, द्रव्यांशे निराकाङ्क्षत्वात् । अरुणपदस्य लक्षणैव वा नेति उपपद्यते सर्वम् ।

?0किञ्च?0, 'प्राप्तोदको ग्रामः' इत्याद्यषष्ठ्यर्थबहुव्रीहौ त्वदुक्तरीत्या प्राप्तिकर्त्रभिन्नमुदकमिति बोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्मग्राम इति विवक्षितार्थानिर्वाहस्तदवस्थ एव । न च प्राप्तेति क्तप्रत्ययस्य कर्त्रर्थकस्य कर्मणि लक्षणेति वाच्यम्,1[ fn अभेदसमाबन्धेन शाब्दबोधं प्रति समानविभक्तिकपदजन्योपस्थितिः कारणमिति कार्यकारणभावस्वीकारादित्यर्थः । ] समामानाधिकरणप्रातिपदिकार्थयोरभेदाऽन्वयव्युत्पत्तेरुदकाभिन्नपाप्तिकर्मसम्बन्धीति बोधापत्तेः ।

न च प्राप्तावुदकस्य कर्त्तृतासम्बन्धेनान्वय इति वाच्यम्, उदककर्तृ कप्राप्तिकर्त्रेत्यादिबोधकदर्थानापत्तेः । न च क्तप्रत्ययार्थो न विवक्षितः, मानाभावात् ।

?0किञ्च?0,2[fn क्तप्रत्ययार्थविवक्षयामिति भावः ।] अविवक्षायामपि 3[fn 'तण्डुलं पचति' इत्यर्थे 'तण्डुलः पचति' इति प्रयोगस्य वारणायेत्यर्थः ] तण्डुलः पचतीत्यादिवारणायाभेदातिरिक्तसम्बन्धेन नामार्थप्रकारकशाब्दबोधे तद्विहितप्रत्ययजन्योपस्थितेर्हुतुत्वास्य क्लृप्तत्वेन तथान्वयासम्भवात् ।

अयोदकाभिन्नकर्तृ काप्राप्तिरिति बोधोत्तरं तत्कर्मग्रामो लक्ष्यत इति चेत्, न ; प्रत्ययार्थप्राधान्यस्यान्यत्र क्लृप्तत्वात्, 'सत्त्वप्रधानानि नामानि' इति वचनाच्च तथाबोधासम्भवात् । 'घटो नित्यः' इत्यादौ नित्याभिन्नघटत्ववानिति बोधवारणायाभेदसंसर्गेण नामार्थकप्रकारकाशाब्दबोधे4[fn अभेदसंबन्धेन शाब्दबोधं प्रति मुख्यविशेष्यतया प्रातिपदिकजन्या उपस्थितिरपेक्ष्यते । 'घटो नित्यः' इत्यत्र घटस्य प्रकारतयोपस्तितत्वेन न तत्राभेदेन नित्यस्यान्वय इति भावः । ] विशेष्यतावच्छिन्ननामजन्योपस्थितेर्हेतुतया कर्त्तरि उदकाभेदान्वयासम्भवाच्च । न चोदकपदेनोककर्त्तृ कप्राप्तिकर्मीभूतो लक्ष्यते, प्राप्तपदञ्च तात्पर्यग्राहकमिति वाच्यम्, विनिगमनाविरहात्, स्ववाच्यार्थघटितलक्षणायां तात्पर्यग्राहकत्वस्य चित्रगुरित्यादौ क्लृप्तस्य भङ्गापत्तेश्च । व्युत्पत्त्यन्तरस्वीकारे तु सिद्धमेकार्थीभावेन । एवम् 'ऊढरथः' इत्यादावप्यूह्यम् ।

मम तु न दोषः, सर्वव्युत्पतीनां विभिन्नोपस्थितिजनकशब्दविषयत्वात्, विशेष्यविशेषणभाववैपरीत्यान्तर्भावेणैव संसर्गेऽन्यपदार्थे च शक्तिकल्पनाच्च ।

तदेतत् सकलमभिसन्धाय भाष्य उक्तम् --- 'अर्थतस्मिन् व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः, स वक्तव्यः' इति ।

?0यत्तु मीमांसकाः?0 --- बहुव्रीहौ चित्राणां गवामयमिति विग्रह उचितः, न तु चित्रा गावोऽस्येति, तथा सति 'राज्ञः पुरुषः' इत्यादौ प्रथमान्तपरुषपदार्थस्य प्राधान्यमिव चित्रगवामेव तत् स्यात्, न षष्ठ्यन्तार्थस्य । अनुभवसिद्धञ्च देवदत्तादेरेव प्राधान्यम् । एवं हि वृत्तिविग्रहयोः समानार्थत्वमपि निर्वहतीति । तत्, न; एवं विग्रहेऽपि षष्ठ्यर्थसम्बन्धस्य भेदेनायमितय्त्रान्वये चित्रगोसम्बन्धवानिति
सम्बन्धनिष्ठप्रकारतानिरूपितभेदसंसर्गीयसांसर्गिकविषयताशाली बोधः । समासे तु चित्रगोनिष्ठप्रकारतानिरूपितसम्बन्धिनिष्ठविशेष्यताशालीति भेदस्य तदवस्थत्वात् । एवं षष्ठीतत्पुरुषादावपि ।

न च वृत्तिविग्रहयोर्नातिसमानार्थत्वनियमः, तर्ह्यस्मदुरक्तविग्रहेऽपि न दोषः । किञचाषष्ठ्यर्थवहुव्रीहौ प्राप्तस्योदकस्यायमिति विग्रहेऽपि उदककर्तृक प्राप्तिकर्म ग्राम इति समासबोध्यार्थो दुर्लभ एव ।

अपि च, त्वदीयविग्रहस्य 'अप्रथमाविभक्त्यर्थे बहुव्रीहिः, शेषो बहुव्रीहिस्त्रिकतः शेषः' इत्यादिमुनिवचनविरुद्धत्वम् । न चालौकिके प्रथमान्तानामेव प्रवेशेन न तद्विरोध इति वाच्यम्, अलौकिके प्रविष्टानामेव पक्षान्तरे परिनिष्ठतेऽपि प्रयोगसम्भवः, उपस्थितपरित्यागेनानुपस्थितघटितलौकिकवाक्यकल्पनाया अनुचितत्त्वात् ।

तथा हि -- कृत सु विश्व सु इत्यादिस्थितौ विभाषासमाससंज्ञायां यदा सा जाता, तदा प्रातिपदिकत्वे विभक्तिलुक्, यदा तु न सा, तदा तस्या विभक्तेः को निवारयितेति तदुत्तरप्रवृत्तानुशासनात् तच्छूवणमेवायाति ।

एतेन षष्ठीतत्पुरुषादावपि राजा चासौ पुरुषश्चेति विगृह्लन्तः परास्ताः । षष्ठीसमासादिविधायकस्यालुग्नविधायकस्य तत्पुरुषे "तुल्यार्थतृतीया" [ 6।2।2 ] इत्यादीनाञ्च निर्विषयतापत्तेः ।

ननु प्रथमान्तानामेवास्तु बहुव्रीहिः, पक्षे चित्रा गावो यस्येत्यपि वाक्यमस्तुपरन्तु विग्रहत्वं चित्राणां गवामित्यस्यैव, अति समानार्थत्वात् । अन्यथाविग्रहाच्छक्तिनिर्णयो न स्यात् । एवं प्राप्तोदक इत्यत्रोदकर्तृकप्राप्तिकर्म ग्राम इत्येव विग्रहः ।

न चसमस्यमानपदैर्विवरणविरहाद् बहुव्रीहेर्नित्यसमासतापत्तिः, समासार्थबोधकतद्घटकपदघटितवाक्यासंभव एव नित्यसमासत्वान्न दोषः। प्रकृते तु तस्यापि सम्भवोऽस्त्येव । तत्र सर्वथा समानार्थत्वेनाग्रह इति चेत्, न ; यथा अक्षकरणकभावनाश्रय इत्यर्थकाक्षिक इत्यस्याक्षनिष्ठव्यापारजन्यभावेनेत्यर्थकाक्षैर्दीव्यतीत्येतद्विविशेष्यविशेषणभावांशे समानार्थत्वविरहेऽपि विवरणं शक्तिनिर्णायकञ्च, तथा प्रकृतेऽपि सयादिति क्लिष्टकल्पनाश्रयणं व्यर्थमेव । अपि च कोदेवदत्त इति प्रश्ने चित्राणां गवामयमिति वाक्यादिव चित्रगुरिति वाक्यादपि जिज्ञासानिवृत्त्यनापत्तिरिति दिक् । तस्मात् सर्वत्र समासे एकार्थीभाव आवश्यकः ।

ननु सर्वत्रैकार्थीभावाङ्गीकारे समर्थसूत्रे च तस्यैव ग्रहणे "चार्थे द्वन्द्वः" इति सूत्रस्थं भाष्यं विरुध्येत । तथाहि --- तत्र भाष्ये रामकृष्णावित्यादौ परस्परमनन्वयात् सामर्थ्याभावे समासो न स्यादित्याशङ्क्य, 'युगपदधघिकरणवचने द्वन्द्वः' इति न्यासेनैव सिद्धे न्यासान्तरे प्रवृत्तेर्वैयर्थ्यापत्तेः । 1[fn अधिक्रियते शब्दो यत्रेति विग्रहेण अधिकरणमर्थः । अत्र प्रत्यासत्त्या विग्रहघटकपदार्थो गृह्यते । अधिकरणशब्दस्यार्थपरत्वम् । 'युष्मद्युपपदे समानाधिकरणे मध्यमः' इत्यत्राचार्येव्यख्यातम् । ] अधिकरणम् = वर्त्तिपदार्थौ, तयोर्युगपत् पदद्वयेनाभिधाने द्वन्द्वो भवतीति तदर्थः । रामपदेन रामकृष्णयोः, कृष्णपदेन च तरोरभिधानात् तयोरभेदान्वयरूपसामर्थ्यस्याक्षतेरिति तद्भावः ।

न च घटकुम्भावितिवत् 'विरूपाणामपि' इत्येकशेषेण वाधाद् रामकृष्णाविति द्वन्द्वसयासाधुतापत्तिः, द्वन्द्वविधिसामर्थ्येन 'समानार्थानाम्' इति सामर्थ्येन च युगपदधिकरणवचनतां विनापि समानार्थतायामेवैकशेषात् । ननु "अनेकमन्यपदार्थे" [ 2।2।24 ] इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपदाकत्वे बहुव्रीहिविधानात्
चित्रगवादिपदानां सर्वेषां तदभिधायकत्वे युगपदधकरणवचनताप्तत्वाद् द्वन्द्वपत्तिः । उत्सर्गापवादन्यायेन बहुव्रीहिणा बार्धनाक्षतेर्बोधावृत्तिरपिद्वाविति परिहरणीयेति चेत्, न; 'सेयं युगपदधिकरणवचनता दुःखा दुरिपपादा च' इत्यादिना भाष्य एव तस्या दूषितत्वात् ।

तत्र दुःखत्वम्, दोषाक्रान्तत्वात् । तथाहि -- वृद्धव्यावहाराद्धिशब्दार्थाध्यवसायः । न च प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं लोके दृश्यते । न च प्लक्षशब्दस्य लक्षणा, न्यग्रोधशब्देनैव न्यग्रोधस्य प्रतिपादितत्वात् ।

अपि च, द्वन्द्वैकवद्भावप्रकरणस्य नियमार्थतानुपपत्तिः, सर्वत्रैव द्विवचन बहुवचनयोः प्रसङ्गे एकवचनविधानेन चारितार्थ्यात् साहित्यस्य समाहारस्य च तव मतेऽभानात् । अपि च एवं विग्रहे चशब्दप्रयोगानुपपत्तिः ।

?0दुरुपपादेति?0 । दुष्टं निःसारमुपपादनं यस्याः सा तथा, निष्प्रमाणेत्यर्थः । तथा हि --- न तावद् द्यावाक्षामेत्यादौ व्यासे परस्परसाहचर्येणोभाभ्यामप्यर्थद्वयप्रतिपादनदर्शनात् समासे सा स्वीकार्येति वाच्यम्, द्यावाक्षामेत्यस्य छान्दसत्वात् ।

न च परस्परान्वयाभावेनैकशेषसमासयोरप्राप्तेस्तत्सिद्धये सेति वाच्यम्, वचनसामर्थ्यादेव तत्प्राप्तेः ।
किञ्च, धवौ च खदिरौ चेति न विग्रहः, प्रक्रियादशायां प्रथमप्रवृत्तस्येकवचनस्य त्यागायोगात् ।

समुच्चयान्वाचययोः समासाभावार्थमित्यपि न, तयोस्तदभावस्योपपादितत्वात्, एकार्थीभावसामर्थ्यस्यैव प्रागुक्तदिशा भाष्ये सिद्धान्तितत्वेन दोषाभावाच्च । न च समासाद् द्विवचनबहुवचनोत्पत्त्यर्थं तदावश्यकता, पुष्पवन्तादिपदवत् समासादनेकार्थीप्रतीत्यैव तत्सिद्धेः । न चैवम् 'अङ्गवङ्गकलिङ्गाः' इत्यादौ "तद्राजस्य बहुषु तेनैवास्त्रियाम्" [2।4।62 ] इति लुग् न स्यात्, अपत्यकृतबहुत्वविवक्षायां तद्राजस्य लुगिति हि तदर्थः । न हि विना युगपदधिकरणवचनतां प्रत्येकतद्राजार्थं बहुत्वान्वयः, तस्य व्यासज्यवृत्तित्वादिति वाच्यम्, तद्राजस्य लुग् बहुत्वेऽर्थे, तद्बुहत्वं तद्‌राजार्थेनैव कृतं चेत्, तद्राजार्थेनेव बहुत्वान्वयश्चेदित्यर्थे दनङ्गीकारेऽपि दोषाभावात्, "प्रत्येकं बहुत्वसमवायस्य सत्त्वात्" इत्यादि स्पष्टमस्मत्कृतशब्देन्दुशेखरे । सर्वथापि युगपधिकरणवचनतामादाय लौकिकेऽललौकिके च विभक्तिप्रवेशो न युक्त इति दिक् ।

एवञ्च अजहत्स्वार्थायां वृत्तौ सर्वत्र समासपदादवयवशक्तिभ्यां समुदायशक्तिसहकृताभ्यां विशिष्टस्यैव पदार्थस्योपस्तितिर्बहुव्रीहावन्यपदार्थोऽपि समुदायशक्य एव । अन्यपदार्थश्च यस्येत्यादौ प्रकृतिप्रत्ययार्थव्यत्यासेन सम्बन्ध्यादिः । प्राप्तेदक इत्यादौ प्राप्तादिपदेभ्यो विशेषणविशेष्यभावव्यत्यासेनोपस्थितिरन्यपदार्थकर्मणश्चेपस्थितिः समुदायशक्तिसाध्यैव । अत एवाभिहितत्वान्नद्वितीयादय इत्याकरः ।

एवं द्वन्द्वे साहित्यमपि समुदायशक्यमेव । जहत्स्वार्थायां तु सर्वत्र समुदायशक्तिरेव, अवयवा निरर्थका एवेति पक्षनिष्कर्षः ।

स चायमेकार्थीभावः कृत्तद्धितसनाद्यन्तधातुसुबेकशेषसमासेषु । तत्र समासे उपपादितः । कृदन्तेऽप्युपपदनिमित्तकपदोद्देश्यकविधित्वेन, तत्रैव समर्थपरिभाषाप्रवृत्तेः । अत एव सूत्रे पदपदं चरितार्थम् । अन्यथा व्याकरणस्थसर्वविधीनां पदसम्बन्धित्वाविशेषात् तद्ग्रहणवैयर्थ्यं स्पष्टमेव । अत एव शोभनं कुम्भकार इति न ।

न चात्र समासस्यापि नित्यत्वेन तदीयैकार्थीभावेनैव निर्वाहे कृतामप्येकार्थीभावे मानाभाव इति वाच्यम्, मूलकेनोपदंशमित्यादौ समासस्य वैकल्पिकत्वात् तदभावे सुन्दरेण मूलकेनापदंशमित्यदेर्मूलकेनाद्रेण चोपदंशमित्यादेर्मूलकस्योपदंशनं स्पर्शनं च कृत्वा भुङ्क्ते इतिवद् मूलकेनोपदंशं स्पर्शं च भुङ्क्ते इत्यादेश्च वारणाय एकार्थीभावः कृत्स्वावश्यकः । अत एव "तत्रोपपदम्" [ 3।2।92 ] इत्यत्र भाष्ये उक्तम् --- 'महान्तं कुम्भं करोतीत्यत्राण् प्राप्नोति । नैतदस्ति 'उपपदम्' इति महती संज्ञा क्रियते -- उपोच्चारितं पदमिति । यावता चेदानीं पदगन्धोऽस्ति पदविधिरयं भवति । पदविधिश्च समर्थानां भवति, तत्रासामर्थ्यान्न भविष्यति' इति । केवलकृत्सु तु नैकार्थीभावः, मानाभावात् । अत एव "कर्त्तृ कर्मणोः" [ 2।3।65 ] इति सूत्रे कृतपूर्वीकटमिति प्रत्युदाहरणं सङ्गच्छते । शोभनमित्यन्वयस्तु न, एकार्थीभावात् ।

न चास्यापि क्रियविशेषणत्वेन कारकत्वमस्त्येव, तत्त्वेऽप्यस्य नित्यसाकाङ्क्षत्वाभावात् । ईदृशकारकस्य चोत्थाप्याकाङ्क्षायान्वयः, न तूत्थिताकाङ्क्षयेति स्पष्टमेव । स्पष्टञ्चेदम् "कुत्सने स सुपि" [ 8।1।66 ] इत्यत्र कैयटपदमञ्जार्योः ।

ननु यत्रैकार्थीभावो मानान्तरसिद्धः, तत्र पदविधिरिति सूत्रार्थः, न तु यत्र पदविधिः, तत्रैकार्थीभाव इति । एकार्थीभावस्तु विलक्षणार्थबोधेन मानान्तरसिद्ध इति किमुच्यते परिभाषाप्रवृत्त्या निरुपपदकृतम्, तेनैकार्थीभाव इति चेत्, सत्यम् ; विलक्षणार्थबोध एव क्वेति संशये यत्र समर्थसूत्रप्रवृत्तिर्दृश्यते साहचर्यादिवा, तत्र लक्षणैकचक्षुष्कैरस्माभिस्तदनुमानान्न दोषः ।

वस्तुतस्तु "कर्मण्यण्" इत्यादिसाहचकर्यात् "कर्त्तरि कृत्" इत्यादेरैकरूप्याय च सर्वत्र कृत्स्वेकार्थीभावः ।

अत एव पाचको गमनस्य चेति न प्रयोगः । न चैवम् 'गमनकर्त्तृ कः पाकः' इत्यर्थे गमनस्य पचतीति प्रयोगवारणाय तिङ्ष्वपि स स्यादिति वाच्यम्, आख्यातार्थकारकस्य क्रियानिरूपितविशेषमतायामेव आख्यातान्तप्रयोगसाधुतायाः 'क्रियाप्रधानमाख्यातम्' इत्यनेन बोधनेनाक्षतेः । तस्य च तिङर्थं प्रति क्रियैव प्रधानं क्रिया प्रधानमेव चेत्यर्थः । अत एव पचतीत्यादौ कारकक्रिययोरुद्देश्यविधेयभावप्रतीतिः । सुबन्तेषु तु नदोषः । 'न केवलः' इति निषेधेन तदर्थान्वयिविभक्ति विना प्रातिपदिकप्रयोगस्यैवाभावात् । इतेरषु त्वेकार्थीभावोऽस्त्येव । एतन्मूलिकैव 'प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्व' व्युत्पत्तिः, 'प्रकृतिप्रत्ययौ सह ब्रूतः' इति च तदर्थयोरेव सहान्वयः, त्वितरेणापीति तदर्थः । स चोपस्थितिरूपः, शाब्दबोधरूपो वेत्यन्यत् ।

अत एव व्यापारान्वयविवक्षायामादिः पाचक इति न । फलविशेषणानां त्वेकदेशान्वयो भवत्येव । "पूजनात्पूजितम्" [ 8।1।67 ] इति सूत्रे भाष्ये 'दारुणाध्यापकः' इत्यत्र समस्ताध्यापकपदार्थेकदेशे फले दारुणपदार्थस्य क्रियाविशेषणतयान्वयस्वोकारात् ।

?0किञ्च?0, कर्त्तृ प्रत्ययसमभिव्याहारे फलावच्छिन्नव्यापारस्यैव धात्वर्थत्वेन शोभन पचतीत्यादावेकदेशान्वयस्तत्राप्यावश्यकः । न च फलव्यापारयोः पृथक् शक्तिः, तथैवोपस्थितिश्चेति न दोषः । अत ए न शक्यतावच्छेदकगौरवम्, अन्यथा कर्मप्रत्यसमभिव्याहारे व्यापारावच्छिन्नफलबोधेन तथाशक्तेरप्यावश्यकत्वेन गुरुशक्यतावच्छेदकशक्तिद्वयकल्पनापत्तिरिति वाच्यम्, एवं हिफलव्यापारयोरुद्देश्यविधेयावेनान्वयापत्तेः । विक्लित्तिसंयोगोभयजनकव्यापारवानित्यर्थः विक्लिद्यते, गच्छतीत्यादिप्रयोगाणामापत्तेश्च । कार्यकारणभावादिकल्पनया तत्र कार्यकारणभावज्ञानवतां बोधवारणेऽपि तदजानतां जायमानतादृशे बोधेऽपि साधुतापत्तिदुर्वारैव । गौरवञ्च तदवस्थमेव । अत एव समासादि शक्तिसिद्धिः


तस्मात् फलविशिष्टे व्यापारे व्यापारविशिष्टे फले च धातूनां शक्तिः । कर्त्तृ कर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तद्बोधे नियामकः । पचतीत्यादौ प्रकृतिप्रत्ययार्थयोरुद्धेश्यविधेयभावेनान्वयो भवत्येवेति । समासतद्धितादिसाधरण्येनैकार्थीभावं स्वीकुवर्द्भिरास्थेयम् ।

न च ज्योतिष्टोंमेन धात्वर्थस्वर्गभावनोद्देशेन तदर्थफलभूतत्यागरूपधात्वर्थस्य विधेयत्वं न स्यात् । यजेर्हि तत्र त्यागकरणकव्यापारे स्वर्गविषये शक्तिः । यद्यपि स व्यापारस्त्यागविषयोऽति, तथाऽपि तस्य करणत्वेनैवोपस्थितिरस्तु, सुरूपत्वेनापुरुषार्थतयान्यभाव्यत्वमिति बहिर्भूतस्वर्ग एव भाव्यत्वेनान्वेति । यागस्य कारणत्वञ्च भावनाभाव्यनिर्वत्तर्कत्वम् । कुठारादेरपि पुरुषव्यापारनिर्वर्त्यच्छेदनिर्वर्त्तकत्वेनैव करणत्वादिति वाच्यम्, विधिबोध्यप्रवर्त्तनाविषयत्वरूपविधेयत्वस्य प्रकृत्यर्थतया सम्पूर्णधात्वर्थे शब्दाद्वोधेऽपि 'लोहितोष्पीषा ऋत्विजः प्रचरन्ति' इतयादावितरस्याप्राप्तत्वेन लौहित्य इवेहापि स्वर्गस्य सुखरूपतया स्वत एवेष्टतवेन तद्व्यापारे स्वरसत एव प्रवृत्तेः, सिद्धत्वेन च विशेषणे फले पर्यवसानेनादोषात् ।

इदञ्च भावनायाः प्रत्ययार्थत्ववादिमीमांसकमतेऽप्यावश्यकम् । तेषामपि समानपदोपात्तत्वप्रत्यासत्त्या लिङर्थप्रवर्त्तनायास्तदुपात्तभावनायामेवान्वयेन पर्यवसानगत्यैव धात्वर्थे तद्विषयतायाः स्वीकर्त्तव्यत्वात् । प्रवर्त्तनाविषयत्वोपलक्षिताप्राप्तत्वसमानाधिकरणाखण्डोपाधिरूपविधेयत्वावच्छिन्नविषयतया तद्रूपविषयतया चान्वयस्तु नास्त्येव । तादृशविषयतयानन्वय एव चाख्यातानां साधकत्वात् । एवञ्चेतोऽपि भावनाप्रत्ययार्थं इति मीमांसकमतयुक्तम्, भिन्नपदोपस्थाप्यत्वेन तथान्वयापत्तेरित्यलम् ।

तद्धितेऽपि 'सुन्दरस्यौपगवः' औपगवो देवदत्तस्य' इत्यादिवारणायोद्देश्यविधेयभावेनान्वयाय च स आवश्यकः । सुबन्तात् तद्धितोत्पत्तेः पदोद्देश्यकविधितवं स्पष्टमेव । सनाद्यन्तेष्वपि 'महान्तं पुत्रीयति, पिपठिषति, गन्तुम्, शोभनं पिपठिषति, सुन्दरः कृष्णति, महान्तं घटयति' इत्यादिवारणाय स आवश्यकः । तत्र "सुपः आत्मनः" [3।1।8 ] इत्यादेः पदोद्देश्यकविधित्वं स्पष्टमेव । सन्विधौ तत्त्वाभावेन परिभाषाप्रवृत्यभावेऽपि "सुपः आत्मनः" [ 3।1।8 ] इत्यादौ ततः कर्मण इच्छायामित्यनुवृत्तेरर्थाधिकारानुरोधेन सन्नन्ते तत्कलप्ना ।

तथा च भाष्यम् 'वा वचननार्थक्यं नित्यत्वात् सनः' ---- 'इह द्वौ पक्षौ वृत्तिपक्षश्च अवृत्तिपक्षश्च । तत्र स्वभावत एतद्भवति ---- वाक्यञ्च वृत्तिश्चेति । वृत्तेरेकार्थीभावविषयत्वात्, वाक्यस्य व्यपेक्षाविषयत्वात्, भिन्नार्थत्वेन बाध्यबाधकभावाप्रशङ्गः' इति कैयटः । "गुप्तिज्" [ 3।1।5 ] इति सूत्रद्वयविहितसन् तु न, मानाभावात्, पदविधित्वाभावाच्च् । अत एव कण्डवादियगन्ते न, यगादीनां स्वार्थीकत्वेन विजातीयार्थवद् द्वितीयाभावेन निरूपयितुमशक्यत्वाच्च । अत एव स्तोकादीनां तत्प्रकृत्यर्थेऽन्वयः ।

अत एव "कृञ्चानुप्रयुज्यते" [ 3।1।40 ] इत्यादिविषये नैकार्थीभावः । प्रातिपदिकप्रकृतिककविपः 'कर्त्तुः क्यङ्' [ 3।1।11 ] इति सूत्रे उपसङ्ख्यानात्, पूर्वोत्तरसाहचर्याच्च तत्रैकार्थीभावः । अत एव 'सर्वप्रातिपदिकेभ्यः' इत्यनेन सिद्धे 'आचारेऽवगल्भ' इत्यत्र सुप इत्यस्य सम्बन्धे बाधकाभावेन तस्यैकार्थीभाव एव प्रवृत्तेस्तत्सार्थक्यं स्पष्टमेव । अस्मिंस्तु प्रातिपदिकग्रहणसार्थ्यात् सुप इतयस्यासम्बन्धः । अत एव राजानतीत्यादौ नलोपादिकं नेत्याहुः ।

एवं प्रातिपदिकप्रकृतिकणिच्यपि साहचर्यात् सः । "सुत्याप" [ 3।1।25 ] इति सूत्रस्थणिजिति योगविभागात् तत्सङ्ग्रहेण तस्यापि प्रकरणस्थत्वात् । अत एव "हेतुमति च" [ 3।1।26 ] इति सूत्रे भाष्ये
'तत्करोतीत्युपसंख्यानम् ; सूत्रं करोति सूत्रयति । इह व्याकरणस्य सूत्रं करोतीति वाक्ये षष्ठी । व्याकरणं सूत्रयतीति प्रत्यये द्वितीया । केनैतदेवं भवति ? योऽसौ सूत्रव्याकरणयोरभिसम्बन्धः, स उत्पन्ने प्रत्यये निवर्तते । अस्ति च करोतेर्व्याकरणेन सामर्थ्यमिति द्वितीया भविष्यति' इति भाष्यं सङ्गच्छते । सुबन्ताण्‌णिचि तु स्पष्ट एवं1[fn एकार्थीभाव इत्यर्थः । ] सः, पदविधित्वस्यैव सत्त्वात् ।

एकशेषेऽपि द्वन्द्व इत्यनुवर्तनादेकार्थीभावः ।

तथाहि --- तद्विधायकञ्च "सरूपाणामेकशेष एकविभक्तौ" [ 1।2।64 ] इति सूत्रम् । तेन ह्येवकारापकर्षात् लौकिके प्रत्योगे विभक्तित्वावच्छेदेन वैरूप्यभाववतामेशेषो विधीयते । अत एव जननीवाचिपरिच्छेतृवाचिनोर्मातृशब्दयोर्भ्यांमादावपि नैकशेषः, औजसादौ वैरूप्यात् । हरिणस्त्रीवाचकहरिणीशब्दहरितवर्णविशिष्टस्त्रीवाचकहरिणीशब्दयोस्त्वेकशेषो भवत्येव, पुवद्भावेन तद्धितादौ वैरूप्येऽपि विभक्तौ वैरूप्याभावसत्त्वात् । स चायमन्तरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागेव, विभक्तेः, सारूप्ये उपलक्षणमात्रत्वात् ।

ननु तन्त्रेणैवेदं सिद्धम्, तथा हि द्विविधं तन्त्रम् -- शब्दतन्त्रम्, अर्थतन्त्रञ्च । 'अर्थभोदाच्छब्दभेदः' इति नये सकृत्ताल्वोष्ठपुटव्यापाराच्छब्दोच्चारणे श्रोतुर्यत्र विनिगमनाविरहाच्छब्दद्वयज्ञानम्, तत्राद्यम् । तद्भेदेऽपि शब्दैक्यमिति नये सकृत्ताल्वोष्ठपुटव्यापारप्रकाशितैकशब्देन विनिगमकाभावादनेकार्थभोधे द्वितीयम् ।

यद्वा, 'श्वेतो धावति' इति सभङ्गस्थले आद्यम्, 'विद्वन्मानसहंस' इत्यादाविवार्थद्वयेऽप्येकानुपूर्वीकत्वे द्वितीयम् । 'सकृदुच्चरितः' इति नियमे च न मानम् । तादृशनियमाङ्गीकर्तृ मेत पुनः पुनरनुसन्धानकल्पने आवृत्तिः ।

वस्तुतः शब्दतन्त्रमेवावृत्तिपदेनोच्यते । अर्थतन्त्रञ्च तन्त्रपदेनेति बोध्यम् । शब्दसारूप्यमेव चोभयत्रापि बीजम् ।

एवञ्च तेनैव सिद्धे एकशेषो व्यर्थ इति चेत्, न; 'सरूपाणामेक एव' इति नियमार्थत्वात् । तेन प्रत्यर्थं शब्दनिवेशस्यापि दृष्टत्वेन घटघटावित्यादिवारणार्थं तत्, "सरूपाणम्" इत्यत्र तन्त्राद्याश्रयणेन 'एकविभक्तौ यानि सरूपाण्यव, तेषामेव एकशेषः' इत्यपरनियमाश्रयणाद् मातृभ्यामित्यादौ न लोकन्यायसिद्धं तन्त्रमपि । अयञ्च नियम एकार्थीभावविषयसहविवक्षायामेव 'द्वन्द्वे' इत्यनुवर्त्य द्वन्द्वविषय एव नियमप्रवृत्तिस्वीकारात् । एवञ्च व्यपेक्षायां वाक्यं भवत्येव, अन्यथा एकशेषस्य नित्यत्वाद् वाक्यं दुर्लभमेव स्यात् ।

एवञ्च द्वन्द्वे इवैकशेषेऽपिसाहित्यभानम् । एवञ्च साहित्यविवक्षायां सरूपाणामेकशेष एव, न द्वन्द्वप्रयोगः, मानसेत्यादौ कदाचित् तन्त्रेण प्रयोगः, कदाचित् पृथगपि 'विद्वन्मानसमास' इति । 'द्वन्द्वे' इत्यननुवत्यं साहित्यागर्भनियमाङ्गीकारे तु एकशेषेण द्वन्द्वस्येव कर्मधारयस्यापि बाधापत्तौ मानसमानसेत्यादीनामसाधुतापत्तिः, वाक्यस्यासाधुतापत्तिश्च ।

एवञ्च साहित्यप्रकारकबोध एकशेषव्यवहारः, तदभावे तन्त्रव्यवहारः । पुनः पुनरमुसन्धानेन शब्दतन्त्रे आवृत्तिरित्यभिप्रेत्यैव 'तन्त्रावृत्त्येकशेषाणामन्यतमस्तु' इति व्यवहारः । क्रियापृथक्त्वे खल्वपि द्रव्यैकशेषो यथा 'अक्षाः भज्यन्ताम्, भक्ष्यन्ताम्, दीव्यन्ताम्' इति "युष्मद्युपपदे" [ 1।4।105 ] इति सूत्रस्थभाष्ये तु एकशेषशब्देन तत्फलकत्वात् तन्त्रमुच्यत इतिन विरोधः । व्याख्यातञ्चैवमेव ?01[fn उपाध्यायैः = कौयटोपाध्यतैरित्यर्थः ।
?0]उपाध्यायैः ।?0 'द्वन्द्वे' इत्यस्य साधारणत्वेन समाहारद्वन्द्वविषयेऽप्येकशेषो बोध्यः । न च नपुंसकतापत्तिः, समाहारद्वन्द्व एव तदनुशासनात् । अत एव 'घटघटम्' इति प्रयोगो न । अन्यथा समाहारद्वन्द्वविषये एकशेषाभावेन दुर्वारो द्वन्दवोऽत्र स्यात् ।

एवञ्च प्रत्यर्थशब्दनिवेशपक्षेऽपि 'न ब्राह्मणं हन्यात्' इत्यादौ सकलव्यक्तिसङ्ग्रहस्यैकशेषेणैव सिद्धेः प्रतिव्यक्ति लक्षणं नावर्त्त्यं भवतीत्यपरमनुकूलम् । समुदायस्यैकत्वादेकवचनमेवात्र बोध्यम् । हननंतु तत्र बाधितत्वाद् व्यक्तिष्वेव भवति, 'ब्राह्मणानां शतं भोज्यम्' इतिवत् ।

न चैवम् "नपुं सकमनपुं सकेनैकवच्चास्यान्यतरस्याम्" [ 1।2।69 ] इति सूत्रे एकवदिति व्यर्थम्, विशेषसूत्राणां समाहारद्वन्द्वविषयेऽप्रवृत्त्यर्थत्वादिति निरूपतिं शब्देन्दुशेखरे । एवञ्च रामावित्यादौ शिष्टरामपदनैव साहित्यविशिष्टरामद्वयबोधनम् ।

यत्तु, द्वितीयरामशब्दस्मरणाद् बोधः । अत एवानेकार्थानां पदानामेकार्थीभवनरूप एकार्थीभाव एकशेषे सङ्गच्छते इति । तत्, न; इतरनिवृत्तिमजानतो बोधानापत्तेः, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वभङ्गापत्तेश्च । एकार्थीभावव्यवहारस्तु गौणः कारणीभातो दण्ड इति वदुपपाद्यः । 'द्वौ च द्वौ च, एकश्चैकश्च' इत्यादावेकशेषद्वन्द्वावनभिधानान्न भवतः। विंशतीत्यादावेकशेषस्त्विष्ट एव ।

ननु 'व्यक्तिः पदार्थः' इति पक्षे यावद्व्यक्तिशब्दफ्रयोगनिवारणाय सूत्रस्यावश्यकत्वेऽपि 'जातिरेव पदार्थः' इति पक्षे एकाकृतियुक्तानेकव्यक्तिबोधस्य तत्तद्विभक्तिसमभिव्याहारेण तात्पर्येण वा एकस्मादपि सम्भवेनेदं व्यर्थमिति चेत्, न ; 'अक्षाः, पादाः, माषाः' इत्यादौ नानाकृतियुक्तानेकव्यक्तिबोधार्थं तत्पक्षेऽपि आवश्यकत्वात् ।

न च जातिनिष्ठजातिमङ्गीकृत्य तदर्थमपि सूत्रं न कार्यमिति वाच्यम्, सर्वत्र तादृशजातेः शक्यतावच्छेदकत्वे नानार्थोच्छेदापत्तेः, तज्जार्थंशे प्रमोषदशायां पृथिवीत्वादिप्रकारकबोधविवक्षायामेकशेषसिद्ध्यर्थं सूत्रस्यावश्यक्तवाच्च । तद्विषयकोद्बुद्धसंस्कारस्य स्मृतेः, वोपनायकत्वेन तदंशे उद्बोधकासमवधानस्यैव मोषपदार्थत्वात् ।

एतेन 'शब्दबोधे शब्दस्यापि मानम्' इति वादिनां मते जात्यादिवत् शब्दस्यापि प्रकारत्वादुभयसाधारणशब्दस्यैव शक्यतावच्छेदकत्वम् इत्यपास्तम् । शक्तेः पदार्थघटितत्वेनार्थभेदाभिन्नत्या शब्दस्यैकसम्बन्धे नानेकार्थवृत्तित्वाभावेन तस्यानुगतत्वाभावाच्चेति दिक् ।

'विभक्त्यन्तानामेकशेषः' इत्यादिपक्षदूषणं तु शब्देन्दुशेखरे स्पष्टम् ।

'ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ' अत्र "पुमान् स्त्रिया" [ 1।2।67 ] इत्येकशेषः । स्त्रियां सहोक्तौ पुमान् शिष्यते, स्त्रीपुमर्थातिरिक्तकृतविशेषश्चेन्न भवतीति तदर्थः । अत एव गौरेष, गौश्चैषां एतौ गावावित्येव ।

ये तु, "तदर्थकृतविशेषसत्तवे एकशेषः" इति व्याचक्षते, तेषामत्रास्याप्रसक्तौ "सरूपाणाम्" इत्येकशेषे कदाचित् स्त्रीशेषस्याप्यापत्तिः । एवमन्यत्राप्यूह्यमित्यधिकं ?0शब्देन्दुशेखरे?0 द्रष्टव्यम् ।

?0यत्तु?0, समर्थसूत्रे 'किमर्थं पदग्रहणं क्रियते ? वर्णाश्रये आनन्तर्यमात्रे कार्यं यथा विज्ञायेत, 'तिष्ठतु दध्यशान त्वं शाकेन, तिष्ठतु कुमारीच्छत्रं हर देवदत्त' इत्यादिना ' भाष्ये पदग्रहणस्य वर्णग्रहण एव
व्यावर्त्यदर्शनात् पदशब्देनात्रार्थबोधकमुच्यते । तेनार्थवत्समुदायोद्देश्यको विधिः समर्थाश्रित इति सूत्रार्थः । एवञ्चैवकशेषे प्रातिपदिकप्रकृतिक्विबादौ च न दोषः, तत्राप्यर्थवत्समुदायस्योद्देश्यत्वात् ।

अत एव "समासेऽङ्गुलेः सङ्गः" [ 8।3।80 ] इत्यादौ समासग्रहणं चरितार्थम् । तत्र सकारस्यैवोद्देश्यत्वादिति बोध्यम् । तत्, न ; विङभक्त्यन्तेऽप्येकार्थीभावापत्तेः । न च तवापि "नेर्विशः" [ 1।3।17], "अन्तरान्तरेण" [ 2।3।4 ] इत्यादेः पदविधित्वादेकार्थीभावाभावे अप्रवृत्त्यनापत्तिः, यत्रैकार्थीभावः, तत्रैव पदोद्देश्यको विधिरिति तदर्थादिति वाच्यम्, सामर्थ्यात् प्रवृत्तेः, साक्षात्पदस्य यत्रोद्देश्यता, तत्रैव तत्परिभाषाप्रवृत्तेश्च । अत एव पचतीत्यादावुद्देश्यविधेयभावेनान्वयः सङ्गच्छते । तस्मादिदं भाष्यप्रयोजनोपलक्षणम् । ध्वनितञ्चेदं तत्रैव भाष्ये ।

न चैवं प़ञ्चपाकाश्रय इत्यर्थे 'पञ्चपाचकः' इति प्रयोगापत्तिरिति वाच्यम्, केवलकृत्स्वप्येकार्थीभावाह्गीकारात् ।

?0किञ्च?0, निवत्तभेदाया एव क्रियाया धातुना बोधनात् तदर्थे सङ्ख्यान्वयस्य दुरुपपादत्वेन न तथा प्रयोग इति दिक् ।

समासत्वञ्च संकेतविशेषसम्बन्धेन समासपदवत्त्वमेव ।
यत्तु, समासत्वमर्थबोधायाननुसन्धीयमानविभक्तिकपूर्वपदकनामसमुदायत्वम्, दधि मधुरमस्तीत्यादावपि लुप्तविभक्त्यनुसन्धानाददोषः । अत एव भावनान्वये प्रथमान्तपदजन्योपस्थितेर्हेतुत्वं सङ्गच्छते । नीलोत्पलादौ तु नानुसान्धानम्, लोपमजानतोऽपि बोधात् । अत एव षष्ठीतत्पुरुषात् कर्मधारयस्य ज्यायस्त्वं सङ्गच्छते । लुप्तषष्ट्यादिस्मरणाङ्गीकारे तु लक्षणाविरहात् तदसङ्गतिरेवेति । तत्, न ; अनन्तस्थले विभक्त्यनुसन्धानकल्पने गौरवेण लोपमजानतो बोधेन च अप्रथमान्तपदभिन्नपदजन्योपस्थितिरेव भावनान्वयहेतुत्वेन चाक्षतेः ।

न च तद्दधि भुङ्क्ष्वेत्यादावपि भावनान्वयापत्तिः, तस्य कर्मत्वेनैवान्वये तात्पर्यात् । अन्यथा तवापि "स्वमोर्नपुंसकात्" [ 7।1।23 ] इत्यादिशास्त्रबलाद् विनिगमनाविरहाद् विभक्तिद्वयस्याप्यनुसंधाने दोषानुद्धारस्तदवस्थ एव ।

किञ्च, नघटोऽस्तीत्याद्यानुपूर्वीतो बोधे व्युत्पन्नानां तत एव बोधेन तत्रातिव्याप्तिः ।

एतेनानसुन्धीयमानविभक्तिकत्वं शाब्दबोधप्रयोजकानुपूर्व्या ग्राह्यम् । तेनात्र नातिव्याप्तिः, घटो नेत्याद्यनुपूर्वीज्ञानत्वेनैव बोधहेतुत्वादित्यपास्तम् । एवम् 'श्रुतेरिवार्थम्' इत्यादविवार्थमिति समुदायेऽतिव्याप्तिरिति दिक् ।

एवं तत्पुरुषत्वादिकमपि तेन सम्बन्धेन तत्पुरुषादिपदवत्त्वमेवव ।

?0यत्तु?0, पूर्वपदार्थप्रधानोऽव्यायीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्व इति । तत्, न ; उन्मत्तगङ्गमित्यन्यपदार्थप्रधानेऽव्ययीभावे तल्लक्षणाव्याप्तेः, बहुव्रीहिलक्षणातिव्याप्तेश्च, तथा सूपप्रतीत्युत्तरपदार्थप्रधानेऽव्ययीभावे तल्लक्षणाव्याप्तेः, तत्पुरुषलक्षणातिव्याप्तेश्च । अर्धपिप्लालीत्यादितत्पुरुषे तल्लक्षणाव्याप्तेः, अव्ययीभावलक्षमातिव्यप्तेश्च । द्वित्रा इत्युभयपदार्थप्रधानबहुव्रीहौ
तल्लक्षणाव्याप्तेः, द्वन्द्वलक्षणातिव्याप्तेश्च ।

किञ्च, असम्भवोऽप्येषां लक्षणानां जहत्स्वार्थायामानर्थक्यात् . अजहत्स्वार्थायामपि पदानां पृथगुपस्थितिजनकत्वाभावेन इयान् पूर्वपदार्थः, इयानुतत्तपदार्थ इत्यस्य निर्णेतुमशक्यत्वात् । भूतपूर्वगतिलभ्यमादाय तदुपपादनापेक्षयाऽस्मदुक्तलक्षणानामेव लघुत्वादिति यत्किञ्चिदेतत् ।

इदं पुनरिहान्यदवधेयम् ---- वृत्तौ सर्वत्रोपसर्जने विशेषसङ्ख्याव्यञ्जकाभावेऽभेदैकत्वसंख्या प्रतीयते । संख्यात्वेन संख्यैव चाभेदैकत्वसंख्यापदेन व्यवह्रियते । इदमेवाभिप्रेत्य संख्याविशेषाणामविभागेनावस्थानम्, परित्यक्तविशेषं संख्यासामान्यं वाऽभेदैकत्वं संख्येत्याहुः1[fn 'भर्त्तु हरयः' इति शेषः । तथाहि ----
यथौषधिरसाः सर्वे मधिन्याहितशक्तयः ।
अविभागेन वर्त्तन्ते सङ्ख्यां तां तादशीं विदुः ।। इति ।
आहितशक्तयः = समर्पिता तत्तद्दोषविभेदनिबन्धनविरोधरूपा शक्तिर्यैरित्यर्थः । त्वक्तविरोधेति यावत् । अत एव अविभागेन = अविरोधेनेत्यर्थः । ताम् = अभेदैकत्वसङ्ख्याम् । तादृशीं मधिनिष्ठरसस्थितितुल्यामित्यर्थः ।
अस्मिन् पक्षे संखयात्वेन संख्यासामान्यस्यैव भानम्, न संख्याविशेषस्य । यद्यपि विशेषानालिङ्गितसामान्यासत्त्वादिदमसङ्गतमिव भाति, तथापि 'वन्ध्यासुनः' 'राहोः शिरः' विकल्पात्मकस्य संभवेन नासङ्गतम् । तदुक्तम् --- 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति । ] ।

इन्द्रगोपादिवाचिवर्षासुजादौ तु सत्यपि बहुवचने संख्यात्वेनैव संख्या प्रतीयते, न बुहुत्वत्वादिना, अयवबहुत्वाद्यपेक्षया बहुवचनस्य सत्त्वात् । अत एवैकस्मिन्नपि वर्षतौ जातस्य बोधस्ततः संगच्छते । स्पष्टञ्चेदं भाष्ये समर्थसूत्रे ।

न च सति प्रकरणादौ 'स्तोकाभ्यां मुक्तः' इति समासेऽलुकि च साधुस्यादिति वाच्यम्, अनबिधानेन तत्र समासाभावस्य भाष्ये सिद्धान्तितत्वात् स्तोकान्मुक्त इत्यादितएव प्रकरणसहकृतात् तथा प्रतीतिरिति तद्भावः । एकवचनं त्वौत्सर्गिकम् । इदमेवाभिप्रेत्य 'दन्तोष्ठस्य दन्ताः स्निग्धतराः' इत्यादौ पारिभाषिकद्विवचनाभावेन समाहारस्यैकत्वेन गुणभूतवर्त्तिपदार्थानां च बहुत्वेन द्विवचनोपपदत्वाभावात् तरप् न प्राप्नोति ' इत्याशङ्क्या, वृत्तौ भेदस्य परित्यागादभेदलक्षणैकत्वसंख्यायाश्चोपादानादेवम्भूतदन्तोष्ठलक्षणार्थद्वयाश्रयः प्रत्यय इति "द्विवचनविभज्योपपदे" [ 5।3।57 ] इति सूत्रस्थभाष्यादावुक्तम् । यदा तु तत्रापि प्रकरणादिना संख्याविशेषावगमः, तदा न भवत्येव तरप् । 'प्लक्षन्यग्रोधानां प्लक्षा दीर्घतमाः' इत्यादौ तु न तरप् । 'प्लक्षनयग्रोधानां पल्क्षा दीर्घतमाः' इत्यादौ तु न तरप्, बहुवचनेनावयवेषु संख्याविशेषस्यैव प्रतीतेः ।

नन्वस्या अभेदैकत्वसंख्याशब्देन व्यवाहरे किं विनिगमकम् ? अभेदद्वित्वादिशब्देनापि तत्संभवादिति चेत्, 1[fn 'कपिञ्जलानालभेत' इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिञ्जलालम्भनं विधीयते। तत्र त्रयाणां चतुरादीनां वा आलम्भनमिति संशये बहुत्वव्याप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद् यथाप्राप्तमेवालब्धव्यमिति पूर्वपक्षे चतुरादीनामालम्भनम् 'मा हिंस्यात्' इति सामान्यशास्त्रविहितनिषेधस्यालम्भनवद् व्यक्तीतरपरत्वरूपतावत्पर्यसंकोचकल्पने गौरवाद् गणनायां प्रथमोपस्थितत्रित्वपरतयापि वचनस्य चारतार्थ्यात् लाघवाच्च बहुत्वेन त्रित्वमेव बहुवचनार्थ इति सिद्धान्तितम् । तन्न्यायादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वम्, न तु द्वित्वादीनाम्, अप्रतीयमानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरित्यधिकरणस्य तात्पर्यम् । ] कपिञ्जलाधिकरणन्यायेनैकत्वस्य प्रथमोपस्थितत्वादिति गृहाण । एवञ्चैतदर्थोऽप्येकार्थीभाव आवश्यक इत्याहुः ।

?0अपरे तु?0, नात्र संख्यात्वेन संख्यावत् स्वसम्बन्धिनि लक्षणा, मानाभावात्, तथाबोधानुभावाच्च । न च
जिज्ञासानुरोधात् तथाकल्पनम्, न हि शब्दजन्यतथाज्ञानं विशेषजिज्ञासायां नियामकम् । आम्रफलदर्शनमात्रेण विशेषरसजिज्ञासानापत्तेः, द्रव्यस्य संख्याऽव्यभिचारेण तज्ज्ञानसम्भवाच्च, ज्ञानेच्छयोर्विशिष्य हेतुहेतुमद्भावानुरोधेन विशिष्यैव वाच्यतापत्तेश्च । तस्मात् संख्याया अभावमेव ।

'अभेदैकत्वसंख्या' इत्यस्य चायमर्थः --- भेदशब्देन तत्सद्धचरितं द्वित्वादि । तस्यैकत्वस्य चाप्रतीतिरित्येव 'वर्षासुजः' इत्यादावपि तद्भानमेव । प्रकरणादिसत्त्वे तु भवत्येव विशिष्य तद्भानम् । तत्र परं भवत्येव तेन रूपेम लक्षणा । ध्वनितं चेदम् "पञ्चम्यास्तोकादिभ्यः" [ 6।3।2 ] इति सूत्रे पदमञ्जर्यामिति प्राहुः । "समर्थं" सूत्रे कैयटे च मतद्वयमपि स्पष्टम् ।

?0यत्तु मीमांसकाः?0 -- "समर्थः पदविधिः" इति सूत्रे सामर्थ्यमितरनैरपेक्ष्यम्, पदविधिशब्देन च पदस्य सम्पादको विधिः "कर्तृ करणयोः" [ 2।3।18 ] इत्यादिः गृह्यते । तथा च पदविधिविधेय इतरनिरपेक्षत्वार्थबोधक इत्यर्थः । अत एव 'व्रीहिभिर्यजेत, यवैर्वा यजेत' इत्यादिवाक्येभ्य इतरनिरपेक्षैर्व्रीहिभिर्यवैश्च यागसिद्धिः । इतरच्च सजातीयमेव गृह्यते । तेन 'दण्डेन चक्रेण घटं करोति' इतियादीनां नासाधुता । समर्थसत्रावृत्त्या च भवदुक्तार्थसयापि सिद्धिरिति । तत्, न; आवृत्तौ मानाभावात् ।

'पश्य मृगो धावति,' 'पचति भवति' इत्यादौ तदुक्तसामर्थ्यप्रत्यायकाभावेऽपि विशेषणस्यायोगव्यवच्छेदान्ययोगव्यवच्छेदफलकत्वेन न्यायत एवेतरनिरपेक्षकर्मत्वादिबोधस्येव व्रीहिभिरित्यादावपि तस्य संभवेन फलाभावाच्च । गार्ग्य इत्यादौ प्रत्ययविधेः पदत्वसम्पादकत्वाभावेन त्वदुक्तार्थकपरिभाषाऽप्रवृत्तौ इतरनिरपेक्षगर्गापत्यत्वादिबोधानापत्तेश्च । यथाकथञ्चित् पदविधित्वाश्रयेण तु व्याकरणे शास्त्रमात्रस्य तथात्वेन 'पदविधिः' इत्यस्य वैयर्थ्यापत्तिः, पदविधिरित्यस्य तद्विधेये लक्षणापत्तेश्चेति सर्वष्टसिद्धिः ।