वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२४

← वैयाकरणसिद्धान्तमञ्जूषा-२३ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-२४
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-२५ →

अथ तत्पुरुषविचारः

कृष्णश्रितः--इत्यादौ च कृष्णकर्मश्रयणकर्त्तेत्यादिरीत्या बोधः । कृष्णादेः समुदायशक्ति लभ्यकर्मतादिसंर्गेणोत्तरपदार्थेऽन्वयः । एवमन्यत्राप्यूह्यम् ।

स्वयङ्कृतः--इत्यस्य स्वतकर्तृककृतिकर्मेति बोधः । अत एवायं नित्यसर्थे कर्तृशक्तिप्रधानः ।

खट्वारूठशब्दोऽसमीक्ष्यकारिणि केवलरूठः । अत अवायं नित्यसमासः, वाक्यात् तदर्थाप्रतीतेः ।

मासप्रमित इति । मासविषयकपरिच्छेदकर्त्तेति बोधः । "आदिकर्मणि क्तः कत्तरि च" [3।4।71] ।

शङ्कुलया कृतः खण्डः, शङ्कुलाखण्ड इत्यादौ कृद्द्वारकसामर्थ्य एव प्रवर्त्तते, न साक्षात् परस्परान्वये, नाप्यन्यक्रियाद्वारा सामर्थ्ये इति भाष्ये स्पष्टम् ।

धान्येनार्थः, धान्यार्थः--प्रकृत्यादित्वात् तृतीया । अर्थशब्दो धनवाचि, धान्याभिन्नं धनमिति बोधः ।

मासेन पूर्वो मासपूर्वः--अत्रावध्युत्पत्तिकालतद्ध्वंसानधिकरणकालोत्पत्तिकः पूर्वशब्दार्थः । तदेकदेशे काले मासस्याभेदेनान्वयः ।

माषेणोनं माषोनम् । ऊनार्थोऽभाववान् । तत्र अभावे माषादेः, प्रतियोगितयाऽन्वयः ।

वाक्कलहः--कलहः क्रोधपूर्वको व्यापारः । तत्र वाचः सम्बन्धित्वेनान्वयः ।

आचारनिपुणः--आचारहेतुकनैपुण्यवानित्यर्थः ।

गुडमिश्रः--अत्र मिश्रशब्दार्थः संयोगवान् । तदेकदेशे संयोगे गुडस्य प्रतियोगितयान्वयः ।

आचारनिपुणेनाचारश्लक्ष्णो व्याख्यातः । श्लक्ष्ण उज्ज्वलः ।

काकपेया नदो--काककर्तृकपानकर्मेत्यर्थः । पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा व्याङ्ग्या ।

दध्योदनः--अत्र दध्युपसिक्त ओदन इति बोधः । एकार्थीभावलभ्य उपसेकः ।

यूपाय दारु युपदारु । अत्र तादर्थ्यचतुर्थ्यन्तेन समासः । सोऽपि प्रकृतिविकृतिभाव एव । अश्वधासादयस्तु षष्ठीतत्पुरुष इत्यन्यत्र विस्तरः ।

सर्वेषां श्व्ततरः सर्वश्वेतः । द्रव्यान्तराधेयश्वेतापेक्षया सर्वेषां पटानामधिकोऽयं श्वेतो गुण इत्यर्थः । यद्वा सर्वेषां मध्ये श्वेततर इत्यर्थः । न च तमबापत्तिः, बहुनां निर्धारणेऽप क्वचित् तरपः स्विकारादित्याहुः ।

पूर्वकायोऽर्धपिप्पलीत्यादौ कायसम्बन्धिपूर्वोऽवयव इत्यादिक्रमेण बोधः । पूवपदार्थप्राधान्यमत्र । यदा तु कीयादिशब्दानां तदवयवे लक्षणा, तदा कायावयवाभिन्नः पूर्वो भाग इति बोधः ।

मासो जातस्य मासजातः । अत्र यद्यपि विग्रहे मासः प्रधानम्, तदापि वृत्तौ जातो मासजातो दृश्यतामित्यादौ जातसायैव दर्शनकर्मत्वादिप्रतीतेः । इदमेव ध्वनयितुं विग्रहे 'यस्य सः' इत्यपि प्रयुज्यते कैशेषणविशेष्यभावव्यत्यासश्चैकार्थीभावसाध्यः । जातपरिच्छेदको मास इति बोधो विग्रहे, मासपरिच्छेद्यो जात इति वृत्तौ । जातस्य परिच्चेद्यत्वं तु परिच्छेदजननाश्रयत्वेन । अस्य जातस्य कियान् काल इति प्रश्ने मासजात इत्यस्योत्तरत्वं त्वार्थ वोध्यम् ।

परे तु जातोत्तरमास इति विग्रहे बोधः। उत्तरकालिकत्वं षष्ठचर्थः, समासे जातोत्तरत्वं च जननोत्तरत्वमादाय ।इदमेव ध्वनयितुम् 'यस्य सः' इत्युक्तम् । असामानाधिकरण्याद् बहुव्रीह्यप्राप्तिरित्याहुः । तत्तु क्वचिद्वचधिकरणानामपि बहुव्रीहिदर्शनाच्चिन्त्यम् ।

पर्व स्नातः, पश्चादनुलिप्तः स्नाताभिन्नः स्नानोत्तरकालिकानुलेपनाश्रय इति बोधः । इदञ्चैकार्थीभावगम्यम् । पञ्चानां गवां समाहारः पञ्चगवम्: पञ्चसंख्याकगोसमाहार इत्यर्थः ।

घनश्यामः--घनसदृशाभिन्नः श्याम इति, घनाभिन्नः श्याम इति वा बोधः । इह वृत्तौ विग्रहे च पूर्वपदं तत्सदृशे लाक्षणिकम्, आरोपितं वा । इदमेव ध्वनयितुं विग्रहे इवः प्रयुज्यते । अत एव मृगीव चपला मृगचपलेत्यादौसमानाधिकरणोत्तरपदपरत्वनिबन्धनपुंवद्भावः । साद्श्‌यञ्चोपस्थितश्यामत्वादिनेत्यन्यत्र विस्तरः ।

पुरुषव्याघ्रः--अत्रोत्तरपदं तत्सदृशे लाक्षणिकम्, आरोपितं वा । पूर्वपदार्थविशेष्यको बोधः । "उपमितं व्यघ्रादिभिः सामान्याप्रयोगे" [2।2।56] इति समासः ।

प्रसन्ने दृगब्जेनेत्यादौ नोपात्तधर्मेण सादृश्यम्, किन्त्वनुपात्तेनैवेति सामान्यप्रयोगोऽस्त्येवेति न दोषः ।

वस्तुत इदं सूत्रं समानलिङ्गवचनत्व एव प्रवर्त्तते, समानाधिकरणाधिकारात् । अत एव "परवल्लिङ्गम्" [2।4।26]इति सूत्रे 'तत्पुरुषश्चापि कः प्रयोजति, यः पूर्वपदार्थप्रधान एकदेशिसमासः' इति भाष्यम्, 'द्वन्द्वैकदेशिनोः' इति न्यासं कृत्वा तत्पुरुषग्रहणं प्रत्याख्यातञ्च भाष्योक्तं संगच्छते । अन्यथा दृगब्जेनेत्यादौ पूर्वरपदर्थप्रधानस्य दृश्यमानपरवल्लिङ्गस्य त्यागे बीजाभावेन तदसंगतिः स्पष्टैव । दृगब्जमित्यादौ तु विशेषणसमास एव । दृगब्जेन बीक्षत इत्यादौ वीक्षणान्वयस्तु प्रधाने[वे] दृक्तादत्म्यप्रतीत्या निर्बाध एव । अत एवात्र परिणामालङ्कारमाहुरालङ्करिकनव्याः ।

मुखचन्द्र इत्यादावपि विशेषणसमास एव । चन्द्ररूपकत्वव्यवहारस्तु समानवित्तिवेद्यतया चन्द्रप्रतियोगिकाभेदस्यापि मुखे प्रतितेरार्थमादाय ।

अन्यो राजान्तरमित्यादेस्तु मयूरव्यंसकादित्वादेव परवल्लिङ्गता बोध्या । तत्रान्तरशब्दो भिन्नवाची, अभेदेन पूर्वपदार्थे विशेशणम् । पूर्वपदजन्यबोधप्रकाराश्रयबुद्धिस्थयत्किञ्चित् प्रतियोगित्वञ्च भेदे व्युत्पत्तिविशेषबललभ्यमित्याहुः ।

अपरे तु, "उपमितम्" इति समासोऽप्युत्तरपदार्थप्रधान एवेत्याहुः ।

नञ्समासे बोधस्तु नञर्थनिर्णये निरूपितः ।

प्रगत आचार्यः प्राचार्यः, निष्क्रन्तः कौशाम्ब्या निष्कौषाम्बिरित्यादौ गतक्रन्ताद्यर्थभानं वृत्तावेकार्थीभावबलात् ।

इति तत्पुरुषविचारः ।