वैराग्यशतकम् (गोस्वामिजनार्दनभट्टविरचितम्)

वैराग्यशतकम्
गोस्वामिजनार्दनभट्टः
१९१६

गोस्वामिजनार्दनप्रणीतं
वैराग्यशतकम्।

कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस-
 द्गोगोपालकबालकैः प्रतिदिशं सानन्दभाविष्ठितम् ।
वंशीनावशीकृतव्रजवधूखान्तं सदाह्लादकं
 सद्भक्त्या समुपास्महे वयमघध्वंसैकधीरं महः ॥ १ ॥
मोहं मुञ्च लुनीहि लोमलतिकां कामं च वामं त्यज
 प्रेमाबन्धमपाकुरु प्रविततं. प्रौढासु नारीषु च ।
संसारार्णवमग्नभक्तनिवहोद्धारक्षमं सादरं
 देवं नूतनवारिवाहरुचिरं चेतः समाराधय ॥ २ ॥
एताः कानपि मण्डयन्ति पुरुषान्नानाविधैर्भूषणै-
 रेताः कानपि वञ्चयन्ति च जनान्मिथ्यावचोभिः पुनः
एता वै रमयन्ति कानपि वरान्भावैर्मनोजोत्कटः
 स्वान्त भ्रान्त करोषि किं बत मुधा नारीषु हार्दं हि तत् ॥ ३ ॥
पुत्रो मित्रं कलत्रं वसु च वसुमती वेश्म वासश्च वीति-
 र्नागो रत्नं रथौघः परिजननिवहो नैव यास्यत्यनु त्वाम् ।
तस्मादस्माकमेतन्मतममृतसमं सावधानः शृणु त्वं
 सेवामेकां विधेहि प्रणतजनभयध्वंसधीरां मुरारेः ॥ ४ ॥
 वित्ताशया नृपतयः परिषेवितास्ते
 वित्ताशयैव खलु पर्यटिता धरेयम् ।
 लब्धं मयाल्पमपि नैव धनं क्वचिद्वै
 तृष्णेऽधुनापि कुटिले किल मां विमुञ्च ॥ ५ ॥
धरणी सकलावगाहिता धनलब्धेन मयातिदुर्गमा ।
न घनं खलु लब्धमल्पकं ननु तृष्णा न तथापि गच्छति ॥ ६ ॥
पुत्रे सर्वगुणान्विते रतिकलासौन्दर्यशीलादिकै-
 र्युक्तायां तु गुणैर्हि योषिति तथा चित्ते च नानाविधे ।

स्वान्तं नुः खलु सस्पृहं भवति वै श्रीकृष्णपत्यङ्कजे
 चेदेवं तु भवेत्क्षणार्धमपि तत्स्यान्मुक्तिरेव स्फुटम् ॥ ७ ॥
गतं चरणयोर्बलं भुजबलं तथा दृग्बलं
 बलं श्रवणयोस्तथा दशनजं बलं वा पुनः ।
परं प्रकृतिदुःखदा तदपि जीविताशा भृशं
 नरस्य तु दिने दिने बलवती बलाज्जायते ॥ ८ ॥
पुत्रः याति न पाति न प्रियतमा शौर्यं न पात्युद्भटं
 बुद्धिः पाति न पाति नैव कविता नो पाति विद्याबलम् ।
यातं वै परलोकमार्गममितं दीनं जनं केवलो
 धर्मः पाति ततस्तु धर्मकरणान्नान्यन्महीमण्डले ॥ ९ ॥
तटे भागीरथ्याः कुशरचितसत्पीठसुभगे
 स्थितः स्नातः शुद्धो धृतविमलदस्त्रोऽमलमतिः ।
नरो नाम नाम स्मरति नवशीतांशुशकलो-
 ल्लसन्मौलेर्वामां स तु भवति धन्यः क्षितितले ॥ १० ॥
यः सर्वत्र दयान्वितोः भवति यः सर्वत्र वै सत्यवा-
 ग्यः सर्वत्र कृतक्षमो भवति यः सर्वत्र स स्नेहादृक् ।
यः सर्वत्र सुरासुरार्चितपदद्वन्द्वाम्बुजामम्बिकां
 नित्यं संस्मरति क्षितौ स विबुधैर्योगीश्वरः कथ्यते ॥ ११ ॥
 बाल्यं गतं सकलमर्भकलीलयैव
 तारुण्यमप्यहह सत्तरुणीविलासैः।
 वृद्धत्वमस्ति नर संप्रति सार्थकं त-
 द्गगातरङ्गसवनैः सफलं विधेहि ॥ १२ ॥
किं दानेन मुहुः कृतेन कृतया किं वा हरेः पूजया
 किं वा धूर्ततया कृतैरनियमैर्नित्योपवासव्रतैः।
किं यज्ञैर्बहुदक्षिणैरपि कृतैः श्रद्धाविहीनः पुनः
 स्वान्तं चेच्छुचि नास्ति पूरुष तदा किं तैर्वृथाडम्बरैः ।। १३ ॥

वैराग्यशतकम् ।

कृतोर्ध्वपुण्ड्रो धृतशङ्खचक्रो वृन्दाक्षकैः कल्पितगात्रभूषः । करोति रामेति मुहुः प्रजल्पन्नरोऽतिधन्यः सफलं स्वजन्म ॥१४॥ सामर्थ्यं न तनौ मनागपि चलापाङ्गाङ्गनासंगमं कर्तुं हन्त मयास्ति नेत्रपटुता सर्वापि नाशं गता । सर्वे प्राणसमा गताश्च सुहृदो दुर्दैवदग्धं मनो नैवाद्यापि तथापि वाञ्छति जडं देहक्षयं मामकम् ॥१५॥ सन्ति क्षीणधनाः क्षितौ क्षितिभुजो दानाक्षमाः स्वामिनो दुष्प्रापो हि वसुंधरातलगतः कष्टैर्भहद्भिर्निधिः । द्रव्याधीनमहो सुखं न तु धनं कुत्रापि हा लभ्यते तस्मान्मानस सांप्रतं समुचितां भक्तिं मुरारेः कुरु ॥ १६ ॥ तृणानि पशवः समे खलु बने सुखं भुञ्जते पिबन्ति च बिलेशयाः किल सदागतिं सादरम् न जीवति नरो वरो नियतमन्नमेकं विना तदन्नमिह लभ्यते जगति कष्टपुञ्जैः परैः ॥ १७ ॥ याभ्यां नो हरिपूजनं खलु कृतं ताभ्यां कराभ्यां नु किं नो वै येन विधीयते हरिनतिः किं तेन मूर्ध्ना किल । किं वा तेन मुखेन येन सुखदा विष्णोः कथा नोदिता मन्ये धन्यतमं तदङ्गमिह यत्कृष्णार्हहणार्णाहं भुवि ॥ १८ ॥ या स्त्रीणां न करोति भोगमथवा नो ब्रह्मचर्यं दृढं नो भुङ्क्ते विविधप्रकारमशनं नो वा फलं भूरुहाम् । नो वस्त्रं हि बिभर्ति नेत्रसुखदं नैणं तु चर्माथवा दृष्ट्वा खलु भोगयोगविकलं स्वान्तं भृशं दूयते ॥ १९ ॥ जिता युद्धैर्युद्धोद्धरतरविपक्षप्रतिभटा जिता लोके लोकाः शुभतरगुणौधैश्च गुणिनः । कलावन्तः सर्वेऽप्यभिनवकलाभिश्च विजिता विजेतुं वै मृत्यु मनुज तव यत्न न कलये ॥ २० ॥ काव्यमाला। आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठ्युर्यं भज लोभमोहविषये निद्रा समाधौ हरेः । जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एवं गुणत्वमेवमखिला यास्यन्ति चेतस्तव ॥ २१ ॥ परिणतफलमूलैः शुष्कशाकैश्च नालैः कथमपि च कदन्नैः पूर्णकुक्षेः सुजीर्णैः धनवसनविहीनस्यास्य लोकस्य नूनं तदपि न विषयेच्छा मानसाज्जातु याति ॥ २२ ॥ ये दुर्जनाः सन्ति हि ते धनाढ्या ये सज्जनास्ते तु धनेन हीनाः दृष्ट्वा कले: कौतुकमेतदुच्चैः स्वान्तं नितान्तं मम तापमेति ॥ २३ ।। त्वगस्थिरुधिरामिषैः प्रचुरगूथमूत्रादिकैः कृतां जलजजन्मना सकलदोषसीमां वधूम् । अनङ्गशरजर्जरीकृतकलेवरः कातरो जरो जडमतिर्मुहुः प्रियतमेति तां भाषते ॥ २४ ॥ केचिद्रागेषु भग्नास्तरुणहरिणदृग्वृन्दकेलीषु केचि- त्केचिद्विद्याविनोदे सुललितकवितापद्धतौ चापि केचित् । केचिद्गोशस्त्रवाजिब्रजगजवसनस्वर्णरत्नादिकेषु द्वित्राः कृष्णाङ्घ्रिपद्मप्रचुरमधुझरीपानभाजो भवन्ति ॥ २५ ॥ किं वृक्षा विफलाः समं समभवन्कि कन्दहीना धरा निर्मूलानि वनानि तानि किमहो जातानि सर्वाण्यपि । लभ्यन्ते किमु न त्वचः क्षितिरुहां लोको न वस्त्रप्रियो यल्लक्ष्मीमदिरोत्कटान्नरपतीनश्रान्तमासेवते ॥ २६ ॥ विश्वामित्रादयस्ते क्व नु खलु विगता योगशास्त्रार्थविज्ञा युद्धे दक्षा बलिष्ठाः क्व नु खलु पटवः कर्णभीमार्जुनाद्याः ते मन्ये महान्तः क्वचन रसकलाः सांप्रत सन्ति यस्मा- द्देहं चैवानपायं निजमवनिवले मन्यसे मूढधीस्त्वम् ॥ २७ ॥ वैसग्यशतकम् मानापमानसुखदुःखवियोगयोग- संपत्तिनैस्सख्ययुगलेषु समानबुद्धिः । मोहाम्बुपूरकलुषं च स एव नूनं संसारवारिनिधिपारमुदारमेति ॥ २८ ॥ पक्वानि सन्ति विपिनेषु फलानि तानि शीतानि निर्झरनदादिषु पुष्कराणि ज्ञेयो भृशं जडतरः स तु यः प्रभूणां सेवा करोति हि धनार्थमनेककष्टैः ॥ २९ ॥ न धनं न सुतो न सुन्दरी न गृहं नोपवनं न बान्धवाः । न ममास्ति हि किंचिदुच्चकैरिति यो वेत्ति न मोहमर्हति ॥ ३० ॥ रूपं सर्वमपाकरोत्यपनयत्युच्चैर्बलं देहजं ज्योतिर्नाशयति स्फुटं नयनयोः क्षामा करोति क्षुधाम् । अङ्गानामपि तानवं वितनुते व्याहन्ति शौर्यादिकं लोकायः प्रददाति हन्त नियतं किं किं न कष्टं जरा ॥ ३१ ॥ भवति कलहो येनान्योन्यं द्वयोरनुरक्तयोः प्रसरति पुनर्येनाकीर्तिमहीवलयेऽखिले । भुवनविदितं पुण्यं स्तोकं नयेन हि जायते मनुज नियतं तं वै लोभ परित्यज दूरतः ॥ ३२ ॥ क्रोधेनैव कृताजयः खलु मृतास्ते कौरवाः पाण्डवाः क्रोधेनैव सती जुहाव मखजे कुण्डे खकीयां तनुम् । क्रोधेनैव समं गतं यदुकुलं मैरेयपानाकुलं क्रोधो बोधरिपुर्विधातुमुचितस्तसान्न विज्ञैर्नरैः ॥ ३३ ॥ सन्ति त्वद्धाम्नि ते ते जवजितपवनाश्चारुवर्णास्तुरंगा- स्ते ते दानाम्बुधारामलिनतरकराः प्रोन्नता दन्तिनश्च । १. मेरेयं धातकीपुष्पगुडधानाम्बुसंहितम्' इति माधवः, काव्यमाला। रत्नस्वर्णादिकानां नरवर निवहा भान्ति ते ते च नूनं मद्देहे निस्पृहत्वं भवति हि सकलं येन तत्पांशुकल्पम् ॥ ३४ ॥ किं कुर्वन्ति फलाशनं न विहगाः किं नो तवो () भुञ्जते दध्यादीन्यनिलं पिबन्तिः किमु नो सर्पा विषेणोद्धुराः । स्यादेवं यदि वै व्रती व्रतधरास्ते स्युस्तदा निश्चितं तस्माद्यः सुकृती स याति सुखदं लोकं हरेर्ज्ञानवान् ॥ ३५ ॥ मा भक्ष्यचिन्तां कुरु भक्ष्यदाता स एव येनास्ति कृतं हि जन्म । तं देवमाराधय पूरुष त्वं न स्याद्यदाराधनतस्तु जन्म ।। ३६ ।। गमयसि समय किमेवमेतैर्बत विषयैः क्षणभङ्गुरैः समस्तैः । अनुपमसुखदं तमेव देवं हृदय भजामि नवेन्दुखण्डचूडम् ॥ ३७. ।। पिबति सलिलं गाङ्ग भुङ्क्ते सुधाकरनिर्मलं बिसमथ तनुं वस्ते नव्यैर्धराभववल्कलैः । भ्रमति हरिणैः सार्धं स्वैरं घने विपिने हि यः स तु नरवरो देहान्ते तैः सुरैः सह मोदते ॥ ३८ ॥ न दातुं यः शक्तः कलुषहरदानानि नियतं न वा कर्तुं नाकप्रदमखविधानं बहुविधम् । स हीनः सर्वैस्तैरहह खलु सांसारिकसुखै- र्नरो दिष्टं व्यर्थं गमयति विनैकां हरिनुतिम् ॥ ३९ ॥ पुत्रमित्रवसुबन्धुपुरंध्रीग्रामधामरहिताः किल लोकाः । हन्त तेऽपि न भवन्ति विरक्तास्तेन मे भवति चेतसि चित्रम् ॥४०॥ चपलाचपलं हि जीवितं विषयाः सन्ति समे विषोत्कटाः । जडबुद्धिरसौ तथाप्यहो न जनो मुञ्चति तान्ननाक्क्वचित् ।। ४१ ।। हन्तुं केचन सन्ति मत्तकरिणां वृन्दं समर्थाः क्षितौ सिंह केचन कुम्भिकुम्भनिवहप्रध्वंसधीरं पुनः । शूराः केचन वज्रसारकठिनैः शस्त्रैर्युत्तं वैरिणं कन्दर्पोद्भटदर्पदारणविधौ वीरा नरा दुर्लभाः ॥ ४२ ॥ वैराग्यशतकम् । धत्से यद्रुचिराम्बराणि कुरुषे यद्भोगमेणीदृशां यद्दानानि ददासि यासि तुरगैर्मत्तैर्गजेन्द्रैश्च यत् तत्ते प्राक्तनपुण्यकर्मफलितं भूयस्तदेवाचर स्वान्तं स्यात्पुनरन्यजन्मनि सुखं येनैव नानाविधम् ॥ १३ ॥ शेते संप्रति भोजनं प्रकुरुते नारीजने तिष्ठति क्षोणीशः समयोऽस्ति नैव नृपतिं त्वं रे कथं द्रक्ष्यसि यत्रैवं कथयन्ति दुष्टमतयो दौवारिकास्तत्र य- गच्छान्त्येव जडा जनाश्च नियतं तल्लोभविस्फूर्जितम् ॥ १४ ॥ भूपास्ते रणकर्कशा युवतयः सौन्दर्यसीमाश्च ताः सद्विद्यास्ववशीकृताखिलबुधस्वान्ताश्च ते पण्डिताः । अन्ये चैव नटा विटाश्च कवयः सद्गायना नर्तका- स्ते याता यदपाङ्गपातचकिताः कालाय तस्मै नमः ॥ १५ ॥ इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः । इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरि वेत्ति प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ॥ ४६ ॥ सद्विद्या सुकृतार्जितं वसु गुणग्रामाभिरामः सुतो भार्या यौवनरूपशीलरुचिरा सेवापराः सेवकाः । मित्रं निष्कपटं नृपो गुणगणग्राही च दाता पुन- र्नैतत्सर्वमवाप्यते हि मनुर्विष्णोः प्रसादं विना ॥ ४७ ।। अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहसत्र ।। ४८ ॥ भोजनेन च धनेन सुदीर्घं जीवनेन तरुणीनिवहेन । जायते न मनसः परिपूर्तिस्तोत्र एव खलु तत्र विधेयः ॥ १९ ॥ यस्य भालफलके यदलेखि ब्रह्मणा खलु सुखासुखयोश्च । तस्य तद्भवति तत्र न युक्तौ कर्तुमेव नर हर्षविषादौ ॥ ५० ॥ काव्यमाला। वाङ्गनाधरदलामृतमम्बुनो वाः पीतं मया सुखकर सुरनिम्नगायाः । संदेहसिन्धुलहरीतरलेन नूनं कालः कलो हि सकलोऽप्यतिवाहितोऽयम् ॥ ५१ ।। ननु न निहताः कामक्रोधादयो न च शत्रवो न खलु भवनं नो वारण्यं मया परिसेवितम् । न तु वनफलं नो वा मुक्तं मया विविधाशनं नियतमखिलं जन्म स्वीयं कृतं हि निरर्थकम् ।। ५२ पुण्यासक्ताः वयं ये सततमथ नरान्वीक्ष्य पुण्यैकनिष्ठा- जायन्ते जातहर्षामृतरुचिरझरीक्लिन्नदेहाः समन्तात् । सेवां कुर्वन्ति ये वै सुमविशिखरिपोः सादरं सावधाना- तैरेवेयं धरित्री किल विमलतरैर्धार्यते पापगुर्वी ॥ ५३॥ येऽरण्ये विजने वसन्ति सततं संस्थानि ये भुञ्जते ये नित्यं भुवि शेरते तृणमयं चास्तीर्य रम्यासनम् । ये वै बिभ्रति वल्कलानि वनितां पश्यन्ति ये जातु नो तानप्येष तपोधनान्विकलयत्युच्चैः प्रसूनायुधः ॥ ५४॥ स्तुत्या न तोषो हृदि यस्य रोषो न निन्दया यस्य तथास्ति नूनम् । लामे च हर्षों नहि नास्त्यलाभे दुःखं स मुक्तो धरणौ हि वेधः ॥५५॥ नभ्यं चरणाम्बुज स्मररिपोः श्रव्या च का तत्कथा ज्ञेयं किं च विधानमेव सकलं तत्पूजनस्योच्चकैः । कः स्तुत्यश्च स एक एव सततं ग्राह्यं च किं कल्मष- ध्वंसे श्रेष्ठतरं च नाम नियतं तस्यैव भूमण्डले ॥ ५६॥ स्वल्पो जीवितकाल एष रचितो धात्रा पुनर्नश्वरं देहं हन्त कृतं च तत्र विविधा रोगाः पुनः कल्पिताः । एकस्यापि गुणस्य कोऽपि नियतं नो पारगो दृश्यते तस्मात्सर्वमपास्य मानस भज श्रीकृष्णपत्पङ्कजम् ।। ५७ ॥ वैराग्यशतकम् दारिद्र्यं विबुधजनेषु वीक्ष्य लक्ष्मीमक्षीणामबुधगणेषु निन्दितेषु । दृष्ट्वैतत्कलियुगकौतुकं नितान्तं हा बाधा मम हृदि जायतेऽतिगुर्वी ॥५८॥ सन्ति क्षोणीतलेऽस्मिन्निजजठरदरीपूरणेऽतिप्रवीणाः कर्तुं स्वाभीष्टमेकं कृतविविधतरप्रोधमौघास्त्वनेके । ये वै कुर्वन्ति पूर्णां परजठरदरी ये पराभीष्टवार्ता ते तु त्रैलोक्यवन्द्या ध्रुवमवनितले दुर्लभाः सन्ति लोकाः ।। ५९ ।। दैवाद्यथा यस्य तु मृत्युरस्ति तथैव नूनं म्रियते स कालः । हन्तुं न शक्यस्तु निजेच्छया वै मत्तेन सूक्ष्मो मशको गजेन । ६० ॥ पुष्पाशुगः कुसुमचापवरो विदेह- श्चन्द्राबलाजनवसन्तसहायमात्रः। भस्मीकृतोऽपि हरनेत्रहुताशनेन कामः कदर्थयति हन्त तथापि लोकम् ॥ ६१ ॥ पल्यङ्को विगतः स संप्रति धरा प्राप्ता हि पल्यङ्कतां तन्नष्टं रुचिरोपधानमधुना जाता भुजा तत्पदे । तूली साप्यतुला किलाप विलयं दर्भावली तूलिका जाताग्रे बत किं करिष्यति विधिर्नाहं तु जाने ह तत् ।। ६२ ।। धत्ते मौनमनर्गलं किल पिता लुब्धो यदर्थं पुन- र्माता स्नेहभरं विमुञ्चति कलिं माता करोति स्फुटम् । सर्वे बन्धुजना यदर्थमशुभं वाञ्छन्ति नानाविधं भ्राष्ट्रे गच्छतु वह्निभारकलिते दुःखालयं तद्वसु ।। ६३ ।। कुर्यामहं दृढत्तरं भुवनाविपत्य दद्यां च दानमखिलागतयाचकेभ्यः हन्यां रिपूनिति नरास्ति तवाशयस्तु को वेद किं मनसि तिष्ठति विश्वभर्तुः ॥ १४ ॥ स मित्रं स भ्राता स च विमलबन्धुः स च पिता स सूनुश्चैवास्ते स च विमलकीर्तिः परिवृढः । न गु० १३. काव्यमाला स एवास्मिन्काले सकलजनसर्वस्वमधिकं य एवेह प्राज्य सततमथ दत्ते किल धनम् ॥ ६५ ।। सन्त्येते मामकीनाः परिणतमतयः सेवकाः सावधाना ग्रामाश्चैतेऽतिरम्योपवनगृहसर:कूपवाप्यादियुक्ताः । अश्वाः शस्त्राणि नागास्तरुणमृगदृशो वक्ति लोको यदेवं ज्ञेया माया मुरारेरसुरविजयिनः सा मतिर्भ्रंशकर्त्री ।। ६६ ।। किं तृप्तिर्न हि जायते वनफलैः किं वल्कलैर्नावृतं देहं हन्त भवत्यथो न सलिलैस्तृड्याति किं नैर्झेरैः । किं निद्रा समुपैति न क्षितितले यस्मादबुद्धिर्नरः कर्तुं हन्त तपः करोति न मनो भग्नो भवाम्भोनिधौ ।। ६७ ॥ विद्यानवद्या पठिता न चित्तं वित्तार्जने वापि मया न दत्तम् । धर्मः कृतो नैव समस्तु कालो हा लोभलग्नेन वृथैव नीतः ॥ ६८ ॥ यदन्या न ज्ञानादसि विषशरैर्हंसि पुरुषा- न्यदन्येषामर्थे प्रचुरतरविघ्नान्प्रकुरुषे । अधर्मे यन्निष्ठा तव नर गरिष्ठास्ति सततं किमाकल्पं मूढ त्वमिह भुवने स्थास्यसि ततः ॥ ६९ ॥ प्राणायामपरायणो भवतु वा योगैकनिष्ठोऽथवा किं वा साधुसमाधिसाधनविधिप्रौढो भृशं पूरुषः । किं वा सिद्धरसाञ्जनाद्भुतमणिग्रामप्रवीणः परं मृत्युर्येन विवर्तते स भुवने नास्ति प्रकारः परः ॥ ७० ॥ येऽरण्ये निवसन्ति ये च सदने ये भोञ्जते वै फलं ये वान्नं सलिलं पिबन्ति सरजं ये ये च कौपं परम् । भूमौ खलु शेरते च रुचिरे पल्यङ्कमध्ये च ये ते सर्वे निधनं प्रयान्ति समये कस्मिन्विशेषोऽस्ति कः ॥७१॥ बाल्यं गतं सकलमर्भकलीलयैव तारुण्यमप्यथ गतं विविधैर्विलासैः गङ्गातरङ्गकलनैरहमेतदुच्चै- र्वृद्धत्वमेव सकलं सफलं करिष्ये ॥ ७२ ॥ वैराग्यशतकम् कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्धा भङ्गुरान्सर्वभोगान् पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम् ।। ७३ ।। निगमागमधर्मशास्त्रमार्गाः सकलाः सन्ति परस्परं विरुद्धाः । अत एव मतेः क्वचिन्न दार्ढ्यं भवति नृणामविवेकिनामिह ॥ ७४ ॥ काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिम् । गाङ्गे वारिणि पापहारिणि कुरु स्नानं सर श्रीपतिं त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ।। ७५ ।। विरमत बुधवर्याः संगमादङ्गनानां कुरुत कलुषवृन्दध्वंसनोग्रं हि धर्मम् । न खलु निरयमग्नानुद्धरिष्यत्यजत्रं कुवलयदलनेत्रा कौतुकं हन्त युष्मान् ॥ ७६ ॥ पापिष्ठाः सन्ति धान्यद्रविणसुतसुताबन्धुवर्गादियुक्ता दुःखैरुग्रैरनेकैर्विदलितहृदयाः सन्ति धन्याश्च सर्वे दृष्ट्वैतद्वैपरीत्यं कलुषसुकृतयोः शश्वदाश्चर्यभूतं जानेऽहं वै निदानं कलियुगमपरं तत्र नो वेद्मि नूनम् ।। ७७ ।। लोभग्राहविमोहमीनकठिनक्रोधस्फुरद्बाडव- क्रूरानङ्गकुलीरमत्सरजलैः पूर्णः समन्ताद्भृशम् । न ज्ञानाभिघमन्दरेण हृदयाम्भोधिर्दृढं मथ्यते यावत्तावदियं न मुक्तिकमला केनाप्यहो लभ्यते ॥ ७८ ।। दया दानं सत्यं परधनपरस्त्रीविमुखता क्षमा श्रद्धा देवद्विजगुरुगणे भक्तिरतुला । अनौद्धत्यं तृष्णानियमनमनङ्गाविकलता गणोऽयं वै लोकं नयति हरलोकं गतभयम् ॥ ७९ ॥ पुत्रं मुञ्चति मुञ्चतिं प्रियतमा सद्भातरं मुञ्चति स्वीयां मुश्चति शुद्धवंशजनितां शुद्धां वधूटीमपि । सर्वं मुञ्चति चान्यदप्यथ निजां मूर्तिं बलान्मुञ्चति क्षुद्रो मुञ्चति जातु नैव नियतं लोभं तु लुब्धो जनः ॥ ८ ॥ काव्यमाला ग्रामारामकलत्रपुत्रममता त्यक्ता च दूरीकृता- स्ते मत्ताः करिणो विचित्रवपुषस्ते ते मया वाजिनः जीर्णायाचितलब्धनीरसतरेणान्नेन संप्रत्यहं प्राणाल्लक्ष्मि विभर्मि दीर्घतपसे मां मुञ्च मुञ्चाधुना ।। ८१ ॥ आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनै- र्वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवाम् । मुक्तिः स्याद्यदि तद्विहाय सकलं चैतत्प्रवीणा नराः कर्तुं हन्त तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ।। ८२ ॥ शिशिरकिरणो भानुर्वायुर्मही गिरयो नगाः सलिलमनलो यच्चैवान्यच्चराचरमस्ति वै तदखिलमिदं भस्मप्रायं भृशं प्रलयानले भवति मनुज स्थास्यत्येतत्कथं तव वै वपुः ।। ८३ ।। निजमतिसमा विद्याधीता कृतं द्रविणार्जनं प्रबलरिपवस्ते ते सर्वे जिता विविधोद्यमैः तदपि च कृतं कर्तव्यं यद्बभूव धरातले सरलमनसा संप्रत्येकां स्मरामि गिरीन्द्रजाम् ॥ ८४।। भक्तिर्देवे स्मरारौ विजनधनवने चास्ति नित्यं निवासो नाशं सर्वे मतास्ते मनसि मनसिजस्योत्कटा वै विकाराः लब्धं पातुं पवित्रं जलममरसरित्संभवं कन्दभक्ष्यं वैराग्यं जातमुच्चैर्मम जगति पुनर्नान्यदन्त्यर्थनीयम् ॥ ८ ॥ पातालं यासि चित्त श्रमसि च गगनं तन्निरालम्बमेकं नानारण्यं च नित्यं व्रजसि विशसि रे गह्वरं भूधरस्य । व्यर्त्यं कालं त्वमेवं गमयसि सकलं निर्विवेकेन नूनं मोक्षं क्ष्मारुट्फलं वै कलयसि न कथं तत्परब्रह्म दिव्यम् ।।८।। न धनं न सुतं न सुन्दरी न च वाञ्छामि गृहादिकं सुखम् । नवनीरदनीलविग्रहे किल भक्तिं तु विहाय केशवे ॥ ८७ ॥ वैराग्यशतकम् । कृष्णं केचन न स्मरन्ति नितरां दारिद्र्यदुःखातुरा- स्तं केचन न स्तुवन्ति विविधै रोगैर्भृशं व्याकुलाः नो केचन लोभलीनमनसः सम्यग्भजन्ते ततो द्वित्रा एवं तदङ्घ्रिपूजनरता मुक्तिं लभन्ते जनाः ॥ ८८ ।। क्वचित्कन्या जाता क्वचिदपि च पुत्रः समभव- त्क्वचिद्दिव्यं गानं क्वचिदपि विधानं मृतनृणाम् । त्क्वचिद्धास्यं रोदः क्वचिदपि भवत्यन्त्र भुवने भृशं मूढस्तत्त्वं तदपि न हि जानाति मनुजः ।। ८९ ।। अस्मिन्भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हेि कारणं प्रयतता नैवाथ कश्चिद्गुणः । काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय शुचये नो हस्त हंसाय यत् ॥ ९० ॥ लुब्धः कश्चित्तु विश्वं धनमयमखिलं मन्यते कश्चिदुग्रैः स्मारैः सर्वैर्विकारैर्विलुलितहृदयो वेत्ति नारीमयं च त्यक्त्वाशेषप्रपञ्चः कलिकलुषमरत्रस्तचित्तोऽहमेको मोक्षाकाङ्क्षी समग्रं किल भुवनतलं ब्रह्मरूपं हि जाने ॥ ९१ ॥ विरसं परिणाम एव लक्ष्म्यास्त्वमवाप्य क्षणभङ्गुरं सहायम् । कुरु मानव मा मुधा हि गर्वं वद लक्ष्मीः किल कस्य चास्ति वश्या|९२।। इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता । खलु भवति तदेव तस्य सर्वं भुवनपतिस्तु यदीश्वरः करोति ॥ ९३ ॥ निर्मूलं सकलं जगज्जडमते जानीहि कूलं कलं गङ्गाया भज वल्कलं क्षितिरुहो दिव्यं दुकूलं कुरु । मूलं काननजं च भुङ्क्ष्व मधुरं संसारमूलं मुदा देवं नीरदनीलविग्रहधरं नित्यं समाराधय ॥ ९४ ।। ब्रह्मा भेजे मदनविकलः कन्यका तां निजां वै सीतां लङ्कामनयदतुलां रावणो रामजायाम् । काव्यमाला। चन्द्रो गत्वा वरगुरुवधूं हा कलङ्कातितोऽभू- त्कः कः कामप्रसरविवशो नैव निन्दां प्रपेदे ॥ ९५ ॥ रम्यं हर्म्यं च रम्यं सरसिजविपिनं तावदेवास्ति रम्यं वृन्दं स्त्रीणां च रम्यं हयगजशकटीचन्द्रचन्द्रादिकं च। उद्यानं चैव रम्यं विमलजलभृतं कूपवाप्यादि रम्यं यावच्चितेऽनवद्या ननु न निविशते हन्त वैराग्यवार्ता ॥ ९६ ॥ पापालाने निबद्धः कुमतिशतकृतैरन्दुकैर्मेति मत्तो लोभव्यालोलभृङ्गभ्रमणपरिलसत्तुङ्गकुम्भस्थलश्च । कामाख्येनैव यन्त्रा सकुतुकमनिशं प्रेर्यमाणः पुरस्थं ज्ञानाश्वत्थं निहन्ति प्रसभामह मनोवारणोऽज्ञानदन्तः ॥ ९७॥ भिक्षान्नं बत भक्षणाय सदनं शून्यं निवासाय च प्राप्त ं क्वापि सुजीर्णमेव वपुषो वस्त्रं पिधानाय च। पानायान्बु कमण्डुलौ क्षितितलं स्वापाय यस्यास्ति वै तेनैवोत्कटदुःखजन्तुकलितस्तीर्णॊ भवाम्भोनिधिः ।। ९८ ॥ पृथ्वीव्योमजलानिलानलगणैः क्लृप्तेन धात्रा स्वयं त्वङ्मांसक्षतजास्थिवीर्यविकृतिप्रायेण निर्द्वापरम् कायेन क्षणभङ्गुरेण यदि चेल्लभ्येत मोक्षस्तदा कि लब्धं न भवेजनैः कृततपःक्लेशैकलेशैः पुनः ॥ ९९ ।। यः कर्ता जगतोऽस्ति यं प्रणमति प्रायः समस्त जग- द्यैनैवाशु हता द्विषो बुधगणा यस्मै ददत्यर्हणाम् यस्मात्सिद्धिरनुत्तमास्ति न भवत्येनश्च यस्य स्मृते- यस्मिन्सन्ति जगन्ति मेऽस्तु विपुला भक्तिस्तु तस्मिन्हरौ ॥ १०० ।। शृङ्गारशतके मग्नं समाविश्य निजं मनः । जनार्दनेन विप्रेण वैराग्यशतकं कृतम् ॥ १०१ ॥ इति श्रीगोस्वामिजगन्नि वासात्मजगोस्वामिजनार्दनभट्टकृतं वैराग्यशतकं संपूर्णम् । १. एतन्नामकं शतकमेतत्कविविरचितमस्माभिः काव्यमालायामेकादशगुच्छके मुद्रापितम्.