वैशेषिकसूत्रोपस्कारः/अष्टमोऽध्यायः
← सप्तमोऽध्यायः | वैशेषिकसूत्रोपस्कारः अष्टमोऽध्यायः [[लेखकः :|]] |
नवमोऽध्यायः → |
अष्टमाध्याये प्रथमाह्निकम्
सम्पाद्यताम्<8-1-1>
शिष्यजिज्ञासानुरोधात् क्रमलङ्घनम्, इदानीमुद्देशक्रममालम्बते। तत्र बुद्धिपरीक्षा अष्टमाध्यायार्थः। आत्मसाधनाय पूर्वं बुद्धिरुक्ता, तां स्मारयन्नाह--
द्रव्येषु ज्ञानं व्याख्यातम् ।। 1 ।।
द्रव्येष्विति, विषयेण विषयिणं तृतीयाध्यायमुपलक्षयति। "इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः" "आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्" इत्येताभ्यां सूत्राभ्यां ज्ञानं व्याख्यातमित्यर्थः। तत्र "बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः" अo 1आ 1 न्याoसूo 15 इति समानतन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्य्यायाभिधानम्।
साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमात्तक्षते। तथाहि-"सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव, पुरुषास्तु परं भिद्यन्ते, ते च कृटस्था नित्या अपरिणामिनो नित्यचैतन्यस्वभावाः। ते च पङ्गवोऽपरिणामित्वात्, प्रकृतिस्त्वन्दा जडत्वात्। यदा विपयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति तदा सा पुरुषोपरागवशात् परिणमते। तस्याश्चाद्यः परिणामो बुद्धिरन्तःकरणविशेषः। बुद्धिरेव महत्त्वं तदुक्तम्--"प्रकृतेर्भहान्" इति। सा च बुद्धिर्दपणवन्निर्मला, तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञनं वृत्तिरिति चाख्यायते, स्वच्छायां बुद्धौ वर्त्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाग्रहादहं जानामीति योऽभिमानविशेषः सैवोपलब्धिः। स्रक्चन्दनादिविषयसन्निकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषः स प्रत्ययः। अतएव ज्ञानसुखदुःखेच्छाद्वेपप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च। पुरुषस्तु पुष्कलपलाशवन्निर्लेषः प्रतिबिम्बते परं बुद्धाविति"--यन्मन्यन्ते तदनेन पर्य्यायाबेधानसूचितप्रमाणेन निराक्रियते। तथाहि-बुद्धिशब्दो यदि बुद्ध्यतेऽनयेति करणव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति। न च मनः प्रत्यक्षम्, बुद्धिस्त्वहं बुद्ध्ये इति प्रत्यक्षवेद्यैव। न चान्तःकरणस्य ज्ञानादयो धर्माः, कर्तृधर्मत्वेनैव तेषां सिद्धेः, भवति हि अहं जाने अहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येन प्रतिभासः। अभिमानोऽसाविति चेत् तात्त्विकत्वे बाधकाभावात्। पुरुषस्यागन्तुकधर्मानाधारत्वं कूटस्थत्वं तदेव बाधकमिति चेन्न, आगन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात्, न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेव धर्म्युत्पादविनाशौ स्याताम्। तथाच य एव चेतयते स एव बुद्ध्यते जानात्युपलभते प्रत्येति चेति नार्थान्तरकल्पना युक्तेति दिक् ।। 1 ।।
</8-1-1>
<8-1-2>
तच्च ज्ञानं द्विविधं-विद्या चाविद्या च। विद्या चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा। अविद्याऽपि चतुर्विधा संशयविपर्य्ययस्वप्नानध्यवसायलक्षणा। तत्र यल्लैङ्गिकं तदनिन्द्रियजम्, कुत एतदित्याह--
तत्रात्मा मनश्चाप्रत्यक्षे ।। 2 ।।
आत्माऽत्र परमात्मा स्वात्मा वा, स्वात्मनि मानसस्य क्वाचित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरित्यादिप्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता। चकारादाकाशकालदिशां वायोः परमाणूनाञ्च द्रव्याणामुषग्रहः।
इन्द्रियजमपि द्विविधं-सर्वज्ञीयमसर्वज्ञीयञ्च। सर्वज्ञीयं--योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं, तथाहि परमाणवः, प्रसक्ताः प्रमेयत्वादभिधेयत्वात् सत्त्वात्। सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षं प्रति कारणत्वात् न च परमाणवो महान्तः, रूपवत्त्वस्यापि चाक्षुषप्रत्यक्षकारणत्वात्, न च दिगादयो रूपवन्त इति चेन्न, योगजधर्मसहकारिणा मनसैव तत्सम्भवात्, तदुपग्रहाच्चक्षुरादिना वा, अचिन्त्यप्रभावो हि योगजो धर्मो न सहकार्यन्तरमपेक्षरो न मीमांसाभिज्ञः पुरुषत्वादहमिव" इत्यादिवद्विपक्षबाधकतर्कशून्यत्वादप्रयोजकम्।
असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं-सविकल्पकं निर्विकल्पकञ्च।
सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्तिदिङ्नागादयः। तथाहि-अबिलापसंसर्गयोग्यप्रतिभासं हि तत्, न ह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येन घट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात्। न च सतः स्वलक्षणस्यासता सम्बन्धः सम्भवति, न चासत् इन्द्रियगोचरः, तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमिति चोच्यते इति।
तच्चैतदनुपपन्नम्, अभिलापसंसर्गयोग्यप्रतिभासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादिति सन्दिग्धव्यतिरेकित्वम्। नामवैशिष्ट्यञ्च चाक्षुषज्ञाने सम्भवत्येव, सुरभिचन्दनमितिवदुपनीतभानसम्भवात्। यद्वा संज्ञावेशिष्ट्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम्, स्मृतैव सा अर्थव्यावर्त्तिका, अभावज्ञाने प्रतियोगिस्मरणवत्। जात्यादिकञ्च वस्तुभूतं साधितमेवातः सविकल्पकमपीन्द्रियार्थसन्निकर्पजत्वात् प्रत्यक्षम्। ननु निर्विकल्पकं न व्यवहारप्रवर्तकं न वा व्यवहारविषय इति किन्तत्र प्रमाणमिति चेत्, सविकल्पकमेव। तद्धि विशिष्टज्ञानम्, न च विशेषणज्ञानमन्तरेण तदुत्पद्यते, विशिष्टज्ञाने हि विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गाग्रहस्य कारणत्वावधारणात् ।। 2 ।।
</8-1-2>
<8-1-3>
यत्र यथा ज्ञानं यत्कारणकञ्च तद्विशदयितुमाह--
ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः ।। 3 ।।
ज्ञानान्तरान्निर्देष्टव्यं यत्प्रकारकं यद्विषयकं यद्धर्मकं तत्र ज्ञाननिर्देशे कर्त्तव्ये ज्ञानस्य निष्पत्तिविधिरुत्पत्तिविधिरुत्पत्तिप्रकार उक्तः-उच्यते इत्यर्थः। आदिकर्मणि क्तविधानात् ।। 3 ।।
</8-1-3>
<8-1-4>
कीदृशो निष्पत्तिविधिस्तमाह--
गुणक्रमसु सन्निकृष्टेषु ज्ञानिष्पत्तेर्द्रव्यं कारणम् ।। 4 ।।
गुणेषु रूपादिषु कर्मसु चोत्क्षेपणादिषु यज्ज्ञानं निष्पद्यते तत्र द्रव्यं कारणं योग्यद्रव्यनिष्ठमेव तदुभयं गृह्यत इति द्रव्ययोग्यतैव तत्र तन्त्रम्, सन्निकर्षश्च तेषां द्रव्यघटित एव, संयुक्तसमवायेन तेषां ग्रहणात्। यद्यपि विषक्तचम्पकावयवकर्पूरभागानामयोग्यानां गन्धो गृह्यते, तथापि सन्निकर्षघटकं तत्रायोग्यमपि द्रव्यमेव। यद्यपि शब्दग्रहे द्रव्ययोग्यता न तन्त्रं, तथापि तत्रैव समवेतः शब्दो गृह्यत इति तदेव तन्त्रम्। नन्वदृष्टसन्निकर्षकल्पना कुतः क्रियते इति चेन्न, ज्ञाननिष्पत्तेः, कार्य्येण हि कारणमवश्यं कल्पनीयमिति भावः ।। 4 ।।
</8-1-4>
<8-1-5>
अपरं ज्ञाननिष्पत्तिविधिमाह--
सामान्यविशेषेषु सामान्यविशेषाभावात्तत एव ज्ञानम् ।। 5 ।।
सामान्यं सत्ता तस्य विशेषा द्रव्यत्वगुणत्वकर्मत्वानि एवमेतेषामपि सामान्यानां विशेषाः पृथिवीत्वादिरूपत्वाद्युत्क्षेपणत्वादीनि। तत्र द्रव्यगतानां सामान्यानां तत एव योग्याश्रयविशेषादेव तन्निबन्धनाच्च सयुक्तसमवायात् गुणकर्मगतानामपि सामान्यानां तत एव योग्याश्रयादेव तन्निबन्धनाच्च संयुक्तसमवेतसमवायात् समवेतसमवायाच्च सार्वेन्द्रियं ज्ञानम्, -गुणत्वे च संयुक्तसमवेतसमवायात्, शब्दत्वकत्वादौ समवेतसमवायात्। सत्तायाः संयुक्तसमवायात् संयुक्तसमवेतसमवायात् समवेतसमवायाच्च सार्वेन्द्रियं ज्ञानम्। गुणत्वे च संयुक्तसमवायः समवायश्च न प्रत्यासत्तिरिति। ननु तत एव स्वाश्रयसन्निकर्षादेवेत्यवधारणानुपपत्तिः, यतः सामान्ये विशेषेषु च पृथिवीत्वादिषु सामान्यविशेषान्तरमस्त्येव तत्सन्निकर्षोऽपि कारणमेवात आह--सामान्यविशेषाभावादिति। न हि सामान्यविशेषेषु सामान्यविशेषा वर्तन्ते, अनवस्थाप्रसह्गात्। तेषां परस्परं भेदप्रतीतिः स्वरूपत एव, गवेतरावृत्तित्वे सति सकलगोवृत्तित्वलक्षणोपाधिसम्भेदाद्बा। एवं घटत्वादावपीति ।। 5 ।।
</8-1-5>
<8-1-6>
ननु सामान्यविशेषेषु सामान्यविशेषाभावाद्यथा तन्निरपेक्षमेव ज्ञानं तथा द्रव्यगुणकर्मस्वपि किं तन्निरपेक्षमेव? नेत्याह--
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ।। 6 ।।
ज्ञानमुत्पद्यते इति प्रकृतम्। द्रव्यगुणकर्मसु द्रव्त्वगुणत्वकर्मत्वविशिष्टबुद्धिस्तावदस्ति, विशिष्टज्ञानञ्च विशेष्यविशेषणेन्द्रियसन्निकर्षादुत्पद्यते इति सामान्यविशेषापेक्षा तत्रावश्यकी। भवति हि द्रव्यमिदं गुणोऽंय कर्मेदमिति विशिष्टज्ञानमिति भावः ।। 6 ।।
</8-1-6>
<8-1-7>
तत् किं द्रव्येऽपि सामान्यविशेषमात्रापेक्षमेव ज्ञानम्? अत आह--
द्रव्ये द्रव्यगुणकर्मापेक्षम् ।। 7 ।।
ज्ञानमुत्पद्ते इति प्रकृतम्। घण्टावान् शुक्लो गौर्गच्छतीति ज्ञानम्। तत्र द्रव्यं घण्टा विशेषणम्, शुक्ल इति गुणः, गच्छतीति कर्म। तथाच नागृहीतविशेषणा विशिष्टप्रतीतिर्न वा विशेषणसम्बन्धमन्तरेणेति भवति द्रव्यगुणकर्मापेक्षेति भावः ।। 7 ।।
</8-1-7>
<8-1-8>
तत् किं गुणकर्मणोरपि गुणकर्मापेक्षा? नेत्याह--
गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते ।। 8 ।।
ज्ञानमिति शेषः। गुणे गुणविशिष्टबुद्धेः कर्मसु कर्मविशिष्टबुद्धेरभावात् गुणकर्मापेक्षा न तद्गतबुद्धिः। न हि गुणे गुणो, न वा कर्मसु कर्म, येन तत्र विशेषणत्वेन भासेतेति भावः ।। 8 ।।
</8-1-8>
<8-1-9>
नु गुणकर्मणोः स्फुरणाद् गुणबुद्धौ कर्मबुद्धौ च कथं न गुणकर्मापेक्षेत्याशङ्क्य प्रकरणान्तरमारभते--
समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्ते एते कार्य्यकारणभूते ।। 9 ।।
समवायिन इत्यभिधानात् सम्बन्धस्य कारणतामाह, तथाच गुणे गुणसमवायाभावात् कर्मसु कर्मसमवायाभावाच्च न तत्तज्ज्ञाने गुणकर्मापेक्षा विशेषणत्वेन विशेष्यत्वेन त्वस्त्येव। एवञ्च श्वेतः शङ्ख इत्यादिप्रतीतौ श्वैत्यसमवायस्य श्वैत्यगुणस्य श्वैत्यविशेषणज्ञानस्य च कारणत्वमित्युक्तम्, तथा च विशेषणसम्बन्धविशेषणतज्ज्ञानानां विशिष्टप्रत्यक्षप्रमां प्रति कारणत्वमिति, तेन पूर्वोक्तं सर्वं सिध्यति ।। 9 ।।
</8-1-9>
<8-1-10>
ननु यथा घण्टावानित्यत्र द्रव्यापेक्षं द्रव्यज्ञानम्, तथाऽयं स्तम्भः अयं कुम्भ इत्यादावपि द्रव्याविशेषणकबुद्धौ द्रव्यबुद्धिः कारणम्, तथाच क्वापि प्रथमतो द्रव्यबुद्धिर्न स्यादित्यत आह--
द्रव्येष्वनितरेतरकारणाः ।। 10 ।।
बुद्धय इति शेषः। स्तम्भज्ञानानन्तरकालीनमपि कुम्भज्ञानं न स्तम्भज्ञानकार्यं स्तम्भस्य कुम्भं प्रति विशेषणत्वायोगात् ।। 10 ।।
</8-1-10>
<8-1-11>
ननु घटपटादिबुद्धीनां क्रमो दृश्यते, क्रमश्च कार्यकारणभावघटित एवेत्यत आह--
कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् ।। 11 ।।
कारणक्रमाधीनो घटपटाद्बिद्धीनां क्रमो, न हेतुफलभावाधीनः। कारणक्रम एव कथमत आह-कारणायौगपद्यादिति। बुद्धीनां यौगपद्यं प्रतिषिद्धमतो नानाबुद्धिकारणानामपि न यौगपद्यम्, यदि तु कारणयौगपद्यं भवेत्तदा कार्ययौगपद्यमप्यापद्येतः तथाच युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति बहु भज्येतेति भावः ।। 11 ।।
</8-1-11>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारेऽष्टमाध्यास्य प्रथमाह्निकम्।
अष्टमाध्याये द्वितीयाह्निकम्
सम्पाद्यताम्<8-2-1>
प्रात्यक्षिकस्य सविकल्पकस्य निर्विक्ल्पकस्य च ज्ञानस्य निष्पत्तिविधिमभिधायेदानीं विशिष्टवैशिष्ट्यप्रत्यक्षमभिधातुमेकदेशमाह--
अयमेष त्वया कृतं भोजयनमिति बुद्ध्यपेक्षम् ।। 1 ।।
सन्निकृष्टे वस्तुनि तावदयमिति बुद्धिरुत्पद्यते, विप्रकृष्टे च वस्तुन्येप इति क्रियायां स्वतन्त्रोऽयमिति बुद्धिमपेक्ष्य त्वयेति कर्तृत्वोपरक्ता बुद्धिः। कारणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतमिति कर्मबुद्धिः। अयं भुजिक्रियायां कर्त्ता प्रयोजकश्चायमिति बुद्धिमपक्ष्य भोजयेति। नियोज्यनियोक्तृव्यापारस्य विषयोऽयमिति बुध्द्यपेक्षमेनामिति। एवमन्यदपि बुद्ध्यपेक्षमूहनीयम् ।। 1 ।।
</8-2-1>
<8-2-2>
अन्वयव्यतिरकपरिच्छेद्यमेवैतदित्याह--
दृष्टेषु भावाददृष्टेष्वभावात् ।। 2 ।।
यदाऽयमितिबुद्धेः सन्निकृष्टो विषयः, एष इति बुद्धेर्विप्रकृष्टोऽपि बुद्ध्यारूढो विषयः, त्वयेतिबुद्धेः सन्निकृष्टः कर्त्ता विषयः, कृतमिति बुद्धेः कर्म विषयः, भोजयेतिबुद्धेर्नियोज्यनियोक्तारौ विषयौ, एनमितिबुद्धेस्तदुभयव्यापारो विषयः, सन्निकृष्टो भवति तदैतादृशो बुद्धिरुत्पद्यते, अदृष्टेषु तु विषयेषु नैता बुद्धयः प्रादुर्भवन्तीत्यन्वयव्यतिरेकगम्यमेवैतदित्यर्थः ।। 2 ।।
</8-2-2>
<8-2-3>
इदानीं प्रकरणान्तरमारभते--
अर्थ इति द्रव्यगुणकर्मसु ।। 3 ।।
एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम्, तेन तेषु त्रिषु वेशेषिकाणामर्थ इति परिभाषा, अर्थपदेन त्रयाणामुपस्थितेः। तदुक्तं-प्रशस्तदेवाचार्यैः "त्रयाणामर्थशब्दाभिधेयत्वञ्च" इति ।। 3 ।।
</8-2-3>
<8-2-4>
प्रकरणान्तरमवतारयति--
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ।। 4 ।।
द्रव्येष्विति द्रव्यपदार्थनिरूपणप्रकरणमुपलक्षयति। प्रत्यक्षाप्रत्यक्षाणामित्यादिसूत्रेण शरीरादीनां पंचात्मकत्वं पंचभूतात्मकत्वं प्रतिषिद्धं निराकृतम्। यथा शरीरस्य न नानाप्रकृतिकत्वं तथा वक्ष्यमाणानां घ्राणादीनामिन्द्रियाणामपि। तेन तेषां प्रतिनियतगुणग्राहकत्वं सिद्ध्यतीति भावः ।। 4 ।।
</8-2-4>
<8-2-5>
यदर्थमिदमारब्धं तदाह--
भूयस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः ।। 5 ।।
गन्धो ज्ञायतेऽनेनेति ज्गन्धज्ञानं घ्राणन्तत्र पृथिवी पृथिवीमात्र प्रकृति- उपादानकारणम्। कुत एतदित्यत आह-गन्धवत्त्वात्। न हि गन्धवत् निर्गन्धेनारब्यते इत्युक्तम्। गन्धवतत्वं च बहिरिन्द्रियाणां ग्राह्यजातीयगुणवत्त्वनियमात् सिद्धम्। तर्हि पार्थिवत्वाविशेषेऽपि शरीरावयवान्तराणां न गन्धव्यञ्जकत्वं किन्तु घ्राणस्यैवेति कुतो नियम इत्यत आह-भूयस्त्वादिति। इतरद्रव्यानभिभूतैः पार्थिवावयवैरारब्धत्वमेव भूयस्त्वम्। पारिभाषिकं चैतद् भूयस्त्वं समानतन्त्रेऽपि ।। 5 ।।
</8-2-5>
<8-2-6>
इनद्रियान्तरेऽप्येतदतिदिशति--
तथापस्तेजोवायुश्च रसरूपस्पर्शाविशेषात् ।। 6 ।।
रसनचक्षुष्ट्वगिन्द्रियाणां प्रकृतिरिति शेषः। तेन यथासख्यं रसनादीनामबादयः प्रकृतयः, तत्तत्प्रतिनियतार्थग्राहकत्वात्। अत्रापि नियमे भयस्त्वमेव तन्त्रम्। रसादिमत्त्वे च रसनादीनां ग्राह्यजातीयविशेषगुणवत्त्वनियमएव प्रमाणमित्युक्तम्। एव्च विशिष्टादृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नो नभोदेश एव श्रोत्रम् ।। 6 ।।
इति श्रीशङ्करे वैशेषिकसूत्रोपस्कारोऽष्टमाध्यायस्य द्वितीयमाह्निकम्।
समाप्तश्चायमष्टमोऽध्यायः।
</8-2-6>