व्यक्तिविवेकः
प्रथमः विमर्शः
महिमभट्टः
द्वितीयः विमर्शः →

महिमभट्टविरचितः व्यक्तिविवेकः

ध्वनिलक्षणाक्षेपो नाम प्रथमः विमर्शः सम्पाद्यताम्


अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम्।
व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम्।।१।।
युक्तोऽयमात्मसदृशान् प्रति मे प्रयत्नो नास्त्येव तज्जगति सर्वमनोहरं यत् ।
केचिज्ज्वलन्ति विकसन्त्यपरे निमीलन्त्यन्ये यदभ्युदयभाजि जगत्प्रदीपे।।२।।
इह सम्प्रतिपत्तितोऽन्यथा वा ध्वनिकारस्य वचोविवेचनं नः।
नियतं यशसे प्रपत्स्यते यन्महतां संस्तव एव गौरवाय।।३।।
सहसा यशोऽभिसर्तुं समुद्यताऽदृष्टदर्पणा मम धीः।
स्वालङ्कारविकल्पप्रकल्पने वेत्ति कथमिवावद्यम्।।४।।
ध्वनिवर्त्मन्यतिगहने स्खलितं वाण्याः पदे पदे सुलभम्।
रभसेन यत् प्रवृत्ता प्रकाशकं चन्द्रिकाद्यदृष्ट्वैव।।५।।
किन्तु तदवधीर्यार्यैर्गुणलेशे सततमवहितैर्भाव्यम्।
परिपवनवदथवा ते जात्यैव न शिक्षितास्तुषग्रहणम्।। ६ ।।
तत्र ध्वनेरेव तावल्लक्षणं वक्तव्यम्। कोऽयं ध्वनिर्नामेति। तच्च ध्वनिकारेणैवोक्तम्। तद्यथा-
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः।। इति। (ध्वन्यालोकः-१. १३)
एतच्च विविच्यमानमनुमानस्यैव सङ्गच्छते, नान्यस्य। तथा ह्यर्थस्य तावदुपसर्जनीकृतात्मत्वमनुपादेयमेव। तस्यार्थान्तरप्रतीत्यर्थमुपात्तस्य तद्व्यभिचाराभावात्। न ह्यग्न्यादिसिद्धौ धूमादिरुपादीयमानो गुणतामतिवर्तते। तस्य तन्मात्रलक्षणत्वात्। यत्पुनरस्य क्वचित्समासोक्त्यादौ प्राधान्यमुच्यते तत् प्राकरणिकत्वापेक्षयैव, न प्रतीयमानापेक्षया । यथा-
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम्।। (पाणिनेः)।। इति।
अत्र हि प्रतीयमानेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते, समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वादिति। तदपेक्षया च तस्य लिङ्गत्वादुपसर्जनीभावाव्यभिचार एव। व्यभिचारेऽपि वैफल्यादनुपादेयमेतत्, गुणीभूतव्यङ्ग्येऽपि काव्ये चारुत्वप्रकर्षदर्शनादिति वक्ष्यते।
उक्तं गुणीकृतात्मत्वं यदर्थस्य विशेषणम्।
गमकत्वान्न तत्तस्य युक्तमव्यभिचारतः।।७।।
इति सङ्ग्रहश्लोकः। शब्दः पुनरनुपादेय एव । तस्य स्वार्थाभिधानमन्तरेण व्यापारान्तरानुपपत्तेरुपपादयिष्यमाणत्वात् । न च तस्यानुकरणव्यतिरेकेणोपसर्जनीकृतार्थत्वं सम्भवति यथा-
तं कर्णमूलमागत्य पलितच्छद्मना जरा ।
कैकेयीशङ्कयैवाह रामे श्रीर्न्यस्यतामिति ।। इति । (रघुवंशम्-१२.२)
कुतस्तर्हि तदर्थावगतिः? अनुकार्यादिति ब्रूमः, तस्य सार्थकनिरर्थकत्वभेदेन द्वैविध्यतः । न त्वनुकरणात्, तस्येतिना व्यवच्छिन्नस्य स्वरूपमात्रेऽवस्थानात्। अन्यस्य तूपसर्जनीभावाव्यभिचार एव, तस्य तदर्थमुपादानतः। यो हि यदर्थमुपादीयते नासौ तमेवोपसर्जनीकरोतीति युक्तं वक्तुम्। यथोदकाद्युपादानार्थमुपात्तो घटादिस्यदेवोदकादि। अन्यथा प्रधानेतरव्यवस्था निर्निबन्धनैव स्यात्। अत एव घटादिरेव प्रतिनिधीयते, नोदकादीत्यसम्भवो लक्षणदोषः। व्यभिचारसम्भवयोरपि वा यत्स्वार्थयोरुपसर्जनीकृतत्ववचनं तत् पुनरुक्तं, तयोरर्थान्तराभिव्यक्त्यर्थमुपात्तयोस्सामर्थ्यादेव तदवगतेरित्युक्तम्। न च स्वरूपमात्रानुवादफलमेतदिति शक्यं वक्तुम्, तस्य पुनरुक्तिप्रकारत्वोपपादनतः। एवं च यत्-
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।। (महाभारतम्-५.३५.६५)
इत्याद्युदाहरणमुपदर्शितं, तदसिद्धसाध्यसाधनधर्मानुगतमित्यवगन्तव्यम्। किं च यथाऽभिधेयोऽर्थस्तद्विशेषणं चोपात्तं तद्वदभिधाप्युपादानमर्हत्येव। अन्यथा यत्र दीपकादेरलङ्कारान्तरस्योपमादेः प्रतीतिस्तत्र ध्वनित्वमिष्टं न स्यात्, तल्लक्षणेनाव्याप्तेः। अलङ्काराणां चाभिधात्मत्वमुपगतं तेषां भङ्गीभणितिभेदरूपत्वात्।
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः।। (ध्वन्यालोकः-२.२७)
इत्यादिना तत् प्रतिषिद्धमिति चेत्, उच्यते- तत्प्रतिषेधहेतोः काव्यातत्परतालक्षणस्यासिद्धत्वाद् उपमानोपमेयभावाद्यभिधानपरतयैव दीपकाद्यलङ्कारभङ्गीभणितिसमाश्रयणतः प्रतीयमानस्यैव चालङ्कारादेश्चारुत्वातिशययोगात् तावन्मात्रनिबन्धनत्वाच्च तद्ध्वनिव्यवहारस्येति कथं तत्प्रतिषेधसिद्धिः? अथार्थप्रतीत्यन्यथानुपपत्त्यैव तत्सद्भावावगमः। अर्थशब्दयोरुपसर्जनीकृतस्वार्थत्वाभिधानसामर्थ्याच्च तदुपसर्जनीभावावगतिः। तस्याः प्राधान्येन तयोरुपसर्जनीभाव इति व्यर्थस्तदुपादानप्रसङ्ग इति। एवं तर्ह्यर्थस्यैवोपसर्जनीभावोऽभिधेयो न शब्दस्य, तस्याभिधाया इव तदुपसर्जनीभावाभिधानसामर्थ्यादेव तदवगतिसिद्धेरिति लक्षणवाक्ये व्यर्थं शब्दग्रहणम्। अन्यथाऽभिधानग्रहणमपि कर्तव्यं प्रसज्येत, विशेषाभावात्। न चास्य स्वार्थाभिधानमात्रपर्यवसितसामर्थ्यस्य व्यापारान्तरमुपपद्यते, येनायमर्थान्तरमवगमयेत्, तदपेक्षं चोपसर्जनीकृतार्थत्वमियात्। अर्थस्यैव तदुपपत्तिसमर्थनात्। सर्व एव हि शाब्दो व्यवहारः साध्यसाधनभावगर्भतया प्रायेणानुमानरूपोऽभ्युपगन्तव्यः। तस्य परप्रवृत्तिनिवृत्तिनिबन्धनत्वात्, तयोश्च सम्प्रत्ययासम्प्रत्ययात्मनोरन्यथाकर्तुमशक्यत्वतः। न हि युक्तिमनवगच्छन् कश्चिद्विपश्चिद्वचनमात्रात् सम्प्रत्ययभाग्भवति। द्विविधो हि शब्दः-पदवाक्यभेदात्। तत्र पदमनेकप्रकारम्-नामाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदात्। तत्र सत्त्वप्रधानानि नामानि (निरुक्तम्-अध्यायः१,नामाख्यातलक्षणम्१)। तान्यपि बहुप्रकाराणि सम्भवन्ति। जातिगुणक्रियाद्रव्याणां तत्प्रवृत्तिनिमित्तानां बहुत्वात्। तद्यथा घटः पट इति जातिशब्दः। शुक्लो नील इति गुणशब्दः। पाचकः पाठक इति क्रियाशब्दः। दण्डी विषाणीति द्रव्यशब्दः। केचित् पुनरेषां क्रियैवेका प्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमेव सर्वेषां नामपदानामुपगच्छन्ति। तथा हि घटादिशब्दाः स्वार्थे प्रवर्तमाना घटनादिक्रियामेवान्वयव्यतिरेकाभ्यां प्रवृत्तिनिमित्तभावेनावलम्बमाना दृश्यन्ते। न घटत्वादिसामान्यम्।सा चैषा घटनादिक्रिया घटत्वासामान्ययोगादन्यथा वाऽस्तु। नैतावता तस्याः प्रवृत्तिनिमित्तत्वव्याघातः। न च सत्यपि घटत्वसामान्ये स्वयमघटन् घटात्मतामनापद्यमान एवासौ घटव्यपदेशविषयो भवितुमर्हति। एवं हि पटोऽपि घटव्यपदेशविषयः स्यात्। घटनक्रियाकर्तृत्वाविशेषात्। न हि शुक्लत्वमनापद्यमान एवार्थः शुक्ल इति व्यपदेष्टुं शक्यते-अपचन्नेव पाचक इति। तस्माद् घटनक्रियाकर्तृत्वलक्षणमेव घटत्वम्, घटशब्दस्य प्रवृत्तौ निमित्तमवसेयम्। न घटत्वमात्रम्। तदेव चेह घटनमित्युक्तम्। ननु चेष्टाद्यर्थाद् घटत्यादेर्धातोरजादौ घटत इत्याद्यर्थे घटनादिक्रियैव सर्वेषां घटादिशब्दानां प्रवृत्तिनिमित्तभावेनास्माभिरपीष्यत एवेति व्यर्थः पक्षान्तरोपन्यासः। सत्यमिष्यत एव भवद्भिः। किन्तु सा शब्दस्य व्युत्पत्तिनिमित्तम्, न प्रवृत्तिनिमित्तम्। अन्यद्धि व्यपत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम्। यथैकेषां मते गमनादिक्रिया गवादिशब्दानां व्युत्पत्तिनिमित्तमेकार्थसमवायाद् गोत्वादि प्रवृत्तिनिमित्तीकरोति। अत एव गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति। एवमिहापि चेष्टादिक्रिया घटादिशब्दानां व्युत्पत्तिनिमित्तमिति सिद्धं भवति। तदपेक्षमेव च विपच्य घटो भवतीत्यादौ विपाकादिक्रियायाः पौर्वकाल्यं क्त्वाप्रत्ययस्य विषयो वेदितव्यः। यथा-अधिश्रित्य पाचको भवति-इत्यादौ पाकाद्यपेक्षमधिश्रयणादेर्न भवनक्रियापेक्षम्। सा हि नावश्यं प्रयुज्यते। प्रतीयते तु पदार्थानां सत्ताऽव्यभिचारात्। न तु तावता तदपेक्षं तदिति मन्तव्यम्, तस्या बहिरङ्गत्वादर्थस्यासङ्गतिप्रसङ्गाच्च। प्रयुज्यमानक्रियापेक्षमेव च प्रायेण पौर्वकाल्यं क्त्वो विषयो, न प्रतीयमानापेक्षम्। इतरथा-
श्रुत्वाऽपि नाम बधिरो दृष्ट्वाऽप्यन्धो जडो विदित्वाऽपि। यो देशकालकार्यव्यपेक्षया पण्डितः स पुमान्।।
इत्यादि प्रयोगजातमनुपपन्नमेव स्यात्, श्रवणादीनां तत्पूर्वकालत्वाभावात्। अत्र तु श्रुत्यादिशक्तिविरहलक्षणबाधिर्यादिक्रियापेक्षमेव श्रवणादीनां पौर्वकाल्यमिति न काचिदनुपपत्तिः। बह्वीषु च तासूत्तरोत्तरक्रियापेक्षं पूर्वपूर्वक्रियापौर्वकाल्यम्। यथा-स्नात्वा, भुक्त्वा, पीत्वा व्रजति-इत्यादौ। अत्र च विपचनघटनभवनरूपा बह्व्यः क्रियेत्यत्रापि घटनापेक्षं विपचनस्य तद्भवितुमर्हत्येव, उभयत्रापि कर्तृप्रत्ययनिर्देशाविशेषात्। केवलं कृद्वाच्यतया कर्तुरुपाधिभावं गमितेति भिन्नकर्तृकत्वभ्रमः। यथा-
शिशिरकालमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः। इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः।। ६.६५।। (शिशुपालवधम्- ६.६५) इत्यत्र कुचोष्मणः कर्तुर्हरणक्रिया। अत एव केचिदपास्येत्ययं ल्यबन्तप्रतिरूपको निपात इति व्याख्यातवन्तः। यथा वा-
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम् । असंस्कृतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः।। (किरातार्जुनीयम्-३.२१) इत्यत्र निरीक्षणक्रियाकर्तुर्मृत्योर्भयपक्षपतनक्रिये विषयविषयिभावभङ्ग्योपात्ते। यथा वा-
यां दृष्ट्वाऽपि समुत्सुके मनसि मे नान्या करोत्यास्पदम्।।
इत्यत्र दर्शनक्रियाकर्तुर्मनसोऽन्यकर्तृकास्पदक्रियानधिकरणभावेनोपात्तस्यौत्सुक्यक्रिया विशेषणभावेनोपात्ता, क्वचित् कर्तुः सम्बन्धितामुपगताऽसौ। भ्रमहेतुर्यथा-
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च। सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे।। इति। (कुमारसम्भवम्-४.१७) केचित् पुनः कर्तृक्रिययोरनुपादानमपि हेतुमिच्छति। तत्र कर्तुर्यथा-
ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम्। सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र! को गुणः।। इति।
अत्र हि समवेक्षापूजयोरेको लोकः कर्ता। स च सामर्थ्यसिद्ध इति नोपात्तः। पूजा चोपात्ताऽपि कृद्वाच्यतया कर्मोपसर्जनीभूतेत्युभयं भ्रमहेतुः। क्रियाया यथा-
अकृत्वा परसन्तापमगत्वा खलनम्रताम्। अनुत्सृज्य सतां मार्गं यत् स्वल्पमपि तद् बहु।।
अत्र हि प्रकरणादिगम्याया लाभक्रियाया अनुपादानं करणादीनां भिन्नकर्तृकत्वभ्रमहेतुः। तदुक्तम्-
कर्तुरुपाधितयोक्ता कृद्वाच्यतया गतान्यगुणतां वा। क्त्वो भिन्नकर्तृकत्वभ्रमाय भवति क्रियाऽवचश्च तयोः।। पौर्वापर्यं क्रियाणां यद् वास्तवं तदपेक्षिणि। क्त्वः पौर्वकाल्ये किं तासां प्राधान्येतरचिन्तया।। इत्यलमनेन।
घटतीति घटो ज्ञेयो नाघटन् घटतामियात्। अघटत्वाविशेषेण पटोऽपि स्याद् घटोऽन्यथा।।८।। घटनञ्च तदात्मत्वापत्तिरूपा क्रिया मता। मूलञ्च तस्याश्चित्रार्थभासाविष्कृतिरीशितुः।।९।। यः कश्चिदर्थः शब्दानां व्युत्पत्तौ स्यान्निबन्धनम्। प्रवृत्तौ तु क्रियैवेका सत्ताऽऽसादनलक्षणा।।१०।। तस्यामेव क्विबाद्याश्च विधेयाः कर्तृमात्रतः। न तूपमानादाचारे तयोरर्थात् प्रतीतितः।।११।। यथा ह्यश्वति बालेय इत्यतोऽर्थः प्रतीयते। अश्वत्वमासादयति खर इत्यर्थतः पुनः।।१२।। अश्वतुल्यसमाचारः खर इत्यवसीयते। न तत्त्वसादनं युक्तं तदतुल्यक्रियस्य हि।।१३।। सत्तायां व्यापृतिश्चैषा चित्रत्वपरिनिष्ठितेः। सङ्गच्छते जडस्यापि घटादेर्घटनादिवत्।।१४।। नाम्नः सत्त्वप्रधानस्य धातुकारोऽत एव हि। शब्दवक्रैकदेशादेर्धात्वर्थत्वमवोचत।।१५।। एवञ्च विपच्य घटो भवतीति क्त्वोऽस्य पूर्वकालत्वम्। घटनापेक्षं ज्ञेयं भवनापेक्षन्तु नासमन्वयतः।।१६।। बहिरङ्गत्वाच्च यथा भवत्यधिश्रित्य पाचकोऽयमिति। अत्र हि पाकापेक्षाधिश्रयतेः पूर्वकालतावगतिः।।१७।। तस्मान्नामपदेभ्यो यः कश्चिदर्थः प्रतीयते। न स सत्तामनासाद्य शब्दवाच्यत्वमर्हति।।१८।। इत्थञ्चास्तिभवत्यादि क्रियासामान्यमुच्यते। नान्तरङ्गतयाऽवश्यं वक्तारस्तत् प्रयुञ्जते।।१९।। क्रियाविशेषो यस्त्वन्यः पाकादिर्व्यभिचारभाक्। बहिरङ्गतया तस्य प्रयोगोऽवश्यमिष्यते।।२०।। इति सङ्ग्रहश्लोकाः।
भावप्रधानमाख्यातम् (निरुक्तम्-अध्यायः१,नामाख्यातलक्षणम्१)। असत्वभूतार्था उपसर्गादयः। तेषामसत्वभूतार्थत्वाविशेषेऽपि व्यापारनियमात् प्रयोगनियमाच्च त्रैराश्योपगमः। तथा हि क्रियारूपातिशयप्रतिपत्तिनिबन्धनमुपसर्गाः प्रादयः (अष्टाध्यायी-१.४.९८)। भावसत्त्वयोरात्मभेदप्रत्यायननिमित्तमवधृतरूपार्थविशेषाः स्वरादयो निपाताः। क्रियाविशेषोपजनितसम्बन्धावच्छेदहेतवः कर्मप्रवचनीयाः (अष्टाध्यायी-१.४.८३)। तदुक्तम्-
द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्।। इति। (वाक्यपदीयम्-३.१.१) एतच्च वक्ष्यते। वाक्यमनेकप्रकारम्, क्रियाप्राधान्यात्, तस्याश्चैकत्वात्। यदाहुः-
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्। क्रियाप्रधानं गुणवदेकार्थं वाक्यमिष्यते।। इति। (वाक्यपदीयम्-२.४) अर्थोऽपि द्विविधो वाच्योऽनुमेयश्च। तत्र शब्दव्यापारविषयो वाच्यः। स एव मुख्य उच्यते। यदाहुः-
श्रुतिमात्रेण यत्रास्य सामर्थ्यमवसीयते। तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम्।। इति। (वाक्यपदीयम्-२.२७८) तत एव तदनुमिताद्वा लिङ्गभूताद्यदर्थान्तरमनुमीयते सोऽनुमेयः। स च त्रिविधः-वस्तुमात्रम्, अलङ्काराः, रसादयश्चेति। तत्राद्यौ वाच्यावपि सम्भवतः। अन्यस्त्वनुमेय एवेति। तत्र पदस्यार्थो वाच्य एव, नानुमेयः, तस्य निरंशत्वात्, साध्यसाधनभावाभावतः। वाक्यार्थस्तु वाच्यस्यार्थस्यांशपरिकल्पनायामंशानां विध्यनुवादभावेनावस्थितेर्विधेयांशस्य सिद्धासिद्धतयोपपादनानपेक्षसापेक्षत्वेन द्विविधो बोद्धव्यः। तत्र सिद्धौ विध्यनुवादभावः स्वरूपमात्रानुवादात्। यथा-
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः।। (कुमारसम्भवम्-१.१) इत्यत्रासिद्धो साध्यसाधनभावरूपोऽनूद्यमानस्यांशस्य साधनदुरधिरोहात्। साध्यसाधनभावश्चानयोरविनाभावावसाय-कृतोऽवगन्तव्यः। स च प्रमाणमूलः। तच्च त्रिविधम्। यदाहुः-
लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम्। वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम्।। इति। (नाट्यशास्त्रम्-२५.१२२) तत्र लोकप्रसिद्धार्थविषयो लोकः। यथा-
कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः। यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम्।। इति। (कुमारसम्भवम्-३.८) अत्र हि पादानतितदवधूत्योः सरसापराधकोपनत्वयोश्च लोकप्रमाणसिद्धः कार्यकारणभावस्तन्मूलश्च साध्यसाधनभावः। यथा वा-
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः।। (कुमारसम्भवम्-१.४३) अत्र हि पद्मगुणानां चान्द्रमस्या अभिख्यायाश्च युगपदभोगे लक्ष्म्या यत् कारणद्वयं रात्रिसङ्कोचदिवानुदयलक्षणं तल्लोकप्रसिद्धमेवेति नोपादेयतामर्हति। शास्त्रमात्रप्रसिद्धार्थविषयो वेदः। वेदग्रहणमितिहासपुराणधर्मशास्त्राद्युपलक्षणं तेषां तन्मूलत्वोपगमात्। यथा-
अयाचितारं न हि देवदेवमद्रिः सुतां प्रतिग्राहयितुं शशाक। अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे।। इति। (कुमारसम्भवम् - १.५२) अत्र हि कारणभूतस्य भगवद्गतस्य सम्प्रदानत्वनिबन्धनस्य याचनस्याभावे भूधरेन्द्रगतस्य कार्यस्य कन्याग्राहणशक्तत्वस्याभावोपनिबन्धनः शास्त्रमूलः, तयोः कार्यकारणभावस्य तन्मूलत्वेन प्रसिद्धेः। यदाहुः-
अयाचितानि देयानि सर्वद्रव्याणि भारत!। अन्नं विद्या दया कन्या अनर्थिभ्यो न दीयते।। इति। अर्थी च सम्प्रदानम्। यदुक्तम्-
अनिराकरणात् कर्तुस्त्यागाङ्गं कर्मणेप्सितम्। प्रेरणानुमतिभ्यां च लभते संप्रदानताम्।। (वाक्यपदीयम्-३. ७.१२९) एवं च कारणानुपलब्धिप्रयोगोऽयमार्थ इति मन्तव्यम्। यथा-नात्र धूमोऽग्नेरभावादिति। आध्यात्मिकार्थविषयमध्यात्मम्। यथा- पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः। कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः।। इति। (कुमारसम्भवम्-६.९५) अत्र हि भगवत्पशुपतिगतस्य कृच्छ्राद् दिवसातिवाहनस्याद्रिसुतासमागमोत्कत्वस्य चाध्यात्मसिद्धः कार्यकारणभावो यन्मूलोऽयमनयोः साध्यसाधनभावः। स हि द्विविधः-शाब्दश्चार्थश्चेति। सोऽपि च-साध्यसाधनयोः प्रत्येकं पदार्थवाक्यार्थरूपत्वात्, पदार्थस्य च जातिगुणक्रियाद्रव्यभेदेन भेदात्, धर्मधर्मितया च धर्मस्यापि सामानाधिकरण्यवैयधिकरण्यभेदात्, वाक्यार्थस्य च क्रियात्मनः कारकवैचित्र्येण वैचित्र्यात्, यथायोग्यमन्योन्यसाङ्कर्याद् बहुविध इति तस्य दिङ्मात्रमिदमुपदर्श्यते। तत्र धर्ममात्रस्य साधनभावे शाब्दो यथा-
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि। स पिता पितरस्तासां केवलं जन्महेतवः।। (रघुवंशम्-१.२४) तस्यैव धर्मस्य समानाधिकरणस्योपादाने सत्त्वार्थो यथा-
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः। न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः।। इति। (किरातार्जुनीयम्-२.८) अत्र हि द्विषदुदयगतस्यास्वन्तत्वस्य सुमर्षणत्वस्य च तत्परिक्षयगतस्य फलसम्पत्प्रवणत्वस्य दुर्मर्षणत्वस्य चार्थः साध्यसाधनभावो निबद्धः। धर्मधर्मिभावाभावे तु पदार्थमात्रस्य साधनत्वाच्छाब्द एव। यथा-
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात् विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात्। ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया- न्मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम्।। इति। (पञ्चतन्त्रे मित्रभेदनामनि प्रथमे तन्त्रे देवशर्मा-परिव्राजककथा ४) एवं वाक्यार्थविषयेऽपि साध्यसाधनभावो द्विविधो बोद्धव्यः। तत्र शाब्दो यथा-
सरस्यामेतस्यामुदरबलिवीचीविलुलितं यथा लावण्याम्भो जघनपुलिनोल्लङ्घनपरम्। यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर- स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः।। इति। (जल्हणस्य सूक्तिमुक्तावलिः ४९.२१) आर्थो यथा-
निवार्यतामालि! किमप्यसौ बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्।। इति। (कुमारसम्भवम्-५.८३) यथा च-
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः। अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्।। इति। (कुमारसम्भवम्-५.४५) अनुमेयार्थविषयो यथा-
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।। इति। (महाभारतम्-५.३५.६५) अत्र हि सर्वत्र सुलभा विभूतयः शूरादीनामित्ययमर्थोऽनुमीयत इत्येतद् वितनिष्यते। अनुमितानुमेयार्थविषयो यथा-
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्। सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान।। (कुमारसम्भवम्-७.१९) इत्यत्र हि नखरञ्जनानन्तरं परिहासपूर्वं सख्या कृताशिषो देव्या यदेतदवचनं माल्येन हननं तत् तदनुभावभूतं तस्याः कौतुकौत्सुक्यप्रहर्षलज्जादिव्यभिचारिसम्पदमनुमापयति। सा चानुमीयमाना सती भगवति भवे भर्तरि रतिमनुमापयति। यथा-
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।। इति। (कुमारसम्भवम्-६.८४) यथा वा-
प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्बिता। न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम्।। इति। (ध्वन्यालोकः-३.३९)
यथा च वाक्यार्थविषये साध्यसाधनभावे साध्यसाधनप्रतीत्योः सुलक्षः क्रमभावस्तथा वस्तुमात्रादनुमेयविषयेऽप्यवगन्तव्यः। केवलं रसादिष्वनुमेयेष्वयमसंलक्ष्यक्रमो गम्यगमकभाव इति सहभावभ्रान्तिमात्रकृतः। तत्रान्येषां व्यङ्ग्यव्यञ्जकभावाभ्युपगमः, तन्निबन्धनश्च ध्वनिव्यपदेशः। स तु तत्रौपचारिक एव प्रयुक्तो न मुख्यः, तस्य वक्ष्यमाणनयेन बाधितत्वात्। उपचारस्य च प्रयोजनं सचेतनचमत्कारकारित्वं नाम। तद्धि मुख्ये चित्रपुस्तकादौ व्यक्तिविषये परिदृष्टमेव। वाच्यो ह्यर्थो न तथा चमत्कारमातनोति यथा स एव विधिनिषेधादिः काक्वभिधेयतामनुमेयतां वाऽवतीर्ण इति स्वभाव एवायमर्थानाम्। तथा हि-
मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन॥ (वेणीसंहारम्-१. १५) इत्यतो,
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य। आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः॥ (वेणीसंहारम्-१. ८) इत्यतश्च यथा विधिनिषेधयोश्चारुतावगतिर्न तथा स्वशब्दवाच्यस्य। द्विविधश्च प्रतिषेध उक्तः, सुप्तिङन्तविषयत्वात्। तद्यथा-
अथाङ्गराजादवतार्य चक्षुर्यातेति जन्यामवदत् कुमारी। नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः।। इति। (रघुवंशम्-६.३०) संभाव्यनिषेधनिवर्तनं हि प्रतिषेधद्वयस्य विषय इति। तथा चाह ध्वनिकारः-साररूपो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरां शोभामावहति। प्रसिद्धिश्चेयमस्त्येव विदग्धपरिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न वाच्यत्वेन-इति। आद्ययोस्तु क्रमस्य सुलक्षत्वाद् भ्रान्तिरपि नास्तीति निर्निबन्धन एव तत्र व्यङ्ग्यव्यपदेशग्रहः। अत एव श्रूयमाणानां शब्दानां ध्वनिव्यपदेश्यानामन्तःसन्निवेशिनश्च स्फोटाभिमतस्यार्थस्य व्यङ्ग्यव्यञ्जकभावो न सम्भवतीति व्यञ्जकत्वसाम्याद् यः शब्दार्थात्मनि काव्ये ध्वनिव्यपदेशः सोऽप्यनुपपन्नः, तत्रापि कार्यकारणमूलस्य गम्यगमकभावस्योपगमात्। ननु विभावादिवाक्यार्थसमकालमेव रत्यादीनां भावानां प्रतीतिरुपजायमाना सर्वैरेवावधार्यते। न तु तत्रान्तरा सम्बन्धस्मरणादि विघ्नव्यवधानसंवित्तिः काचिद्रत्यादिप्रतीतिरेव रसादिप्रतीतिरिति मुख्यवृत्त्यैव व्यङ्ग्यव्यञ्जकभावाभ्युपगमः। तत्र प्रदीपघटादिवदुत्पन्नो गम्यगमकभावः। यत् स एव आह-व्यञ्जकत्वमार्गे तु यदाऽर्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रतीपवत्। यथा-
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।। (कुमारसम्भवम् - ६.८४) इत्यादाविति। पुनः स एवाह-न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति, वाच्याविनाभावेन तस्य प्रकाशनात्। तस्माद् घटप्रदीपन्यायस्तयोः। यथैव हि-प्रदीपद्वारेण घटप्रतीतावुत्पन्नायां म प्रदीपप्रकाशो निवर्तते, तद्व्यङ्ग्यप्रतीतौ वाच्यावभासः-(ध्वन्यालोकः-३.३३) इति। उच्यते-वाच्यप्रतीयमानयोरर्थयोर्थथा क्रमेणैव प्रतीतिर्न समकालम्। यथा चानयोर्गम्यगमकभावस्तथा तेनैव व्यक्तिवादिना तयोः स्वरूपं निरूपयितुकामेनाप्युक्तम्, तदेवास्माभिः समाधित्सुभिरिह लिख्यते परम्। तद्यथा-न हि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः। अत एव विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेनावस्थानात् क्रमोऽवश्यंभावी। स तु लाघवान्न प्रकाश्यत इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादय इत्युक्तम्-(ध्वन्यालोकः-३.३३) इति। पुनश्च-तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः। स तूक्तयुक्तेः क्वचिल्लक्ष्यते क्वचित्तु न लक्ष्यते-(ध्वन्यालोकः-३.३३) इति। तदेवं वाच्यप्रतीयमानयोर्वक्ष्यमाणक्रमेण लिङ्गलिङ्गिभावस्य समर्थनात् सर्वस्यैव ध्वनेरनुमानान्तर्भावः समन्वितो भवति, तस्य च तदपेक्षया महाविषयत्वात्। महाविषयत्वं चास्य ध्वनिव्यतिरिक्तेऽपि विषये पर्यायोक्तादौ गुणीभूतव्यङ्ग्यादौ च सर्वत्र सम्भवात्। तच्च वचनव्यापारपूर्वकत्वात् परार्थमित्यवगन्तव्यम्। त्रिरूपलिङ्गाख्यानं परार्थानुमानम् (भिक्षुमोक्षाकरगुप्तविरचितायां तर्कभाषायाम्) इति केवलमुक्तनयानभिज्ञतया तन्न लक्षयत्यविचक्षणो लोकः। अथ यदि- सर्व एव वाक्यार्थः साध्यसाधनभावगर्भ इत्युच्यते, तद्यथा-साध्यसाधनयोस्तत्र नियमेनोपादानं तथा दृष्टान्तस्यापि स्यात्, तस्यापि व्याप्तिसाधनप्रमाणविषयतयाऽवश्यापेक्षणीयत्वात्, न प्रसिद्धसामर्थ्यस्य साधनस्योपादानादेव तदपेक्षाया प्रतिक्षेपात्। तदुक्तम्-
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते विदुषां वाच्यो हेतुरेव च केवलः।। ( प्रमाणवार्तिकम् - ३.२७) ननु कुतोऽयं रत्यादीनां सुखाद्यवस्थाविशेषाणां काव्यादौ सचेतनचमत्कारी सुखास्वादसम्भवो यो रसादीनामनुमेयानां व्यङ्ग्यत्वोपचारस्य प्रयोजनांशतया कल्प्यते। न हि लोके लिङ्गतः शोकादिष्वनुमीयमानेष्वनुमातुः सुखास्वादलवोऽपि लक्ष्यते। प्रत्युत साधूनामुदासीनानामपि वा भयशोकदौर्मनस्यादिदुःखमसममुपजायमानमवधार्यते। न च लोकतः काव्यादौ कश्चिदतिशयः, येनासौ तत्रैवोपगम्येत, न लोके। त एव हि लौकिका विभावादयो हेतुकार्यसहकारिरूपा गमकाः। त एव च रत्यादयोऽवस्थाविशेषरूपा भावा गम्याः। तत् कोऽतिशयः काव्यादौ यत् तत्रैव रसास्वादो न लोके? इति प्रयोजनांशासंम्भवाद् रत्यादिषु व्यङ्ग्यत्वोपचारोऽनुपपन्न एव। उच्यते-यत्र विभावादिमुखेन भावानामवगमस्तत्रैव सहृदयैकसंवेद्यो रसास्वादोदय इति वस्तुस्वभाव एवायं न पर्यनुयोगपदवीमवतरति प्रामाणिकानाम्। यदाह भरतः-विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः (नाट्यशास्त्रम्-६.३१) इति। यथोक्तम्-
भावसंयोजनाव्यङ्ग्यपरसंवित्तिगोचरः। आस्वादनात्मानुभवो रसः काव्यार्थ उच्यते।। इति।
न च लोके विभावादयो भावा वा सम्भवन्ति, हेत्वादीनामेव तत्र सम्भवात्। न च विभावादयो हेत्वादयश्चेत्येक एवार्थ इति मन्तव्यम्, अन्ये हेत्वादयोऽन्य एव विभावादयः, तेषां भिन्नलक्षणत्वात्। तथा हि-ये लोके रत्यादयो रामादिगताः स्थेमभाजोऽवस्थाविशेषाः केचित्, त एव काव्यादौ कविप्रभृतिभिर्वर्णनाद्यर्थमात्मन्यनुसंहिताः सन्तो भावयन्ति तांस्तान् रसानिति भावा इत्युच्यन्ते। यदाह भरतः-
नानाभिनयसम्बद्धान्भावयन्ति रसानिमान्। यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः।। इति। (नाट्यशास्त्रम्-७.३) ये च तेषां हेतवः सीताद्याः केचित्, त एव काव्यादिसमर्पिताः सन्तो विभाव्यन्ते भावा एभिरिति विभावा इत्युच्यन्ते।यदाह भरतः-
बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः। अनेन यस्मात्तेनायं विभाव इति संज्ञितः।। इति। (नाट्यशास्त्रम्-७.४)
ये च तेषां केचित् कार्यरूपा मुखप्रसादादयोऽर्थास्त एव काव्याद्युपदर्श्यमानाः सन्तोऽनुभावयन्ति तांस्तान् भावानित्यनुभावा इत्युच्यन्ते। यदाह भरतः-
वागङ्गसत्त्वाभिनयैर्यस्मादर्थोऽनुभाव्यते। वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः।। इति। (नाट्यशास्त्रम्-७.५)
ये च तेषामन्तरान्तराऽनवस्थायिनोऽवस्थाविशेषास्तदावान्तरहेतुजनिता उत्कलिकाकाराः केचिदुत्पद्यन्ते, त एव निजनिजविभावानुभाववर्गमुखेनोपदर्श्यमानाः सन्तो विशेषणाभिमुख्येन चरन्ति तेषु तेषु भावेष्विति व्यभिचारिण इत्युच्यन्ते। यदाह भरतः-विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः- इति (नाट्यशास्त्रम्-७.२७)। ये चैते स्थायिव्यभिचारिसात्त्विकभेदादेकोनपञ्चाशद्भावा उक्तास्ते सर्वे व्यभिचारिण एव। केवलमेषां प्रतिनियतरूपापेक्षो व्यपदेशभेदः। तथा हि स्थायित्वं स्थायिष्वेव प्रतिनियतम्, न व्यभिचारिसात्त्विकेषु। व्यभिचारित्वं व्यभिचारिष्वेव, नेतरयोः। सात्त्विकत्वमपि सात्त्विकेष्वेव नेतरयोरिति। तत्र स्थायिभावानामुभयी गतिः। न व्यभिचारिसात्त्विकानाम्। ते हि नित्यं व्यभिचारिण एव न जातुचित् स्थायिनः प्रकल्प्यन्ते। यत्तु भावाध्याये स्थायिनां लक्षणमुक्तं तद्व्यभिचारिदशापन्नानामेव तेषामवगन्तव्यम्, नान्येषाम्, लक्षणवचनस्य वैयर्थ्यप्रसङ्गात्। स्थाय्यनुकरणात्मानो हि रसा इष्यन्ते। ते च प्रधानमिति लक्षणमुखेनैव तेषां स्वरूपावगमसिद्धेः, तेषां बिम्बप्रतिबिम्बन्यायेनावस्थानात्, स्थायिभावेषु च निर्वेदादिष्विव व्यभिचारिणामनुपादानात्। तदुपादाने हि तेषां स्थायित्वमेव स्याद्, न व्यभिचारित्वं निर्वेदादिवत्। तस्माद् योग्यतामात्रप्रवर्तितोऽयं वर्गत्रयविभागोपदर्शनाय व्यभिचारेष्वपि स्थायिव्यपदेशः। तन्मात्रविप्रलम्भकृतोऽन्येषां स्थायिभावलक्षणभ्रम इत्यलमप्रस्तुतवस्तुविस्तरेण। तदेवं विभावादीनां हेत्वादीनां च कृत्रिमाकृत्रिमतया काव्यलोकविषयतया च स्वरूपभेदे चावस्थिते सत्येकत्वासिद्धेर्यदा विभाषादिभिर्भावेषु रत्यादिष्वसत्येष्वेव प्रतीतिरुपजन्यते तदा तेषां तन्मात्रसारत्वात् प्रतीयमाना इति गम्या इति च व्यपदेशा मुख्यवृत्त्योपपद्यन्त एव। तत्प्रतीतिपरामर्श एव च रसास्वादः स्वाभाविक इत्युक्तम्। आस्तां वा रत्यादिर्नित्यपरोक्षः। प्रत्यक्षोऽपि ह्यर्थः साक्षात् संवेद्यमानः सचेतसां न तथा चमत्कारमातनोति यथा स एव सत्कविना वचनगोचरतां गमितः। यदुक्तम्-
कविशक्त्यर्पिता भावास्तन्मयीभावयुक्तितः। यथा स्फुरन्त्यमी काव्यान्न तथाऽध्यक्षतः किल।। इति।
सोऽपि च तेषां न तथा स्वदते, यथा तैरेवानुमेयतां नीत इति स्वभाव एवायं न पर्यनुयोगमर्हति। तदुक्तम्-

नानुमितो हेत्वाद्यैः स्वदतेऽनुमितो यथा विभावाद्यैः। न च सुखयति वाच्योऽर्थः प्रतीयमानः स एव यथा।। इति।
ध्वनिकृताऽप्युक्तम्-सारभूतो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरामेव शोभामावहति-(ध्वन्यालोकः-४.५) इति। प्रतीतिमात्रपरमार्थं च काव्यादि तावतैव विनेयेषु विधिनिषेधव्युत्पत्तिसिद्धेः। तदुक्तम्-भ्रान्तिरपि सम्बन्धतः प्रमा-इति।
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति।। इति च। (प्रमाणवार्तिकम्-२.५७)
तेनात्र गम्यगमकभावयोः सचेतसां सत्यासत्यत्वविचारो निरुपयोग एव। काव्यविशेषे च वाच्यव्यङ्ग्यप्रतीतीनां सत्यासत्यत्वविचारो निरुपयोग एवेति तत्र प्रमाणान्तरपरीक्षोपहासायैव सम्पद्यत इति। तत्र हेत्वादिभिरकृत्रिमैरकृत्रिमा एव प्रत्याय्यन्ते। तत्रैषामनुमेयत्वमेव न व्यङ्ग्यलवोऽपि-इति कुतस्तत्र सुखास्वादलवोऽपि सम्भवति। एष एव लोकतः काव्यादावतिशय इत्युपपद्यत एव रत्यादौ गम्ये सुखास्वादप्रयोजनो व्यङ्ग्यत्वोपचार इति। मुख्यवृत्त्या द्विविध एवार्थो वाच्यो गम्यश्चेति। उपचारतस्तु व्यङ्ग्यस्तृतीयोऽपि समस्तीति सिद्धम्।
वाचो गुणीकृतार्थत्वं न सम्भवति जातुचित्। तदर्थं तदुपादानादुदकार्थं दृतेरिव।। इति सङ्ग्रहश्लोकः।
नापि वाच्यप्रतीयमानयोर्मुख्यवृत्त्या व्यङ्ग्यव्यञ्जकभावः समभवति, व्यक्तिलक्षणानुपपत्तेः। तथा हि सतोऽसत एव वाऽर्थस्य प्रकाशमानस्य सम्बन्धस्मरणानवेक्षिणा प्रकाशकेन सहैव प्रकाशविषयतापत्तिरभिव्यक्तिरिति तल्लक्षणमाचक्षते। तत्र सतोऽभिव्यक्तिस्त्रिविधा, तस्य त्रैविध्यात्। तत्र कारणात्मनि कार्यस्य शक्त्यात्मनाऽवस्थानात् तिरोभूतस्येन्द्रियगोचरत्वापत्तिलक्षण आविर्भाव एका, यथा-क्षीराद्यवस्थायां दध्यादेः। तथाऽवस्थानानुपगमे तु सैवोत्पत्तिरित्युच्यते कैश्चित्। तस्यैवाविर्भूतस्य कुतश्चित्प्रतिबन्धादप्रकाशमानस्य प्रकाशकेनोपसर्जनीकृतात्मना सहैव प्रकाशो द्वितीया, यथा-प्रदीपादिना घटादेः। तदुक्तम्-
व्यापारदेव तत्सिद्धे कारणानां च कार्यता। स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः।। इति। (प्रमाणवार्तिकम्-३.२६३) यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात्। करणानां समग्राणां व्यापारादुपलब्धितः।। इति। (प्रमाणवार्तिकम्-३.२६४)
ध्वनिकारेणाप्युक्तम्-स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते-(ध्वन्यालोकः-३.३३)। यथा प्रदीपो घटादेरिति। तस्यैवानुभूतपूर्वस्य संस्कारात्मनाऽन्तर्विपरिवर्तिनः कुतश्चिदव्यभिचारिणोऽर्थान्तरात् तत्प्रतिपादकाद्वा संस्कारप्रबोधमात्रं तृतीया, यथा धूमादग्नेः। यथा चालेख्यपुस्तकप्रतिबिम्बानुकरणादिभ्यः, शब्दाच्च गवादेः। असतस्त्वेकप्रकारैव, तस्य प्रकारान्तरासम्भवाद्, यथाऽर्कलोकादिनेन्द्रचापादेरिति। न चैतल्लक्षणं वाच्ये सङ्गच्छते। तथा हि सतोऽभिव्यक्तेर्यदाऽऽद्ययोरर्थयोर्लक्षणं न तत्प्रतीयमानेष्वपि संस्प्रष्टुं क्षमते, तस्य दध्यादेरिवेन्द्रियविषयभावापत्ति-प्रसङ्गाद् घटादेरिव वाच्यार्थसहभावेनेदन्ताप्रतीतेरसम्भवात्। न च स्वरूपासंस्पर्शि लक्षणं भवति। तृतीयस्यास्तु यल्लक्षणं तदनुमानस्यैव सङ्गच्छते, न व्यक्तेः। यदुक्तम्-त्रिरूपलिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् इति। तच्चानुमानमेव। न ह्यर्थादर्थान्तरप्रतीतिरनुमानमन्तरेणार्थान्तरमुपपद्यते। उपमानादीनां च तत्रैवान्तर्भावात्। यदाहुः-न चान्यदर्शनेऽन्य-कल्पना युक्तातिप्रसङ्गात्। तस्य नान्तरीयकतायां स्यात्। न हि यथाविधसिद्धः तथाविधसन्निधानं सूचयति। सामान्येन च सम्बन्धिनाऽर्थप्रतिपत्तिरनुमानमिति द्वे एव प्रमाणे इति। न च वाच्यादर्थादर्थान्तरप्रतीतिरविनाभावसम्बन्धस्मरण-मन्तरेणैव सम्भवति, सर्वस्यापि तत्प्रतीतिप्रसङ्गात्। नापि सहभावेन, धूमाग्निप्रतीत्योरिव तत्प्रतीत्योरपि क्रमभावस्यैव संवेदनादित्यसम्भवो लक्षणदोषः। अथ रसाद्यपेक्षया तयोः सहभावेन प्रकाशोऽभिमत इत्युच्यते, अव्याप्तिस्तर्हि लक्षणदोषः। वस्तुमात्रालङ्कारप्रकाशस्य प्रकाशकासहभावेनाव्याप्तेः। न च रसादिष्वपि विभावादिप्रकाशनसहभावेन प्रकाशनमुपपद्यते। यतस्तैरेव कारणादिभिः कृत्रिमैर्विभावाद्यभिधानैरसन्त एव रत्यादयः प्रतिबिम्बकल्पाः स्थायिभावव्यपदेशभाजः कविभिः प्रतिपत्तृप्रतीतिपथमुपनीयमाना हृदयसंवादादास्वाद्यत्वमुपयन्तः सन्तो रसा इत्युच्यन्ते। न च कारणादिभिः कार्यादयः प्रतिबिम्बकल्पाः सहैव प्रकाशितुमुत्सहन्ते कार्यकारण-भावावसायस्यैवावसादनप्रसङ्गात्। यत्र तु तल्लक्षणं मुख्यतया सम्भवति तत् काव्यमेव न भवतीति कुत एव तद्विशेषध्वनिरूपता स्यात्। द्विविधो हि प्रकाशकोऽर्थ उपाधिरूपः स्वतन्त्रश्चेति। तत्र ज्ञानशब्दप्रदीपादिरुपाधिरूपः। तदुक्तम्-त्रयः प्रकाशाः स्वपरप्रकाशा इति। अन्यः स्वतन्त्रो धूमादिः। तत्राद्यस्तावद् भवद्भिर्नाभ्युपगन्तव्य एव प्रत्यक्षाभिधेययोरेवार्थयोः काव्यताऽऽपत्तिप्रसङ्गात्। अन्यस्य तु लिङ्गत्वमेवोपपद्यते, न व्यञ्जकत्वम्, व्यक्तेरनुपपत्तेः। न च त्रिविधस्यापि व्यङ्ग्याभिमतस्यार्थस्य प्रकाशकसहभावेन प्रकाशस्तस्यापि ध्वनिकारस्याभिमतः। यदयमाह-न हि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः। तत एव तत्प्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेनावस्थानात् क्रमोऽवश्यंभावी। स तु लाघवान्न प्रकाशत इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादय इति। अथैतद् दोषभयात् सहभावानपेक्षमेतल्लक्षणमुच्यते। तथाऽप्यनुमानेऽतिव्याप्तिः। तत्राप्युपसर्जनीकृतात्मना धूमादिना प्रकाश्यस्य प्रकाशोऽस्त्येव। अथासद्ग्रहणेन सा निरस्तेत्युच्यते तर्हि घटप्रदीपयोस्तस्याव्याप्तिः, घटस्य सत्त्वात्। अथासद्ग्रहणं न करिष्यत इति तर्ह्यर्कालोकेन्द्रचापादावव्याप्तिः, इन्द्रचापादेरसत्त्वात्। अथोभयोरपि ग्रहणं न करिष्यत इति तर्ह्यनुमानस्यैव तल्लक्षणं पर्यवसति, न व्यक्तेः। तच्चेष्टमेव नः, वाच्यप्रतीयमानयोः सतोरेव च क्रमेणैव प्रकाशोपगमात्। तस्मात् तदवस्थ एवासम्भवो लक्षणदोषः। किं च सदसद्भावेन प्रकाशस्य विशेषणमनुपपन्नम्, व्यावर्त्याभावादिति। किं च यत्र वाच्यास्यार्थस्य व्यञ्जकत्वं स चेद् ध्वनिस्तर्हि तदनुमितस्य व्यञ्जकत्वे ध्वनित्वं न स्यात् तस्य वाच्याभावात्। ततश्च-एवंवादिनि देवर्षौ इत्यादौ ध्वनित्वमिष्टं न स्यादित्यव्याप्तिर्लक्षणदोषः। अथार्थशब्देनोभयमपि सङ्गृहीतं तस्योभयार्थविषयत्वेनेष्टत्वात्। यदाह-
योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः। वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ।। इति। (ध्वन्यालोकः-१.२) सत्यम्, किन्तु तमर्थमिति तच्छब्देनान्तर्यात् प्रतीयमानस्यार्थस्य परामर्शे सति पारिशेष्यादर्थो वाच्यविशेष इति स्वयं विवृतत्वाच्चार्थशब्दो वाच्यविषय एव विज्ञायते नोभयार्थविषय इति तदवस्थो दोषः। अस्तु वोभयार्थविषयः। तथाऽप्यतिव्याप्तिर्लक्षणदोषः। यत्र वाच्यार्थाद् वस्तुमात्रेणैकेन द्वित्रैर्वाऽन्तरिता वस्तुमात्रस्यैव साध्यस्य प्रतीतिस्तत्रापि ध्वनित्वापत्तेः, लक्षणानुगमाविशेषात्। न च तत् तत्रेष्यते, चारुतातिवृत्तेः। व्यभिचारिभावालङ्कारान्तरिताया एव तस्या ध्वनिविषयभावाभ्युपगमात्। अन्यत्र तु तद्विपर्ययाच्चारुत्वाचारुत्वनिश्चये च काव्यतत्त्वविदः प्रमाणम्। तत्रैकेन वस्तुमात्रेणान्तरिता सा यथा-
सिहिपिच्छकण्णऊरा बहुआ वाहस्स गव्विरी भमइ। मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम्।। इति। (शिखिपिच्छकर्णपूरा वधूर्व्याधस्य गर्विणी भ्रमति। मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम्।।) इति। (गाथासप्तशती-२.२७) अत्र हि वक्ष्यमाणप्रकारेण व्याधवध्वाः सपत्नीभ्यः सौभाग्यातिरेकोऽनुमेयः। स चाविरतसमभोगसुखासङ्गनिस्सहतया पत्युर्मयूरमात्रमारणक्षमतयाऽनुमीयमानयाऽन्तरितः। द्वाभ्यामन्तरिता यथा-
वाणिअअ हत्थिदन्ता कत्तो अम्हाण वग्घकित्ती अ। जावलुलिआलअमुही घरम्मि परिसक्कए सोह्णा।। इति। (वाणिजक हस्तिदन्ता कुतोऽस्माकं व्याघ्रकृत्तिश्च। यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा।।) इति। (ध्वन्यालोकः-३.१) अत्र हि वक्ष्यमाणप्रकारेण वृद्धव्याधेन वाणिजकं प्रति हस्तिदन्ताद्यभावप्रतिपादनाय व्यापकविरुद्धकार्योपलब्धिः प्रयुक्ता। यथा नात्र तुषारस्पर्शो धूमादिति। हस्तिदन्तव्याघ्राजिनादिसद्भावो ह्यस्मद्गृहे समर्थस्य सतः सुतस्य तद्व्यापादनव्यापारपरतया व्याप्तः। तद्विरुद्धं च स्नुषासौभाग्यातिरेकप्रयुक्तमविरतसम्भोगसुखासङ्गजनितमस्य निस्सहत्वम्। तत्कार्यं च स्नुषाया विलुलितालकमुखीत्वमिति। त्रिभिरन्तरिता यथा-
विवरीअसुरअसमए बह्मं दट्ठूण णाहिकमलम्मि। हरिणो दाहिणणअणं चुम्बइ हिळिआउला लच्छी।। इति। (विपरीतसुरतसमये ब्रह्माणं दृष्ट्वा नाभिकमले। हरेर्दक्षिणनयनं चुम्बति ह्रियाकुला लक्ष्मीः।।) इति। (गाथासप्तशती-७.७४) अत्र हि लक्ष्मीलज्जानिवृत्तिसाध्या। तत्र च भगवतो हरेर्दक्षिणस्याक्ष्णः सूर्यात्मनो लक्ष्मीपरिचुम्बनं हेतुः। तद्धि तस्य तिरोधानलक्षणमस्तमयमनुमापयति। सोऽपि साहचर्यान्नाभिनलिनस्य सङ्कोचम्। सोऽपि ब्रह्मणो दर्शनव्यवधानमिति त्रयाऽन्तरिताऽनुमेयप्रतिपत्तिः। तदियमुपायपरम्परोपारोहनिस्सहा न रसास्वादान्तिकमुपगन्तुमलमिति प्रहेलिकाप्राय-मेतत् काव्यमित्यतिव्याप्तिः। व्यभिचारिभावाव्यवहिता यथा-
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्। सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान।। इति। (कुमारसम्भवम्-७.१९) अत्र ह्युक्तप्रकारेणानुमितकौतुकौत्सुक्यप्रहर्षलज्जादिव्यभिचारिभावान्तरिता गौर्यामाभिलाषिकशृङ्गारावगतिः।
अलङ्कारव्यवहिता यथा-
लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि- न्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ।। इति। (ध्वन्यालोकः-२.२७) अत्रापि कस्याश्चिदुक्तक्रमेण वदनपूर्णेन्दुबिम्बयो रूप्यरूपकभावोऽनुमितः। तदन्तरिता चानुकार्यावगतिः। सैव ध्वनेर्विषयभावेनोपगन्तव्या, नान्या। न च व्यवधानाविशेषाद् व्यभिचार्यलङ्कारव्यवधानपक्षेऽप्येतत् समानमिति मन्तव्यम्, वस्तुमात्रस्य व्यभिचार्यलङ्कारादीनां च भिन्नजातीयत्वात्। वस्तुमात्रं ह्यनुमेयादत्यन्तविलक्षणस्वभावमग्न्यादेरिव धूमादि। व्यभिचार्यादयस्तु तच्छायानुविधायिनस्तदुपरक्त इव तदालिङ्गिता इवोत्पद्यन्ते, न ततोऽत्यन्तविलक्षणा एवेति तद्व्यवधानमन्यदेव वस्तुव्यवधानादित्यसिद्धस्तद्विशेषः। अलङ्कारोऽप्यलङ्कार्यान्न पृथगवस्थातुमर्हति तयोराश्रयाश्रयिभावेनावस्थानादिति तद्व्यवधानस्याप्यविशेषोऽसिद्ध एव तदवस्थैवातिव्याप्तिः।
यद्यर्थ इति वाच्योऽर्थोऽभिमतोऽव्याप्तिरेव सा। येनैवंवादिनीत्यादावर्थस्यार्थस्यार्थान्तराद् गतिः।।२१।। अथोभौ तर्ह्यतिव्याप्तिर्द्वित्रवस्तुव्यवायिनि। प्रहेलिकादिरूपेऽपि काव्ये ध्वन्यात्मता यतः।।२२।। इति सङ्ग्रहश्लोकौ। केवलमत्रैवार्थस्योभयात्मनः सामान्येन यः काव्यात्मत्वेन व्यपदेशः सोऽनुपपन्नः। स हि प्रतीयमानार्थैकविषयो युक्तः, तस्यैव काव्यजीवितभूतस्य प्रधानतया ध्वनित्वेनेष्टत्वात्। यत् स एवाह-
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये। केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्।। इति। (ध्वन्यालोकः-१.२) काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः।। इति। (ध्वन्यालोकः-१.५)
प्रतीयमानः पुनरन्य एव सोऽर्थोऽस्ति वाणीषु महाकवीनाम्। योऽसौ प्रसिद्धावयवातिरिक्तश्चकास्ति लावण्यमिवाङ्गनासु।। इति च। (ध्वन्यालोकः-१.४) तेन-यः काव्यस्य व्यवस्थितः-इति तत्रोचितः पाठः। किं चात्र वाशब्दो विकल्पार्थो वा स्यात् समुच्चयार्थो वा। न तावद् विकल्पार्थः पक्षान्तरासम्भवस्य व्युत्पादितत्वात्। यथा-
परित्यक्ते देहे रणशिरसि शोकान्धमनसा शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत्। असंख्यातास्त्रौघद्रविणमदमत्तस्य च रिपो- र्ममैवायं पादः शिरसि निहितस्तस्य न करः।। इति। (वेणीसंहारम्-३.२२) अत्र बहुवचनस्य समुच्चयार्थत्वे यत्र शब्दार्थयोरेकस्य व्यञ्जकत्वं तत्र ध्वनित्वमिष्टं न स्यात्। शब्दस्य च विशेषणमनुपादेयमेव स्यादर्थस्य विशिष्टत्वेनैव तदवगतिसिद्धेः। अत एव च लक्षणवाक्ये दीपकाद्यलङ्कारमुखेनोपमाद्य-भिव्यक्तौ ध्वनित्वमिच्छता गुणीकृतात्मनोऽभिधाया उपादानं न कृतम्। अन्यथा तदपि कर्तव्यं स्यात्। तदाश्रितत्वादर्थस्यार्थाश्रितत्वाच्चालङ्काराणामिति पक्षद्वयमप्यनुपपन्नम्। अत्र केचिद्विद्वन्मानिनो द्विवचनसमर्थनामनोरथाक्षिप्तचित्ततया वाच्यवाचकयोर्विस्मृतसुप्रसिद्धप्रतीतिक्रमभावास्तयोरेककालिकतां शब्दस्योक्तनयनिरस्तामपि व्यञ्जकतां पश्यन्तस्तन्निबन्धनां ध्वनिभेदयोरविवक्षितविवक्षितान्यपरवाच्ययोर्ध्वननव्यापारं प्रति पर्यायेणान्योन्यसहकारितां, तदपेक्षया चानयोः प्रधानेतरतामुपकल्प्य सहकारितया व्यक्तिक्रियां प्रत्युभयोरपि कर्तृत्वात् तदपेक्षो व्यङ्क्त इति द्विवचननिर्देशः, प्राधान्यापेक्षश्च यत्रार्थः शब्दो वेति विकल्प इति मन्यमानाः व्यङ्क्त इति द्विवचनेनेदमाह-यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्य सहकारिता न त्रुट्यति। अन्यथाऽज्ञातार्थोऽपि शब्दस्तद्व्यञ्जकः स्यात्। विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव। विशिष्टशब्दाभिधेयता विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोर्ध्वननव्यापारः। एवञ्च भट्टनायकेन द्विवचनं दूषितं तद् गजनिमीलिकयैव। अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण-इति यदाहुस्तद् भ्रान्तिमूलमात्रम्, न तत्त्वमित्यलमवस्तुनिर्बन्धेन। किं च तमिति तदः पुंस्त्वेन निर्देशोऽनुपपन्नः। तस्यानन्तरप्रक्रान्तार्थपरामर्शिनस्तल्लिङ्गतापत्तेः। न चात्र तल्लिङ्गताविशिष्टः कश्चिदर्थः प्रक्रान्तः, वस्तुतो नपुंसकलिङ्गस्यानन्तरं प्रक्रान्तत्वात्। तेन तत्रैव-
प्रतीयमानः पुनरन्य एव सोऽर्थोऽस्ति वाणीषु महाकवीनाम्। योऽसौ प्रसिद्धावयवातिरिक्तश्चकास्ति लावण्यमिवाङ्गनासु।। इति। (ध्वन्यालोकः -१.४)
सरस्वती स्वादुतमं तमर्थमिति च पाठविपर्यासः कर्तव्यः। न त्वत्रैव वस्तु तदिति। तत्रैव हि पाठविपर्यासे पर्यायप्रक्रमभेदः पुंस्त्वनिर्देशश्च परिहृतौ भवतः। अत्र त्वेक एव तदः पुंस्त्वनिर्देशदोषः। एषैव च प्रमेयशय्या श्रेयसी। अपि च काव्यविशेष इत्यत्र काव्यस्य विशिष्टत्वमनुपपन्नम्, काव्यमात्रस्य ध्वनिव्यपदेशविषयत्वेनेष्टत्वात्। तस्य रसात्मकत्वोपगमात्। यत् स एवाह-
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा। क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः।। इति। (ध्वन्यालोकः -१.५) न च तस्य विशेषः सम्भवति निरतिशयसुखास्वादलक्षणत्वात् तस्य। यदाहुः-
पाठ्यादथ ध्रुवागानात् ततः सम्पूरिते रसे। तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम्।। ततो निर्विषयस्यास्य स्वरूपावस्थितौ निजः। व्यज्यते ह्लादनिष्यन्दो येन तृप्यन्ति योगिनः।। इति।
तदभावे चास्य काव्यतैव न स्यात् किमुत विशेष इत्यानारम्भणीयमेवैतत् प्रेक्षावतां स्याद् वैफल्यात्। कविव्यापारो हि विभावादिसंयोजनात्मा रसाभिव्यक्त्यव्यभिचारी काव्यमुच्यते। तच्चाभिनेयानभिनेयार्थत्वेन द्विविधम्। सामान्येनोभयमपि च तत् शास्त्रवद् विधिनिषेधविषयव्युत्पत्तिफलम्। केवलं व्युत्पाद्यजनजाड्याजाड्यतारतम्यापेक्षया काव्यनाट्यशास्त्ररूपोऽयमुपायमात्रभेदो न फलभेदः। तत्रायं प्रख्यातरामरावणादिनायकप्रतिनायकसमाश्रयणेन प्रसिद्धविधिनिषेधास्पदचरितवर्णनमात्रात्मकम्। अपरं पुनरनुकारक्रमेण साक्षात् तत्प्रदर्शनात्मकम्। यदाहुः-
अनुभावविभावानां वर्णना काव्यमुच्यते। तेषामेव प्रयोगस्तु नाट्यं गीतादिरञ्जितम्।। इति।
एवं च ये सुकुमारमतयः शास्त्रश्रवणादिविमुखाः सुखिनो राजपुत्रप्रभृतयः पूर्वत्राधिकृताः ये चात्यन्ततोऽपि जडमतयस्तावता व्युत्पादयितुमशक्याः स्त्रीनृत्यातोद्यादिप्रसक्ता उभयेऽपि तोऽभिमतवस्तुपुरस्कारेण गुडजिह्विकया रसास्वादसुखं मुखे दत्वा तत्र कटुकौषधपानादाविव प्रवर्तयितव्याः। अन्यथा प्रवृत्तिरेवैषां न स्यात्, किमुत व्युत्पत्तिः। काव्यारम्भस्य साफल्यमिच्छता तत्प्रवृत्तिनिबन्धनभावेनास्य रसात्मकत्वमवश्यमुपगन्तव्यम्। तन्मात्रप्रयुक्तश्च ध्वनिव्यपदेशः। न च रसानां वैशिष्ट्ये तदात्मनः काव्यस्य विशिष्टत्वमिति युक्तं वक्तुम्, अव्याप्तेः। एवं हि प्रतिनियतरसात्मन एव तस्य ध्वनित्वं स्यात्, नान्यस्यान्यरसात्मनः, वैशिष्ट्याभावात्। इष्यते च तत्रापीत्यव्याप्तिर्लक्षणदोषः। अत एव च न गुणालङ्कारसंस्कृतशब्दार्थमात्रशरीरं तावत् काव्यम्, तस्य यथोक्तव्यङ्ग्यार्थोपनिबन्धे सति विशिष्टत्वमिति शक्यं वक्तुम्। तस्य रसात्मताभावे मुख्यवृत्त्या काव्यव्यपदेश एव न स्यात्। किमुत विशिष्टत्वम्। न च रसात्मनः काव्यस्य वस्तुमात्रादिभिर्विशेषः शक्यमाधातुम्, तेषां विभावादिरूपतया रसाभिव्यक्तिहेतुत्वोपगमात्। न च व्यञ्जकानां वैचित्र्ये व्यङ्ग्यस्य विशेषोऽभ्युपगन्तुं युक्तः, शाबलेयादीनामिव गोत्वस्य। ततोऽस्य विशिष्टतोपगमे वा यत्र तयोरुभयोरेकैकस्य वा व्यङ्ग्यता तत्रैव ध्वनिव्यपदेशः स्यात्। न केवलरसात्मनि काव्ये, वैशिष्ट्याभावात्। इष्यते चासौ तत्रापि। प्रहेलिकादौ च नीरसे स्यात्। तत्राप्युक्तक्रमेण वस्तुमात्रादेरभिव्यङ्ग्यत्वेनेष्टत्वादित्यन्वयव्तिरेकाभ्यां काव्यत्वमात्रप्रयुक्तोऽसावनुमीयते। अतश्च समासोक्त्यादावप्यसावुपगन्तव्य एव, न प्रतिषेध्यः। प्रतीयमानस्य चार्थस्य द्वैविध्यमेव। तृतीयस्य रसादेः प्रकारस्योक्तनयेन काव्यत्वादेव सिद्धत्वादिति। न च तस्य तदङ्गभावो भणितुं युज्यते, अङ्गित्वेनेष्टत्वात्। इति काव्यत्वमेव ध्वनिव्यपदेशविषयोऽभ्युपगन्तुं युक्तो न तद्विशेषः। किं च मुख्ये रसात्मनि काव्ये सम्भवति न तस्य गौणस्याश्रयणं युक्तम्, गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (पाणिनीयपरिभाषा-१५) इति नियमात्। यस्तु मेघदूतादौ काव्यविशेषव्यपदेशः सोऽभिधेयार्थविशेषसमारोपकृतो न मुख्यः। इत्थं च काव्यस्य विशिष्टतानुपपत्तावितरतल्लक्षणविधायिमतातिरिक्तं न किंचिदनेनाभिहितं स्यात्, अन्यत्र ध्वनिव्यपदेशमात्रात्। न च तेनापि किञ्चित्, कथञ्चिद् वा तदुपपत्तौ तदवाच्यमेव तस्य तत्पर्यवसायिनो लक्षणविशेषसम्बन्धादेव तदवगतेः। यथा योऽश्वमारूढः स पुरुषो राजेत्यत्र। अथ पुरुषस्याश्वविशिष्टस्यैव सतस्तल्लक्षणसम्बन्धो न तु तत एवास्य वैशिष्ट्यमिति। तथाऽप्यवाच्यम्, काव्यत्वादेव तस्याप्यवगतत्वात्। तच्चोक्तमित्यवाच्यवचनं दोषः। किं च-सूरिभिः कथितः-इति कथनक्रियाकर्तृनिर्देशः पक्षद्वयेऽप्यवाच्य एव। कर्तृमात्रविवक्षायां क्रियायाः कर्त्रव्यभिचारात् कर्तृविशेषविवक्षायामनन्तरोक्तक्रमेण व्यापारविशेषसम्बन्धादेव तद्विशेषावगतिसिद्धेरित्यवाच्यवचनं दोषः।
अर्थस्य विशिष्टत्वं शब्दः सविशेषणस्तदः पुंस्त्वम्। द्विवचनवाशब्दौ च व्यक्तिर्ध्वनिर्नाम काव्यवैशिष्ट्यम्।।२३।। वचनं च कथनकर्तुः कथिता ध्वनिलक्ष्मणीति दश दोषाः। ये त्वन्ये तद्भेदप्रभेदलक्षणगता न ते गणिताः।।२४।।
तदेवं लक्षणदोषदुष्टपदव्युदासेन परिशुद्धो ध्वनिलक्षणवाक्यस्यायमर्थोऽवतिष्ठते-
वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति। सम्बन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ता।।२५।।
एतच्चानुमानस्यैव लक्षणं नान्यस्य। यदुक्तं-त्रिरूपलिङ्गाख्यानं परार्थानुमानम् (भिक्षुमोक्षाकरगुप्तस्य तर्कभाषा)-इति। केवलं संज्ञाभेदः।
काव्यस्यात्मनि संज्ञिनि रसादिरूपे न कस्यचिद् विमतिः। संज्ञायां सा यतः केवलमेषाऽपि व्यक्त्ययोगतोऽस्य कुतः।।२६।। शब्दस्यैकाभिधा शक्तिरर्थस्यैकैव लिङ्गता। न व्यञ्जकत्वमनयोः समस्तीत्युपपादितम्।।२७।। उक्तं वृथैव शब्दस्योपादानं लक्षणे ध्वनेः। न हि तच्छिष्टमूलेष्टा काचिदर्थान्तरे गतिः।।२८।। न चोपसर्जनत्वेन तयोर्युक्तं विशेषणम्। यतः काव्ये गुणीभूतव्यङ्ग्येऽपीष्टैव चारुता।।२९।। अत एव विशेषस्योपादानमपि नार्थवत्। संज्ञासम्बन्धमात्रैकफलं तदिति गम्यते।।३०।। तदा चातिप्रसङ्गः स्यात् संज्ञायां यस्य कस्यचित्। यद्वाक्यवर्तिनोऽन्यस्य विशेषस्य तदाप्तितः।।३१।। तस्मात् स्फुटतया यत्र प्राधान्येनान्यथाऽपि वा। वाच्यशक्त्याऽनुमेयोऽर्थो भाति तत् काव्यमुच्यते।।३२।। वाच्यप्रत्येययोर्नास्ति व्यङ्ग्यव्यञ्जकताऽर्थयोः। तयोः प्रदीपघटवत् साहित्येनाप्रकाशनात्।।३३।। पक्षधर्मत्वसम्बन्धव्याप्तिसिद्धिव्यपेक्षणात्। वृक्षत्वाम्रत्वयोर्यद्वद् यद्वच्चानलधूमयोः।।३४।। अनुमानत्वमेवात्र युक्तं तल्लक्षणान्वयात्। असतश्चेन्द्रचापादेः का व्यक्तिः कृतिरेव सा।।३५।। कार्यत्वं ह्यसतोऽपीष्टं हेतुत्वं तु विरुद्ध्यते। सर्वसामर्थ्यविगमाद् गगनेन्दीवरादिवत्।।३६।। शब्दप्रयोगः प्रायेण परार्थमुपयुज्यते। न हि तेन विना शक्यो व्यवहारयितुं परः।।३७।। न च युक्तिनिराशंसात् ततः कश्चित् प्रवर्तते। निवर्तते वेत्यस्येष्टा साध्यसाधनगर्भता।।३८।। ते प्रत्येकं द्विधा ज्ञेये शाब्दत्वार्थत्वभेदतः। पदार्थवाक्यार्थतया ते अपि द्विविधे मते।।३९।। तत्र साध्यो वस्तुमात्रमलङ्कारा रसादयः। इति त्रिधैव तत्राद्यौ पदं शब्दानुमानयोः।।४०।। अन्त्योऽनुमेयो भक्त्या तु तस्य व्यङ्ग्यत्वमुच्यते। भक्तेः प्रयोजनांशो यश्चमत्कारित्वलक्षणः।।४१।। स तत्रास्तीति सोऽप्यस्य विभावाद्येकहेतुकः। अत एव न लोकेऽपि चमत्कारः प्रसज्यते।।४२।। तत्र हेत्वादयः सन्ति म विभावादयो यतः। न त्वैकार्थत्वमाशङ्क्यमेषां लक्षणभेदतः।।४३।। स्वभावश्चायमर्थानां यन्न साक्षादमी तथा। स्वदन्ते सत्कविगिरां गता गोचरतां यथा।।४४।। इति सङ्ग्रहश्लोकाः। यत् पुनरस्यानेकशक्तिसमाश्रयत्वाद् व्यापारन्तरपरिकल्पनं तदर्थस्यैवोपपद्यते, न शब्दस्य, तस्यानेकशक्तिसमाश्रयत्वासिद्धेः। तथा हि-एकाश्रयाः शक्तयोऽन्योन्यानपेक्षप्रवृत्तयोऽप्राकृतपौर्वापर्यनियमा युगपदेव स्वकार्यकारिण्यो दृष्टाः, यथा दाहकत्वप्रकाशकत्वादयोऽग्नेः। न च शब्दाश्रयाः शक्तयस्तथा दृश्यन्तेऽभ्युपगम्यन्ते वा, नियोगतोभिधाशक्तिपूर्वकत्वेनेतरशक्तिप्रवृत्तिदर्शनात्। तस्माद् भिन्नाश्रया एव ता न शब्दैकसमाश्रया इत्यवसेयम्। यश्चासावाश्रयो भिन्नः सोऽर्थ एवेति तद्व्यापरस्यानुमानान्तर्भावोऽभ्युपगन्तव्य एव। तथा हि-गौर्वाहीक इत्यादौ तावद् गवादयोऽर्था बाधितवाहीकाद्यर्थान्तरैकात्म्यास्ताद्रूप्यविधानान्यथाऽनुपपत्त्या केनचिदंशेन तत्र तत्त्वमनुमापयन्ति, न सर्वात्मना। न ह्यनुन्मत्तः कश्चित् क्वचित् किञ्चित् कथञ्चित् साधर्म्यमनुत्पश्यन्नेवाकस्मात् तत्त्वमारोपयतीति परिशीलितवक्तृस्वरूपः प्रतिपत्ता तत्त्वारोपनिमित्तं सादृश्यमात्रमेव प्रतिपत्तुमर्हति, न तत्त्वम्। तद्धि वाच्यतयोपक्रम एव भासते, न प्रतीतिपर्यवसानास्पदं भवितुमर्हति, तस्य बाधोपपत्तेः। तस्य चैवंविधस्योपक्रमस्य निमित्तं साधर्म्यमात्रप्रतिपादनम्। प्रयोजनं च लाघवेन वाहीकादौ गवादिगतजाड्यादिधर्मप्रतिपादनं, यस्मादतिदेशप्रकारोऽयमर्थान्तरे शब्दनिवेशो नाम। यदुक्तम्-
जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते। सम्बन्धिसदृशाद् धर्मात् तं गौणमपरे विदुः।। इति। (वाक्यपदीयम्-२.२७३) एवम्-
परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्। इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम्।। (रत्नावली-२.१२) इत्यादाववगन्तव्यम्। अविनाभावावसायपूर्विका ह्यन्यतोऽन्यस्य प्रतीतिरनुमानमित्यनुमानलक्षणमुक्तं तच्चात्रोपलभ्यत एव। तथा हि वदतीत्यादौ वदनादेरर्थान्तरस्य प्रकाशादेः प्रतीतिः। तयोश्चाविनाभावः कार्यकारणभावकृतः प्रकाशनस्य वदनकार्यत्वप्रसिद्धेः। न च वदतेः प्रकाशो वाच्य इति शक्यं वक्तुम्, तस्य तत्रासमितत्वात्, प्रकाशस्य चातत्त्वात्। न चायं स्वार्थमेव प्रतिपादयति, तस्य बाधोपपत्तेः। अथोपचारत उपादानान्यथाऽनुपपत्त्या वदनक्रियायाः सदृशे प्रकाशनाख्ये क्रियान्तरे वर्ततेऽयं वदतिरित्युच्यते, तर्ह्यन्यथाऽनुपपत्त्या वदनादेः प्रकाशादिः प्रतीयमानोऽनुमेय एव भवितुमर्हति, अर्थापत्तेरनुमानान्तर्भावाभ्युपगमादित्युक्तम्। तस्माद्योऽयं वाहीकादौ गवादिसाधर्म्यावगमः स तत्त्वारोपान्यथाऽनुपपत्तिपरिकल्पितोऽनुमानस्यैव विषयः, न शब्दव्यापारस्येति स्थितम्।
गोत्वारोपेण वाहीके तत्साम्यमनुमीयते। को ह्यतस्मिन्नतत्तुल्ये तत्त्वं व्यपदिशेद् बुधः।।४५।। इति सङ्ग्रहश्लोकः। गङ्गायां घोषः-इत्यादावपि गङ्गादयोऽर्थाः स्वात्मन्यनुपपत्तिबाधितघोषाद्यधिकरणभावास्तदुपादानसामर्थ्यात् सम्बन्धमात्रपरिकल्पिततत्त्वारोपं तदधिकरणभावोपगमयोग्यमर्थान्तरमेव तटादिरूपमनुमापयन्ति। न हि तत्सादृश्यमेवैकं तत्त्वारोपनिबन्धनमिष्यते। किं तर्हि तत्सम्बन्धादिरपीति तत्सम्बन्धमात्रसमारोपिततद्भावस्तटादिरेव घोषाद्यधिकरणभावोपादानान्यथाऽनुपपत्त्या गङ्गादीनामर्थानामनुमेय एव भवितुमर्हति। शब्दः पुनः स्वार्थाभिधानमात्रव्यापारपर्यवसितसामर्थ्यो नार्थान्तरस्य तटादेर्वार्तामपि वेदितुमुत्सहते, किं पुनः संस्पर्शम्-इत्युक्तम्। प्रयोजनं पुनरस्यैवंविधस्योक्तिवैचित्र्यपरिग्रहस्य तटादावारोपविषये वस्तुनि आरोप्यमाणगङ्गादिगतपुण्यत्वशीतलत्वादिधर्मप्रतिपत्तिः, न सादृश्यमिति पूर्वस्मादस्य विशेषः। उभयत्रापि च तत्त्वारोप एव हेतुः। स हि तत्साम्यतत्सम्बन्धादिनिबन्धनत्वाद् बहुविध इष्टः। यदाहुः-
अभिधेयेन सामीप्यात्सारूप्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।। (लोचनम्, ध्वन्यालोकः-१.१) तस्य च तैरविनाभावनियमो लोकत एवावसित इति न तत्र प्रमाणान्तरापेक्षाप्रयासः। लोको हि तत्सदृशमर्थं तत्सम्बद्धं च तत्त्वेन व्यवहरन् दृश्यते। तद् यथा-दीर्घग्रीवं विकटकायं च कञ्चित् पश्यन् करभ इति व्यपदिशति, मञ्चसम्बद्धांश्च कांश्चित् क्रोशतो मञ्चाः क्रोशन्तीति। किं चोपचारवृत्तौ शब्दस्य मा भूदतिप्रसङ्ग इत्यवश्यं किमपि निमित्तमनुसर्तव्यम्। अन्यथाऽन्यत्र प्रसिद्धसम्बन्धः कथमसमितमेवार्थान्तरं प्रत्याययेत्। यच्च तन्निमित्तं तदेवास्माभिरिह लिङ्गमित्याख्यातम्। युक्तं चैतत्, शब्दस्य तत्र व्यापाराभावात्, व्यापाराभावश्च सम्बन्धाभावात्। लिङ्गाच्च लिङ्गिनः प्रतीतिरनुमानमेवेति न गुणवृत्तावर्थान्तरप्रतीतिः शाब्दीति तस्या वाचकाश्रत्वमसिद्धमेव।
यः सतत्त्वसमारोपस्तत्सम्बन्धनिबन्धनः। मुख्यार्थबाधे सोऽप्यार्थं सम्बन्धमनुमापयेत्।।४६।। तत्साम्यतत्सम्बन्धौ हि तत्त्वारोपैककारणम्। गुणवृत्तेर्द्विरूपायास्तत्प्रतीतिरतोऽनुमा।।४७।। मुख्यवृत्तिपरित्यागो न शब्दस्योपपद्यते। विहितोऽर्थान्तरे ह्यर्थः स्वसाम्यमनुमापयेत्।।४८।। तुल्यादिषु हि लोकोऽर्थेष्वर्थं तद्दर्शनस्मृतम्। आरोपयेन्न शब्दस्तु स्वार्थमात्रानुयायिनाम्।।४९।। इत्थमर्थान्तरे शब्दवृत्तेरनुपपत्तितः। फले लिङ्गैकगम्ये स्यात् कुतः शब्दः स्खलद्गतिः।।५०।। व्यापारार्थे ध्वनेः साक्षान्मुख्या वृत्तिरुदाहृता। अर्थारोपानुगस्त्वेष गौणी तद्व्यवधानतः।।५१।। आशुभावादनालक्ष्यं किन्त्वर्थारोपमन्तरा। लोको गोश्चैत्र इत्यादौ शब्दारोपमवस्यति।।५२।। प्रधानेतरभावेनावस्थानादर्थशब्दयोः। समशीर्षिकयाऽऽरोपो न तयोरुपपद्यते।।५३।। आरोपविषये यत्र विशेषः सम्प्रतीयते। अर्थारोपितात् तत्र गुणवृत्तिरुदाहृता।।५४।। गुणवृत्तौ गिरां यावत् सामग्रीष्टा निबन्धनम्। सैव लिङ्गतयाऽस्माभिरिष्यतेऽर्थान्तरं प्रति।।५५।। न हि तत् समयाभावाद् वाच्यं शब्दस्य कल्प्यते। प्रतीयमानतायां च व्यक्तमस्यानुमेयता।।५६।। तस्मात् स्वार्थातिरेकेण गतिर्नार्थान्तरे गिराम्। वाचकत्वाश्रयेणातो गुणवृत्तेरसम्भवः।।५७।। भक्त्या बिभर्ति चैकत्वं रूपभेदादयं ध्वनिः। न च नाव्याप्त्यतिव्याप्त्योरभावाल्लक्ष्यते तया।।५८।। सुवर्णपुष्पामित्यादौ न चाव्याप्तिः प्रसज्यते। यतः पदार्थवाक्यार्थभेदात् भक्तिर्द्विधोदिता।।५९।। अतस्मिंस्तत्समारोपो भक्तेर्लक्षणमिष्यते। अर्थान्तरप्रतीत्यर्थः प्रकारः सोऽपि शस्यते।।६०।। ततश्च- रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि। लावण्याद्याः प्रसक्तास्ते न भवन्ति पदं ध्वनेः।।६१।। भवन्त्येवेत्यर्थः। यतः- मुख्यां वृत्तिं परित्यज्य गुणवृत्त्याऽर्थदर्शनम्। यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः।।६२।। वाचकत्वाश्रयेणैव गुणवृत्तिरसङ्गता। गमकत्वैकमूलस्य ध्वनेः स्याद् विषयो न किम्।।६३।। व्यञ्जकत्वैकमूलत्वमसिद्धञ्च ध्वनेर्यतः। गमकत्वाश्रयाऽपीष्टा गुणवृत्तिस्तदाश्रयः।।६४।। समिदिध्मादयः शब्दाः प्रसिद्धा गुणवृत्तयः। ध्वनेः पदादिव्यङ्ग्यस्य येनोदाहरणीकृताः।।६५।। तस्माद् व्युत्पत्तिशक्तिभ्यां निबन्धो यः स्खलद्गतेः। शब्दस्य सोऽपि विज्ञेयोऽनुमानविषयोऽन्यवत्।।६६।। इति सङ्ग्रहश्लोकाः। विषं भक्षय, मा चास्य गृहे भुङ्क्थाः-इत्यादावपि यदेतद् विषभक्षणानुज्ञानं तदर्थप्रकरणादिसहायमेतद्गृहे भोजनस्य ततोऽपि दारुणतरपरिणामत्वमनुमापयति। न ह्यनुन्मत्तः सुहृदादौ हितकामः सन्नस्य क्वचिद् भोजननिषेधं विदधानोऽकस्माद् विषभक्षणमनुजानातीत्यवगतवक्तृप्रकरणादिस्वरूपः प्रतिपत्ता विषभक्षणानुज्ञानादेव तद्गृहभोजनस्यात्यन्तमकरणीयत्वमनुमातुमर्हति। विषभक्षणानुज्ञानादेर्वाक्यार्थस्याप्रस्तुतस्यैवोपन्यासो हि पूर्वोक्तेन नयेन प्रस्तुतातिरिक्तार्थान्तरप्रतिपादनपरत्वात् तत्र हेतुतयाऽवगन्तव्य इति न शब्दस्य तत्र व्यापारः परिकल्पनीयः।
विषभक्षणादपि परामेतद्गृहभोजनस्य दारुणताम्। वाच्यादतोऽनुमिमते प्रकरणवक्तृस्वरूपज्ञाः।।६७।। विषभक्षणमनुमनुते न हि कश्चिदकाण्ड एव सुहृदि सुधीः। तेनात्रार्थान्तरगतिरार्थी तात्पर्यशक्तिजा न पुनः।।६८।। इति सङ्ग्रहार्थे। यदप्यन्ये न मन्यन्ते-वाच्यावगमोपक्रमः प्रतीयमानार्थान्तरावसायपर्यन्तोऽयमेक एव दीर्घदीर्घः शब्दस्योषोरिव व्यापारः, न पुनरर्थान्तरस्य कश्चित् संवेद्यते। यथा ह्येक एवेषुर्बलवता धनुष्मता मुक्तः शत्रोरुरश्छदमुरश्च भित्त्वा जीवितमपहरति। न च तस्य वृत्तिभेदः, तथा शब्दोऽपि सत्कविना सकृत् प्रयुक्त एव क्रमेण स्वार्थाभिधानमर्थान्तरप्रतीतिं चैकयैव प्रवृत्त्या वितनोति। न च तस्य व्यापारभेदः कश्चित्, किं च-यत्परः शब्दः स शब्दार्थः (तत्त्वचिन्तामणिः-शब्दप्रामाण्यवादः-आसत्तिवादपूर्वपक्षः)-इति शब्दस्यैवासौ व्यापारो न्याय्यो नार्थस्येति। तदयुक्तम्, साक्षाच्छब्दस्यार्थप्रतीतिहेतुत्वासिद्धेः। पारम्पर्येण तु तस्य हेतुत्वोपगमे वस्तूनां हेतुफलभावव्यवहारनियमो न व्यवतिष्ठते। ततश्च कुलालोऽपि-सेकसलिलोपकरणभूतं कुम्भं कुर्वन् मधुमास इव कुसुमविकासहेतुरिति मुख्यतया ख्यायेत-इत्यर्थस्यैव व्यापारोऽभ्युपगन्तुं युक्तो न शब्दस्य। न हि यः पुत्रस्य व्यापारः स पितुरेवेति मुख्यतया शक्यते वक्तुम्, तयोरन्योन्यव्यापारसाङ्कर्यदोषप्रसङ्गात्। किं चायं विषमः शरदृष्टान्तोपन्यासः। न हि यथा सायकः स्वभावत एव छेद्यभेद्याद्यर्थविषयमेकयैव वृत्त्या तत्तत्कार्यं करोति, तथा शब्दः। स हि सङ्केतसापेक्षः स्वव्यापारमारभते न स्वभावत एवेति यत्रैवास्य सङ्केतस्तत्रैव व्याप्रियते। ततश्चाभिधेयार्थविषय एवास्य व्यापारो युक्तो नार्थान्तरविषयः, तत्र सङ्केताभावात्। तदभावेऽपि तत्र तत्परिकल्पने सर्वः कुतश्चिदभिधेयार्थवदर्थान्तरमपि प्रतीयात्। तस्माद्यत्र सङ्केतापेक्षा तत्रैवास्य व्यापार इत्यवगन्तुं युक्तम्, नार्थान्तरे, तत्र वक्ष्यमाणनयेनार्थस्यैव तदुपपत्तिसमर्थनादिति। यत् पुनः-
शब्दार्थौ सहितौ वक्रकविव्यापारशालिनी। बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि।। (वक्रोक्तिजीवितम्-१.७) इत्यादिना शास्त्रादिप्रसिद्धशब्दार्थोपनिबन्धव्यतिरेकि यद् वैचित्र्यं तन्मात्रलक्षणं वक्रत्वं नाम काव्यस्य जीवितमिति सहृदयमानिनः केचिदाचक्षते, तदप्यसमीचीनम्। यतः प्रसिद्धोपनिबन्धनव्यतिरेकित्वमिदं शब्दार्थयोरौचित्यमात्रपर्यवसायि स्यात्, प्रसिद्धाभिधेयार्थव्यतिरेकि प्रतीयमानाभिव्यक्तिपरं वा स्यात्, प्रसिद्धप्रस्थानातिरेकिणः शब्दार्थोपनिबन्धनवैचित्र्यस्य प्रकारान्तरासम्भवात्। तत्राद्यस्तावत् पक्षो न शङ्कनीय एव, तस्य काव्यस्वरूपनिरूपणसामर्थ्यसिद्धस्य पृथगुपादानवैचित्र्यात्। विभावाद्युपनिबन्धन एव हि कविव्यापारो नापरः। ते च यथाशास्त्रमुपनिबध्यमाना रसाभिव्यक्तेर्निबन्धनभावं भजन्ते, नान्यथा। रसात्मकं च काव्यमिति कुतस्तत्रानौचित्यसंस्पर्शः सम्भाव्यते, यन्निरासार्थमित्थं काव्यलक्षणमाचक्षीरन् विचक्षणंमन्याः। द्वितीयपक्षपरिग्रहे पुनर्ध्वनेरेवेदं लक्षणमन्यया भङ्ग्याऽभिहितं भवति, अभिन्नत्वाद् वस्तुनः। अत एव चास्य त एव प्रभेदस्तान्येवोदाहरणानि तैरुपदर्शितानि। तच्चायुक्तमित्युक्तम्, वक्ष्यते च।
प्रसिद्धं मार्गमुत्सृज्य यत्र वैचित्र्यसिद्ध्यये। अन्यथैवोच्यते सोऽर्थः सा वक्रोक्तिरुदाहृता।।६९।। पदवाक्यादिगम्यत्वात् स चार्थो बहुधा मतः। तेन तद्वक्रताऽपीष्टा बहुधैवेति तद्विदः।।७०।। अत्रोच्यतेऽभिधासंज्ञः शब्दस्यार्थप्रकाशने। व्यापार एक एवेष्टो यस्त्वन्योऽर्थस्य सोऽखिलः।।७१।। वाच्यादर्थान्तरं भिन्नं यदि तल्लिङ्गमस्य सः। तन्नान्तरीयकतया निबन्धो ह्यस्य लक्षणम्।।७२।। अभेदे बहुधा न स्यादुक्तेर्मार्गान्तराग्राहात्। तेन ध्वनिवदेषाऽपि वक्रोक्तिरनुमा न किम्।।७३।। इत्यन्तरश्लोकाः। नापि शब्दस्याभिधाव्यतिरेकेण व्यञ्जकत्वं व्यापारान्तरमुपपद्यते, येनार्थान्तरं प्रत्याययेत्, व्यक्तेरनुपपत्तेः, सम्बन्धान्तरस्य चासिद्धेः। तदभावेऽपि तदभ्युपगमे तस्यार्थनियमो न स्यात्, निबन्धनाभावात्। न ह्यस्य गेयत्वस्येव रत्यादिभिर्भावैः स्वाभाविक एव सम्बन्धः सर्वस्यैव तत्प्रतीतिप्रसङ्गात्। नापि समयकृतः व्यञ्जकत्वस्यौपाधिकत्वादुपाधीनां चार्थप्रकरणादिसामग्रीरूपाणामानन्त्यादनियतत्वाच्च प्रतिपदमिव शब्दानुशासनस्य समयस्य कर्तुमशक्यत्वात्। एक एव हि शब्दः सामर्थ्यवैचित्र्याद् विभिन्नानर्थानवगमयति। यथा-
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा! हा! देवि! धीरा भव।। इति। (ध्वन्यालोकः-२.१)
प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तया त्वया कुलजनो धत्ते यथोच्चैः शिरः। व्यर्थं सम्प्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्।। इति। (उत्तररामचरितम्)
हे हस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्। रामस्य पाणिरसि निर्भरगर्भखिन्न- सीताविवासनपटो! करुणा कुतस्ते।। इति। (उत्तररामचरितम्-२.१०)
स्मृत्वा तदेहि सगरं च भगीरथं च
दृष्ट्वाथ वा मम धनुश्च शिलीमुखांश्च। रामे तटान्तवसतौ कुशतल्पशायि- न्नद्यापि नास्ति भगवन्! भवतो व्यपेक्षा।। (बालरामायणम्-७. १८) इत्यादावेक एव रामशब्दः। यथाऽऽह ध्वनिकारः-शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव गमकत्वलक्षणो व्यापारः सामग्र्यन्तरसद्भावादौपाधिकः प्रवर्तते। अत एव च वाचकत्वात् तस्य विशेषः। वाचकत्वं हि शब्दविशेषस्य नियत आत्मा, सङ्केतव्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात्। स त्वनियत औपाधिकत्वात् प्रकरणाद्यवच्छेदेन तस्येतरथात्वप्रतीतेरिति। न चानयोरन्यः सम्बन्धः सम्भवतीति तस्याः सामग्र्या एव सम्बन्धबलात् तद्गमकत्वमुपपन्नं न शब्दस्येति, नार्थपक्षादस्य कश्चिद् विशेष इति व्यर्थस्तत्पक्षोपन्यासः। ननु यदि शब्दस्यार्थनिरपेक्षस्य व्यञ्जकत्वं नेष्यते, तत् कथं प्राप्तमित्यादौ प्रादीनां द्योतकत्वमुक्तम्, न वाचकत्वम्। वाचकत्वे हि हलादित्वात् धातोर्यङादिप्रसङ्गः स्यात्। द्योतकत्वं प्रकाशकत्वं व्यञ्जकत्वं चेत्येक एवार्थ इति? सत्यम्, उक्तमुपचारतो न परमार्थत इति तस्य प्रदीपादिनिष्ठस्य वास्तवस्य शब्दार्थविषयत्वस्य प्रतिक्षेपात्। अथोच्यते-पचत्यादयः क्रियासामान्यवचनाः। सामान्यानि चाशेषविशेषान्तर्भावभाञ्जि भवन्तीति तत्प्रतीतिनान्तरीयकतयैव विशेषसद्भावः सिद्ध एव। यदाहुः-
निर्विशेषं हि सामान्यं भवेच्छशविषाणवत्।। (तन्त्रालोकः-१.२५८) इति केवलमर्थसामर्थ्यसेद्धोऽपि द्योतनमपेक्षत इति तन्मात्रव्यापाराः प्रादयो द्योतका एव भवितुमर्हन्ति न वाचका इति। सत्यम्, किं तु यदप्रतीतौ सामान्यप्रतीतिरेव न पर्यवसति तद्विशेषमात्रं तेभ्यः प्रतीयतां नाम। न तु तावता व्यवहारसिद्धिः काचित्। तस्याः प्रतिनियतविशेषावसायनिबन्धनत्वात्। स त्वपूर्वतया प्रादिभ्य एवोद्भवन्नवधार्यते, न पचत्यादिभ्यः, नार्थादपि तत्सद्भावसिद्धिः काचित्, अस्याः प्रतिनियतविशेषावसायनिबन्धनत्वात्। तस्माद् यत्प्रयोगान्वयव्यतिरेकानुविधायिनी यस्य प्रतीतिस्तयोर्वाच्यवाचकभावव्यवहारविषयत्वमेवोपगन्तुं युक्तम्, नाभिव्यक्तिविषयत्वम्। यथा घटशब्दतदर्थयोः। प्रादिप्रयोगानुविधायिनी तत्र पचतीत्यादौ प्रकर्षादिप्रतीतिरिति तेऽपि तथा भवितुमर्हन्त्येव। अन्यथा नीलोत्पलादौ सर्वस्यैव विशेषणाभिमतस्य नीलादिशब्दस्य विशेषवाचिनश्चोत्पलादेर्विशेषणविशेषभावव्यवहारोऽस्तमुपगच्छेत्। तत्रापि ह्येतच्छक्यं वक्तुम्। उत्पलादयः शब्दाः सामान्यवचनाः। सामान्यानि च गर्भीकृतविशेषाणि भवन्तीति तेषां तत्र सद्भावसिद्धौ सत्यां नीलादिशब्दा अपि तत्तद्योतनमात्रव्यापाराः प्रादिवद् द्योतका भवितुमर्हन्ति नाभिधायका इति। एवं चान्तर्मात्रविपरिवर्तितया सिद्धसद्भावानां घटादीनां घटादिशब्दा अपि द्योतका एव स्युः, न वाचका इति वाच्यवाचकव्यवहारोऽस्तमियात्। तस्माद् भाक्तमेव द्योतकत्वमुपगन्तव्यम्, न मुख्यम्। भक्तेश्च प्रयोजनं वाच्यस्यार्थस्य स्फुटत्वप्रतिपत्तिः। निमित्तं च विशेषणविशेषप्रतीत्योराशुभावितया क्रमानुपलक्षणात् सहभावप्रतीतिः। द्विविधं हि विशेषणमिष्टम्-अन्तरङ्गं बहिरङ्गं चेति। तत्राद्यम्-अव्यवहितमेवार्थकारि, लाक्षादिवत् स्फटिकादेः। द्वितीयम्-उभयरूपम्, अयस्कान्तमिव लोहस्य। तद्धि व्यवहितमपि लोहे स्वां शक्तिमुपदधात्येव। तदपि द्विविधम्-समानाधिकरणं भिन्नाधिकरणं चेति। विशेष्योऽपि द्विविधो धात्वर्थो नामार्थश्चेति। तत्रोपसर्गाणां प्रायो धात्वर्थो विषयो, न नामार्थः। चादीनां तु निपातानामुभयमपि। केवलं तेषां विशेष्यात् पूर्वं पश्चाच्च क्रमेण प्रयोगो नियोगतोऽवगन्तव्यः, नान्येषां विशेषणानाम्। तदेवं विशेषणविशेष्यस्वरूपेऽवसिते यदेतदन्तरङ्गं विशेषणमुक्तं तद् गवादौ गोत्वादिवद् विशेष्यस्वरूपान्तर्भूतमिवेति तत्प्रतीत्योराशुभावितया क्रमानुपलक्षणात् सहभावावगमो द्योत्यद्योतकभावभ्रमहेतुः। अत एव केचिदेषां धात्वन्तर्भावमिव मन्यमानाः-
अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम्। धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः।। (वाक्यपदीयम्-२.१८०) इत्याद्यवोचन्। चादीनां चोपाधीनां विशेष्येभ्यो निर्मलेभ्यः स्फटिकोपलेभ्य इव लाक्षादीनामव्यवधानमेव। तेन ते यदनन्तरमुपाधीयते, तेष्वेव विशेषमाधातुमलम्, नान्यत्रेति। यत्तेषां भिन्नक्रमतया क्वचिदुपादानं तदनुपपन्न्मेव। अयथास्थानविनिवेशिनो हि तेऽर्थान्तरमनभिमतमेव स्वोपरागेणोपरञ्जयेयुः। ततश्च प्रस्तुतार्थस्यासामाञ्जस्यप्रसङ्गः। कथञ्चिद् वा भिन्नक्रमतयाऽप्यभिमतार्थसम्बन्धोपकल्पने प्रस्तुतार्थप्रतीतेर्विघ्नितत्वात् तन्निबन्धने रसास्वादोऽपि विघ्नितः स्यात्, शब्ददोषाणामनौचित्योपगमात् तस्य च रसभङ्गहेतुत्वात्। यथाऽऽहुः-
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्। प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा।। इति। (ध्वन्यालोकः-३.१५)
स्वाभाविकं ध्वनेर्युक्तं व्यञ्जकत्वं न दीपवत्। धूमवत् किन्तु कृतकं सम्बन्धादेरपेक्षणात्।।७४।। प्रादीनां द्योतकत्वं यत् कैश्चिदभ्युपगम्यते। तद् भाक्तमेव तत्रेष्टं न मुख्यं तदसम्भवात्।।७५।। तथा हि यस्य शब्दस्य भावाभावानुसारिणी। यदर्थबुद्धिस्तस्यासौ वाच्योऽर्थ इति कथ्यते।।७६।। गोशब्दस्येव गौरर्थः साऽन्यथा त्वव्यवस्थिता। वाच्यत्वव्यवहारश्च न स्यादर्थस्य कस्यचित्।।७७।। प्रादिप्रयोगानुगमव्यतिरेकानुसारिणी। प्रकर्षादौ मतिस्तेन तस्य तद्वाच्यता न किम्।।७८।। विशेषावगमस्याशुभावादनुपलक्षणात्। क्रमस्य सहभावित्वं भ्रमो भक्तेर्निबन्धनम्।।७९।। विशेषणं तु द्विविधमान्तरं बाह्यमेव च। तत्राव्यवहितं सद् यदर्थकारि तदान्तरम्।।८०।। स्फटिकस्येव लाक्षादि द्वितीयमुभयात्मकम्। आयसस्येव तत्कान्तं तदपि द्विविधं मतम्।।८१।। असमानसमानाधिकरणत्वविभेदतः। विशेष्योऽपि द्विधा ज्ञेयो धातुनामार्थभेदतः।।८२।। शाब्दत्वार्थत्वभेदेन नामार्थोऽपि द्विधा मतः। तत्रोपसर्गाणां प्रायो धात्वर्थो विषयो मतः।।८३।। चादीनां तु निपातानामुभयं परिकीर्तितम्। केवलं तु विशेष्यात् स्युः पूर्वं पश्चाच्च ते क्रमात्।।८४।। विशेषणानामन्येषां पौर्वापर्यमयन्त्रितम्। इत्थं स्थिते स्वरूपेऽस्मिन् विशेषणविशेष्ययोः।।८५।। यदन्तरङ्गमुद्दिष्टमुभयात्मा विशेषणम्। विशेष्ये मग्नमिव तद् गवि गोत्वमिव स्थितम्।।८६।। अत एवाशुभावित्वात् तत्प्रतीत्योः क्रमाग्रहः। यन्मूलश्चायमनयोर्द्योत्यद्योतकताभ्रमः।।८७।। प्रादीनां धातुगर्भत्वोपगमाच्च यदुक्तवान्। अडादीनां व्यवस्थार्थमित्यादि विदुषां वरः।।८८।। अत एव व्यवहितैर्बुधा नेच्छन्ति चादिभिः। सम्बन्धं ते हि शक्तिं स्वामुपदध्युरनन्तरे।।८९।। सान्तरत्वे तु तां शक्तिमन्यत्रैवादधत्यमी। ततश्चार्थासामञ्जस्यादनौचित्यं प्रसज्यते।।९०।। बहिरङ्गान्तरङ्गत्वभेदात् तद् द्विविधं मतम्। तत्र शब्दैकविषयं बहिरङ्गं प्रचक्षते।।९१।। द्वितीयमर्थविषयं तत् त्वाद्यैरेव प्रदर्शितम्। तत्स्वरूपमथोऽस्माभिरिह नाति प्रतन्यते।।९२।। पारम्पर्येण साक्षाच्च तदेतत् प्रतिपद्यते। कवेरजागरूकस्य रसभङ्गनिमित्तताम्।।९३।। यत् त्वेतच्छब्दविषयं बहुधा परिदृश्यते। तस्य प्रक्रमभेदाद्या दोषाः पञ्चैव योनयः।।९४।। तेषां संक्षेपतोऽस्माभिः स्वरूपमभिधास्यते। यस्तु प्रपञ्चः पञ्चानां स्वयं तमवधारयेत्।।९५।। इति सङ्ग्रहश्लोकाः। किं च काव्यस्य स्वरूपं व्युत्पादयितुकामेन मतिमता तल्लक्षणमेव सामान्येनाख्यातव्यम्-यत्र वाच्यप्रतीयमानयोर्गम्यगमकभावसंस्पर्शस्तत् काव्यम्-इति, तावतैव व्युत्पत्तिसिद्धेः। यत् तु तदनाख्यायैव तयोः प्रधानेतरभावकल्पनेन प्रकारद्वयमुक्तं तदप्रयोजकमेव। यो हि यद्विशेषप्रतीतौ निमित्तभावेन निश्चितः स एव तदर्थिनः प्रतिपाद्यो भवति नान्यः, अतिप्रसङ्गात्। यथा-दण्डिप्रतीतौ दण्डः। अनुमेयार्थसंस्पर्शमात्रं चान्वयव्यतिरेकाभ्यां काव्यस्य चारुत्वहेतुर्निश्चितम्। अतस्तदेव वक्तव्यं भवति, न त्वस्य प्राधान्याप्राधान्यकृतो विशेषः। न हि तयोः सामान्यविशेषयोस्त्रिष्वपि वस्तुमात्रादिष्वनुमेयेषु चेतनचमत्कारी कश्चिद्विशेषोऽवगम्यते। तत्र वस्तुमात्रस्य प्राधान्ये यथा- वच्च मह व्विअ एक्काए होन्तु णीसासरोईअव्वाइम्। मा तुज्झ वि तीए विण दक्खिण्णहअस्स जाअन्दु।। इति। [व्रज ममैवेकस्या भवन्तु निश्वासरोदितव्यानि। मा तवापि तया विना दाक्षिण्यहतस्य जनिषत।।] इति। (ध्वन्यालोकः-१.४) तस्यैवाप्राधान्ये यथा- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।। इति। (ध्वन्यालोकः-३.३४) यथा च- अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः । अहो दैवगतिश्चित्रा तथापि न समागमः ।। इति। (ध्वन्यालोकः-१.१३) अलङ्कारस्य प्राधान्ये यथा- वीराण रमइ घुसृणारुणम्मि ण तहा पिआथणुच्छङ्गे। दिठ्ठी रिउगअकुम्भत्थलम्मि जह बहलसिण्डूरे।। इति। [वीराणां रमते दृष्टिः घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे। दृष्टी रिपुजनकुम्भस्थले यथा बहलसिन्दूरे।। ] इति। (ध्वन्यालोकः-२.२७) यथा च- तं ताण सिरिससहोअररअणाहरणम्मि हिअअमेक्करसम्। बिम्बाहरे पिआणं णिपेसिअं कुसुमबाणेन।। इति। [तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम्। बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन।।] इति। (विषमबाणलीला)।। तस्यैवाप्राधान्ये यथा- चन्दमउएहि णिसा णलिणी कमलेहि कुसुमगुच्छेहि लआ। हंसेहि सरअसोहा कव्वकहा सज्जणेहि करइ गुरुई।। इति। [चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता। हंसैः शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वी।।] इति। (ध्वन्यालोकः-२.२७) रसादीनां प्राधान्ये यथा कुमारसम्भवे मधुप्रसङ्गे वसन्तपुष्पाभरणं वहन्त्या देव्या आगमनादिवर्णने मनोभवशरसन्धानपर्यन्ते, शम्भोश्च विवृतधैर्यस्य चेष्टाविशेषवर्णनादौ। तेषामप्राधान्यं शुद्धसङ्कीर्णतादिभेदाद् द्विविधम्।तत्र शुद्धं यथा-
किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिरादृर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः। स्वप्नान्तेष्विति ते वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः।। इति। (ध्वन्यालोकः -२.५) इत्यत्र करुणस्य शुद्धस्यैवाङ्गभावः। सङ्कीर्णरसादावङ्गभूते यथा- क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण। आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः।। इति। (अमरुशतकम्-२) अत्र हि त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्व ईर्ष्याविप्रलम्भस्य श्लेषसहितस्यैवाङ्गभावः। तदेवं प्रकारत्रयेऽप्यनुमेयार्थस्स्पर्श एव काव्यस्य चारुत्वहेतुरित्यवगन्तव्यम्। यदाह ध्वनिकारः- सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम्। तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम्-(ध्वन्यालोकः-३.३६) इति।
मुख्या महाकविगिरामलङ्कृतिभृतामपि। प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम्।। इति। (ध्वन्यालोकः -३.३७) पुनः स एव यथा-
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते। यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्।। इति। (ध्वन्यालोकः -३.३४) सम्भवापेक्षया चास्य ध्वनेः स्वरूपमात्रप्रतिपादनार्थत्वोपगमेऽन्येषामपि तद्वाक्यवर्तिनां पदवर्णसंख्यादीनां तदुपदर्शनप्रसङ्गो विशेषाभावादिति संज्ञासंज्ञिसम्बन्धव्युत्पत्तिमात्रमेतद् पर्यवस्यतीति न काव्यविशेषव्युत्पत्तिफलम्। न चायं प्रधानेतरभावेनोपनिबद्धस्तेषामनुमेयतां प्रतिबध्नाति। तदेवं च नार्थशब्दयोरुपसर्जनीकृतस्वार्थत्वम्, व्यभिचारासम्भवदोषदुष्टत्वात्। न वाच्यप्रतीयमानयोर्व्यङ्ग्यव्यञ्जकभावः, तल्लक्षणाभावात्। न च काव्यविशेषस्य लक्षणकरणम्, प्रयोजनाभावात्। नापि ध्वनिव्यपदेशः, व्यङ्ग्यव्यञ्जकभावाभावादुपपद्यते। इति सर्वमसमञ्जसमिव तल्लक्षणमुपलक्ष्यते।
यदि काव्ये गुणीभूतव्यङ्ग्येऽपीष्टैव चारुता। प्रकर्षशालिनी तर्हि व्यर्थमेवादरो ध्वनौ।।९६।। न हि काव्यात्मभूतस्य ध्वनेस्तत्रास्ति सम्भवः। तेन निर्जीवतैवास्य स्यात् प्रकर्षे कथैव का।।९७।। अतोऽतदात्मभूतस्य येऽभावं जगदुर्ध्वनेः। ते मुधैव प्रतिक्षिप्ताः स्वोक्तिभावमपश्यता।।९८।। अथेष्यते स तत्रापि रसादिव्यक्त्यपेक्षया। काव्यमेवान्यथा न स्याद् रसात्मकमिदं यतः।।९९।। इत्थञ्च गम्यमानार्थस्पर्शमात्रमलङ्कृतिः। वाच्यस्येत्येतदुक्तं स्यान्मता सैवानुमा ततः।।१००।। इति सङ्ग्रहश्लोकाः। किं च यदविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति ध्वनेः प्रकारद्वयमुक्तम्, तत्र किमिदमविवक्षितत्वं नाम? इति तात्पर्यतोऽस्यार्थो वक्तव्यः। किमविवक्षितत्वम्? अनुपादेयत्वम्, उतान्यपरत्वम्? अनुपादेयत्वं च किं सर्वात्मना, अंशेन वा? सर्वात्मनाऽनुपादेयत्वे व्यञ्जकत्वमप्यस्यानुपादेयम्, तस्य तदाश्रितत्वात्। ततश्च प्रयोग एवास्य दुष्टः स्याद्, यथाऽन्यस्य पुनरुक्तादेः। अथांशेनेत्युच्यते, वक्तव्यस्तर्ह्यसावंशः। स च निरूप्यमाणः स्वाप्राधान्य एव पर्यवसति। ततश्चाविवक्षितत्वमन्यपरत्वमुपसर्जनीकृतात्मत्वं चेत्येक एवार्थ इत्यनया भङ्ग्या स्वरूपमेव ध्वनेरुक्तं भवति, न तु तस्य प्रकारभेदः। यस्य हि यल्लक्षणानुगमे सत्यवान्तरविशेषसंस्पर्शः स तस्य प्रकार इत्युच्यते, यथा-गोत्वस्य शाबलेयत्वादि, न तु तस्यैव स एव प्रकारो भवितुमर्हति, तदनवस्थाप्रसङ्गात्। न चात्र विशेषसंस्पर्शः कश्चित्, इति कथमस्य ध्वनिप्रकारत्वोक्तिर्युक्तिमती? किं चेदं विवक्षितान्यपरवाच्यत्वं नाम न बुद्ध्यामहे। यदि विवक्षितत्वं नाम प्रधानमुच्यते, तत् कथं तस्यान्यपरत्वं घटते? अन्यपरत्वं ह्यन्यस्याङ्गभावो भण्यते। यस्य चाङ्गभावः स कथं तदैव विवक्षितत्वात् प्राधान्यमनुभवेत्? इति यद् वाच्यस्य विवक्षितत्वमन्यपरत्वं चोपगतं तद् विप्रतिषिद्धम्, विवक्षितान्यपरत्वयोर्विरोधात्। एकाश्रयत्वेन हि प्राधान्येतरयोगित्वं विशेषणाभिमतार्थविषयमेव सङ्गच्छते, नान्यविषयम्। तदेव हि विशेष्यस्योत्कर्षाधाननिबन्धनभावेन विवक्षितत्वात् प्राधान्यम्। उपाधिभावाच्च वास्तवादप्राधान्यमनुभवितुमलम्। यथा-
हे हस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्। रामस्य पाणिरसि निर्भरगर्भखिन्न- सीताविवासनपटो! करुणा कुतस्ते।। इति। (उत्तररामचरितम्) इत्युक्तम्। किं चास्य विवक्षितान्यपरवाच्यस्य ध्वनिप्रभेदत्वेऽभ्युपगम्यमाने वाच्यस्यान्यपरत्वमनुपादेयमेव तस्य तत्प्रभेदत्वादेव सिद्धेः। अन्यपरत्वं ह्युपसर्जनीकृतार्थत्वम्। तच्च ध्वनेः सामान्यं रूपमुक्तमेव। यथाऽत्र तदुपादीयते, पूर्वत्रापि तदुपादीयताम्, उभयत्रापि वा मोपादायि, उभयोरपि तत्प्रकारत्वाविशेषात्। किं चार्थान्तरसङ्क्रमितवाच्यस्य यदुदाहरणं तदग्निर्माणवक इतिवद् गुणवृत्तेरेव सङ्गच्छते, तस्य गुणवृत्तिप्रकारत्वसमर्थनात्। तथा हि प्रसिद्धान्यूनानतिरिक्तभावस्यान्यस्य साधर्म्यप्रतिपत्त्यर्थमन्यत्रारोप उपचारः। स चायमारोप्यारोपकभावात्मकतयोभयार्थविषयो वेदितव्यः। ततश्च यदैक एवार्थ एकशब्दाभिधेयः सामान्यविशेषांशपरिकल्पनेनोभयरूपोऽस्य विषयभावं भजते, तदाऽर्थप्रकरणाद्यध्यवसितोत्कर्षापकर्षो विशेषांश एव समारोपितस्तत्र साधर्म्यावगतिहेतुर्भवति यथा-तदमृतममृतं स इन्दुरिन्दुः-इति। न तु सामान्यांशः, विशेषस्य सामान्याव्यभिचारात्। अर्थान्तरसंक्रमितवाच्योऽप्यनुमान एवान्तर्भवति। रामादिशब्दा हि प्रकरणाद्यवसितोत्कर्षापकर्षलक्षणधर्मविशिष्टं संज्ञिनं प्रत्याययन्ति, न संज्ञिमात्रम्। अर्थान्तरं यदनुमितं धर्मरूपम्, तत्र संक्रमितमाश्रयभावेन परिणतं वाच्यमस्येति कृत्वा द्विविधो ह्यनुमेयोऽर्थः-धर्मरूपो धर्मिरूपश्चेति। तत्राद्योऽस्य विषयः, तस्यैव वाच्यार्थनिष्ठतया प्रतीतेः। अन्यस्त्वन्यस्य यथा-अग्निरत्र धूमादिति। ततो धर्मविशेषप्रतिपत्तौ प्रकरणादिरेव हेतुतयाऽवगन्तव्यः, न रामादिशब्दा इति। अत्यन्ततिरस्कृतवाच्यस्तु पदार्थोपचार एव। यथा-गौर्वाहीकः-इति। तस्याप्यनुमानान्तर्भावः समर्थित एव। शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यस्तु न सम्भवत्येव। शब्दस्याभिधाशक्तिव्यतिरेकेण शक्त्यन्तरानभ्युपगमादित्येतदुक्तम्, वक्ष्यते च।
नाविवक्षितवाच्यस्य ध्वनेर्युक्ता प्रकारता। न हि प्रकारस्तस्यैव स एवेत्युपपद्यते।।१०१।। भक्तिः पदार्थवाक्यार्थरूपत्वाद् द्विविधा मता। तद्बुद्धिश्चानुमानान्तर्भूता यदुपपादिता।।१०२।। तत् तिरस्कृतवाच्यस्य ध्वनेर्भक्तेश्च का भिदा। द्वितीयोऽपि प्रकारो यः सोऽपि सङ्गच्छते कथम्।।१०३।। परस्परविरुद्धत्वाद् विवक्षा तत्परत्वयोः। यः शब्दशक्तिमूलोऽन्यः प्रभेदो वर्णितो ध्वनेः।।१०४।। सोऽयुक्तोऽन्यत एवासौ तत्रेष्टार्थान्तरे मतिः। शब्दे शक्त्यन्तराभावस्यासकृत् प्रतिपादनात्।।१०५।। इति सङ्ग्रहश्लोकाः।
इति श्रीराजानकमहिमभट्टविरचिते व्यक्तिविवेकाख्ये काव्यालङ्कारे ध्वनिलक्षणाक्षेपो नाम प्रथमो विमर्शः।