← प्रथमः भागः व्योमवती
द्वितीयः भागः
[[लेखकः :|]]
तृतीयः भागः →

।। ऊँ ।।
षट्पदार्थसाधर्म्यम्
षण्मामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि। आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः।
अथ अव्यतिरेकेऽस्तित्वादीनां पदार्थान्तर्भावात् तद्‌विशेषेऽपि साधर्म्यरूपतया परिज्ञानार्थमाह * षण्णामपि पदार्थानाम् * । अस्तित्वञ्चाभिधेयत्वञ्च ज्ञेयत्वञ्चेति समाहारद्वन्द्वः। न परमस्तित्वादयः षण्णां धर्मास्तथाश्रितत्वञ्चेति। तस्य नित्येष्वसम्भवाद् अव्यापकत्वेन पृथगभिधानमित्याह * आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः * इति।
अथाव्यतिरेकेऽस्तित्वादीनां क्वान्तर्भाव इति चेत्, शब्दव्यवहारस्य विवक्षिततत्वादस्तेः शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव, येन सताऽस्तीत्यभिधानं प्रवर्त्तत इति। ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपं सत्त्वं वा लभ्यते। तत्सद्भावे द्रव्यादिष्वस्तीतिज्ञानदर्शनात्। अस्ति चायम् अस्ति शब्दो ज्ञाने, तद्विषयेऽभिधाने चेति।
तथा अभिधेयस्य च भावोऽभिधेयत्वम्, अभधेय इति ज्ञानमेव। तेन सता अभिधेयोऽयमर्थ इति शाब्दव्यवहारदर्शनात्। तच्चभिधानजनितं ज्ञानमर्थ इति।
तथा ज्ञेयस्य भावो ज्ञेयत्वं ज्ञेयमिति ज्ञानमेव। तेन सता ज्ञेयमिति शाब्दव्यवहारदर्शनात्। तच्च ज्ञानेन विशेषणेन जनितं ज्ञानमर्थं इति।
तथा आश्रितानां भाव आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः। सा च आकाशादिषु न, तेषामाश्रयाभावात्। न च आश्रयाश्रयिभावस्य समवायरूपतायां समवायेऽसम्भवात्, न षट्पदार्थव्यापित्वम्। अथ पञ्चानां समवायलक्षणा वृत्तिराश्रितत्वम्, समवायस्तु स्वात्मवृत्तिरिति चेत्, एवं तर्हि पञअचानां समवायित्वमिति पुनरुक्तं स्यात्। तथाहि, समवायित्वं समवायलक्षणा वृत्तिः सा च पञ्चानामाश्रितत्वपदेनोक्तेति आश्रितत्वपदेन आश्रितत्वोपलक्षितस्येहाभिधानाददोषः।
अथ व्यतिरिक्तस्य निमित्तस्यासम्भवात् समवाये भावप्रत्ययः कथम्, आश्रितस्य समवायस्य भाव आश्रितत्वमिति ? नैतदेवम्। समवायस्य वृत्तिरूपतया वृत्तिमदाश्रितत्वोपलब्धेर्वृत्त्यन्तरकल्पनायामनवस्था स्यादित्युपचरिता वृत्तिरिष्यते। सा च अन्यनिमित्तस्यासम्भवादाश्रितत्वज्ञानहेतुः समवाये वृत्तिविशेष एव। आत्मवृत्तित्वे तु समवायस्य स्वयं वृत्तिरूपत्वाद् वृत्त्यन्तरं नापेक्षितमित्युपगमेनाश्रितत्वमेव।।
अव्यतिरेके हि आश्रयाश्रयिव्यवहारासम्भवादतः समानलक्षणवृत्तिप्रतिषेध एवेति वक्ष्यामः समवायपरीक्षायामित्यलम्।।
पञ्चपदार्थसाधर्म्यम्
द्रव्यादीनां पञ्चनामपि साधर्म्यं समवायित्वमनेकत्वञ्च।
इदानीं समवापरित्यागेन पञ्चानां साधर्म्यमाह * द्रव्यादीनाम् * इत्यादिना। द्रव्यमादिर्येषां ते द्रव्यादयस्तेषाम्। न ज्ञायते कियतामित्याह * पञ्चानामपि साधर्म्यं समवायित्वमनेकत्वञ्च * इति। समवायो विद्यते येषां ते समवायिस्तेषां भावः समवायित्वं समवायलक्षणा वृत्तिरिति। अनेकत्वञ्च समानलक्षणयोगित्वे सति व्यक्तिभेदोऽनेकत्वसंख्या वोपचरिता। समवाये तु समानलक्षणयोगिनि न व्यक्तिभेदो नाप्यनेकत्वसंख्येति।
गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे।
इदानीं द्रव्यपरित्यागेन साधर्म्य दर्शयति [* गुणादीनाम् *] गुण आदिर्येषां ते तथोक्तास्तेषाम्। न ज्ञायते कियतामतः *पञ्चानामपि * साधर्म्यं निर्गुणत्वञ्च निष्क्रियत्वञ्चेति * निर्गुणत्वनिष्क्रियत्वे *। निर्गता गुणा येभ्यस्ते निर्गुणास्तेषां भावो निर्गुणत्वं गुणाभावः।
अथ अभावस्याभावतया धर्मत्वाभाव इति चेत्, न। विशेषणत्वेन तदुपपत्तेः। तथाहि, गुणाभावेन सता गुणादिषु अन्वयव्यतिरेकाभ्यां निर्गुण इति व्यवहारदर्शनाद् ज्ञायते गुणाभावस्य विशेषणत्वेन धर्मत्वमिति। स च पञअचसु समानत्वात् साधर्म्यमिति।
षडेव पदार्था इत्यवधारणञ्च भावविषयमित्यभावस्य व्यतिरेकेऽपि न दोषः। आश्रितस्य धर्मत्वेऽपि समवेत एव धर्म इति नियमानभ्युपगमाच्चेति।
निष्क्रियत्वन्तु निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियास्तेषां भावो निष्क्रियत्वम् क्रियाभावः साधर्म्यम्। तेन सता निष्क्रिया इति व्यवहारदर्शनात्।।
अन्ये तु गुणाभावोपलक्षितः समवायो निर्गुणत्वम्, क्रियाभावोपलक्षितश्च निष्क्रियत्वमिति मन्यन्ते। तच्चासत्। समवाये धर्मि [ णि] समवायान्तरस्यासम्भवान्निर्गुणव्यवहारो न स्यात्। अभेदे हि धर्मधर्मिव्यवहाराद्रशनात्।।
पदार्थत्रयसाधर्म्यम्
द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः, सामान्यविशेषवत्त्वं स्वसमायार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वञ्च।
द्रव्यादित्रयस्य साधर्म्यमाह [* द्रव्यादीनाम् *] द्रव्यमादिर्येषां तानि द्रव्यादीनि, तेषाम्। न ज्ञायते कियतामित्यतः * त्रयाणामपि सत्तासम्बन्धः * साधर्म्यम्। सत्तायाः सम्बन्धः सत्तोपलक्षितः समवाय इति।।
सदसत्‌प्रत्ययजनन्यां सत्तायां शङ्कासमाधाने
ननु द्रवादिषु सत्तायाः सद्भावे किं प्रमाणम् ? सद्‌द्रव्यं सद्‌ग्रव्यं सद्गुणः सत्कर्मेति प्रत्यय एव। तथाहि, सदितिज्ञानं विशिष्टज्ञानत्वान्नर्ते विशेषणाद् भवतीति सत्तासद्भावः।।
नन्वेवं तर्हि त्रयाणामित्ययुक्तं सामान्यादिषअवपि सत्सदिति ज्ञानोत्पत्तेः। तथाहि, सत् सामान्यम्, सतो विशेषाः, सन् समवाय इत्यपि विशिष्टज्ञानदर्शनाद् वाच्यः सत्तासम्बन्ध इति।
अथ स्वात्मसत्त्वात् सामान्यादिषु सत्सदिति ज्ञानमिति चेत्, एवं तर्हि द्रव्यादिष्वपि तदेवास्तु किं सत्तया ? न च सत्सदिति ज्ञानस्य वैलक्षण्यं विना निमित्तद्वयसन्निकर्षोद्भावेन प्रमाणमस्तीति सत्ता स्वरूपसत्त्वं वा सर्वत्राभ्युपेयम्। तथाहि, द्रव्यादिषु, सत्‌सदिति ज्ञानं स्वात्मसत्त्वाद् भवति, तत्सदिति ज्ञानत्वात्, सामान्यादिषु सत्सदिति ज्ञानवत्।
यद् वा सामान्यादिषु सत्सदिति ज्ञानम्, सत्ताकार्यम्, सत्सदिति ज्ञानत्वात्, द्रव्यादिषु सत्सदिति ज्ञानवद् इत्येतदसत्, सामान्यादिषु सत्तासम्बन्धे बाधकोपपत्तेः। तथाहि, सामान्ये सत्तासम्बन्धकल्पनायां सत्तायामपि सत्सदितिज्ञानदर्शनाद् अन्यः सत्तासम्बन्धस्तत्रापि इत्यनवस्था।।
विशेषेषु च सत्तासम्बन्धित्वात् संशयोपपत्तौ निर्णयार्थमन्यो विशेषस्तत्रापि अन्यः सत्तासम्बन्ध इति संशयविषयत्वान्निर्णयार्थमन्यो विशेष इति संशयनिर्णयविशेषानवस्था अत्र प्रसज्येत।।
समवाये च सत्ताया वृत्त्यभाव इति बाधकोपपत्तेर्न सामान्यादिषु सत्तासम्बन्ध इति।।
ननु स्वरूपसत्त्वेऽपि समानमेतत्। तथाहि, यद्येकं स्वरूपसत्त्वं सामान्यादिषु तत्रापि सत्तावदनवस्थानादिदोषः। अथ प्रतिपदार्थनियतम्, तस्य व्यावृत्तरूपतायां सत्सदिति ज्ञानजनकत्वं न स्यात्, अस्य हि अनुगतत्वात्। न। अन्यथा तदुपपत्तेः। तथाहि, सामान्यादिषु सत्तासमवाये बाधकोपपत्तेः सत्सदिति ज्ञानमुपचरितम्। उपचारश्च प्रवर्त्तमानो निमित्तमपेक्षये इति स्वात्मना साधारणधर्मेणोपचारनिमित्तेन सत्तावत्त्वं सतस्दिति प्रत्ययजनकत्वम्, यत्र हि सत्ता साधारणधर्मो दृष्ट इति तदुपलम्भात् सत्ताध्यारोपः प्रवर्त्तत एवेति। सामान्यादिषुप सत्सदिति ज्ञानस्यान्यथापि भावादन्यथा सिद्धो हेतुरिति। न च द्रव्यादिषु सत्सदिति ज्ञानस्यासाधारणधर्मादेवोत्पत्तिरिति वाच्यम्। मुख्ये बाधकासम्भवात्। न च मुख्यं विना क्ववचिदुपचारो दृष्ट इति द्रव्यादिषु सत्तासमवायादेव सत्सदिति ज्ञानं दृष्टमिति सिद्धम्।
अन्ये तु सत्सदिति ज्ञानस्य सत्ताविशेषणजनितत्वादेकत्र समवेतत्वेन विशेषणमन्यत्र विशेषणविशेष्यभावेन इत्युभयत्रापि मुख्यतां ब्रुवते। तथाहि, न संयोगसमवायायत्तो विशेषणविशेष्यभावः, अभावे तदभावप्रसङ्गात्। अथ विशिष्टज्ञानप्रतिबन्धो यत्र हि विशिष्टज्ञानं तत्र विशेषणविशेष्यभावः। तत्र हि सामान्यादिष्वपि सत्सदितिविशिष्टज्ञानोत्पत्तेर्विशेषणविशेष्यभाव एव सम्बन्ध इत्युभयत्रापि मुख्यं सत्सदिति ज्ञानम्।।
एतच्चासत्। यत्र हि गुणकर्मसामान्यानां विशेषणत्वम् उभयाभिमतं तत्र तत्र समवायेनेति दृष्टम्। सामान्यादिषु सत्तायाः समवायस्य व्यापकस्य व्यावृत्तेर्विशेषणत्वस्य व्याप्यस्य व्यावृत्तिरिति केवलं तत्सहचरितधर्मोपलब्धेः सत्ताध्यारोप इति युक्तम्। अन्यथा हि सर्वत्र गौणप्रत्ययोच्छेदो मिथ्याज्ञानस्य चेति। तथाहि, सिंहो माणवक इति माणवकेऽपि सिंहत्वं विशेषणम्, सिंह इवेति मुख्यमेव ज्ञानं स्यात्। तथा शुक्तिकायां रजतमिति ज्ञाने रजत इव रजतत्वं विशेषणमिति मिथ्यात्वं न स्यात्। अस्ति च मिथ्यज्ञानमिति प्रवक्ष्यामस्तदधिकारे।।
अथ सिंहत्वायोगिनि माणवके तत्सहचरितधर्मोपलम्भात् सिंहत्वाध्यारोपेणोत्पादात् गौणत्वम्। तथा शुक्तिकायां रजतसाधर्म्ये उपलब्धे रजतत्वाध्यारोपेणोत्पादान्मिथ्यात्वमिति चेत्, कथमेतत् ? माणवके सिंहत्वस्य समवायेनानुभवाभावात्। तथा शुक्तिकायां रजतत्वस्य समवायेनानुभवाभावात्। अतः समर्यमाणस्याध्यारोपेण सिंहत्वस्य माणवके व्यापारस्तथा रजतत्वस्य शुक्तिकायामिति प्रयुक्तं गौणत्वं मिथ्यात्वञ्चेति। तर्हि सामान्यादिषु सत्ताध्यारोपेण सत्सदिति ज्ञानं न्याय्यं सत्तासमवाये बाधकोपपत्तेरिति। नन्विवार्थस्य सामान्यादौ सत्सदिति ज्ञानेऽप्रतिभासनादुपचारः कथम् ? यत्र हि इवार्थः प्रथते तदुपचरितं ज्ञानम्, अन्यथा हि अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेष एव स्यात्। नैतदेवम्। सिंहत्वायोगिनं पुरुषं प्रतिपद्यमानोऽपि सिंहोऽयमिति प्रतिपद्यते। न चैवं रजतत्वायोगिनीं शुक्तिकां प्रतिपद्यमानो रजतमिति प्रत्येति। तथा च मिथ्याज्ञाने पश्चाद् बाधकं वेद्यमिति। गौणज्ञाने तु पूर्वमपि बाधकमस्त्येव, केवलस्तु शौर्यख्यापनाय माणवकं सिंह इति व्यवहरन्ति। मिथ्याज्ञाने तु अतस्मिंस्तदेवेदमिति मन्यन्ते। अस्ति च सामान्यादौ सत्सदिति ज्ञानम्, न चास्य बाधकं कालत्रयेऽपि इत्यत्र शेषमूह्यम्।।
अथास्तु सामान्यादावुपचरितं द्रव्यत्वादौ मुख्यं सत्सदिति ज्ञानम्, सत्तासम्बन्धस्तु विकल्पते। किं सत्ता सताम् अथासतामिति ? यदि सताम्, अथ सत्तासम्बन्धात्पूर्वं सत्त्वम्, सत्तासम्बन्धेन विना चेति। सत्तासम्बनधाभ्युपगमे तत्राप्ययं विकल्प इत्यनवस्था। विनेति चेत्। किं सत्तया ? अयासतां सत्तासम्बन्धात् सत्त्वमित्यपारमार्थिकं तर्हि सत्त्वम्, उपाध्यपेक्षितत्वात्। यदि चासतां सत्तासम्बन्धेन सत्त्वम्, खरविषाणादीनामपि सत्त्वं स्यादसत्त्वाविशेषात्। तथा सत्तायाश्चासत्त्वे तद्योगान्न द्रव्यादिषु सत्त्वं स्यात्।स्वरूपेण च सत्त्वे द्रव्यादिषु तथाभावप्रसङ्गः सत्तासम्बन्धेन चानवस्थेति।।
अतोऽर्थक्रियाकारित्वेन सत्त्वमिति शक्या मन्यन्ते।
वर्त्तमानकालसम्बन्धित्वेनेत्यपरे।।
तत्र यत्तदवोचाम्, किं सतां सत्तासम्बन्धात् सत्त्वम् ? अथ असतामिति ? तदसत्। निष्पादसम्बन्धयोरेककालत्वात्। तथाहि, पदार्थानां स्वकारणसत्तासम्बन्ध एवोत्पत्तिः। न पूर्वं सत्त्वम्, सत्कार्यवादप्रतिषेधात्। न चासतां स्वकारणसत्तासम्बन्धाभ्युपगमे खरविषणादिषु तथाभावप्रसङ्गः, तदुत्पत्तिकारणभावस्य तदभावेनैव निश्चयात्। नित्येषु पूर्वापरभावानुपपत्तेर्विकल्पानुपपत्तिः।।
न च अपारमार्थिकं सत्त्वम्, सत्तासम्बन्धस्य परमार्थत्वात्। न च स्फटिकादौ चक्रादि [? जपादि] रूपमिव औपाधिकं द्रव्यादिषु सत्त्वम्, सत्तायास्तत्र समवायात्। उपाधिश्चोपाधीयमानः समवेतो वा, क्वचित् समवेतरूपतिरोधायकश्च। तथाहि, स्फटिकादिरूपे रक्तादिद्रव्यसान्निध्यात् तिरोहिते रक्तः स्फटिक इति प्रत्ययस्य भावाद् युक्तमौपाधिकत्वम्। न चैवं सत्ता द्रव्यादिस्वरूपं तिरोधायात्मानं प्रकाशयति, द्रव्यत्वादेरपि प्रतिभासनात्। नाप्यसमवेता, तत्र समवायोपलब्धेः।।
नन्वेवं द्रव्यत्वादेर्व्यतिरेके तर्हि स्वरूपासम्भवाद् द्रव्यादेरप्यदृश्यताप्रसङ्गः। तन्न द्रव्यत्वादेरेव द्रव्यादिष्वसाधारणत्वात्। तथाहि, दर्व्ये द्रव्यत्वेन द्रव्यमिति व्यपदेशो गुणादौ च गुणत्वादिनेति व्यतिरेताविशेषेऽपि द्रव्येष्वेव द्रव्यत्वं समवेतमिति तत्रैव व्यवहारहेतुर्न गुणादौ। एवं गुणत्वादावपि नियतधर्मिसमवायित्वं नियामकमिति वाच्यम्। समवायस्तु व्यतिरेकेऽपि समवाय्याधारतयावभासत इति समवायिव्यवहारहेतुरिति। अव्यतिरेके तु द्रव्यत्वादिरूपाणामेकधर्मितादात्म्येनाभेदाद् विभिन्नव्यवहारहेतुत्वं न स्यात्। भेदे वा धर्मिणस्तथाभावो विपर्यये तादात्म्यविरहात्।।
न च द्रव्यादिज्ञानस्य कल्पनात्वमिति वाच्यम्, अर्थक्रियान्वयव्यतिरेकानुविधायिनः कल्पनात्वेतिऽप्रसङ्गाद् इति सिद्धं द्रव्यादिषु सत्तासम्बन्धात् सत्सदिति ज्ञानम्।।
अर्थक्रियाकारित्वेन सत्ताभ्युपगमे समानञ्चैतद् दूषणम्। किं सतामर्थक्रियाकारित्वम् ? अथ असतामिति ? सतामर्थक्रियाकारित्वे सत्ताभ्युपगमे तथा दुरुत्तरमितरेतराश्रयत्वम्। तथा ह्यर्थक्रियाजनकत्वेन सत्त्वम्, सतश्चार्थक्रियाजनकत्वमित्येकाप्रसिद्धावितराप्रसिद्धिरिति। अथ अर्थक्रियामन्तरेण सतोऽर्थक्रियाजनकत्वं तत्राप्ययं विकल्प इत्यनवस्था। असत एवार्थक्रियाजनकत्वे खरविषणादिषु तथाभावः स्यात्। अर्थक्रियायाश्च अर्थक्रियान्तरेण सत्त्वेऽनवस्था। अथ स्वरूपेणेति चेत्, पदार्थेषु तथाभावप्रसङ्गः।।
एतेन वर्त्तमानकालसम्बन्धित्वेन सत्त्वं प्रत्युक्तम्।।
अथ अर्थक्रियासामर्थ्यं सत्त्वम्। तस्यानेकपदार्थव्यापित्वेन सत्सदितिज्ञानजनकत्वे संज्ञाभेदमात्रम्। अव्यापित्वे त्वनुगतज्ञानजनकत्वं न स्यात्। तथा अर्थक्रियाजनकत्वे अर्थक्रियासमर्थ इति व्यवहारो न सत्सदिति, विलक्षणत्वादित्यलम्।।
अतः स्थितमेतद् द्रव्यादीनां सत्तासम्बन्ध इति।
तथा सामान्यमेव द्रव्यव्यावृत्तिहेतुत्वाद् विशेषो द्रव्यत्वादि, स विद्यते येषां तानि सामान्यविशेषवन्ति, तेषां भावः सामान्यविशेषवत्त्वम्। समवेतः सामान्यविशेषस्तदुपलक्षितो वा समवायः। तेन सता सामान्यविशेषवद् द्रव्यमित्यादि व्यवहारदर्शनात्।।
तथा स्वसमये स्वशास्त्रे अर्थशब्देनाभिधीयन्त इति स्वसमयार्थशब्दाभिधेयानि, तेषां भावः * स्वसमयार्थशब्दाभिधेयत्वम् * वाच्यवाचकालम्बनं ज्ञानमेव साधर्म्यम्। अर्थसंज्ञाकरणे च प्रयोजनं श्रोत्रग्राह्योऽर्थः शब्द इति (वै. सू. 2।2।21) । तथाहि, श्रोत्रग्राह्यत्वाच्छब्द इत्युक्ते शब्दत्वादिभिर्व्यभिचारः, तन्निरासायर्थग्रहणम्। अर्थस्तु द्रव्यगुणकर्मात्मापि भवति। न च श्रोत्रग्राह्य इत्येतत्समुदितं शब्दस्य लक्षणम्।
तथा धर्माधर्मौ कुर्वन्तीति धर्माधर्मकर्तॄणि तेषां धर्माधर्मकर्त्तृत्वम्। तच्च द्रव्यादीनामात्मीयं रूपं सहकारिविशेषश्च। तथा च द्रव्यमात्मा धर्माधर्मयोः समवायिकारणम्। सुवर्णाद्रिद्रव्यञ्च दानापहरणाभ्यां निमित्तकारणमिति। तथात्मान्तः करणसंयोगोऽसमवायिकारणम्। शुद्धाभिसन्धिर्दुष्टाभिसन्धइश्च निमित्तकारणम्। एवं गीतिविशेषो नृत्तविशेषश्च यथासम्भवं निमित्तमिति। शएषमूह्यम्। ननु सुवर्णादिद्रव्यवज्जातिरप्यदृष्टकारणम्। अस्तु वा उपलक्षणेन चरितार्थत्वात्।।
कार्यत्वानित्यत्वे कारणवतामेव।
कार्यत्वञअचानित्यत्वञअच कार्यत्वानित्यत्वे, द्रव्यादीनां त्रयाणामपि। यदि नाम कारणं विद्यते येषां तानि कारणवन्ति तेषामेव, पूर्वधर्मस्तु सर्वेषामिति लभ्यते। सापवादत्वाविशेषेऽपि कारणवत्त्वपदेनासमासकरणमनयोः साहचर्यज्ञापनार्थम्।।
यद् वा कारणवतामकारणवताञ्च कारणवतामित्यसमासकरणम्।
कार्यत्वपदार्थविचारः।
अथ किमिदं कार्यत्वं नामेति ? स्वकारणसत्तासम्बन्धः, तेन सता कार्यमिति व्यवहारात्।।
अभूत्वा भवनमित्येके। अत्राप्यभूत्वा पश्चाद् भवनं स्वकारणैः सत्तया च सम्बन्ध एवेति।।
अनित्यत्वपदार्थविचारः
अनित्यत्वन्तु प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुसत्ता। अथ वस्तुसत्ताकाले प्रागभावप्रध्वंसाभावयोरभावात् कथमुपलक्षणत्वम् ? न च अनित्यव्यवहारे सत्ता विशेषणम्, विलक्षणत्वात्। तथाहि, सत्ताविशेषणं सत्सदिति ज्ञानमेव, ज्ञानान्तरे तु सत्ताया विशेषणत्वे सर्वत्र सत्तैव विशेषणं स्यादित्यतिप्रसङ्गः।
तस्माद् यद् भूत्वा न भवति, आत्मानं जहाति, तदनित्यमिति केचित्। तदप्यसत्। विनाशस्य व्सतुकासेऽसम्भवित्वेन विशेषणत्वायोगात्। अथाविद्यमानोऽपि विनाशोऽनुमीयमानो भवत्युपलक्षणमिति चेत्, तथापि विनष्ट इति स्यात्, न अनित्यमिति ? न। पर्यायत्वात्। तथाहि, अनित्या विषया विनाशिन इति व्यवहारः। यदि च अनित्यज्ञानेऽन्यन्निमित्तं न स्यात् प्रतिपद्येमह्युभयान्तोपलक्षिता सत्ता विशेषणमिति। यथा अनुत्पत्तिविनाशयोरविद्यमानयोरपि कस्यचिद् भङ्ग्या सत्तोपलक्षणत्वम्, तथा वस्तूपलक्षणतायामपि न किञअचिद् बाधकमस्तीति। तथाहि, प्रागभावः स्मर्यमाणः प्रध्वसाभावश्चानुमीयमानो वस्तूपलक्षणमिति।।
अथविनाशानुत्पत्तिरनुत्पत्तिविनाशश्च विद्यमानत्वात् सत्ताविशेषणमिति चेत्, परमार्थस्य विशेषणत्वं तयोः कल्प्यतां किमतिप्रयासेन। अथानित्यज्ञानमभावानुरक्तं न भवतीति विशिष्टसत्ता विशेषणमुपकल्प्यते ? न। सत्तानुरागस्यानुपलब्धेः। केवलमनित्यत्वानुरक्तमनित्यमिति ज्ञानमुत्पद्यते।
अनित्यत्वन्तु प्रागभावप्ध्वंसभावोपलक्षिता वस्तुनः सत्तेति उद्योतकरकल्पनायां (न्या0 वा0 2।2।13) कल्पनागौरवं स्यादिति। प्रध्वंस एवानित्यत्वमितीष्टं भाष्यकारणेति।।
प्रकृतेषु परिगणितानां न समवाय्यसमवायित्वम्
कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्यः।
तथा कारणानां भावः कारणत्वम्। कारणत्वञ्च समवाय्यसमवायिकारणत्वम्, समवायिनोऽसमवायिनश्चात्मीयं स्वरूपम्, न निमित्तकारणत्वं सामान्यादिष्वपि भावात्। तच्च प्रतिनियतमप्यविवक्षितविशेषं साधर्म्यम्। तत् किं सर्वेषामित्यत आह * अन्यत्र पारिमाण्डल्यादिभ्यः * इति। पारिमाण्डल्यम्, परमाणुपरिमाणम्। तच्च द्व्यणुकाणुपरिमाणोत्पत्तावकारणमिति वक्ष्यामः परिमाणावसरे। आदिपदेन आकाशादिविभुद्रव्यम्, अन्त्यः शब्दः परत्वापरत्वपृथक्‌त्वाद्यकारणमिति।।
प्रकृतेषु नित्यद्रव्यातिरिक्तानांसाधर्म्यम्
द्रव्याश्रितत्वञअचान्यत्र नित्यद्रव्येभ्यः।
न च परं पूर्वसाधर्म्यम्। द्रव्याश्रितानां भावो द्व्याश्रितत्वम्। तच्चान्यत्र नित्यद्रव्येभ्यस्तेषामाश्रयाभावात्। यद्यपि षण्णामाश्रितत्वाभिधानेन द्रव्यादीनामाश्रितत्वमुक्तं तथापि द्रव्योपलक्षितस्येहाभिधानादपुनरुक्तमिति।।
सामान्यादित्रितयसाधर्म्यम्
सामान्यादीनां त्रयाणां स्वात्मसत्त्वम्, बुद्धिलक्षणत्वम्, अकार्यत्वम्, अकारणत्वम्, असामान्यविशेषवत्त्वम्, नित्यत्वम्, अर्थशब्दाभिधेयत्वञ्चेति।
इदानीं सामान्यादीनां नैकस्य द्वयोर्वा किं तर्हि ? त्रयाणामपि साधर्म्यम्। स्वात्मना साधारणधर्मेणोपचारनिमित्तेन सत्त्वं सत्सदिति प्रत्ययजनकत्वम्, मुखअये ह्यनवस्थादिबाधकोपपत्तेः।
अन्ये तु स्वात्मसत्त्वं सतानाधिकरणानां सत्सदितिप्रत्ययजनकत्वमिति ब्रुवते। अत्र हि निमित्तानभिधाने सतां भावः सत्त्वमिति न किञ्चिदुक्तं स्यात्।।
अथ सत्तानधिकरणानां स्वात्मना निमित्तेन सत्सदिति प्रत्ययजनकत्वम्। तर्हि तस्यानुवृत्तिरूपतायां दोषोपपत्तेः, व्यावृत्त [रूप] तायाञ्च अनुगतज्ञानजनकत्वं न स्याद् इत्युपचारनिमित्तत्वमेव न्याय्यम्।
नन्वेवं सामान्यादिषूपचरितं सत्तवं स्यात् ? इष्यत एव सत्त्वं सत्सदितिज्ञानजनकत्वमुपचरितम्।।
अथ सत्तानधिकरणत्वे सामान्यादेरभावः स्यात्, तदसत्। असाधारणधर्माधिकरणतया प्रमाणसिद्धस्याभावाभ्युपगमे द्रव्यादिषु तथाभावः स्यात्। अतः सामान्यादावुक्तरूपे स्वरूपसत्त्वे न दोष इति।
तथा बुद्धिर्लक्षणं येषां बुद्ध्या लक्ष्यन्त इति वा बुद्धिलक्षणास्तेषां भावो बुद्धिलक्षणत्वम्। सामान्यशब्देनाप्यर्थादनुगतव्यावृत्तेहबुद्ध्यन्यतबुद्धिलक्षणत्वं विवक्षितमिति विज्ञातम्। अनुगता हि बुद्धिर्न विशेषे नापि समवाये, व्यावृत्ता च न सामान्यसमवाययोः, तथेहबुद्धिर्न सामान्यविशेषेष्विति। व्यावृत्तत्वाद् वैधर्म्यं स्यादित्यन्यतमग्रहणम्। तच्च सर्वेषु समानत्वादेव साधर्म्यम्।
यद् वा बुद्धिर्विशेषणान्तरोपचरिता लक्षणम् इतरस्माद् भेदकम्। तच्चाविवक्षितविशेषं साधर्म्यम्। तथाहि, द्रव्यगुणकर्मस्वनुगतसामान्यवशादनुगतज्ञानजनकत्वम्, सामान्ये तु स्वरूपतयैव तथात्यन्तव्यावृत्त्या विशेषेष्वेव। अयुतसिद्धेष्वबाध्यमानेहबुद्धिः समवाय एवेति, व्यावृत्तावपि बुद्धिवेद्यत्वं समानत्वात् साधर्म्यम्।
एवं कार्याणां भावः कार्यत्वं तदभावोऽकार्यत्वं स्वकारणसत्तासम्बन्धाभावः। तथा कारणानां भावः कारणत्वं तदभावोऽकारणत्वं समवाय्यसमवायिकारणत्वाभावः। निमित्तकारणत्वञअच ज्ञानोत्पत्ताविष्यत एव।
तथा न सामान्यविशेषवत्त्वमसामान्यविशेषवत्त्वम् अपरसामान्याभावः। न तदुपलक्षितः समवायः, समवाये तदभावप्रसङ्गात्।
सकलाश्रयविनाशेऽपि सामान्यसमवाययोर्न विनाशः
नित्यानां भावो नित्यत्वमविनाशित्वम्, उभयान्तोपलक्षितसत्तासम्बन्धाभावो वा, तथाहि कार्यवस्तुनो विनाशत्वं दृष्टम्, सामान्यादेश्चाकार्यत्वादविनाशः। न चाश्रयविनाशाद् विनाशः, तस्यैकाश्रयविनाशेऽप्याश्रयान्तरे स्वानुरक्तप्रत्ययजनकत्वात्। तथआ ह्येकाश्रयविनाशेऽप्याश्रयान्तरे सत्ता सत्सदितिज्ञानहेतुः। समवायश्चेहप्रत्ययहेतुरिति। अनयोराश्रयविनाशान्न विनाशः।
अनित्याश्रयं सामान्यं समस्ताश्रयविनाशेन निराधारस्याभावाद् विनंक्ष्यतीति ? नैतदेवम्, अकार्यवस्तूत्वेन अविनाशित्वसिद्धेः समस्ताश्रयविनाशेऽप्यवस्थानमिष्यते। अत एव केवलमाश्रयाभावाद् गोत्वादिरूपतया न व्यपदिश्यत इति। अकार्यवस्तुनश्च विनाशे गगनादीनामप्युच्छेदप्रसङ्गः।
अथानित्याश्रयस्याश्रयोत्पत्त्यन्तरं रूपादिवदुपलम्भाद् असिद्धमकार्यत्वमिति चेत्, न। उपलम्भस्योभयथाभावात्।
न ज्ञायते किं वस्तूत्पत्त्यनन्तरमुत्पद्यते ? अथ अभिव्यज्यत इति ? उत्पादे बाधकोपपत्तेरभिव्यज्यत इतीष्यते। तथाहि, द्रव्यस्यैव समवायिकारणत्वविधआनेन गुणकर्मणोस्तत्प्रतिषेधात् इतीष्यते। तथाहि, द्रव्यस्यैव समवायिकारणत्वविधानेनम गुणकर्मणोस्तत्प्रतिषेधात् तदाधारस्योत्पत्त्यभावः। तद्यथा सामान्याधारस्य युगपदुत्पत्तिं विना समवायिकारणाभावाच्चेति। तथाहि, यत्र समवेतं कार्यं तदवश्यं समवायिकारणम्, सामान्यस्य क्रमभाविषु स्वाधआरेषु सर्वेषु समवायोपलब्धेः सर्वं समवायिकारणमिति। सकलधारनिष्पत्तावेवोत्पत्तावेवोत्पत्तिरिति पूर्वभाविषूपलम्भो न स्यात्।।
अथ सर्गादौ भूयसां स्वाधाराणामुत्पादादुत्पन्नं सामान्यं क्रमभाविष्वाधारेषु समवेष्यतीति चेत्, न। कार्यान्तरेष्वदर्शनात्। नहि रूपादिकार्यं स्वाधारेषु समवेतमुपजातमन्येन समवायवृत्त्या सम्बध्यमानं दृष्टमिति। न च क्रमेणोत्पद्यमानेष्वन्यत् सामान्यमिति वाच्यम् भेदे प्रमाणाभावात्। अभेदे त्वनुगतं ज्ञानमेव प्रमाणमिति वक्ष्यामः सामान्यपरीक्षायाम्।
एवमर्थशब्दानभिधेयत्वञअच स्वसमयार्थशब्दाभिधेयत्वाभाव इति। यद्यपि द्रव्यादेरेव कार्यत्वादिविधानात् इहाकार्यत्वादिर्लभ्यते तथापि साधर्म्यस्य विवक्षितत्वादभिधानमिति। सामान्यादीनां कार्यत्वाद्यभावोऽपि साधर्म्यमिति।।
नवद्रव्यसाधर्म्यम्
पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः, स्वात्मन्यारम्भकत्वम्, गुणवत्त्वम्, कार्यकारणाविरोधित्वम्।
एवं पदार्थानां साधर्म्यमभिधाय द्रव्याणां साधर्म्यनिरूपणार्थमाह * पृथिव्यादीनाम् * इत्यादि। पृथिवी आदिर्येषां तानि पृथिव्यादीनि तेषाम्। न ज्ञायते कियतामतः * नवानामपि द्रव्यत्वयोगः * साधर्म्यम्। द्रव्यत्वेन योगो द्रव्यत्वोपलक्षितः समवाय इति। यद्यपि समवायः पञ्चपदार्थवृत्तिस्तथापि द्रव्यत्वेनोपलक्षितोऽसाधारणत्वाद् भवत्येव लक्षणमिति।
न च द्रव्याणां भावो द्रव्यत्वमित्युक्तेऽर्थादवगम्यते योग इति वाच्यम्। गम्यवृत्त्याश्रयणेन शब्दवृत्तिप्रतिषेधेऽतिप्रसङ्गात्।।
न चोपचरितभेदत्वादवास्तवं लक्षणमिति दूषणम्, श्रोत्रस्येव विशिष्टार्थक्रियाजनकत्वात्।।
नापि [अ] समर्थविशेषणता। योगपदं विना हि असम्भवित्वाशङ्कानतिवृत्तेरिति। शेषं लक्षणदूषणस्य प्रतिसन्धानं वक्ष्यामः पृथिव्यधिकारे।
लक्षणञ्च भेदार्थँ व्यवहारार्थञ्चेति। तथाहि, पृथिव्यादीनीतरस्माद् भिद्यन्ते, द्रव्याणीति वा व्यवहर्त्तव्यानि द्रव्यत्वयोगात्, ये तु न भिद्यन्ते नापि द्रव्याणीति व्यवह्रियन्ते न ते द्रव्यत्वयुक्ता यथा रूपादयः, न च तथा न द्रव्यत्वयुक्तानि पृथिव्यादीनीति, तस्मादितरस्माद् भिद्यन्ते द्रव्याणीति वा व्यवहर्त्तव्यानीति। एवं द्रव्यशब्दस्य प्रवृत्तौ पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो निमित्तमिति शब्दार्थनिरूपणपरत्वेनापि सम्बध्यते वाक्यम्। तथा च न सामान्यवतः शब्दार्थत्वे किञअचिद् बाधकमस्तीति वक्ष्यामः।।
तथा अतीन्द्रियशक्तिप्रतिषेधार्थञ्च। तत्तु पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो निजा शक्तिरिति।
द्रव्यत्वस्य सामान्यत्वविचारः
अथ अकृतसमयस्य गोपिण्डेष्विवानुगताकारज्ञानस्यानुपपत्तेर्न द्रव्यत्वं सामान्यमस्तीति। यथा हि नारिकेलद्वीपवासिनो गोपिण्डोपलम्भादेकाकारता प्रतिभासते नैवं पृथिव्यादिषूपलभ्यमानेष्विति। अथास्ति कृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानम्। तच्च सङ्केतवशादेव भविष्यतीति।
तदसत्। सामान्यस्य नियतव्यञ्जकव्यङ्ग्यतया व्यञ्जकानुपलब्धावप्यनुपलब्धेरभावात्। तथाहि, द्रव्यत्वं क्रियावत्त्वादिधर्मोपलम्भादभिव्यज्यते, अतिशयद्रव्याश्रितत्वोपलब्धेर्गुणत्वमेवं कर्मलक्षणोपलब्धेः कर्मत्वमिति। शेषेष्वपि चिन्त्यम्, व्यञ्जकमप्यूह्यम्।
न च स्रवेषां व्यञ्जकोपलब्धिर्विद्यत इति सामान्यानुपलम्भो विघातक एव। कृतसमयस्य व्यञ्जकोपलब्धेर्भवत्येव द्रव्यादिष्वनुगतज्ञानम्। सस्नादिना वा कृतसमयेनापि संवेद्यत इति युक्तं गवादिष्वनुगताकारविज्ञानमिति।
यत्र च द्रव्यगुणकर्मात्मकं निमित्तं न सम्भाव्यतेऽबाधितानुगतायां संविदि तत्र सामान्यमेव निमित्तम्। न च द्रव्यादिष्वनुगतसवेदनेऽभाव इव किअञचिद् बाधकमस्तीति। तथआहि, अभावोऽभाव इत्यननुगतसंवेदनं द्रव्यगुणकर्मानिमित्तमपि न सामान्याद् भवति, सामान्यस्याभावेन समवायाभावात्। समवेतञअच सामान्यं विशेषणमुपलब्धम्।
अथेदमेवाभावत्वानुरक्तमभावोऽभाव इति ज्ञानमभावत्वस्याभावेन समवायं दर्शयतीति चेत्, न। अनेकान्तात्। तथाहि, सामान्यादौ सत्सदिति ज्ञानं विना सत्तासमवायमित्युक्तपूर्वम्। सामान्यवत्त्वे चाभावस्य भावरूपतैव स्यात्। एवञ्च अनुत्पत्तेरनादित्वान्नित्यत्व विनाशस्य च आदिमत्वादनित्यत्वं प्रसज्येत। प्रागभावस्य च नित्यत्वेन वस्तूपलम्भो न स्यात्। तयोः स्वरूपपरिहारस्थितिविरोधात्।।
न च अभावोपमर्दात्मनो भावस्योत्पत्तिर्युक्तेति प्रागिति विशेषणसम्भवः। प्रध्वंसानुत्पत्तिश्च, तस्य हि उत्पत्तिमदपेक्षितत्वात्। सम्भवेऽपि उत्पत्तिमत्त्वेन विनाशस्य विनाशे भावग्रहणं स्यात्। यथा हि विनाशानुत्पत्तेः पूर्वं भावो गृह्यते तद्वद् विनाशापायेऽपि गृह्येत, विरोधाभावस्याविशेषात्। न चैतद् दृष्टमतः सामान्यवद् व्यतिरेकः।।
न चोपाधिं विना अभावोऽभाव इति ज्ञानं शक्यं भवितुम्। किन्तर्हि ? घटाभावः पटाभाव इति ज्ञानोत्पत्तेर्वैलक्षण्यमेव। अथास्ति घटाभावो घटाभाव इत्यनुगतज्ञानमिति चेदत्राप्युपाधिवशादुपलक्षणत्वम्, सामान्यमेव ज्ञानहेतुरिति द्रष्टव्यं मुख्ये बाधकोपपत्तेः। न चैवं द्रव्यं द्रव्यमिति ज्ञाने किञ्चिद् बाधकमस्तीति सामान्यसिद्धेर्नासम्भवीदं लक्षणमिति।
एवं स्वश्चासावात्मा चेति स्वात्मा, तस्मिन्नारम्भकत्वम्, स्वात्मसमवेतकार्यजनकत्वम् समवायिकारणत्वमिति यावत्। तच्च पृथिव्यादिष्वेव भावादितरस्माद् भेदकम्। तथाहि, कार्यसमवायो नर्ते पृथिव्यादिभ्यः सम्भवतीति।
तथा गुणा विद्यन्ते येषां ते गुणवन्तस्तेषां भावो गुणवत्त्वं गुणोपलक्षितः समवायः, समवेता वा गुणाः। तेऽप्यसाधारणत्वाद् भेदकाः। यथा न गुणादिषु गुणवत्त्वं वक्ष्यामो गुणसङ्करे [वसरे] ।
तथा कार्यकारणयोरविरोधः, स विद्यते येषां ते कार्यकारणाविरोधिनः, तेषां भावो कार्यकारणाविरोधित्वम्। कार्यकारणयोः परस्पराविरोधित्वमेक एव धर्मः।।
यदि वा धर्मद्वयं कार्याविरोधित्वं कारणाविरोधित्वञ्चेति [ तदा] कार्येण न विरुध्यन्ते न विनाश्यन्ते इति कार्याविरोधिनस्तेषां भावः कार्याविरोधित्वं कार्येण विनाशाभावः। स च सर्वेषु पृथिव्यादिष्वस्तीति साधर्म्यम् न पुनर्लक्षणं विपक्षैकदेशेऽपि भावात्। तथाहि, कार्येण निरुध्यन्ते शब्दबुद्‌ध्यादयो न सर्वे गुणा, तथा कर्माण्यपि कार्येण विरुध्यन्ते, न कार्येणैव आश्रयविनाशेऽपि विनाशात्।
न च पदार्थापेक्षयापि लक्षणविवक्षायां विपक्षैकदेशे वर्त्तमानस्य गमकत्वम्। तथआ कारणाविरोधित्वं यदि कारणेन न विरुध्यन्ते इति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वम्, कारणेन विनाशाभावः। स च आकाशादिष्वस्ति कारणाभावादिति पक्षे व्यापकस्यापि सतो न विपक्षाद् व्यावृत्तिरित्यलक्षणत्वम्। तथाहि, न कारणेन गुणा विनाश्यन्ते नापि कर्मेति।
अथ कारणं न विरुध्यन्ति न विनाश्यन्तीति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इति। अत्र नित्यद्रव्येषु कारणाभावात् कारणाविरोधित्वं कारणाविनाशकत्वं चिन्तनीयमिति। विपक्षैकदेशे वर्त्तमानस्यागमकत्वमेव। तथाहि, शब्दबुद्‌ध्यादेर्यद्यपि कारणविनाशकत्वं तथापि न रूपादीनामस्तीत्यतिव्याप्तिः। एवं कर्मापि न कारणं विनाशयतीति।
न च कार्याविरोधित्वेनाविशेषस्तत्र कार्येणाविनाशत्वं कारणधर्मः, कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इत्यपुनरुक्तम्। तदेवमुभयथापि विपक्षैकदेशाव्यावृत्तः साधर्म्यमेव न तल्लक्षणमिति सिद्धम्।
अन्त्यविशेषवत्त्वम् अनाश्रितत्वनित्यत्वे च अन्यत्रावयविद्रिव्येभ्यः। एवमन्त्या विशेषा विद्यन्ते येषां ते तद्वन्तः, तेषां भावोऽन्त्यविशेषवत्त्वम्, अन्त्यविशेषोपलक्षितः समवायः समवेता वा अन्त्यविशेषाः।
तथा अनाश्रितत्वञ्च नित्यत्वञ्चेत्यनाश्रितत्वनित्यत्वे। अनाश्रितत्वमाश्रितत्वाभावः, नित्यत्वमविनाशित्वम्, उभयान्तानुपलक्षिता वस्तुसत्ता वा।
किमेतद्धर्मत्रयं सर्वेषु पृथिव्यादिष्वस्ति व्यापकञ्चेत्याह * अन्यत्रावयविद्रव्येभ्यः * इति। अवयविद्रव्याणि वर्जयित्वा नित्यद्रव्येष्वेवेति।
ननु धर्मत्रयस्य सापवादत्वाविशेषेऽप्यन्त्यविशेषवत्त्वेनासमासकरणे किं प्रयोजनमिति। अन्त्यविशेषाणामव्यापकत्वेऽसाधारणताज्ञानेनैव। अनाश्रितत्वमित्यत्वयोश्चान्यत्रापि सद्भावात् साधारणत्वेनासमासकरणम्। तथाहि, नित्यत्वं गुणादिष्वप्यस्तीति साधारणम्, अनाश्रितत्वं समवायस्यापि मुख्यवृत्तौ बाधकोपपत्तेर्गौणवृत्त्याश्रयणेन सम्भाव्यते, न परमार्थत इति साधारणम्।।
द्रव्यषट्कसाधर्म्यम्
पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्त्वे।
एव पृथिव्यादीनां नवाना पदार्थान्तराद् व्यावृत्तं साधर्म्यमभिधाय पुनस्तेषां स्वभेदाद् व्यावृत्तं साधर्म्यं दर्शयति * पृथिव्युदकज्वलनपवनात्ममनसाम् * इति। चार्थे द्वन्द्वः समासः। अनेकत्वञ्चापरजातिमत्त्वञ्चेत्यनेकत्वापरजातिमत्त्वे।
अनेकत्वञ्च क्षित्यादेर्विशेषलक्षणयोगिनो व्यक्तिभेदः, अनेकत्वसंख्या वा। नाकाशादेर्व्यक्तिभेदो नानेकत्वसंख्या वा सम्भवतीति तस्माद् व्यावृत्तिरिति।
अनेकत्वादेवापरजातिमत्त्वम्। अपरजातिद्रव्यत्वापेक्षया पृथिवीत्वादिरूपा। सा विद्यते येषां तानि तद्वन्ति, तेषां भावोऽपरजातिमत्त्वम्, अपरजात्युपलक्षितः समवायः, समवेता वा अपरजातिरिति।
द्रव्यपञ्चकसाधर्म्यम्
क्षितिजलज्योतिरनिलमनसां क्रियावत्त्वमूर्त्तत्वपरत्वापरत्ववेगवत्त्वानि।
एवं * क्षितिजलज्योतिरनिलमनसाम् * साधर्म्यं क्रियावत्त्वञअच मूर्त्तत्वञ्च परत्वञ्चापरत्वञ्च वेगवत्त्वञ्चेति तथोक्तानि। तथा च क्रिया चलनरूपा, सा विद्यते येषां तानि तद्वन्ति, तेषां भावः क्रियावत्त्वम्, समवेता क्रिया, तत्समवायो वा। तथा मूर्त्तिरव्यापिद्रव्यपरिमाणम्, सा विद्यते येषां तानि मूर्त्तीनि, तेषां भावो मूर्त्तत्वम्। समवेता मूर्त्तिस्तत्समवायो वा। मूर्त्तत्वादेव च परत्वापरत्वादिसद्भावः क्रियावत्त्वञ्चेति। परापराणां भावः परत्वापरत्वे यत्सद्भावे क्षित्यादिषु परापरव्यवहार इति, समवेतौ परत्वापरत्वगुणौ, तत्समवायो वा। वेगो विद्यते येषां तानि वेगवन्ति, तेषां भावो वेगवत्त्वम्, समवेतो वेगगुणस्तत्समवायो वा। एतानि च क्षित्यादिषअवेवेति नियम्यन्ते, न तु सर्वदा तेषु भवन्तीति।
द्रव्यचतुष्टयसाधर्म्यम्
आकाशकालदिगात्मनां सर्वगतत्वं परममहत्त्वं सर्वसंयोगिसमानदेशत्वञ्च।
एवम् * आकाशकालदिगात्मनाम् * सर्वगतत्वादि साधर्म्यम्। सर्वशब्दश्चानन्तरोक्तमूर्तेष्वेव वर्त्तते। सर्वेषु गताः सर्वगताः सर्वप्राप्ताः, तेषां भावः सर्वगतत्वम्। सर्वमूर्तै संयोगः। स चान्यतरकमर्जः संयोगजो वा। स तूभयनिष्ठत्वाविशेषेऽप्याकाशादेरेव साधर्म्यम्। तस्य हि सर्वमूर्तैः सह संयोगो न मूर्तानामन्यतमस्येति।
तथा परममहतां भावः परममहत्‌वम्। निरतिशयपरिमाणं तत्समवायो वा।
तथा सर्वसंयोगिसमानदेशत्वं सर्वाणि च तानि संयोगानि च मूर्तद्रव्याणि तैः समानाः संयोगास्तेषामाकाशादयो देशा आधारास्तेषां भावः सर्वसंयोगिसमानदेशत्वं सर्वसंयोगिसंयोगाधारत्वम्।
न च संयोगस्योभयनिष्ठत्वान्मूर्त्तानामप्येष धर्म इति वाच्यम्। यथा ह्येकमाकाशं सर्वमूर्तसंयोगाधारो नैवमेकं मूर्तमित्यर्थाद् विशेषो लभ्यते। न च सर्वगतत्वेनाविशेषः। सर्वगतत्वं हि सर्वसंयोगस्तदुपलक्षितो वा समवायः, सर्वसंयोगिसंयोगाधारत्वमिति।
यद् वा सर्वे च ते, संयोगो विद्यते येषां ते संयोगिनस्ते च सर्वसंयोगिनो घटादयः शरावादयश्च, तेषां समानाः संयोगा इति। शेषं पूर्ववत्।
अन्ये तूपचारेणैव व्युत्पत्त्या वा, संयोगिशब्देन संयोग एवोच्यते इति मन्यन्ते। संयुज्यन्त इति संयोगास्ते विद्यन्ते येषां ते संयोगिनः संयोगा एव, स्थानादुपचारो वेति। सर्वसंयोगिनान्तु समानाश्च ते देशाश्चेत्येकत्वे सत्याधार इति।
अत्र चैकत्वे सतीति विशेषणं शब्दवृत्त्या लभ्यत इति सामर्थ्याश्रवणमपास्तं भवति। तच्चासत्। इन्द्रियसामान्यलक्षणे विशेषगुणलक्षणादौ च तस्यैव समाश्रयणादिह प्रयासमात्रमेवेति।।
पृथिव्यादिपञ्चकसाधर्म्यम्
पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वबाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि।
तथा पृथिव्यादीनां साधर्म्यमाह [ * पृथिव्यादीनाम् *] । पृथिव्यादिर्येषां तानि पृथिव्यादीनि, तेषाम्। न ज्ञायते कियतामतः * पञ्चानामपि * साधर्म्यम् भूतत्वञ्च इन्द्रियप्रकृतित्वञ्च बाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वञ्चेति तथोक्तानि।
भूतानां भावो भूतत्वं तच्च सामान्यमेव। तथाहि, द्रव्यगुणकर्मणि निमित्तेचाबाध्यमानमानुगतज्ञानं सामान्याद् भवद्, दृष्टम्, यथा गौरित्यादि ज्ञानम्। अस्ति च भूतं तमित्यादि क्षित्यादिषु ज्ञानमतः सामान्याद् भवतीति। न चास्य सामान्यादावनुगतज्ञानस्येव किञअचिद् बाधकमस्ति। तथा च सामान्ये सामान्यकल्पनायामनवस्था स्यादिति। सामान्यं द्रव्यत्वं सामान्यं गुणत्त्वमिति ज्ञानं सामान्यं विना भवतीत्युक्तम्, न च [तत्] भूतं भूतमिति ज्ञाने बाधकमस्ति।
अथ नारिकेलद्वीपवासिनां कस्मादेकाकारताप्रतिभासो न भवतीति ? व्यञ्जकानुपलब्धेः। यथा हि गुणत्वादिसामान्यं नारिकेलद्वीपवासिनां व्यञ्जकानुपलम्भाद् विद्यमानमपि नोपलभ्यते तथा भूतत्वमपीति। किमस्य तर्हि व्यञ्जकमिति ? ब्राह्मणत्वस्येवोपदेशः। यथा हि ब्राह्मणत्वमुपदेशाद् विज्ञायते तद्वद्भूतत्वमपीति।
अथोपदेश एवास्त्वलं सामान्यकल्पनया। यथा अन्यैरुक्तं "भूतत्वं भूतशब्दस्य वाच्यत्वमित्यभिधानाभिधेयनियमनियोगप्रतिपत्तिः, सा च शब्दाद् वृद्धव्यवहाराद् वा अन्वयव्यतिरेकाभ्यां भवतीति। " (?)
एताच्चासत्। अबाध्यमानानुगतज्ञानस्य निमित्तान्तरकल्पनायां द्रव्यत्वादेरप्यसत्त्वं स्यात्। अस्ति च कृतसमयस्य भूतं भूतमिति ज्ञानं ब्राह्मणो ब्राह्‌मण इतिवत्, द्रव्यं द्रव्यमिति ज्ञानवच्च। ततोऽस्ति भूतत्वं सामान्यमिति।
अथ यथा द्रव्येष्वसाधारणः समवायिकारणत्वादिर्व्यापको धर्मः कृतसमयस्य द्रव्यत्वाभिव्यञ्जकोऽस्ति, नैवं भूतेष्विति चेत्, न। इन्द्रियप्रकृतित्वादेरसाधारणत्वात्।।
अथ तदुपलम्भेऽप्यकृतसमयस्य नानुगतं ज्ञानमिति चेत्, द्रव्यत्वादिष्वपि समानम्। तत्रापि समवायिकारणत्वादेरुपलम्भेऽप्यकृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानं न दृष्टमिति।
अथ कृतसमयस्योत्पत्तेरस्ति द्रव्यत्वादि सामान्यम्, तच्च भूतत्वेऽपि समानमित्यलम्।
तथा इन्द्रियप्रकृतीनां भाव इन्द्रियप्रकृतित्वं घ्राणरसनचक्षुस्त्वक्‌छ्रोत्रकारणत्वं यथासंख्यम्। तच्च वक्ष्यामः पृथिव्यधिकारे भूयत्वाद् गन्धवत्त्वादित्यादि (वै0 सू0 8।2।5) सूत्रैरिति।
श्रोत्रे तु कर्णशष्कुल्याकाशसंयोगोपलक्षितस्याकाशस्य कार्यत्वात् तदपेक्षया आकाशस्य कारणत्वात्। स्वभावार्थो वा प्रकृतिशब्द इति।
नन्वाहङ्कारिकत्वादिन्द्रियाणामयुक्तमेतत्। तथा च प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहङ्कारादिन्द्रियाणामुदयः। किमत्र प्रमाणमिति चेदप्राप्यकारित्वम्। तच्च शाखाचन्द्रमसोर्युगपद् ग्रहणाद् विज्ञातम्। अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण चन्द्रमसा च सम्बन्धाद् युगपद् विज्ञतम्। अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण चन्द्रमसा च सम्बन्धाद् युगपद् ग्रहणं न स्यात्, अस्ति च, अतोऽप्राप्यकारित्वम्। तच्च भौतिकेषु न सम्भवति प्रदीपादिषअवदर्शनादिभौतिकत्वमन्येषामपि प्रतिपत्तव्यं चक्षुर्दृष्टान्तबलादेव।
तथा महदणुप्रकाशत्वाच्च। यद्धि यावत्परिमाणं तावदेव क्रियां कुर्वद्‌दृष्टमिति। तथा ह्यल्पपरिमाणं वास्यादि महान्तं वटवृक्षं व्याप्य च्छिदां न करोतीति दृष्टम्। किं तर्हि ? स्वव्याप्तप्रदेश एवेति। चक्षुरपि अल्पपरिमाणत्वान्न पर्वतादिपरिच्छेदकं स्यात्, तत्तु दृष्टमतो न भौतिकमिति।
तथा नियतविषयत्वाच्च। यदि हि चक्षुस्तैजसं स्याद् रूपस्यैव तद्गुणत्वाद् ग्राहकं न द्रव्यसामान्यादेरिति। एवं शेषेष्वपि नियमेन स्वगुणग्राहकत्वप्रसङ्गः। न चैतद् दृष्टम्, अतो न भौतिकमिति।
इतश्च न भौतिकानीन्द्रियाणि इन्द्रियत्वात्, यद् यद् इन्द्रियं तत्तदभौतिकं दृष्टं यथा मनः, तथा चेन्द्रियाणि, तस्मान्न भौतिकानीति।
यत्तावदप्राप्यकारित्वादिति साधनं तदसिद्धम्। व्यवहितार्थानुपलब्ध्या प्राप्तेरुपलम्भात्। अन्यथा हि व्यवहितस्याग्रहणमन्तिके च ग्रहणं न स्याद् अप्राप्तेरुभयत्राविशेषात्। आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधकत्वात्, तथा च प्राप्तिप्रतिषेधं कुर्वदावरणमग्रहणाय कल्प्यते। दृष्टञ्चावरणसामर्थ्यम्, दूरे वा प्रकाशकत्वमतः प्रदीपस्येव प्राप्तार्थपरिच्छेदकत्वम्। तथा च चक्षुः प्राप्तार्थापरिच्छेदकं यथा प्रदीपः, तथा व्यवहिताप्रकाशकं चक्षुः तस्मात् प्राप्तर्थपरिच्छेदकमिति।
प्राप्तिसद्भावे प्रमाणोपपत्तेः, शाखाचन्द्रमसोः कालभेदेन ग्रहणसद्भावेऽप्याशुभावादुत्पलपत्रशतव्यतिभेदाभिमानवद् युगमद् ग्रहणाभिमानः।
यच्च महदनुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम्। तथाहि, चक्षुर्बहिर्गत बाह्यालोकसम्बन्धाद् विषयपरिमाणमुत्पद्यत इति महदाद्यर्थप्रकाशकं नाभौतिकत्वादिति।
यच्चोक्तं तैजसत्वाद्रूपस्यैव प्रकाशकं स्यादित्येतदसत्। प्रदीपे दर्शनात्। न हि प्रदीपस्तैजसत्वाद्रूपस्यैव प्रकाशको दृष्टः। किं तर्हि ? रूपद्रव्यसामान्यादेरिति। प्रदीपस्तैजसत्वाद्रूपस्यैव प्रकाशको दृष्टः। किं तर्हि ? रूपद्रव्यसामान्यादेरिति। एतावानेव विशेषश्चक्षुषः, अतस्तैजसत्वं न विरुध्यत इति। रूपादिषु मधअये नियमेन रूपस्यैव प्रकाशकत्वं तैजसत्वेऽनुमानमिति वक्ष्यामः। नियमेन गन्धादिप्रकाशकत्वञ्च पार्थिवत्वादिषु घ्राणादेरिति।
न चैकप्रकृतिकत्वे विषयव्यवस्थोपलब्धेति नानाप्रकृतिकत्वम्। तथाहि, एकस्मात् कारणादुपजाताः प्रदीपभेदाः समानविषया इत्युपलब्धं तद्वद् इन्द्रियेष्वपि समानविषयत्वं स्यात्। दृष्टा तु घ्राणादेर्गन्धादिषु व्यवस्थएति नानाप्रकृतिकत्वम्।
तथा नानाजात्युपादानानीन्द्रियाणि, द्रव्यत्वे सति प्रतिनियतविषयत्वात्। यद् यद् द्रव्यत्वे सति प्रतिनियतविषयं तत्तद् नानाजात्युपादानां दृष्टं यथा व्यजानिलप्रदीपकस्तूरिकादीनीति, तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि, तस्मान्नानाजात्युपादानानीति। तथाहि, ज्ञानशब्देष्वेकजात्युपादानत्वं प्रतिनियतविषयत्वञ्चेति व्यभिचारः। तदर्थं द्रव्यत्वे सतीति विशेषणम्। न चास्य पक्षधर्मत्वादिमतोऽप्रामाण्यमतिप्रसङ्गात्।
यच्चाभौतिकत्वेऽनुमानमिन्द्रियत्वादिति, तत्र भूतादनिवृत्तमभौतिकम्। तत्प्रतिषेधे च कारणान्तरप्रभवत्वम्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वादिति साध्यविकलो दृष्टान्तः। तथा च मनसि न भौतिकत्वं नाप्यभौतिकत्वमिति।
अथ भूतादुत्पत्तिप्रतिषेधेन नित्यत्वम्, अत्राप्यभ्युपगमव्याघातः, मन्यस्यापि नित्यत्वाभ्युपगमात्। इन्द्रियत्वञ्चोक्तविशेषणस्यापरोक्षज्ञानजनकत्वेन भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथासिद्धम्।
निर्मलञ्च इन्द्रियाणामहङ्कारप्रभवत्वम्, तत्सद्भावे प्रमाणसम्भवात्। तथा हि प्रधआनसद्भावे सति एषा प्रक्रिया तस्य चासत्त्वं वक्ष्यमाणमिति।
येषाञ्च आसंसारमण्डलव्यापीनि इन्द्रियाणि तेषामशएषविषयग्रहणप्रसङ्गः। अथ अदृष्टवशान्नियतदेशे वृत्तिव्यज्यत इति चेत्, अत्र प्रवृत्तीनां तादात्म्ये न किञ्चिदुक्तं स्यात्। व्यतिरेके तु तदेव इन्द्रियमिति संज्ञाभेदमात्रमेव।
अथ नियतविषयावबोधान्यथानुपपत्त्या तदाकारतयैविन्द्रियस्य परिणामो निश्चीयते ? अन्यथाप्युपलम्भात्। तथा हि नियतार्थसन्निकर्षेऽप्युपलम्भो घटत एव। न च व्यापित्वं परस्याभीप्सिततरमिति नेह प्रतयन्ते। परिणामपक्षश्च न सम्भवतीति वक्ष्याम इत्यलम्।
तथा बाह्येनैकैकेन्द्रियेण गृह्यन्त इति बाह्यैकैकेन्द्रियग्राह्यस्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां तानि, तद्वन्ति, तेषां भावो बाह्यैकाकेन्द्रियग्राह्यविशेषगुणवत्त्वम्। समवेता हि यथोक्ता गुणास्यदुपलक्षितो वा समवायः। गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम्। विशेषगुणवत्त्वं स्वात्मन्यस्तीति बाह्येन्द्रियग्राह्यग्रहणम्। इन्द्रियग्राह्याश्च संख्यादयोऽपि भवन्ति न च विशेषगुणाः। तथा हि एकैकग्रहणमनर्थकं बाह्येन्द्रियग्राह्यविशेषगुणत्त्वस्यान्यत्राभावात्। सत्यम्, तथापि द्वितीयं साधर्म्यमित्यदोषः। तथा हि संख्यादेर्द्वीन्द्रियग्राह्यत्वादेकेन्द्रियग्राह्यग्रहणम्। एकेन्द्रियग्राह्यत्वञ्च रूपादिष्वसम्भवि स्यात्। न हि एकमिन्द्रियं सर्वेषां प्रकाशकमित्येकैकग्रहणम्। तथाप्यन्तःकरणस्य बाह्येन्द्रियाद्यधिष्ठानद्वारेण व्यापारसम्भवित्वमेवेति बाह्यग्रहणम्। एवञ्च बाहयैकैकेन्द्रियग्राह्यगुणवत्त्वं विशेषपदत्यागेन द्वितीयं साधर्म्यमिति।
द्रव्यचतुष्टयसाधर्म्यम्
चतुर्णां द्रव्यारम्भकत्वस्पर्शवत्त्वे ।
तथा चतुर्णां द्रव्यारम्भकत्वं स्पर्शवत्त्वञ्चेति * द्रव्यारम्भकत्वस्पर्शवत्त्वे * तन्न ज्ञायते केषामिति, विशेषानभिधानात् पृथिव्यादीनामित्यनुवर्त्तनीयम् अनन्तरत्वादिति।
किं पुनर्द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम् ? द्रव्योत्पत्तौ समवायिकारणत्वं कार्यद्रव्यस्य समवायः। तेन हि सता द्रव्यं द्रव्योत्पत्तौ समवायिकारणमिति व्यवहारात्। तथाहि, द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम्, येन सता द्रव्यमुत्पादयन्तीति न विवक्षितम्। किं तर्हि ? येन सता द्रव्यमारभन्त इति, द्रव्योत्पत्तौ समवायिकारणानीति व्यवहारः। स च द्रव्यसमवायेन सता भवतीति द्रव्यारम्भकत्वं द्रव्यसमवाय एव।
अथ येन सता स्वसमवेतद्रव्यमारभन्त इति विवक्षा तत्र [? त्] यदि स्पर्शवतामेव द्रव्यारम्भकत्वदर्शनात् स्पर्श एव, तथापि स्पर्शवत्त्वेन गतार्थत्वाद् व्यर्थं स्याद् द्रव्यारम्भकत्वम्।
अत्र एके महकारिविशेषोपचितस्पर्शे द्रव्यारम्भकत्वम्। स्पर्शवतां भावः स्पर्शवत्त्वम्, स्पर्शोपलक्षितः समवाय इति परिहारं ब्रुवते।
द्रव्यत्रयसाधर्म्यम्
त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्ववत्त्वानि।
तथा पृथिव्यादीनां त्रयाणां साधर्म्यमाह प्रत्यक्षत्वञ्च, रूपवत्त्वञअच, द्रवत्ववत्त्वञ्चेति। तथोक्तानां प्रत्यक्षाणां भावः प्रत्यक्षत्वमपरोक्षज्ञानविषयत्वम्। तेन सता प्रत्यक्षाणीति व्यवहारात्। महत्त्वादिकारणयोगो वा। आत्मादेस्तु प्रत्यक्षतायां साधर्म्यमात्रम्, अप्रत्यक्षत्वे व्यावृत्तमिति।
अन्ये तु अर्थतया भावाद् द्वीन्द्रियविवक्षया प्रत्यक्षत्वमत्र विवक्षितम्। तच्च आत्मादिषु नास्तीति व्यावृत्तं साधर्म्यमिति मन्यन्ते। निर्विकल्पकसविकल्पकज्ञानविषयत्वञ्च न व्यावृत्तमात्मन्यपि भावात्। तथा च अहमिति शब्दः पृथिव्यादिशब्दव्यतिरेकादात्मनि वर्त्तत इत्युपलब्धसमयस्य तत्स्मरणाद् भवत्येव सविकल्पकज्ञानमिति।
तथा रूपं विद्यते येषां तानि रूपवन्ति, तेषां भावो रूपवत्त्वम्, रूपसमवायः समवेतं वा रूपमिति। तच्चाविवक्षितविशेषम्। अन्यथा हि क्षित्यादिव्यावृत्तरूपाधिकरणमेवेति।
तथा द्रवाणां भावो द्रवत्वम्, समवेतो द्रवत्वगुणस्तत्समवायो वा। अत्रापि न विशेषविवक्षा। अन्यथा क्षितितेजसोर्नैमित्तिकमपाञ्च सांसिद्धिकमिति विशेष एव स्यात्।
द्रव्यद्वयसाधर्म्यम्
द्वयोर्गुरुत्वं रसवत्त्वञ्चेति।
एवं द्वयोः पृथिव्युदकयोर्गुरुत्वं रसवत्त्वञ्च साधर्म्यम्। तथा हि गुरोर्भावो गुरुत्वम्, समवेतो गुरुत्वगुणस्तत्समवायो वा।।
तथा रसो विद्यते ययोस्ते रसवती, तयोर्भावो रसवत्त्वम्, रसोपलक्षितः समवायः, समवेतो वा रसः।।
द्रव्यषट्कसाधर्म्यम्
भूतात्मानां वैशेषिकगुणवत्त्वम्।
एवं भूतानि चात्मनश्चेति तथोक्तास्तेषां वैशेषिकगुणवत्त्वं साधर्म्यम्। विशेषा एव वैशेषिकास्ते विद्यन्ते येषां [गुणानाम्] ते वैशेषिकगुणवन्तस्तेषां भावस्तत्त्वम्, तदुपलक्षितः समवायस्ते वा समवेताः।।
द्रव्यत्रयसाधर्म्यम्
क्षित्युदकात्मनां चतुर्दशगुणवत्त्वम्।
एवं क्षितिश्चोदकञ्चात्मानश्चेति तथोक्तास्तेषा साधर्म्यं चतुर्दशगुणवत्त्वम्। तथा हि चतुर्दशगुणा विद्यन्ते येषां ते तद्वन्तः, तेषां भावस्तत्त्वम्। समवेतास्ते, तत्समवायो वा। अत्र चान्यगुणानामन्यत्रावृत्तेः संख्यामात्रं साधर्म्यं विवक्षितमिति ज्ञेयम्।
द्रव्यद्वयसाधर्म्यम्
आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम्।
आकाशश्चात्मनाश्चेति तथोक्तास्तेषां साधर्म्यं क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम्। क्षणिकाश्च ते एकदेशवृत्तयश्चेति तथोक्तास्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां ते तद्वन्तस्तेषां भावस्तत्त्वं तत्समवायस्ते वा समवेताः। गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम्। तत् क्षित्यादिष्वपि समानमित्येकदेशवृत्तिपदम्।
तथापि क्षणिकग्रहणमनर्थकम्, एकदेशवृत्तिविशेषगुणवत्त्वस्य अन्यत्राभावात्। तन्न। द्वतीयसाधर्म्यस्य विवक्षितत्वात्। तथाहि, विशेषगुणवत्त्वम् अन्यत्राप्यस्तीति क्षणिकग्रहणम्। क्षणिकत्वञ्च आश्रये विद्यमाने सति अशुतरविनाशित्वम्। क्षणिकगुणवत्त्वञ्च विभागापेक्षया अन्यत्राप्यस्तीति विशेषग्रहणम्। क्षणिकविशेषगुणवत्त्वञ्च अन्यत्राभावाद् व्यावृत्तं साधर्म्यमिति।
दिक्कालयोः पञ्चगुणवत्त्वम्, सर्वोत्पत्तिमतां निमित्तकारणत्वञ्च।
तथा * दिक्कालयोः पञ्चगुणवत्त्वम् * विशेषात् साधर्म्यम्। पञ्चगुणा विद्यन्ते ययोस्तौ पञ्चगुणवन्तौ, तयोर्भावः पञ्चगुणवत्त्वम्। पञ्चगुणोपलक्षितः समवायस्ते वा समवेताः। एतच्च संख्यामात्रसाम्येन साधर्म्यम्।
तथा च सर्वे च ते, उत्पत्तिर्विद्यते येषां ते उत्पत्तिमन्तश्चेति तथोक्तास्तेषामुत्पत्तौ निमित्तकारणत्वमिति। निमित्तपदस्य कारणपर्यायस्याप्यभिधानं समवाय्यसमवायिव्यवच्छेदार्थम्। अन्यथा हि समवाय्यसमवायिसाधारणत्वात् तदपेक्षया असम्भवित्वमेव स्यात्।
तथा हि निमित्तकारणस्य भावो निमित्तकारणत्वम्। येन सता निमित्तकारणमिति व्यवहारकः। स च कारणयोः सतोः समवाय्यसमवायिलक्षणाभावः। तेन सता तथा व्यवहारात्। यद्यपि स्वगतसंख्याद्युत्पत्तावस्ति समवायिकारणत्वम्, तथापि सर्वेषामेवेति विशेषणाददोषः।
क्षितितेजसोर्नैमित्तिकद्रवत्वयोगः
एवं क्षितिश्च तेजश्चेति क्षितितेजसी, तयोर्नैमित्तिकद्रवत्वयोगः साधर्म्यम्। निमित्तादुपजातं नैमित्तिकमिति। निमित्तशब्दः सामान्यशब्दोऽप्यर्थादग्निसंयोगे वर्त्तते। नैमित्तिकञ्च तद् द्रवत्वञ्चेत्येतेन योगः समवायः साधर्म्यमिति।
एवं सर्वत्र विप्रययात् साधर्म्यं वैधर्म्यञ्च वाच्यमिति।
इदानीमुपसंहारव्याजेन शिष्यं शिक्षयति, यदेतद् व्याख्यातं मया साधर्म्यं तदेव सर्वत्र विपर्ययाद् व्यावृत्तं भेदान्तराद् वाच्यमिति।
यद् वा साधर्म्यं व्याख्यातमित्युपसंहारः। विपर्ययाद् वैधर्म्यं वक्ष्यमाणमित्यनागतार्थसूचनमिति।।

[वैधर्म्यप्रकरणोपक्रमः]
इहेदानीमेकैकशो वैधर्म्यमुच्यते।
पृथिव्यादीनां नवानां, पुनः पञ्चानामित्यादिरूपेण साधर्म्यमभिधाय प्रत्येकं तेषां वैधर्म्यमाह * इह * इत्यादिना। इहेति क्षित्यादिमनिःपर्यन्तेषु प्रकरणेषु। *इदानीम् * साम्प्रतम्। * एकैकशो वैधर्म्यमुच्यते * इति। नन्वेकैकश इति वीप्सायां शस्‌प्रत्ययस्य विधानाद् व्यर्थं वीप्साभिधानम्।
एकैकशो विनिघ्नन्ति विषया विषयसन्निभाः। [ ?]
इति व्यासप्रयोगाददोष इत्येके।
प्रत्येकं क्षित्यादेर्वीप्सायां वैधर्म्यलाभे पुनर्वीप्साकरणम् अवान्तरभेदेन शरीरादीनां वैधर्म्यज्ञापनार्थमिति गुरवो वदन्ति।
वैधर्म्यन्तु विशिष्ट इतरस्माद् व्यावृत्तो धर्मो यस्यासौ विधर्मा, तस्य भावो वैधर्म्यम्। असाधारणस्तत्त्वव्यवस्थापको धर्मः, केवलव्यतिरेक्यनुमानमिति यावत्।
द्रव्यग्रन्थे पृथिवीधर्म्यम्
पृथिवीत्वाभिसम्बन्धात् पृथिवी। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्‌त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती। एते च गुणविनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः। चाक्षुषवचनात् सप्त संख्यादयः। पतनोपदेशाद् गुरुत्वम्। अद्भिः सामान्यवचनाद् द्रवत्वम्। उत्तरकर्मवचनात् संस्कारः।
तत्रादावुद्दिष्टत्वात् पृथिव्यास्तदुच्यते * पृथिवीत्वाभिसम्बन्धात् * इति। पृथिवीति लक्ष्यनिर्देशः। पृथिवीत्वाभिसम्बन्धादिति लक्षणम् असाधारणो धर्मः। पृथिवीत्वनाभिसम्बन्धः पृथिवीत्वेनोपलक्षितः समवाय इति। पृथिवी धर्मिणी इतरेभ्यो भिद्यत इति साध्यो धर्मः, पृथिवीत्वाभिसम्बन्धात्, यस्त्वितरस्मान्न भिद्यते न चासौ पृथिवीत्वेन सम्बद्धो यथोदकादि, न च तथा पृथिवीत्वेन नाभिसम्बन्धा पृथिवी, तस्मादितरेभ्यो भिद्यत इति। समवायो ह्यतिव्यापकत्वादलक्षणः स्यादिति पृथिवीत्वं विशेषणम्।
नन्वेवं पृथिवीत्वमेवासाधरणत्वाद् व्यवच्छेदसमर्थामित्यसमर्थविशेषणता हेतोर्दोषः ? न। पक्षेऽसम्भवित्वाशङ्कापरिहारार्थत्वात्। तथाहि, पृथिवीत्वात् पृथिवीत्युक्ते पक्षेऽस्ति नास्तीत्याशङ्का न निवर्त्तेत। अतः समर्थमभिसम्बन्धपदम्।
ननु भावप्रत्ययादेव सम्बन्धाधिगतेः, षष्ठ्या वा पृथिव्या भावः पृथिवीत्वमिति, स्वशब्देन तस्याभिधानं व्यर्थम् ? तन्न। भावप्रत्ययः शब्दवृत्त्या भावमभिधत्ते, नाभिसम्बन्धम्। न च गम्यां वृत्तिमाश्रित्य सम्बन्धपदस्य वैयर्थ्यम्, शास्त्रे तथाभावेऽतिप्रसङ्गात्। षष्ठी चानियतसम्बन्धाभिधायिकेति विशिष्टसम्बन्धलाभायाभिसम्बन्धपदम्।
ननु चैवमुपाधिभेदादवास्तवो भेदः समवायस्येत्यवारकं लक्षणं कथमितरेभ्यो भेदज्ञापकमिति स्यात् ? न। कल्पितभेदस्याप्यर्थक्रियाकरणात्, यथा क्षोत्रस्य। तथाहि, क्षोत्रं कर्णशुष्कुल्याकाशसंयोगोपलक्षितो नभादेशः, स चावस्तवभेदोऽपि शब्दोपलब्धिलक्षणामर्थक्रियां विदधाति। तद्वत् समवायेऽप्यदोषः। समवेतं वा पृथिवीत्वं लक्षणम्। पृथिवीत्वञ्च तद् अभिसम्बध्यत इत्यभिसम्बन्धश्चेति कर्मधारयपरिग्रहात्।
ननूभयपदव्यभिचाराभावाद् विशेषणसमासः कथम् ? तथा सति [ अभि ] सम्बध्यत इति इभिसम्बन्धः, समवेतं रूपादि दृष्टमित्यर्थवत् पृथिवीत्वम्। पृथिवीत्वञ्चेत्युक्ते नासमवेतं पृथिवीत्वं सम्भवतीति व्यभिचाराभावः।।
अथ अपृथिवीव्यावृत्तिरूपं पृथिवीत्वमसमवेतम्, तन्निरासार्यथवदभिसम्बन्धपदम्। न तस्यासिद्धत्वात्। प्रमाणेन हि प्रसिद्धस्य विशेषणेन व्युदासो दृष्टः। यथा नीलेनानोलादेः। न वा अपोहः सिद्धः, वृत्तिविकल्पानुपपत्तेः। बाधकस्याप्रमाणतया वास्तवसामान्यसद्भावादेकपदाव्यभिचारेऽपि कर्मधारयसमासाभ्युपगमाददोष इति।
केचिद् अभिग्रहणम् अभि समन्तात् सम्बन्ध इति पक्षे व्याप्त्यर्थम्, आभिमुख्येन च सम्बन्ध इति केवलव्यतिरेकाव्यभिचारेण गमकत्वप्रदर्शनार्थम्।
ननु किम् इतरस्माद् व्यावृत्ता प्रमाणसिद्धा पृथिवी पक्षीक्रियते, अथ अप्रसिद्धेति ? यदि अप्रसिद्धा, पक्षीकरणमयुक्तम्। अथ प्रमाणप्रसिद्धआ व्यावृत्ततया, तर्हि लक्षणवैयर्थ्यम्। अथाव्यावृत्ततयोपलब्धा, तदसत्। व्यावृत्तं हि पदार्थानां स्वरूपम्, तेन च वपुषा गृह्यमाणा धर्मिणो न रूपान्तरेणेति दृष्टम्। नैतदेवम्। लोकप्रसिद्धिवशेन पृथिव्याः पक्षीकरणात्। तथाहि, यत्र जनानां पृथिवीति व्यवहारः सा पक्षीकृतेत्यबाधः।।
नन्वितरेतराश्रयत्वम्, पृथिवीतरेभ्यो भेदः साध्यस्तेषान्तु पृथिवीतो भेदेन प्रतिपत्ताववधिभावो घटत इति एकाप्रतिपत्तावितराप्रतिपत्तेरुभयाभावप्रसङ्गः ? तन्न। असाधारणधर्मोपलम्भसहकारिणेन्द्रियेण व्यावृत्तरूपतया निर्विकल्पकज्ञाने पृथिवी प्रतिभासते। तथा अबादयोऽप्यसाधारणधर्मोपलम्भाव्यावृत्त्या नः परस्परं चक्षुर्व्यापारादेव प्रथन्ते। स्वयं प्रतिपन्नेऽपि भेदे परप्रतिपादनायानुमानपन्यासः। तथाहि, विप्रतिपद्यमानः परः परार्थानुमानेनैव प्रतिपाद्यत इति।
अथेतरेभ्यो भेदे साध्येऽबादयोऽपीतिरेभ्यो भिद्यन्त इति विद्यमाने सपक्षे कथं केवलव्यतिरेकाव्यभिचारः ? न। साध्यापरज्ञानात्। तथाहि, पृथिवीतरेभ्यो भिद्यत इति, पृथिवीतरेभ्यो निरवशेषेभ्यो भिद्यत इति साध्यार्थः। तथा च सपक्षाभावः। नह्युदकादयः स्वात्मभ्यो भेदिन इति।
अथ पृथिवीत्वं यद्यसादारणधर्माद् भिद्यते ततोऽप्यन्यस्माद् भिद्यत इत्यनवस्था। अभेदे तु साध्यसाधनभावानुपपत्तिः, अतः स्वतो भिद्यते, क्षितेरपि तथाभावेन बाधात्।।
अथ पृथिवीत्वं पृथिव्या विशिष्यते पृथिवी च पृथिवीत्वेनेतीतिरतराश्रयत्वम् ? नैतदेवम्। पृथिव्यामनुवर्त्तमानवपुषो भेदान्तराद् व्यावृत्तस्येन्द्रियव्यापारान्निर्विकल्पकज्ञाने प्रतिभासनात्। तथा ह्यनुगतस्वभावस्यापीतरस्माद् व्यावृत्तं स्वरूपं सामान्यस्य। तच्च प्रत्यक्षेण स्वयं प्रतीतमपि परप्रतिपादनाय हेतुत्वेनाभिधीयत इत्यनवस्थाद्यभावः। न च सर्वथा विप्रतिपद्यमानः प्रतिपाद्यः स्यादिति धर्मिज्ञानं सामान्येन साधनज्ञानञ्चाभ्युपेयम्। केवलम् इतरेदभ्यो भिन्ना पृथिवी न प्रतिपद्यत इति साधनोपन्यासः।।
तथैकं वाक्यमावर्यमानं भूयांसमर्थमाहेति शब्दार्थनिरूपणपरत्वेनाभिसम्बध्यते पृथिवीत्वाभिसम्बन्धादिति वाक्यम्। तथा च सामान्यं शब्दार्थः। तस्यैकतया सङ्केतकारणादिति जैमिनीयाः। विशेषस्त्वनियतदिग्‌देशसम्बन्धितया न कार्त्स्त्न्येनोपलब्धिभाजो भवन्तीति कथं सङ्केतविषयाः ?
अथ यावतामुपलम्भस्तावत्स्वेव सङ्केतकरणाद् व्यवहारः, तर्हि विशेषान्तरे सङ्केतासम्भवाद् व्यवहारानुपपत्तिः। न च अयोगिनः प्रत्येकमशेषविशेषोपलम्भः। न चानुपलब्धेष्विदमस्य वाच्यमिदमस्य वाचकमित्यभिधानाभिधेयनियमनियोगप्रतिपत्तिः। समयप्रतिपत्तञ्च विना शब्दश्रवणादर्थप्रतिभासाभावः। अथाभिन्ननिमित्तमुपादाय विशेषेषु सङ्केतः ? तदप्यसत्। अभिन्ननिमित्तसद्भावेऽपि विशेषाणामानन्त्यं नातिवर्त्तत इति सामान्ये सङ्केतात् सामान्यं शब्दार्थः।
न च सामान्यवति सङ्केतोपलम्भेन सामान्यमभिधायानन्तरं विशेषेषु वर्त्तिष्यत इति वाच्यम्। विरम्य व्यापाराभ्युपगमेन शब्दकर्मबुद्ध्यादीनां विरस्य व्यापारसम्भवाद् [?] इति सूत्रविरोधात्। तथा च विशेषणप्रतिपत्तावेव क्षीणत्वाद् विशेश्याप्रतिपादकम्। तदुक्तम्,
विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे [?]।
अथ सामान्यप्रतिपत्तेरपुरुषार्थत्वाद् विशेषार्थतया प्रतिपत्तुः प्रवृत्तिनिवृत्ती न स्यातामिति। तन्न। सामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषवबोधे सति प्रवृत्तिनिवृत्त्योर्भावात्। तथाहि,
निराधारं हि सामान्यं भवेच्छशविषणत्वात्। (श्लो0 वा, आकृति0 श्लो0 10) इत्याधारप्रतिपत्तिरित्यलमतिकल्पितेन।
स्वमैतदयुक्तम्। अभिन्ननिमित्तोपादाने सति सामान्यवति सङ्केतकारणात् सामान्यवाञ् शब्दार्थः। तद् यथा आनन्त्येनावस्थिता विशेषाः, तथा ह्येकं तेष्वभिन्नं सामान्यमेकत्रोपलब्धम्। तदुपलम्भादवुपलभ्यमाना अपि विशेषाः सामान्यवन्तः, सङ्केतविषयाः शब्दश्चानित्यत्वेऽपि विशिष्टानुपूर्वीसचिवा इति। तथाहि, यत्र यत्रेदृशं सामान्यं पश्यसि तत्र तत्रायं शब्दः प्रयोक्तव्यः। इत्थम्भूताच्च शब्दादयमर्थः प्रतिपत्तव्य इति सङ्केतग्रहो विशेषाणामानन्त्येऽपि घटत इति। तथा च शब्दश्रवणात् सामान्यवत्यर्थे प्रतिपत्तिर्दृष्टा। सा च सङ्केतप्रतिपत्तिमाक्षिपति। सङ्केतश्चानेनैव प्रकारेँ घटते नान्यथेति।
अथ गोशब्दश्रवणाच्छावलेयादिविशेषाप्रतिपत्तेर्न विशेषः शब्दार्थः। सत्यम्। किं तर्हि ? सामान्ययुक्तोऽर्थः प्रतीयते, न शावलेयादिविशेषः। स च शावलेयादिशब्देभ्य एव प्रतीयत इति। न चैतावता सामान्यमेव शब्दार्थः, प्रधानोपसर्जनभावेनोभयोः प्रतिभासनात्। तथा गामानयेत्यादिप्रयोगेषु सामान्यवतोऽर्थस्यानयनादिकृत्या सम्बन्धात्।
अथ सामान्यमभिधाय कथं विशेषे वर्त्तते, सूत्रविरोधात् ? न। सूत्रार्थापरिज्ञानात्। तथा च सूत्रस्यार्थः शब्दो हि एकदा विशेषणं प्रतिपाद्य पुनर्विशेषणं न प्रतिपादयतीति विरम्य व्यापारो कृत्वोत्तरसंयोगं करोति, अकृतसंयोगस्य विनाशाभावात्। न च विभागं कृत्वा संयोगं करोतीति विरम्य व्यापारप्रतिषेधः। तथा विशेषणबुद्धिर्विशेष्यबुद्धिः कृत्वा न कार्यान्तरमारभत इति। एवं सुखादिष्वपि प्रतिबोधः।
ननूक्तं क्षीणशक्तिर्विशेषणे इति, `विशेष्यं नाभिदध्यात्' इति तावच्छक्तेः कार्यविषयत्वात्। कार्यञ्च विशेषणप्रतिपत्तिवद् विशेष्यप्रतिपत्तिलक्षणमुपलभ्यमानं शक्तेर्व्यवस्थापकम्। अथ कार्यस्यैवाभावं ब्रूयात् ? स चैवं ब्रुवाणः स्वसंवेदनमपि बाधते, विशेष्यप्रतिपत्तेः संवेदनात्। भिन्नज्ञानालम्बनयोश्च विशेषणविशेष्यभावपक्षे चोद्यं नैकज्ञानालम्बने इति। समानञ्चैतदुपलभ्यमानस्य शब्दस्यार्थप्रतिपाद,कत्वाभ्युपगमात्। स्वात्मप्रतिपत्तौ च क्षीणत्वात् सामान्यप्रतिपादकत्वं न स्यात्। अथ सामान्यप्रतिपत्तेर्दृष्टत्वान्न तत्र शब्दशक्तेः प्रक्षयः ? तर्हि विशेषप्रतिपत्तेरपि दृष्टत्वान्न शक्तिप्रक्षयः। अर्थप्रतिपादनार्थश्च शब्दप्रयोग इति।
यच्चोक्तं शब्दसामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषाध्यवसाये प्रवृत्तिनिवृत्तीस्यातामिति। तत्र किं सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या विशेषावबोधः, तद्विशेषप्रतिपत्त्यन्यथानुपपत्त्या वा ? यदि सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या ? तथा सिति सामान्यमात्रप्रतिपत्तौ विशेषमात्रप्रतिपत्तिरिति प्रवृत्त्यभावः। अथ विशिष्टसामान्यप्रतिपत्त्यन्यथानुपपत्त्या ? स तर्हि विशेषप्रतिपन्नो विशेषणमिति शब्दावेव प्रतीयते।
अथ प्रमाणान्तरादिति यदि शब्दात् ? कथं सामान्यमेव शब्दार्थः, विशेषस्याप्यभिधायकत्वात्। अथ प्रमाणान्तरम् ? न (वा?), प्रमाणान्तरव्यापाराननुभावात्। न च सामान्यं परपक्षे विशेषाद् भिन्नं सम्भवतीत्यभेदे सामान्यप्रतिपत्तिवद् विशेषप्रतिपत्तिप्रसङ्गः। अन्यथा हि एतत्प्रतिपत्तावितरप्रतिपत्तेर्भेदः। अय इष्यत एव केनचिद्रूपेण अभिन्नं भिन्नञ्चेति। न। भेदाभेदयोर्विधिप्रतिषेधरूपत्वाद् अभिन्ने धर्मिण्यसम्भवः। तथा हि किं येन रूपेण भिन्नं तेनैव रूपेणाभिन्नमुत रूपान्तरेणेति वाच्यम्। यदि देशभेदापेक्षया भिन्नं रूपभेदेन त्वभिन्नमित्यविप्रतिपत्तिः। परो विभिन्नदेशभेदापेक्षया भेदं प्रतिपद्यत इति।
अथानुगतव्यावृत्तात्मतया प्रतिभासाद् वस्तुबोधात्मकत्वम्। तदसत्। अनुगतसामान्यसम्बन्धानुगतम्, स्वरूपेण तु व्यवृत्तमितीष्यत एव द्विरूपता। न चैकत्वे तादात्म्ये सति द्विरूपतोपपद्यत इति समवायलक्षणः सम्बन्धोऽभ्युपगन्तव्यः। स्वरूपभेदेन तु भेदे समवायं विना नियतविशेषेण व्यपदेशानुपपत्तिः। पृथिव्याः पृथिवीत्वमित्यादिसम्बन्धं विना यावत् पृथिव्या व्यपदिश्यते तदवस्थान्तरेण कस्मान्नेति नियमाभावः।
यदि च पृथिवीशब्दः पृथिवीत्वमभिदद्ध्यात् पृथिवीत्वशब्दस्यार्थो वक्तव्यः। न चाभेदे तद्धितसाफल्यं पश्याम इति सामान्यवानर्थः पृथिवीशब्दस्येति युक्तम्। अथ एकत्र सङ्केतितः पृथिवीशब्दः कथमर्थान्तरे प्रवर्त्तिष्यत इत्याह पृथिवीत्वाभिसम्बन्धात् निमित्तात् पृथिवीशब्द एकत्र सङ्केतितः, स चार्थान्तरेऽपि तद्वशात् प्रवर्त्तत इति सङ्केरानुपपत्तेर्विशेष एव शब्दार्थो न सम्भवतीति सांख्यशाक्तपक्षोऽपि निषद्ध एव।
तथा " शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः" (श्लो0 वा0, शून्य0 श्लो0 254) अत् तन्निरासः। यत् पृथिवीत्वाभिसम्बन्धात् पृथिवी कार्यं करोतीति पृथिवीत्वमेव निजा शक्तिरन्या तु चरमसहकारिरूपा, तत्सद्भावे कार्यकरणात् तदभावे चाकरणादिति। तथाहि, विद्यमाना अपि तन्तवः कार्यं नारभन्तेऽन्तयतन्तुसंयोगं विनेति सैव शक्तिः। अथ अर्थान्तरमर्थान्तरस्य कथं शक्तिः ? अनर्थान्तरत्वेऽपि समानमेतत्। सैव तस्यैव शक्तिरिति। अथ यदि पूर्वेषां चरमसहकार्येव शक्तिस्तस्याप्यश्कतस्याकारँत्वादन्या शक्तिर्वाच्येत्यनवस्था। नैतदेवम्। चरमस्य हि सहकारिणः पूर्वसहकारिणा एव शक्तिः इतरेतराभिसम्बन्धेन कार्यकरणात्। स एव च समग्राणां भावः सामग्रीति भावप्रत्ययेनोच्यते, तेन हि सता समग्रव्यपदेशदर्शनात्।
ननु यदि अतीन्द्रिया शक्तिर्नेष्यते, मणिमन्त्रादिना तर्हि प्रतिबद्धोऽग्निर्न स्फोटादिकार्यमारभत इति कस्य प्रतिषेधः ? न चाग्नेः, न चाग्निसंयोगस्य उपलभ्यमानत्वादिति शक्तेः प्रतिबन्धः। तदसत्। मणिमन्त्रादिप्रतिबन्धकाभावस्यापि कार्योत्पत्तौ सहकारित्वात्। तदभावे तु न कार्यस्योदय इति तद्विशिष्टसंयोग एव शक्तिः। न पुनः शक्तेः प्रतिब्धो नानुत्पत्तिर्विनाशो वा सम्भवतीति। चिरोत्पन्नत्वाद् विनष्टायाश्च पुनरुत्पत्तिकारणाभावादनुत्पत्तिर्विनाशो वा सम्भवतीति। चिरोत्पन्नत्वाद् विशिष्टयाश्च पुनरुत्पत्तिकारणाभावादनुत्पत्तिप्रसङ्गः। अशक्तस्य कार्यानुत्पादकत्वादित्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एवाग्निशक्तिरिति ज्ञातम्। एवमत्रापि पृथिवीत्वं निजा शक्तिपरा तु सहकारिभीतेति।
पृथिव्यादीनां नवानां गुणवत्त्वं समवायिकारणत्वं क्षित्युदकात्मनां चतुर्दशगुणवत्त्वञ्चोक्तम्। तत्र कैर्गुणैर्गुणवती, केषामुत्पत्तौ समवायिकारणत्वम्, के चतुर्दश गुणाः, किञअच गुणात्मकं लक्षणमित्याह रूपादिवाक्यम्। रूपादयः संस्कारपर्यन्तं विद्यन्ते यस्याः सा रूपादिसंस्कारवती। किमेते स्वतन्त्रतया वृत्तिकृता प्रतिपाद्यन्ते, उत सूत्रकारस्याभिप्रेता इत्याशङ्क्याह * एते च गुणविनाशाधिकारे * इत्यादि। एते च सूत्रकारेणाभिहिताः। कस्मिन्नधिकारे ? गुणा विविधमनेकप्रकारेण विनिश्यन्ते यस्मिन्नधिकारे स तथोक्तो द्वितीयोऽध्यायः, तत्र सूत्रकारेण प्रतिपादिताः।
तथा च रूपरसगन्धस्पर्शवती पृथिवी (वै0 सू0 2।1।1) इत्यनेन विशेषगुणाश्चत्वारोऽभिहिताः। * तथा चाक्षुषवचनात् * इति। संख्याः, परिमाणानि, पृथक्त्वम्, संयोगविभागौ, परत्वापरत्वे, कर्म च रूपद्रव्यसमवायाच्चाक्षुषाणि ( वै0 सू0 4।1।12) इति सूत्रं दर्शयति।
सूत्रस्यार्थः----रूपद्रव्यमुपलब्धिलक्षणप्राप्तं महत्त्वाद्युपेतम्, तत्र समवायात् संख्यादयश्च प्रत्यक्षग्राह्या इति, अन्यपरेणापि सूत्रेण रूपवति द्रव्ये संख्यादीनां सद्भावोऽभिहितः। अन्यथा ह्यविद्यमानत्वादेव तत्र तेषामुपलम्भो न स्यादिति।।
पदार्थश्च संख्या इति बहुवचनं संख्यात्वव्यतिरेणैकत्वत्वाद्यपरसामान्यज्ञापनार्थम्। परिमाणानीति। तथा परिमाणत्वापेक्षयाणुत्वाद्यपरसामान्यज्ञापनार्थम्‌। पृथक्त्वमित्येकवचनं पृथक्त्वसामान्यापेक्षया एकपृथक्त्वत्वाद्यपरसामान्यशून्यताप्रदर्शनम्। संयोगविभागाविति द्विवचनेन संयोगत्वविभागत्वव्यतिरेकेण अपरसामान्याभावेऽपि विभागस्य संयोगापेक्षिताज्ञापनार्थं समासकरणम्। तथा परत्वापरत्वे इत्यपि द्विवचनं परत्व [त्वा] परत्व [त्व] सामान्यापेक्षया अपरसामान्याभावेऽपि साहचर्यज्ञापनार्थं समासकरणमिति।
तथा * पतनोपदेशाद् * इति। गुरुत्वात्पतनमिति ( वै0 सू0 5।1।7)। सूत्र दर्शयति। यथा च पतने गुरुत्वं कारणं तथा वक्ष्यामो गुरुत्वपरीक्षायाम्। * अद्भिः सामान्यवचनात् * इति। सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् (वै0 सू0 2।1।6) इति सूत्रं दर्शयति। सर्पिरादीनामग्निसंयोगाद् द्रवत्वं सम्पद्यतेऽद्भिः तथा सामान्यं यथा भवतीति सूत्रार्थः। * उत्तरकर्मवचनात् * इति। नादेनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारात्तथोत्तरमुत्तरञ्च (वै0 सू0 5।1।17) इति सूत्रं दर्शयति इषोः शरस्याद्यं कर्म नोदनाद् भवतीति, कर्म च नोदनापेक्षं संस्कारमारभते। कर्मकारिताच्च संस्कारात् तथोत्तरञ्च, एकः संस्कारोऽनेकं कर्मारभते पतनं यावदिति। इषोः समवायिकारणस्यावगतायां सम्भविन्यामिषोरिति षष्ठ्यभिधानं तदवयवेष्वपि कर्मज्ञापनार्थम्। यद् वा षष्ठ्यर्थस्य विद्यमानत्वात् तदभिधानेऽप्यदोषः।
क्षितावेव गन्धः। रूपमनेकप्रकारकं शुक्लादि। रसः षड्विधो मधुरादिः। गन्धो द्विविधः सुरभिरसुरभिश्च। स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः।
सा तु द्विविधा, नित्या अनित्या च। परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या। सा च स्थैर्याद्यवयवसन्निवेशविशिष्टजातिबहुत्वोपेता शयनासनाद्यनेकोपकारकरी च।
त्रिविधञ्चास्याः कार्यं शरीरेन्द्रियविषयसंज्ञकम्
तत्र शरीरं द्विविधं योनिजमयोनिजञ्च। तत्रायोनिजम् अनपेक्षशुक्रशोणितं देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते। क्षुद्रजन्तूनां यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते।
शुक्रशोणितसन्निपातजं योनिजम्। तत्तु द्विविधं जरायुजमण्डजञ्च। मानुषशुमृगाणां जरायुजम्, पक्षिसरीसृपाणामण्डजम्।
इन्द्रियं गन्धव्यञ्जकं सर्वप्राणिनां जलाद्यनभिभूतैरसम्पृक्तैः केवलैः पार्थिवावयवैरारब्धं घ्राणम्।
विषयस्तु द्व्यणुकादिप्रक्रमेणारब्धस्त्रिविधो मृत्पाषाणस्थावरलक्षणः। तत्र भूप्रदेशाः प्राकारेष्कादयो मृद्विकाराः। पाषाणा उपलमणिवज्रादयः। स्थावरा वृक्षतृणौषधिगुल्मलतावतानवनस्पतय इति।
रूपादयो हि असाधारणत्वाद् भेदका इति प्रतिज्ञातार्थसमर्थमसाधारणत्वमाह * क्षितावेव गन्धः * इत्यादि। अथोदके तेजसि वोपालम्भाद् गन्धस्यावधारणमनुपपन्नम् ? न। संयुक्तसमवायेनोपलम्भात्। तथाहि, उदके वासकद्रव्यसम्पर्काद् गन्धाभिव्यक्तिर्दृष्टा, तेजसि वा इन्धनविशषानुवधानादिति। यदि पुनः स्वभावत एव स्याद् गन्धस्तेजसीन्धनविशेषं विना, वासकद्रव्यसम्पर्कञ्च विना वारिण्युपलभ्येत। न चैवम्। अतो युक्तमेतत् क्षितावेव गन्ध इति।
रूपं शुक्लाद्यनेकप्रकारं क्षितावेव, नोदके न तेजसि। नियमेन शुक्लमेवोदके भास्वरञ्च तेजस्युपलभ्यते। पृथिव्यान्त्वनेकप्रकारम्। तथा हि पटादिभेदभिन्नत्वात् पृथिव्याः काचिच्छुक्ला काचिद्धरितेत्युपलम्भः।
ननु युक्तं व्यक्तिभेदापेक्षयानेकरूपसम्बन्धित्वं पृथिव्याः, या तु गोलकरूपा न तस्यामनेकप्रकारम्। अथ तत्रापि केचिद् भागाः शुक्लाः, केचित् कृष्णा इत्याद्युपलम्भाद् अनेकरूपसम्बन्धित्वम्। न। अवयवावयविनोरन्यत्वात् (लुप्तं वै0 सू0) इति व्याहन्येतेति।
व्यापके हि द्रव्ये समानेन्द्रियग्राह्याणां बहूनामपि सम्भवो दृष्टो यथा शब्दानामकाश इति तन्निरासाय अविभुग्रहणम्। तथा अविभनि द्रव्ये त्रिभिन्नेन्द्रियग्राह्याणां रूपरसादीनां सम्भवादिति समानेन्द्रियग्राह्यपदम्, समानेन्द्रियग्राह्याणामपि संख्यादीनां बहूनामविभूनि द्रव्ये सम्भवो दृष्टस्तद्‌व्यवच्छेदाय विशेषग्रहणम्।
अतो बहूनां रूपाणामेकस्यां पृथिव्यामभ्युपगमे व्याघातः। अभ्युपगम्यापि ब्रूमः शुक्लादीनां बहूनामेकत्र सद्भावे किमाश्रयव्यापित्वं प्रदेशवर्त्तित्वं वा ? आश्रयव्यापित्वे सत्येकावयवसहितेऽप्यवयविन्युपलब्धे परावयवावरणेऽप्यनेकरूपं गृह्येत, आश्रयव्यापित्वादेव। अथ प्रदेशवृत्तित्वम् ? तथापि विशेषणमाश्रियव्यापित्वमिति विरुध्यते।
अथैकं चित्रं तद् रूपमिति। यथा शुक्लं पीतमित्यादिविशेष्यस्तथां चित्रं रूपविशेष एव। अत्रोक्तम्,
चित्रं तदेकमिति चेदिदं चित्रतरं ततः। (प्र0 वा0 2।200)
यद्येकं तत् कथं चित्रञ्चेदेकता कथम्।।
एकं चित्रञ्चेत्यतिशयेनाश्चर्यमिति। न परस्परविरुद्धानां रूपाणामेकरूपारम्भकत्वं न्याय्यम्। समानरूपारम्भकत्वेनोपलम्भात् शुक्लात् शुक्लमिति।
अथ पृथिव्यामप्सु च शुक्लादिविशेषरूपमात्रमुपलम्भान्यथानुपपत्त्या निश्चीयते। अन्यथा हि नीरूपत्वाच्चक्षुर्ग्राह्यत्वं न स्यात्, रूपवतो द्रव्यस्य चक्षुर्ग्राह्यत्वादिति। न चावयवरूपादेव चक्षुर्विषयत्वम्। अन्यरूपेणान्यस्य चक्षुर्विषयत्वे वायोरपि तथाभावप्रसङ्गात्। अतश्चक्षुर्विषयत्वाद् रूपमात्रं क्षिताविति।
नन्वेवमनेकप्रकारं क्षितेः रूपमिति विरुध्यते, रूपमात्रस्य शुक्लाद्यन्तर्भावाभावात्। तथा ह्यनेकप्रकारं शुक्लादिरभेदभिन्नमित्युच्यते। रूपमात्रञ्च विशेषरहितमिति विरोधः।
तदेतत् सर्वमविदितार्थम्। शुक्लाद्यनेकप्रकारस्य रूपस्य क्षितावभ्युपगमात्। ननूक्तं सूत्रविरोध इति। न। सूत्रार्थापरिज्ञानात्। तथा च सूत्रस्यार्थः, अविभुन्यव्यापके द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामेकाकाराणामसम्भव इति प्रतिषेधः। न त्वनेकप्रकाराणाम्। कथमेतत्? अनेकाकारस्वरूपस्य क्षितावुपलम्भात्। तथा रसस्य षड्भेदस्येति।
अथैकाकाराणां बहूनां रूपाणां रसानाञ्चैकत्र सद्भावस्तस्मान्नेष्यते, वैयर्थ्यात्। तथा ह्येकेनैव शुक्लरूपेण रूपप्रत्ययस्य जनितत्वाद् द्वितीयस्य वैयर्थ्यमेव। तथा मधुररसेन मधुरप्रत्ययस्येति।
अथ शुक्लादीनामेकस्य सद्भावे किं व्याप्यवृत्तित्वम्, उताव्याप्यवृत्तित्वम् इत्युक्तम्। तत्राव्याप्यवृत्तित्वे न विरोधः। शेषाणामाश्रयव्यापित्वमेवेत्यवधारणानभ्युपगमात्। अत एवैकावयवसहितस्य पटस्योपलम्भात् तदेकरूपोपलम्भोऽपि। आश्रयव्यापितया अनेकरूपाणामनुपलम्भाच्चित्रप्रतिभासाभावः।
अथ किं चित्रम्, अथाचित्रादीति ? चित्रादुत्पत्त्यभ्युपगमे पटकारणकारणेष्वपि चित्रप्रतिभासप्रसङ्गः। अथाचित्रादुत्पद्यते ? तदा हि एकरूपः सर्वत्र चित्ररूपोत्पत्तिप्रसङ्गः। नैतद् युक्तम्। नानारूपाणि हि कारणानि नानारूपं कार्यमारभन्त इत्युपलब्धम्। न चैवं तत्कारणकारणेषु नानारूपाणि सन्तीति चित्रानुत्पादः। न च तन्तूनां नीलाद्यनेकरूपसम्बन्धित्वात् पटेऽप्यनेकरूपारम्भकत्वे किञ्चिद् बाधकमिति। कारणगुणपूर्वप्रक्रमेण तथाविधस्य रूपस्योपादानात्। तथाहि, प्रत्येकं कारणेष्वविचित्रादपि रूपान्नीलान्नीलं पीतात्पीतमिति युक्तम्। भवतु चैवैकं चित्रं रूपं नीलादिरूपैरेकरूपारम्भात्। यथा हि शुक्लादिर्विशेषो रूपस्य तथा चित्रं रूपादिविशेष एव। यद्यपि शुक्लादिशब्दैर्न व्यपदिश्यते तथापि स्वशब्देन व्यपदेशदस्तित्वम्।
अथ विरुद्धानां नीलादीनां कथमेकरूपारम्भकत्वम् ? यथा शुक्लानामिति। यथा हु बहूनि शुक्लरूपाणि एकं शुक्लरूपमारभन्त इत्युपलब्धं तथा नीलादीनामपि चित्ररूपारम्भकत्वं दृष्टत्वादभ्युपगन्तव्यम्। अथ चित्रशब्दस्य नानापर्यायत्वाद् एकं चित्रञ्च इतीदमेव चित्रमाश्चर्यमिति। तदसत् ? यथा नानारूपेषु चित्रव्यपदेशः `चित्रास्तन्तवो नीलादिरूपसम्बन्धिनः' इति, तथा तदारब्धेऽपि पटे चित्रव्यपदेशः `चित्रः पटः' इति `चित्रं रूपमस्य' इति। न चावश्यं नानारूपसम्बन्धिष्वपि पटादिषु चित्रव्यपदेशो दृष्टः। नानारूपैस्तु कारणैरारब्धेऽवश्यं भवतीति।
अथैकत्वाच्चित्ररूपस्य एकावयवसहितेऽप्यवयविन्युपलब्धे शेषावयवावरणे विचित्रप्रतिभासः स्यात् ? सहकार्यभावात्। तथा ह्यवयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीत्यन्वयव्यतिरेकाभ्यामुपलब्धम्, तेन शेषावयवावरणे तद्रूपाणामग्रहणादवयविनि चित्रप्रतिभासाभावः। न चाप्रतिभासादेकान्तेनासत्त्वं सहकार्यभावेनाप्युपलम्भात्।
यच्च रूपमात्रमुपलम्भान्यथानुपपत्त्या ज्ञायत इति कैश्चिदुक्तं तत्रापि न दोषो विप्रतिपद्यमानस्यानुपमानोपन्यासात्। तथाहि, शुक्लादिविशेषव्यतिरिक्तं चित्रं रूपं क्षितौ विद्यमानमपि वैजित्याद् यो न मन्यन्ते तं प्रत्यनुमानं क्षितेरुपलम्भाद् रूप [व] त्त्वं विज्ञायत इति, चक्षुषोपलम्भाच्च। सिद्धे रूपवत्त्वे शुक्लादिशब्दैर्व्यपदेशासम्भवाच्चित्रशब्देनाभिधीयत इति सिद्धम्।
एतेन रससो व्याख्यातः। रसः षड्विधो मधुरादिः क्षितावेव। व्यक्तिभेदेन एकस्याञ्च व्यक्ताविति। तथा चैकस्यापि हरीतक्यामुपलभ्यते षड्विधो रस इति। अत एव षड्भेदस्यान्यत्रानुपलम्भाद् इतरेभ्यो भेदकत्वम्।
तथा गन्धो द्विविधः सुरभिसुरभिश्च। एकस्यां पृथिव्यां व्यक्तिभेदेन [एकस्यां] चेति पूर्ववत्। अथ सुरभिगन्धाभाव एवासुरभिरिति व्यवहारसम्भवाद् गन्धस्य द्वैविध्यमनुपपन्नम् ? न। उभयोस्तीव्रतरादिभेदभिन्नत्वात्। यथा हि सुरभिगन्धे तीव्रतरादिव्यवहारस्तथा असुरभिगन्धेऽपीति। सुरभिगन्धाभावे च एतन्नोपपन्नम्, अभावस्य निरतिशयत्वादिति।।
अन्ये तु (किल) पाकादग्नेरुष्णस्पर्शो भवतीति अनुष्णग्रहणम्। अशीतग्रहणमेव तु स्वरूपार्थमिति।
अथ रूपादीनामिव वैलक्षण्यप्रतिभासनान्न पाकजत्वं स्पर्शस्य। तन्न। प्रत्यक्षेण वैलक्षण्यप्रतीतावप्यनुमानेन पाकजत्वप्रसिद्धेः। तथा च पार्थिवस्पर्श, पाकजः, पार्थिवविशेषगुणत्वात्, तद्गतरूपादिवदिति।
नन्वेवं सामान्यगुणानामपि पाकजत्वप्रसङ्गः पार्थिवगुणत्वाद् रूपवदिति। नैतद् युक्तम्। सामान्यगुणानां पक्षीकरणेऽग्निसंयोगनैवानेकान्तः। तथाहि, पार्थिवपरमाणवग्निसंयोगोऽग्निसंयोगजो न भवति पार्थिवगुणश्चेति। न चैवं पार्थिवविशेषणत्वं व्यभिचरतीति। सपक्षैकदेशे वर्त्तमानस्यात्यन्तं विपक्षाद् व्यावृत्तेर्गमकत्वमेव। न च पक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्ययापदिष्टः। न च प्रकरणसमः तत्वानुपलब्धैरप्रयोजकत्वात्। अतः पाकजस्पर्शादिकारणत्वाद् इतरेभ्यो भिद्यते पृथिवीति।
समानानां भावः सामान्यम् भेदाधिष्ठानमतो भेदमाह * सा तु द्विविधा * इति। सा तु पृथिवी द्विविधा। केन रूपेणेत्याह * नित्या चानित्या च *नित्या परमाणुलक्षणा परमाणुस्वभावा। कार्यलक्षणा कार्यस्वभावा त्वनित्येति भेदः। भेदे च सति सामान्यलक्षणमुपपद्यत इत्यसम्भवित्वाशङ्काव्युदासः।
सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात् पुनरुत्पत्तिर्न स्यादित्याशङ्कानिरासार्थञ्च वाक्यम् * सा तु द्विविधा नित्या चानित्या च * अनित्ययाश्च नाशे नित्या पुनर्द्व्‌यणुकादिप्रक्रमेण स्वर्गादौ कार्यमारभत इति सिद्धम्।
कथं पुनः परमाणुस्वभावा पृथिवी ज्ञायत इत्याशङ्क्याह * कार्यलक्षणा *। कार्येण लक्ष्यते ज्ञायत इति। तथा हि कार्यं समवायिकारणपूर्वकं तत्कारणमपि अन्यसमवायिकारणजन्यमिति यावदाद्यं कार्यं तदपि समवायिकारणजन्यमिति। तज्जनकाः परमाणवः। तथा कार्यादल्पपरिमाणं समवायिकारणम्। तस्याप्यन्यदल्पपरिमाणमित्याद्यं कार्यं निरतिशयाणुपरिमाणैरारब्धमिति ज्ञायते।
अथ तदवयवनामपि पर्यवसानं नेष्यते नित्यकारणानभ्युपगमात्। तर्हि कार्यस्याकस्मिकस्यासम्भवात् तत्कारणेऽप्यन्यं समवायिकारणमित्यनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो न स्यात्। तथाहि, अल्पकारणारब्धमल्पं भूयःकारणारब्धं [महद् ] इति दृष्टम्। न च कार्यद्रव्यस्य नित्यकारणानभ्युपगमेनानावस्थायमेतदुपपद्यते, सर्वस्यापि अनन्तरकारणजन्यत्वाविशेषादिति। यथा अनन्तकारणैरारब्धा गोलकरूपा पृथिवी तथा घटादिकार्यमपीत्येकाकारताप्रसङ्गः। न च संख्याथलपरिमाणैरेकाकारतोपलब्धा घटादेर्भिन्नपरिमाणत्वात् भिन्नपलत्वाच्चेति। तथा हि किञअचिद्धीनं पञ्चपलमधिकतरञ्च दशपलं समानाकारणैरारब्धं बहुभिश्चेति वैचित्र्यम्। तच्चानवस्थायां न स्यात्।
न च नित्यानभ्युपगमे प्रलयावस्थायां सर्वस्य कार्यद्रव्यस्य विनाशे पुनरुत्पत्तिर्भवेत्, अभावस्य समवायिकारणत्वाभावादिति। यथा च प्रसयावस्थायां सम्भवति तथा च वक्ष्यामो भूतपरीक्षायामिति। अतो नानावस्था व्यावर्त्तनीया। पजादिकारणकारणानामल्पतरादिभावेनावस्थितानामादिकार्यमभ्युपगन्तव्यम्।
तदाद्यं कार्यं समवायिकारणजन्यं कार्यत्वात्, यद् यत् कार्यं तत्तत् समवायिकारणजन्यं यथा पटादि, तथा चैतत् कार्यम्, तस्मात् समवायिकारणजन्यमिति। न च कार्यत्वमभावेन व्यभिचरतीति वाच्यम्। स्वकारणसत्तासम्बन्धरूपत्वात् कार्यत्वस्य। तथा घटादिकारणकारणेष्वल्पतरादिभावः क्वचिद् विश्रान्तस्तरतमशब्दवाच्यत्वाद् महापरिमामवत्। यत्र विश्रान्तास्ते परमाणव इति।
अथ सावयवाः परमाणवो मूर्त्तत्वाद् घटवत् षट्केन युगपत् सम्बद्ध्यमानत्वात्, तथा पूर्वभागोऽपरभाग इति गिदुपलिक्षितैर्देशैर्व्यपदिश्यमानत्वात्, सावयवकार्यारम्भकत्वाच्च तन्त्वादिवदिति।
सर्वमेतदाश्रयासिद्धं परमाणुसद्भावासिद्धेः। अथेष्यत एव परमाणोः सद्भावः, तर्हि परमाणुसद्भावावेदकप्रमाणस्याभ्युपगमात् तद्विपरीतानुमानं निर्विषयत्वादप्रमाणमिति। अभेद्याः परमाणवः परेणाभ्युपगमात् तस्यानिष्टापत्तिः क्रियत इति प्रसङ्गसाधनम्। तत्र यदि प्रमाणेनाभ्युपगताः परेण परमाणवस्तस्य प्रामाण्याभ्युपगमेऽनुत्थानं विपरीतानुमानस्य। अथाप्रमाणात्, एवं तर्हि तस्याप्रमाणतया परमाणुसद्भावो न सिद्ध्यतीति किमनुमानोपन्यासेनाश्रयासिद्धताप्रसङ्गात्।
तथा परमाणवः सावयवाश्चेति प्रतिज्ञावाक्ये पदयोर्विरोधः। तथाहि, परमाणुशब्दस्य निरतिशयाणुवाचित्वम्, सावयवत्वे वा अवयवापेक्षयाधिकपरिमाणत्वमिति विरोधः। न च समानाधिकपरिमाणत्वे समवायिकारणत्वमिति तदवयवाः परमाणवः। तेषामपि सावयवत्वे तदवयवाः तेषामपि सावयवत्वे तदवयवा इत्यनवस्थायामुक्तं दूषणमल्पतरादिभेदानुपपत्तिरिति।
अथा मा भूदनवस्थेति निरवयवाः परमाणवोऽभ्युपगम्यन्ते प्रमाणतः, तर्हि तेन बाध्यमानत्वात् सावयवत्वानुमानप्रमाणमिति।
अथ निरवयवत्वादणूनां षट्केन योगो दिग्‌देशव्यपदेशश्च न स्यात्। न। अनयथापि भावात्। तथाहि, संयोगस्याव्याप्यवृत्तितया पूर्वोत्तरादिदिग्‌व्यवस्थिते युगपत् सम्बन्धेऽपि न सावयवत्वम्। एवं पूर्वभागोऽपरभाग इति यद्यस्ति व्यपदेशः सोऽपि मुख्ये बाधकोपपत्तिर्भक्तो द्रव्टव्यः, अव्याप्यवृत्तिसंयोगाधारत्वसामान्यादिति।।
यच्च सावयवारम्भकत्वं तत्र [ तच्च ] यदि सहावयवैरारम्भकत्वं तदसिद्धं निरवयवत्वात्।।
अथ सावयवस्य सदावयवैवर्त्तिष्यमाणस्य कार्यस्य जनकत्वम् ? तदसिद्धम्, परमाणुभ्यां द्व्यणुकारम्भात्। तथाहि, परमाणवो द्व्यणुकान्यारम्भते न स्वात्मानम्, नित्यत्वात्, स्वात्मनि क्रियाविरोधाच्चेति। तन्तुदृष्टान्तोऽपि साधनविकलः। ते हि नावयवसहिताः कार्यमारभन्ते, नाप्यवयवासहिता इति स्थितं कार्येण।
लक्ष्यते नित्या पृथिवीति। अभेदवादिनिरासार्थञ्च सा द्विविधेति वाक्यम्। तथाहि, पृथिवी पृथिव्यन्तराद् भिद्यमाना किं पृथिवीरूपतया भिद्यत उतापृथिवीरूपतयोति ? पृथिवीरूपतया पृथिव्यन्तराद् भेदे तस्याः पृथिवीत्वप्रसङ्गः। अथापृथिवीरूपतया भिद्यते, या तर्हि विशेषान्तरात्, अनवस्था। अथान्तरेण विशेषं विशेषा भिद्यन्ते, पृथिव्यावस्तथाभावप्रसङ्ग इत्युक्तं द्वैतवादिना।
भेदमाह * सा च द्विवधा, नित्या अनित्या च * नित्या पृथिवी निरूपतया अनित्यातो भिद्यतेऽनित्या तु नित्यातश्चेत्यवान्तरभेदादेव भेदः। अथ तेषामपि विशेषान्तराद् भेदाभ्युपगमेऽनवस्थेत्युक्तम्। तदसत्। तत्राप्यसाधारणधर्मस्यासाधारणधर्माद् भेदाभ्युपगमेऽपि जातिगुणक्रियादिरूपतया षट्स्वेन्तर्भावादनवस्थायामप्यदोषः। व्यावृत्तस्वरूपं पदार्थानां निर्विकल्पकज्ञाने प्रतिभासत इत्युक्तोत्तरमेतत्।
यद् वा लक्षणेन लक्षम्यमाणस्यैकानेकत्वोपलब्धेः संशये सति तन्निरासार्थं वाक्यम्। * सा तु द्विविधा * इति। नैकत्वमाकाशस्येव [इति] विप्रतिपत्तिनिरासार्थम्।
कार्यलक्षणाया धर्मान्तरं निरूपयति * सा च स्थैर्याद्यवयवसन्निवेशविशिष्टा * इति। स्थिराया भावः स्थैर्यम्, तदादिर्येषां मृदुत्वकठिवत्वादीनां ते स्थैर्यादयस्ते चावयवानां सन्निवेशश्च रचनाविशेषस्तैर्विशिष्टेति।
गुरुत्वविधारकस्यासम्भवात् सर्वदा पतनं क्षितौ विद्यमानमपि पूर्वपरभागादवधारणान्नोपलभ्यत इति दिग्‌वाससां मतम्, तन्निरस्यते। स्थैर्यपदेन स्थैर्यं स्थिरत्वमपात इति यावत्। यदि पुनः पातः स्याद् गुरुत्वातिशयेन पातातिशयोपलब्धैः क्षितेरतिशयेन पातादुपरि क्षिप्यस्य लोष्टादेर्भूमिसम्बन्धो न स्यात्। तथाहि, लोष्ठस्य यावदुपरि गमनं पुनर्मन्दमागमनं तावत् क्षितेः शीघ्रपातितया योजनशतादिव्यवधानं स्यादिति सम्बन्धाभावः। दृष्टन्तु सम्बन्ध इति ज्ञायते न पतनं क्षितेरिति। अत एव अपतनान्यथानुपपत्त्या ज्ञायते गुरुत्वविधारकं किञअचिदस्तीति। अन्यथा हि गुरुत्वविधारकाभावे पादोऽवश्यं स्यादिति। स तु न भवतीति प्रतिबन्धोऽनुमीयते। अत्र हि गुरुणो द्रव्यस्य प्रतिबन्धकत्वे तस्यापि गुरुत्वयोगितया पातः स्यादिति वायोर्महतः प्रतिबन्धकत्वम्। दृष्टं ह्यल्पीयसोऽपि वायोरुपरि पर्णादिव्यवस्थापने गुरुत्वविधारकत्वम्। पृथिवीप्रतिबन्धकस्त्वादिसृष्टावुत्पन्नोऽतिशयेन महान् वायुः पृथिवीमुदकादिसहितां तृणमिव धारयते।
तथा स्थैर्यम्, पृथिव्या अक्षणिकत्वमित, क्षणिकत्वापाकरणार्थञ्च स्थैर्यग्रहणम्। यथा च क्षणिकत्वं न सम्भवति तथा वक्ष्याम इति।
येतु निरवयवामकार्याञ्च पृथिवीं मन्यन्ते तन्निरासार्थमवयवसन्निवेशविशिष्टेति। अवयवा हि भागस्ते क्षितावुपलभ्यन्ते तत्सन्निवेशो रचनाविशेषः प्रत्यक्ष इति। तथावयवसन्निवेशविशिष्टत्वाच्च कार्यत्वम्। तथाहि, पृथिवी कार्या, अवयवसन्निवेषशविशिष्टत्वात्, यद् यदवयवसन्निवेशविशिष्टं तत्तत् कार्यं दृष्टम्, यथा घटादि, तथा चावयवसन्निवेशविशिष्टा पृथिवी, तस्मात् कार्येति।
ननु कार्यत्वेऽप्यवयवसन्निवेशविशिष्टत्वानुपलब्धेर्बुद्ध्यादावित्यप्रयोजकत्वादप्रमाणमिति जैमिनीयाः। तदसत्। सपक्षैकदेशवृत्तेर्गमकत्वाभ्युपगमात्। तथाहि, यद् यदवयवसन्निवेशवत् तत्तत् कार्यं तत्तदवयवसन्निवेशवदिति ब्रूमः। न च सपक्षैकदेशे वर्त्तमानस्यागमकत्वम्, धूमानुमानस्यागमकत्वप्रसङ्गात्। तथाहि, यदि धूमवत्त्वप्रयुक्तं स्यादग्निमत्तवम् अन्तरेण धूमवत्त्वमग्निमत्त्वं न भवेदिति। अथ विषयव्याप्तिकत्वाद् यो यो धूमवान् स सोऽग्निमानित्येव व्याप्तिः, न पुनर्यो योऽग्निमान् स स धूमवानित्येवम्। तर्ह्यवयवसन्निवेशवत्तवस्यापि सपक्षैकदेशे वर्त्तमानस्य नाप्रयोजकत्वम्।
अथ अभूत्वा भावित्वस्यानुपलब्धेर्न क्षितेः कार्यत्वम्। किमत्र प्रत्यक्षेणानुपलब्धिः ? अथाभूत्वा भावित्वस्यानुमानेन वा ? प्रत्यक्षेणानुपलब्धौ कस्यचिद् घटीदौ नोपलभ्यत इत्यकार्यताप्रसङ्गः। अथ तत्राप्यभूत्वा भावित्वमवयवसन्निवेशत्वेन ज्ञायत इति क्षितावप्यवयवसन्निवेशवत्त्वेनैवाभूत्वा भावित्वं गम्यत इति समानम्। कार्यत्वेन च कर्त्तृपूर्वकत्वं गम्यत इति वक्ष्यामो भूतपरीक्षायाम्।
तथा कार्यलक्षणाया धर्मान्तरमाह * अपरजातिबहुत्वोपेता * इति। अपरा तु जातिः पृथिवीत्वापेक्षया घटत्वपटत्वादिरूपा, तस्या बहुत्वमपरिसंख्यातत्वम्, तदपेता तदयुक्तेति। न चैवं परमाणुलक्षणेऽतिवैलक्षण्यम्।
तथै कार्यलक्षणायाः कार्यं निरूपयति * शयनासनादि * भेदेनानेकमपकारं करोतीति * अनेकोपकारकरी च * यदेवार्थक्रियाकारि तदेव परमार्थसत्, अर्थक्रियाविरहो ह्यभावलक्षणमिति दर्शनस्य सत्तासम्बन्धेन सत्ताभ्युपगमेऽप्यभ्युपगमवादेन निरासार्थं चेतद् भवतीति।
पृथिवीकार्यस्यानन्तत्वादशक्यं तत्परिज्ञानं मा भूदित्यवान्तरभेदेन वैधर्म्यं वीप्सायां प्रतिज्ञातमाह * त्रिविधञ्चास्याः कार्यम् * इति। यथा ह्येवंभूतो धर्मः कार्यपरमाणुरूपतया नित्यानित्यभेदः, कार्यरूपायाञ्च स्थैर्यादिधर्मयोगोऽपरजातिबहुत्वञ्चास्याः पृथिव्यास्तथा त्रिविधञ्च कार्यमिति क्षितेः कार्यस्यानन्त्येऽपि शरीरादिरूपेम परस्परं व्यावृत्तात्मतया त्रिविधावस्थितस्य तत्त्वज्ञाविषयत्वम्। तथाहि, शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत् * शरीरेन्द्रियविषयसंज्ञकम् * सर्वं क्षितेः कार्यमिति ज्ञेयम्।
अन्ये तस्याः परमाणुलक्षणायास्त्रिविधं कार्यं शरीरादिरूपमिति मन्यन्ते, व्यवहितस्यापि इदंशब्देन क्वचित् परामर्शादिति।
तत्र शरीरस्येतरस्माद् वैधर्म्यमाह * शरीरं द्विविधम् * इति। विशेषस्य सामान्यापेक्षित्वाद् विशेषाभिधानेऽवश्यं सामान्यलक्षणं विद्यमानमन्तेवासिननोह्यतामित्यबहनशक्तेः संवर्धनाय न सामान्यलक्षणमवोचत्। तथाहि, शरीराभिधाने शरीरत्वं शरीरव्यवहारकारणं ज्ञायत एव लक्षणमिति। तथेच्छानुविधायिक्रियाश्रयत्वं नर्त्ते शरीरात् सम्भवतीति शरीरवचनादर्थल्लभ्यत इति स्वशब्देनावचनम्। ग्रन्थादौ तु शरीरादिद्वारेणेत्यतिव्याप्त्यभावः।।
अथ शरीरत्वं सकलशरीरव्यापकत्वाद् व्यावृत्तेश्च युक्तं लक्षणम्। न चैवम् इच्छानुविधायिक्रियाश्रयत्वम्। तस्य हि विपक्षाद् व्यावृत्तस्यापि सतः पक्षे सर्वत्रासम्भवात्। तथाहि, मृताद्यवस्थायामेतन्न सम्भवतीत्यव्यापकम्। अथ जीवच्छरीरस्यैतल्लक्षणमिति चेत्, तन्न। सुप्तमूर्च्छिताद्यवस्थायामप्यनुपलब्धेः। कथं तर्हीदं लक्षणम् ?योग्यताश्रयणात्। तथाहि, शरीरमितरस्माद् भिद्यते साक्षादिच्छानुविधायिक्रियाश्रययोग्यत्वात् शरीरत्वसम्बन्धाच्च, यस्त्वेवं न भवति न चासौ साक्षादिच्छानुविधायिक्रियायोग्यः शरीरत्वयुक्तश्च यथेन्द्रियादिरिति।
आमरणाद् यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरमिति केचित्। तथाहि, औषधोपयोगादपीन्द्रियेषु पटुत्वं सम्भवतीत्यामरणादिति पदम्। तथा चाव्यधितस्य शरीरपटुत्वेनामरणमिन्द्रियपटुत्वं दृष्टम्। व्याधितस्य त्वौषधोपयोगेन व्याध्युपशमे शरीरपटुत्वादेवेन्द्रियपटुत्वमिति पश्यामः। शरीरस्यापटुत्वादेवेन्द्रियेषु च काचकामलादिदोषाः सम्भवतीति तत्पतुत्वेन व्यावृत्त इति।
पार्थिवान्तु शरीरं मांसाद्यवयवजन्यत्वे सत्यन्त्यावयवित्वादिति द्रष्टव्यम्। मासाद्यवयवजन्यस्याप्यङ्गुल्यादेः शरीरव्यवहाराविषयत्वादिन्त्यावयविपदम्। अन्त्यावयवत्वञ्चाशरीरस्यापि सम्भाव्यत इति मांसाद्यवयवजन्यपदम्।।
सामान्यलक्षणलक्षितस्य पार्थिवशरीरस्य विशेषलक्षणार्थं विभागः * शरीरं द्विविधम् *। केन रूपेण ? * योनिजमयोनिजञ्च *। पूर्वामुद्दिष्टेऽपि योनिजेऽर्थप्रकाशस्य विवक्षितत्वादयोनिजमाह * तत्रायोनिजम् * इति। योनिशब्दस्य कारणपर्यायत्वात् तन्निषेधे मा भूदाकस्मिकमित्याह * अनपेक्षशुक्रशोणितम् * इति। योनिशब्द सामान्यशब्दोऽपि कारणविशेषे शुक्रशोणितलक्षणे विवक्षित इति तन्निषेधेन कारणान्तरं लभ्यते। शुक्रशोणितलक्षणे विवक्षित इति तन्निषेधेन कारणान्तरं लभ्यते। शुक्रशोणितमनपेक्ष्य कारणान्तरादुत्पन्नमयोनिजम्। केषाम् ? * देवर्षीणां शरीरम् * इति। अयोनिजन्तु शरीरं देवर्षीणाम्, नत्वयोनुजमेव योनुजत्वस्यापि श्रवणात्।
अन्ये तु व्यभिचारनिषेधार्थमेकस्य देवपदस्य लोपेन समासं कुर्वते। देवा
श्च देवर्षयश्च देवर्षयस्तेषामिति। अत्र देवास्त्वष्टधा पिशाचादयः। तत्रापि कस्यचिद् योनुजत्वश्रवणेऽन्यद् विशेषणं न चिन्त्यम्।।
अथ केभ्यरतच्छरीरं भवतीत्याह * धर्मविशेषसहितेभ्योऽणुभ्यो जायते * इति। तथाहि, तच्छरीरोत्पत्तावणवः समवायिकारणम्, तत्संयोगश्चासमवायिकारणम्, धर्मविशेषो निमित्तकारणमिति। कार्यैकार्थसमवायश्च द्रव्योत्पत्तौ संयोगस्येति।
अथ देवर्षीणीमयोनिजं शरीरमस्तीत्यत्र किं प्रमाणम् ? आगमः। तथा च---
अयोनिजशरीराणि भवन्त्यद्भुतकर्मणाम्।
योनुजान्त्येव मौद्गल्य ! न मातापितृजानि तु।। [?]
तथा ह्रद्भूतमुत्कृष्टं कर्म येषां ते तथोक्तास्तेषामुत्कृष्टकर्मवशाद्योनिजानि शरीराणि भवन्ति। कारणमात्रनिषेधो मा भूदित्याह योनिजानि कारणजानि एव। कथं तर्हि तेषामयोनिजित्वमित्याह न मातापितृजानीति। पित्रृमात्रृशब्देन शोणितशुक्रयोरभिधानमुपचरणेति। तथोत्कृष्टं कर्म द्वेधा धर्मरूपमधर्मरूपञ्चेति। तत्र धर्मरूपाद् देवर्षीणामधर्मरूपाच्च क्षुद्रजन्त्युयातनाशरीराणि। क्षुद्रजन्तवो युकादयः। यातनाशरीराणि नारकीयशरीराणीति। तान्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते। अथ देवर्षीणां शरीराणि धर्मविशेषदुपजातान्यप्यनुमानेन योनिजानीति प्रतीयन्ते। तथाहि, देवर्षिशरीराणि योनिजानि शरीरत्वादस्मदादिशरीरवदिति। तच्चागमेन बाध्यमानत्वादप्रमाणमिति। तथा अनुमानेन चागमस्य बाधाद् देवर्षिशरीराणां सद्भावसिद्धेर्निजानुमानस्याश्रयासिद्धत्वादप्रमाणत्वप्रसङ्गः।
न चानुमानस्यागमविषये तदुपघातेन प्रमाणता सम्भवति। युक्तञ्चागमानुग्रहकत्वम्। तथाहि, देवर्षिशरीराण्ययोनिजानि, उत्कृष्टकर्मारब्धत्वाच्छरभादिशरीरवत्। उत्कृष्टं कर्माधर्मरूपं शरभादिशरीरे, देवर्षिशरीरे तु धर्मरूपमिति विशेषेऽप्युत्कृष्टकर्मारब्धत्वमुभयत्राविशिष्टमिति न साधनहीनमुदाहरणम्।
योनिजमाह * शुक्रशोणितसम्पातजम् * शुक्रशोणितयोः सन्निपातात् सम्बन्धाज्जायत इति। शुक्रं पितुर्मातुः शोणितमिति। तयोः सन्निपातसमकालं भोक्तुः कर्मवशादन्तःकरणसम्बन्धः। शुक्रशोणितयोः संयोगान्मज्जिताकारं द्रव्यमुत्पन्नं x x x x तद [न]न्तरमान्तरेण तेजसा सम्बन्धाद् वेगापेक्षादवयवे क्रिया, तदनन्तरं विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात्तदारब्धस्य द्रव्यस्य विनाशः। पुनरन्यस्मादग्निसंयोगाद् द्व्यणुकोत्पत्तिरेवं द्व्यणुकैस्त्र्यणुकोत्पत्तिरित्यादिक्रमेण शरीरोत्पत्तिरिति। पुनर्मात्रा शुक्तं पीतं तन्मात्रयावतार्यते ततः पुनरान्तरान [लेन] च सम्बन्धादवयवे क्रिया। पुनर्विभागात् संयोगविनाशस्ततो द्रव्यविनाशः। अन्यस्मादग्निसंयोगात् पूर्वरूपादिविनाशोऽन्यस्माच्च रक्ताद्युत्पत्तिः। ततो द्व्यणुकादिप्रक्रमेण शरीरोत्पत्तिरिति न्यायः। शरीरेऽप्येतल्लक्षणं द्रष्टव्यं यावद्भस्मीभाव इति। अन्यथा हि आहारोपयोगस्याश्रयोपचयाकारणत्वाद् वैयर्थ्यं स्यात्।
न चारब्धशरीरा ये वायवयवाः सहकारिप्रापतौ शरीरान्तरमारभन्ते पुनः सहकार्यन्तरप्राप्तावन्यच्छरीरमिति वाच्यम्। आरभ्यारम्भकवादप्रसङ्गात्। अथेष्यते वैकं द्रव्यमारभ्य तस्मिन्नविनष्टे पुनर्द्रव्यान्तरारम्भकत्वम्। न युक्तमेतत्। सर्वस्यापि कारयद्रव्यस्य परमाणुवृत्तित्वप्रसङ्गात्। तथाहि, परमाणुभ्यां द्व्यणुकमारब्धं तस्मिन्नविनष्टे ताभ्यामेवान्यपरमाणुसहिताभ्यामन्यदाबरब्धम्। पुनरन्यपरमाणुसहितैरन्यदारभ्यत इति मूर्त्तानां समानदेशताप्रसङ्गः। तथाहि, परमाणुभ्यामारब्धं परमाण्वोर्वर्त्तते पुनरन्यसहिताभ्यामारब्धं तयोस्तस्मिंश्चेत् मूर्त्तानामेकदेशत्वं स्यात्। तेषान्तु परस्परव्यतिरिक्ताधारसमवायित्वं दृष्टम्। यत्र ह्येकं मूर्त्तं समवेतं न तत्रान्यत् समवैति।
अथैकदेशतापरिहारार्थं परमाणुभ्यामन्यसहकारिभ्यामारब्धेकस्मिन्नेव परमाणौ वर्त्तते, पुनरन्यसहितैस्तैरारब्धमेकस्मिन्नेवेत्युच्यते। एवमप्येकस्मिन् द्रव्ये वर्त्तमानं कार्यद्रव्यं कारणविभागाभावादविनाशि स्यात्। तथा अद्रव्यं द्रव्यम्, अनेकद्रव्यञ्च द्रव्यमिति वचनव्याघातः। तथा हि न विद्यते जन्यं जनकञअच द्रव्यमित्यद्रव्यम्। परमाणूनां जनकं नास्ति। आकाशादीनां जन्यं नापि जनकमित्यद्रव्यं नित्यद्रव्यमिति यावत्। अनेकद्रव्यन्त्वनेकद्रव्यं जनकमस्येत्यनेन स्वरूपेण। द्विविधमेव द्रव्यम्, अद्रव्यं नित्यम् अनेकद्रव्यं जन्यं कार्यमिति। एकद्रव्यस्य च कार्यद्रव्यस्याभ्युपगमे व्याहतमेतद् भवतीति।
न चैकस्य क्रमयौगपद्याभ्यामारम्भकत्वं न्याय्यम्। एकस्वरूपतया यावत्कर्त्तव्यं तावदेकस्मिन् काले कुर्यादशेषकार्योत्पत्तौ समर्थस्यान्यानपेक्षितत्वादिति। युगपदशेषकार्यं कृत्वा पुनरकरेण हेतुर्नास्तीति।
अथ पूर्वमारब्धं कार्यद्रव्यमवेक्ष्यारभन्ते तर्हि पूर्वस्यारब्धकार्यस्यापि समवायित्वे कथमेकस्मिन्नेव द्रव्ये वर्त्तते ? पूर्वस्मिन् स्ववृत्तावनेकं दूषणमभ्यूह्यं समानासमानजातीययोरारम्भकत्वासम्भवादित्यादि। तथा कर्वस्यापि कार्यद्रव्यस्य परमाणुवृत्तितायामिह तन्तुषु पटः, इह वीरणेषु कट इत्यादि प्रयोगो न स्यात्, तन्त्वादेः समवायित्वाभावादिति। कार्यद्रव्यस्य विनाशे चान्तरकार्यस्यानुत्पन्नत्वादुपलम्‌भाभावः।
अथ परमाणुभिः पूर्वपूर्वस्य कार्यस्याविनाशे सत्युत्तोत्तरकार्यारम्भादनेकं कार्यद्रव्यमित्यन्त्यस्य विनाशे पूर्वपूर्वस्यावस्थानादनेककार्योपलम्भ इति चेत्। नन्वेवं तर्हि कपालसंयोगविनाशेऽपि घटस्याविनाशप्रसङ्गः। तदवयवतदवयवसंयोगविनाशे च तदवयवतदवयवानां तेषां समवायित्वभावेन तत्संयोगस्यासमवायित्वाभावादिति। समवायिकारणविनाशेनासमवायिकारणविनाशेन वा द्रव्यस्य विनाशदर्शनात्।
अथ परमाणावुत्पन्ना क्रिया विभागात् संयोगविनाशे सति द्रव्यं विनाशयेत् तर्हि पूर्वपूर्वसंयोगस्योत्तरोत्तरसंयोगसहकारितया शेषकार्योत्पत्तावसमवायिकारणत्वमिति। तद्विनाशे तदारब्धस्यैव विनाशादवान्तरकार्यस्योपलम्भ एवेति चेत्। नन्वेवमपि परमाणुसंयोगस्य विनाशादुपजातो घटादिविनाशोऽस्मदादेरतीन्द्रियः स्यात्। यथा ह्यापाकनिक्षिप्तेषु घटेष्वग्निसंयोगाद् विनाशः परमाणुक्रियाद्वारेणेति। प्रत्यक्षश्च कपालसंयोगविनाशाद् घटस्य विनाशस्तेन ज्ञायते कपालानां समवायित्वमित्यलमतिविस्तरेण।
अतः शरीरे प्रतिक्षणमाहारोपयोगानुपयोगे स्तयुपचयापचयप्रपञ्चदर्शनात् पूर्वद्रव्यनिमित्तादुत्पन्नपाकजैर्द्व्यणुकादिप्रक्रमेण चोत्पत्तिर्वाच्येति। यथा च परमाणुषु पाको द्व्यणुकादिप्रक्रमेण चोत्पत्तिस्तथा वक्ष्यमः पाकजोत्पत्ताविति।
इदानीं शुक्रशोणितसन्निपातजस्याप्यवान्तरवैध्रम्यमाह * तद् द्विविधं जरायुमण्डजञ्च * इति। तथाहि, शरीरं गर्भे प्रतिक्षणं पाकजोत्पत्तिन्यायेनोत्पद्यमानं निष्क्रमणकाले जरायुणा वेष्टितत्वाज्जरायुजम्। अण्डजं मातृशरीरान्निःसृतमपि किछअचित्कालमण्डोदरे पाकजोत्पत्तिन्यायेनावेष्टितमुत्पद्यत इत्यण्डजम्। केषां जरायुजमित्याह * मानुषपशुमृगाणाम् * इति। मानुषाश्च पशवश्च मृगाश्चेति। पशुशब्देन संगृहीतानामपि मृगशब्देनाभिधानम् अरण्यजत्वादिति।
अन्ये त्वेकस्य मानुषशब्दस्य लोपेन समासं कुर्वते। मानुषाश्च मानुषपशवश्च मृगाश्चेति। अत्र मानुषपशवश्च मृगाश्चेति। अत्र मानुषशब्देनाभिहितानां पशुशब्देनाभिधानेन तदेव दूषणमिति प्रयोजनञ्च चिन्त्यम्। तथा मृगशब्देन सर्वपशूनामभिधानासम्भववादव्याप्तिरिति।
अण्डजं केषामित्याह * पक्षिसरीसृपणाम् * इति। पक्षिणश्च सरीसृपाश्चेति पक्षिसरीसृपाः, तेषामिति। सरीसृपाः कुटिलं सर्पन्तीति सर्पादयो रूढिवशाच्चेति।
शरीरस्य शरीरात् समानजातीयाच्च वैधर्म्यमभिधाय इन्द्रियस्य वैधर्म्यनिरूपणार्थमाह *इन्द्रियं गन्धव्यञ्जकम् * इति। तथेन्द्रियाणां नानात्वात् तद्‌व्यापि सामान्यलक्षणमर्थाल्लभ्यत एव। करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वं दृष्टमिति तन्निराकरणार्थमतीन्द्रियपदम्। तथेन्द्रियार्थसन्निकर्षः करणत्वातीन्द्रियत्वे सत्यपरोक्षज्ञानजनकत्वमस्तीति नियताधिष्ठानवृत्तित्पदम्। दिक्कालयोस्तु व्यापकत्वेन सकलकार्यजनकत्वेन नियताधिष्ठानासम्भवात्। अथात्मापि भोक्तृत्वेन शरीराधिष्ठानत्वात्। अत इन्द्रियमितरस्माद् भिद्यते करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वात्, यस्तु न भिद्यते न चासावुक्तसाधनो यथा शरीरादिरिति।
सामानयलक्षणलक्षितस्य समानजातीयाद् भेदमाह * इन्द्रियं घ्राणम् * इन्द्रियसामान्यलक्षणलक्षितत्वे सति गन्धव्यञ्जकत्वादितरेभ्यो भिद्यते। तथेन्द्रियं गन्धव्यञ्जकमिति कार्येण सद्भावं दर्शयति। तथाहि, गन्धोपलब्धिः, करणकार्या, क्रियत्वात्, या या क्रिया सा सा करणकार्या दृष्टा यथा च्छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति।।
यच्च गन्धोपलब्धिसम्पादकं करणं तद् घ्राणम्, तच्च पार्थिवम्, रूपरसगन्धस्पर्शेषु मध्ये नियमेन गन्धव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन गन्धव्यञ्जकं तत्तत् पार्थिवं दृष्टं यथा कस्तूरिकादिद्रव्यम्, तथा च घ्राणं रूपादिषु मध्ये नियमेन गन्धप्रकाशकम्, तस्मात् पार्थिवमिति। ननु नियमेन गन्धव्यञ्जकत्वमसिद्धं गन्धत्वगुणत्वसत्तादेरपि व्यञ्जकत्वादित्यतो रूपरसगन्धस्पर्शेषु मध्य इति विशेषणम्।
अथ पार्थिवत्वाविशेषाद् घ्राणं गन्धस्येव रूपादिप्रकाशकमपि स्याद् रूपादेरपि पार्थिवगुणत्वात्, संयुक्तसमवायस्य च सम्बन्धस्याविशेषाद्, अन्यस्य च विशेषहेतोरभावाद् इत्यत आह * जलाद्यनभिभूतैः पार्थिवाक्यवैरारब्धं घ्राणम्* । अतो गन्धस्यैव प्रकाशकमिति। कथमेतज्ज्ञायते किञ्चिज्जलादिना सम्पृक्तैरनभिभूतैः पार्थिवावयवैरारम्भो घ्राणस्येति ? कार्यनियमात्। तथा घ्राणस्य व्यापाराद् गन्धस्यैवोपलम्भो न रूपादिरिति द्रष्टम्। न च कारणनियमं विना कार्यनियमः सम्भवतीति किञअचिज्जलाद्यसम्पृक्तैरुत्पादो ज्ञायते चादृष्टविशेषाद् गन्धोपलब्धेः सम्पादकात्। अन्यथा हि घ्राणव्यापाराद् गन्ध्सयैवोपलब्धिर्न भवेत्। सा च दृष्टा। अतो ज्ञायतेऽन्यस्य कारणत्वासम्भवाद् विशिष्टोत्पादो निमित्तम्। स चादृष्टवशात्। अदृष्टस्य च व्यवस्थाकारणत्वादिति। अभिप्रेतञ्चैतत् सूत्रकर्त्तुरिति।
"भूयस्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिः पृथिवी" (वै0 सू0 7।2।5) इति वचनाद् गन्धो ज्ञायतेऽनेनेति गन्धज्ञानं घ्राणम्। तस्मिन्नुत्पाद्ये प्रकृतिः कारणं पृथिवी भूयात्वान्निमित्तादिति।
यथा भूयसां पार्थिवावयवानां गन्धोपलब्धिसम्पादकदृष्टविशेषोपगृहीतानां जलादिना चातिरस्कृतवपुषां घ्राणजनकत्वं नियमेन गन्धोपलब्धेर्ज्ञायते, भूयसाञअच पार्थिवावयवानां कारणत्वाभिधानादल्पीयसामपि जलाद्यवयवानामकारणत्वं लब्धम्। अत एव तेषां पार्थिवावयवानामभिभावकत्वम्। तथा न परं विशिष्टादृष्टोरग्रहे सतीषज्जलावयवादिसम्पृक्तैरारम्भाद् गन्धस्यैव प्रकाशकत्वं गन्धवत्त्वमुत्कर्षो विवक्षितः। स्वगतगनअधोत्कर्षच्च रूपादिषु च मध्ये संयुक्तसमवायाविशेषेऽपि गन्धस्यैव प्रकाशकमिति।
यदि वा काचिदेव पृथिवी गन्धोपलब्धेः कारणम्, न सर्वेति विशेषहेतुर्नास्तीत्युक्ते वाक्यं संबध्यते " भूयस्त्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिरिति" (वै0 सू0 7।2।5)। गन्धे ज्ञप्तिः ज्ञानं गन्धविषयकज्ञानं तस्मिन् प्रकृतिः कारणं पृथिवी भूयस्त्वाद् व्याकृताद् गन्धवत्त्वाच्चेति।
अन्यो वार्थः। गन्धवत्त्वान्नियमेन गन्धोपलब्धेः कारणम्। विशेषहेतुर्नास्तीत्युक्ते वाक्यं संबध्यं घ्राणम्, तच्च गन्धवत् पर्थिवत्वाविशेषात्। घ्राणं कुत इथ्याह भूयस्त्वादुक्तरूपादिति।
अन्ये तु जलाद्यसम्पृक्तैः शुद्धैः पार्थिवावयवैरारम्भो विशिष्टादृष्टापेक्षैः भूयस्त्वमिति मन्यन्ते। तथा च भाष्यम् " जलाद्यनभिभूतैरसम्पृक्तैः केवलैः पार्थिवावयववैरारब्धं घ्राणमिति।" अत्र चेषजज्लादिसम्पर्कैऽप्यनभिभवस्य सम्भवादसंपृक्तैरिति विशेषणं न बुध्यामहे। न च भूयसां भावो भूयस्त्वमित्युक्तेऽन्येषामत्यन्तासम्भव उपलभ्यत इत्यलम्।
इन्द्रियं स्रवप्राणिनां गन्धव्यञ्जकमिति सामान्यविशेषत्मतयाभिधाय विषयस्वरूपनिरूपणार्थमाह * विषयस्तु द्व्यणिकादिप्रक्रमेणरब्धः * इति। ननु द्व्यणुकादिप्रक्रमेणारम्भः शरीरस्येन्द्रियस्य चास्तीत्यतिव्यपीदं विषयलक्षणमिति। नैतदेवम्। शरीरेन्द्रियोर्लक्षणाभिधानेन विषयाद् भेदसिद्धौ तदन्यत्वे सतीति विशेषणलाभात्। तथाहि, शरीरेन्द्रियान्यत्वे सति द्व्यणुकादिप्रक्रमेणारब्धत्वाद् विषयस्तस्य हि विषयभावोपकारकत्वात्। विषयस्तूपभोग्य इन्द्रियग्राह्यो वास्मदादेः।
अथ त्र्यणुकं द्व्यणुकादिप्रक्रमेणोत्पन्नं शरीरेन्द्रियान्यत्वे सत्यस्मदादीन्द्रिय ग्राह्यञ्च न भवति (इति) अव्यापीदं विषयलक्षणमिति। द्व्यणुकादिप्रक्रमेणारब्धो विषयो द्व्यणुकस्याप्यवरोधकमिति। असौ द्व्यणुकादिः स चासौ प्रक्रमश्चेति तेनारब्धो विषयो द्व्यणुकत्र्यणुकादिक्रमेणारब्ध इति यावत्। त्र्यणुकन्तु द्व्यणुकारब्धं द्व्यणुदकादिप्रक्रमेणेति। त्र्यणुकानान्त्वनियमेनारम्भकत्वं द्वयोर्बहूनाञ्चेति। तदारब्धस्येन्द्रियविषयता सम्भाव्यत इति।
विषयस्य च सामान्यलक्षणलक्षितस्याप्यवान्तरभेदेनानन्त्यात् संग्रहमाह- * त्रिविधः* केन रूपेण ? * मृत्पाषणस्थावरलक्षणः * इति। मृच्च पाषाणश्च स्थावराश्चेति लक्षणं स्वभावो यस्यासौ तथोक्तः। स्वभावस्तु मृदि मृत्त्वं पाषाणेषु पाषणत्वमिति।
ननु मृदादिभेदेन त्रैविध्यमनुपपन्नम् इष्टकादेर्विषयस्यासंग्रहादित्याशङ्क्याह तत्र प्राकाराश्चेष्टकाश्च तदादयो घटादयस्ते च मृद्धिकारा इति मृछ्छब्देन संगृहीताः। विकारस्तु विशिष्टरचनापन्नाया मृदोऽग्निसम्बन्धात् परमाणुक्रियाद्वारेण पूर्वद्रव्यविनाशे श्यामादिनिवृत्तावुत्पन्नपाकजैरारम्भादित्युच्यते। तैरुत्पन्नपाकजैरारब्धेऽपि मृत्त्वं सामान्यं न निवर्त्तत इति मृच्छब्देनाभिधीयन्त इति। पाषाणत्वसामान्ययोगिनो दर्शयति * पाषाणा उपलमणिवज्रादयः * इति। तेषाञ्च स्वरूपं तच्छास्त्रप्रसिद्धलोकव्यवहारतोऽवगन्तव्यम्। स्थावरत्वजातिसम्बन्धिनो दर्शयति * स्थावरास्तृणौषाधिवृक्षगुल्मलतावितानवनस्पतय इति * । तृँमुभयवादिप्रसिद्धम्। ओषधयः फलपाकान्ता धान्यादयः. वृक्षाश्च वृक्षत्वजातिसम्बन्धिनोऽशोकादयः। एवं गुल्मतावितानादिविशेषोऽवगन्तव्यः। तदुक्तम्.
ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः।
फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलयोगः।। (?) इति।