शकुन्तलोपाख्यानम्
कैलासनाथः एम् ए
१९२९

(१४६ ) शकुन्तलोपाख्यानम्। शकुन्तलादर्शनम् । शेष उवाच- दुष्यन्तो नाम राजर्षिश्चन्द्रवंशविभूषणः । पौरवः सुमहातेजा वेदवेदाङ्गपारगाः ॥१॥ धनुर्विद्यासुनिपुणः सर्वराजगुणान्वितः । कन्दर्प इव सौन्दर्ये धैर्ये च तुहिनाचलः ॥२॥ समुद्र इव गम्भीरः कुवेर इव ऋद्धिमान् । प्रतापे वासवसमस्तेजस्वी भानुमानिव ॥३॥ सत्सु स्निग्धो यथा चन्द्रो धर्मतन्त्रे यथा मनुः । स प्रजाः पालयामास नृपः पुत्रानिवौरसान् ॥४॥ कदाचिन्मृगयां राजा स जगाम बलैर्वृतः । रम्यं स्यन्दनमारुह्य नानामणिगणाचितम् ॥५॥ अथारण्ये ददर्शासौ मृगमत्यन्तमूर्जितम् । तमन्वधावद्राजर्षिर्मंगमात्तशरासनः ॥६॥ मृगोऽपि बलवांस्तस्मिन्नत्सवेन महीयसा। धावत्येव ततो राजा बद्धामर्षोऽनुघावति ॥७॥ ततः कण्वाश्रमाभ्यासे मृगं प्रति महाबलः । संदधे शरमत्युग्रं शब्दभेदिनमाशु वै ॥८॥ तं तथा संहितशरं करवशिष्याः सुदूरतः । अब्रुवन्नाश्रममृगो न हन्तव्यो महीपते ॥६॥ तदाश्रममृगेत्येवं कर्णार्द्धमागते स्वरे । संजहार महावाणं पौरवः पौरुषान्वितः ॥१०॥ प्रत्याख्यातसमुद्योगस्तृषार्तः स महीपतिः । तोयमन्वेषयन् कन्या दर्दशाप्सरसां समाः ॥११॥ ( १५० ) स्वानुरूपघटैः कनविन्यस्तैः सरसः पयः । श्राहृत्य सिञ्चतीर्वाला वन्यानाश्रमपादपान् ॥१२॥ तासां मध्येऽतिरम्याङ्गी कन्या नाम्ना शकुन्तला । राजानं प्रेक्ष्य सुस्निग्धमुवाच वचनं द्विज ! ॥१३॥ त्वमद्यातिथिरायातः सत्कृतो यास्यसि ध्रुवम् । इदमासनमेतत्ते पाद्यमर्ध्यं च गृह्यताम् ॥१४॥ तद्वागमृतसन्तुष्टो गृहीत्वातिथिसक्रियाम् । मदनाशुगसंपातकिश्चित्स्पृष्टमनोरथः ॥१५॥ उवाच राजा दुष्यन्तः कासि कस्यासि भामिनि । पश्यामि त्वां वरारोहे देवीमिव दिवश्च्युताम् ॥१६॥ राजन्योऽहं पुरुकुले दुष्यन्तो नाम भूपतिः । तच्छ्रुत्वा सा सखीं प्राह कथयस्व ममोद्भवम् ॥१७॥ सख्युवाच- राजन्यो गाधितनयो विश्वामित्रो महामनाः । वसिष्ठेन जितो युद्धे ब्रह्मण्येन बलीयसा ॥१८॥ गर्हयन् क्षत्रियवलं ब्रह्मण्यं बहु मानयन् । ब्रह्मण्यार्थी तपस्तेपे बहुवर्षसहस्रकम् ॥१६॥ तद् दृष्ट्वा भयमापनः शक्रः संमन्त्र्य दैवतैः । मेनका प्रेषयामास तपो विघ्नाय पार्थिव ॥२०॥ सागत्य पुरतस्तस्य स्वर्गाभरणभूषिता । प्रलोभयामास मुनि विश्वामित्रं स्वविभ्रमैः ॥२१॥ जितेन्द्रियोऽपि कामेन तदपाङ्गधनुश्च्युतैः । कटाक्षबाण राजेन्द्र विव्यथे गाधिनन्दनः ॥ २२ ॥ धैर्यच्युतोऽथ बाहुभ्यामाश्लिपन्मेनकां मुहुः । रेमे च मदनाविष्टः क्षणात्संज्ञामवाप सः । वीडितस्तां विसृज्याथ वनेऽस्मिन् प्रययौ द्रुतम् ॥२३॥ मेनकापि च तं गर्भ विमुच्य गहने वने । शकलोकं समापेदे न प्रेक्षत पुनर्नृप ॥२४॥ शकुन्तैरथ गर्भोऽसौ रक्षितः पृथिवीपते । अतः शकुन्तला नाम नृपेयं वरवर्णिनी ॥२५॥ कण्वस्तु सुमहातेजाः कन्यां वीक्ष्य वने स्थिताम् । अनुकम्प्य स्वसुतात्वे कल्पयामास सुन्दरीम् ॥२६॥ मुनिना संभृता कन्या तं तातं मन्यते सदा । सुतां कण्वस्य विद्धीमां मुनिवर्यस्य भूपते ॥२७॥ दुष्यन्त उवाच- सुव्यक्तं राजपुत्रीयं यथा कल्याणि भाषसे । अन्यथा पौरवाणां हि मनो नैवानुरज्यति ॥२८॥ भार्या भवतु सुश्रोणी ममेयं मृगलोचना । सुवर्णमालां वासांसि कुण्डले परिहाटके ॥२६॥ नानापत्तनजे शुभ्र मणिरत्ने च शोभने । श्राहरामि महाभागे निष्कादीन्यतुलानि च ॥ ३० ॥ सर्व राज्यं प्रदास्यामि भार्या भवतु ते सखी । गान्धर्वेण च मां भीरु विवाहेन वृणोतु च । विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ ३१ ॥ शकुन्तलोवाच- फलाहारगतो राजन् पिता मे इत आश्रमात् । मुहूर्ते तु प्रतीस्व स मां तुभ्यं प्रदास्यति ॥ ३२॥ राजोवाच- इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ ३३ ॥ श्रात्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि सुव्रते ॥ ३४ ॥ ( १५२ ) अष्टावेव महाभागे विवाहा वेदसम्मताः । ब्राह्मो दैवस्तथार्षत्रच प्राजापत्यस्तथासुरः ॥ ३५॥ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । मनुः स्वायम्भुवो धर्मान् पूर्वपूर्वान् पुराव्रवीत् ॥ ३६॥ प्रशस्तांश्चतुरः पूर्वान् ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्राणां विद्धि धाननिन्दिते ॥ ३७ ॥ राज्ञान्तु राक्षसोऽप्युक्तो विदशूद्रस्यासुरः स्मृतः। पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥ ३८ ॥ पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन । गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । मिश्रो वापि पृथग्वापि कर्तव्यो द्वौ महीभुजाम् ॥ ३६॥ सा त्वं मम सकामस्य सकामा वरवर्णिनी। गान्धर्वेणैव धर्मेण भार्या भवितुमर्हसि ॥ ४० ॥ शकुन्तलोवाच- यदि धर्म पथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो । प्रतिजानीहि सत्यं मे यथा वक्ष्यामि तेऽनघ ॥ ४१ ॥ मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् । युवराजो महाराज सत्यमेतद् ब्रवीमि ते ॥ ४२ ॥ अभिज्ञानञ्च राजेन्द्र देहि स्वमङ्गुरीयकम् । यद्यतदेवं राजेन्द्र अस्तु मे सङ्गमस्त्वया ॥ ४३॥ शेष उवाच- एवमस्त्विति तां राजा प्रत्युवाचाविवारयन् । अयि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥४४॥ तथा त्वर्महा सुश्रोणी सत्यमेतद् ब्रवीमि ते । एवमुक्त्वा स राजर्षिस्तामनिन्दितविग्रहाम् ॥ ४५ ॥ ( १५३ ) जग्राह विधिवत्पाणावुवास च तया सह । विश्वास्य चैनां स प्रायादववीच्च पुनः पुनः॥४६॥ प्रेषयिष्ये च नेतुं त्वां वाहिनी मन्त्रिभिः सह । विभूत्या परयोपेतां नाययिष्यामि सुव्रते ॥ ४७ ॥ इति तस्याः प्रतिक्षाय स नृपो मुनिसत्तम । मनसा चिन्तयन् प्रायाद् दत्त्वा चाप्यङ्गुरीयकम् ॥ ४८ ॥ काश्यपस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं विचिन्तयन्नेव प्राविशन्नगरं नृपः ॥ ४६॥ शापः। एतस्मिन्नन्तरे विप्र कण्वोऽप्याश्रममाश्रयत् । शकुन्तला तु पितरं हिया नोपजगाम तम् ॥१॥ विज्ञायाथ च तां कण्वो दिव्यज्ञानेन मारिष । उवाच भगवान् प्रीतो व्रीडमानां शकुन्तलाम् ॥ २॥ त्वयाद्य भद्रे रहासि मामनाभाष्य यः कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥३॥ क्षत्रियस्य हि गार्न्धवो विवाहः श्रेष्ठ उच्यते । सकामायां सकामस्य निर्मन्त्रो रहसि स्मृतः ॥ ४॥ महात्मासौ महाराजः पुरुवशं प्रदीपनः । यं पतिं प्रतिपन्ना त्वं भजमानं शकुन्तले ॥५॥ ममापि चिन्ता हृद्यासीत्त्वत्प्रदानाय सुन्दरि । ययाहं नियतं दग्धो दावेनेव महाद्रुमः ॥ ६ ॥ वरं त्वत्सदृशं लोके नान्यमालोकयामि ते । तेनायं निश्चितो राजा मयापि सदृशो वरः॥७॥ स यदि स्वयमागत्य त्वामगृहात्करे नृपः। ( १५४ ) अभ्यर्थनार्थलघुता न ममाभूद्गरीयसी ॥८॥ महात्मा भविता पुत्रस्तव सुभ्रु महाबलः । य इमां भोक्ष्यते कृत्स्नां भूमिं सागरमेखलाम् ॥६॥ स्वनाम्ना ख्यातिमप्यत्र वंशे संजनयिष्यति । परं चाभिगतस्यास्य चक्रं नाम महात्मनः । भविष्यत्यप्रतिहतं नियतं चक्रवर्तिनः ॥ १०॥ शेष उवाच- ततः प्रक्षाल्य पादौ सा सन्निधाय फलानि च । उपविष्टं गतश्रान्तिमब्रवीत्तं शुचिस्मिता ॥ ११ ॥ यो मयासौ वृतो राजा पौरवः पुरुषोत्तमः । स त्वयानुमतो यस्मात्कृतार्थास्मि पितः प्रभो । प्रसादं कुरु तस्यापि सामात्यस्य महीपतेः॥ १२ ॥ कराव उवाच- प्रसन्न एव तस्याहं पूर्वमेव शुचिस्मिते । ब्रह्मण्यः पौरवो राजा धर्मात्मा च विशेषतः ॥ के ददामि वरं तस्मै वहि कल्याणि माचिरम् ॥ १३ ॥ शेष उवाच- ततो धर्मिष्ठतां वने राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुष्यन्तहितकाम्यया ॥ १४ ॥ परेऽहनि मुनौ याते विरहेण शकुन्तला । न लेभे मनसः शान्तिं चिन्तयन्ती महीपतिम् ॥ १५ ॥ क्षणं निश्वासबहुला सुष्वाप धरणीतले । लिलेख च नखेन मां नाललाप सखीजनैः ॥ १६ ॥ क्षणं विलोकयामास दिगन्तान् लोललोचना । ध्यायन्ती जगतीनाथं क्षण प्राप्तमनोरथा ॥ १७ ॥ एतस्मिन्नन्तरे विप्र दुर्वासास्तपसा ज्वलन् । ( १५५ ) आजगामाश्रमपदं कण्वस्य द्विजसत्तम ॥ १८ ॥ दूरादुच्चैर्वभाषेऽथ केयं पर्णोटजे स्थिता । विलोकयतु मां प्राप्तमतिथिं भोजनार्थिनम् ॥ १६ ॥ इत्युच्चैर्मुहुराभाष्य न प्राप्यातिथि सक्रियाम् । तपोधनश्चुकोपाशु शशाप क्रोधनो मुनिः ॥ २० ॥ यं त्वं चिन्तयसे बाले मनसाऽनन्यवृत्तिना। विस्मरिष्यति स त्वां वै अतिथौ मौनशालिनीम् ॥ २१ ॥ इत्येवमुक्ते वचने क्रोधाद् दुर्वाससा तदा । सखी प्रियंवदा नाम शुश्राव क्रोधभाषितम् ॥ २२ ॥ त्वरयाथ समागम्य पाद्यादिकृतसञ्चया। प्रसादयामास मुनि मूर्ध्ना तच्चरणं गता ॥ २३ ॥ प्रियंवदोवाच- पौरवस्य इयं राज्ञी दुष्यन्तस्य महीभृतः । विश्वामित्रात्मजा वाला मेनकाप्सरसः सुता ॥ २४ ॥ कण्वस्य दुहिता चेयं पालनात्सुपतिव्रता । चिन्तयन्ती पति मुग्धा विरहेण सुविह्वला ॥ २५ ॥ न किश्चिदभिजानाति न भवांस्तेन सत्कृतः । नावज्ञानान्न गर्वाच्च तद् भवान् क्षन्तुमर्हति ॥ २६ ॥ यया न विस्मरेद्राजा शापान्तं कुरु तापस । ततः प्रसन्नो दुर्वासाः प्राह शापान्तकारणम् ॥ २७ ।। विस्मृतिस्तस्य राजर्षेस्तावदेव भविष्यति । प्रियंवदे नृपो यावदभिज्ञानं न पश्यति ॥ २८ ॥ इति कृत्वा स शापान्तं गृहीत्वा सत्कियां ययौ । अथ तस्यास्तदा गर्भो राजर्षेस्तेजसा भृतः ॥ २६ ॥ शशीव विशदे पक्षे वर्द्धते स्म दिने दिने । कण्वोऽपि भगवान् दष्ट्वा दोहदं समुपस्थितम् ॥ ३० ॥ ( १५६ ) मुदा परमया युक्तः पृष्ट्वाभिलाषेतं हितम् । उवाच भगवान्कण्वो मुनिमण्डलमध्यगाम् ॥ ३१ ॥ - 0:0;.-- दुष्यन्तपुर-प्रेषणम् । कराव उवाच कन्या पितृगृह नैव सुचिरं वासमर्हति । लोकापवादः सुमहान् जायते पितृवेश्मनि ॥ १ ॥ नार्याः पतिर्गतिर्भर्ता तपश्च परमं पतिः । दैवतं गुरुरायश्च पतिः स्त्रीणां परं पदम् ॥ २॥ यं प्रसोप्यसि देवि त्वं भविता स महाबलः । राजपुत्रो वने स्थास्यत्ययं नाप्युचितो विधिः ॥ ३ ॥ अतस्त्वां प्रेषयिष्यामि निकटं तस्य भूभृतः पत्युः प्रेमा हि नारीणां परं सौभाग्यमुच्यते ॥ ४॥ शकुन्तलोवाच पितस्तेऽनुगृहीतास्मि पतिदर्शनवार्तया । नानुशां प्रार्थये तुभ्यं स्नेहभङ्गभयात्तव ॥ ५ ॥ तदद्यैव गमिष्यामि राजर्षेस्तस्य चान्तिकम् । अनुशां देहि मे तात कृपया तापसोत्तम ॥ ६॥ तच्छुत्वा भगवान् कण्वः स्नेहप्रसवविप्लुतः । अनुज्ञाप्य मुनीनन्यान्मुनिपत्नीश्च सुव्रताः ॥ ७॥ उवाच परया प्रीत्या प्रेषयामि शकुन्तलाम् । भर्तुर्ग्रहाय कल्याण्याः कल्याणं कुरुत ध्रुवम् ॥ ८ ॥ ताश्च वाक्यं मुनेः श्रुत्वा प्रेमाश्रुक्लिन्नलोचनाः । श्राशीभिरनुकूलाभिः प्रायुञ्जन्त शकुन्तलाम् ॥ ६॥ विचित्रैरप्याभरणैः केशवन्धादिभिस्तथा । गात्रोद्वर्तनसंमार्ष्टिहरिद्रातैलसङ्गतैः ॥ १० ॥ ( १५७ ) भूषयामासुरव्यग्रां मुनिपत्न्यः शकुन्तलाम् ॥ ११ ॥ शुशुभे सा महाभागा विश्वामित्रसुता सती । नितरां गाधिपुत्रजा चन्द्रलेखेव विच्युता ॥ १२ ॥ अथ गुल्मलतावृक्षान् हरिणान् हरिणाङ्गनाः। उवाच कण्वः प्रेमाद्रो मुञ्चन्नश्रुकला मुहुः ॥ १३ ॥ युष्माकं परमप्रेम्णा वासितेयं सुता मम । सर्वे कुरुत कल्याणं सुखं यातु शकुन्तला ॥ १४ ॥ इति सर्वाननुज्ञाप्य कण्वो मतिमतां वरः। आहूय गौतमी‌ वृद्धां सखीं चास्याः प्रियंवदाम् ।। उवाच लक्ष्णया वाचा शिष्यौ चापि महाव्रतौ ॥ १५ ॥ यात यूयं महीभर्तुर्दुष्यन्तस्य पुरं प्रति । इमां शकुन्तलां राशि समर्प्य पुनरेष्यथ ॥ १६ ॥ इति तस्य वचः श्रुत्वा गौतमी च प्रियंवदा । मुनिः शार्ङ्गवरः शिष्यस्तथा शारद्वतो मुनिः ॥ १७ ॥ तथेति प्रतिगृह्याथ मुनेराक्षां स्वमूर्धसु । शकुन्तला पुरस्कृत्य पन्थानं प्रतिपेदिरे ॥ १८ ॥ अथ दक्षिणतस्तस्याः शिवा घोरं ववाशिरे । मृगाश्च चेलुः सव्येन वाता वान्तिस्म धूषराः ॥ १६ ॥ तदालोक्य समुद्विग्ना पथि यान्ती शकुन्तला । नितम्बिनी वरारोहा न शेके चलितुं द्रुतम् ॥ २० ॥ अथ मध्याह्नसमये प्राप्य प्राचीं सरस्वतीम् । मुनेः शिष्यौ च मध्याह्नक्रियां चक्रतुरेव तौ ॥ २१ ॥ प्रियंवदा गौतमी च सलिल तज्जगाहतुः । शकुन्तलापि तत्रैव नानार्थमुपचक्रमे ॥ २२ ॥ प्रियंवदाकरे न्यस्य अभिज्ञानाङ्गुरीयकम् । सातुं सरस्वतीतोयमगाहत सुलोचना ॥ २३ ॥ ( १५८ ) प्रियंवदा नु तद्गुह्य वसनाञ्चलमध्यतः । यावन् न्यस्तवती तावत् पपात सलिले द्विज ॥ २४ ॥ प्रियंवदा भिया तस्यै वृत्तान्तं न न्यवेदयत् । शकुन्तलापि तत्सख्यै पप्रच्छापि न विस्मृता ॥ २५॥ ततः स्नात्वा च ते सर्वे समाप्य विधिवक्रियाम् । दुष्यन्तपुरमापेदुस्तास्त्रियस्तौ च तापसौ ॥ २६ ॥ -:0:0:-- दुष्यन्त-पुरम्। राजद्वारं समासाद्य करवशिष्यौ महामते । ऊचतुस्तौ प्रतीहारं तूर्णं राज्ञे निवेदय ॥१॥ काष्यपस्य निदेशेन राजद्वारमिहागतौ । शिष्यौ तस्य सार्ङ्गवर शारद्वतसमाह्वयौ ॥२॥ सुता तस्य च कल्याणी द्वे अन्ये च द्विजस्त्रियौ । प्रतीहारस्ततो गत्वा राज्ञे सर्व न्यवेदयत् ॥ ३॥ राजा पुरोधस प्राह गौतमं हृदि चिन्तयन् । कथमेतौ मुनेः शिष्यौ स्त्रीभिरेताभिरावृतौ ॥ ४ ॥ आगताविह संप्राप्तौ भवानेव हि पृच्छतु । किं कण्वास्याश्रमे कश्चिद्राक्षसः कुरुतेऽनयम् ॥५॥ न जानाति हि दुष्टात्मा दुष्यन्तं राक्षसान्तकम् । किं वने पशवस्त्यक्त्वा नियमं मुनिना कृतम् ॥ ६॥ वाधन्ते व्याघ्रसिंहाद्याः स्त्रियो वालान् जरायुतान् । मृगयापि मया तावन्न कृता पुरवासिना ॥ ७ ॥ किं वा वन्यफलान्यद्य प्रभवन्ति न कानने । तेनाहारविनाभावादःखितास्ते तपोधनाः ॥ ८ ॥ यदद्य पतितं घोरं मुनीनां दुःखकारणम् । विधुनोमि तदद्यैव याहि पृच्छ तपोधनौ ॥ ६ ॥ ( १५६ ) पाद्यादीनि पुरस्कृत्य विधायातिथिसत्क्रियाम् । वासयस्व मुनी विप्र स्वगृहे ताः स्त्रियस्तथा ॥१०॥ चेद्विशेषविवक्षापि तयोरस्ति विवुध्य तत् । विज्ञापयिष्यसि पुनस्तद्विवार्य करोम्यहम् ॥ ११ ॥ शेष उवाच- इति तद्वाक्यमादाय पुरोधाः स तपोधनः । पाद्यादीनि पुरस्कृत्य द्वारमागतवान् द्विज ॥ १२ ॥ राज्ञोक्तं सर्वमाचष्टे ददर्श च शकुन्तलाम् । अन्तःसत्त्वां महाभागां शिरः प्रच्छाद्य वाससा । अधोमुखीं चन्द्रकलामिव दीप्तिमतीं पुरः ॥ १३ ॥ पप्रच्छ च मुनी केयं सुन्दरी जगदद्भुता । अन्तःसत्त्वेव कल्याणी लज्जयाधोमुखी स्थिता ॥ १४ ॥ शिष्यावूचतुः- विश्वामित्रसुता चेयं मेनकागर्भसंभवा । करवेन पालिता राज्ञी दुष्यन्तस्य महीपतेः ॥ १५ ॥ सेयं संप्रेषिता ब्रह्मन् कण्वेन नृपमन्दिरम् । अस्यैव भूपतेस्तेजो विभ्रती मृगलोचना ॥ १६ ॥ राशे निवेदयत्वस्मै तद् भवांस्त्वरया द्विज । नेयं राझी द्वारदेश स्थातुमर्हा महीपतेः ॥ १७ ॥ शेष उवाच- पुरोधास्तदुपर्कण्य संभ्रमेण महीपतिम् । गत्त्वा निवेदयामास वृत्तान्तं मुनिभाषितम् ॥ १८ ॥ दुष्यन्तस्तदुपश्रुत्य विस्मृत्तिं परमां गतः । उवाच ब्राह्मणं ब्रह्मन् वचसा कटुना नृपः ॥ १६ ॥ नैवं स्मरति मञ्चेतः कुत्र का मे विवाहिता। गणिका कापि विप्रेन्द्रछलेन समुपागता ॥ २०॥ गौतम उवाच- न तथा दृश्यते राजन्नन्तःसत्त्वा वरानना । अनुजानीहि राजेन्द्र त्वदन्तिकमुपानये ॥ २१ ॥ विलोकय परं रूपं यदि ते स्मृतिरुद्भवेत् । प्रवेशनीया शुद्धान्ते नारी श्रीरिव रूपिणी स्थातुर्महा न च द्वारि द्योतयन्ती दिशस्त्विषा ॥ २२ ॥ यदि नापि स्मृतिस्त स्यात्तद्रूपं तु तथापि ते । विलोक्य भविता नान्यरूपदर्शनलालसा ॥ २३ ॥ इति राज्ञानुनीतेनाभ्यनुज्ञातो द्विजोत्तमः। आनाययामास मुनी ताः स्त्रियश्च सुलक्षणाः ॥ २४ ॥ प्राशीभिरनुयोज्याथ कण्वशिष्यो महामती । ऊचतुः कण्वसन्देशं निपाण्णौ जगतीपतिम् ॥ २५ ॥ शिष्यावूचतुः- त्वमाशिषा वर्द्धयित्वा प्राह त्वामावयोर्गुरुः । तच्छृणुष्व महाराजानन्तरं कर्तुमर्हसि ॥ २६ ॥ इयं शकुन्तला नाम विश्वामित्रसुतानघ । मेनकासंङ्गमाज्जाता पालिता दुहिता मम ॥ २७ ॥ मृगयाचारिणारण्ये गान्धर्वेण महीपते । विधिना यद्गृहीताभून्ममानुज्ञां विनापि हि ॥ २८ ॥ तत्साधुरिति तं मन्ये क्षत्रियाणामयं विधिः । तव सा विभ्रती तेजो वस्तुं नार्होटजे मम ॥ २६ ॥ महिषी राजराजस्य साक्षात् श्रीरिवरूपिणी । सेयं प्रगृह्यतां राजन् कल्याणी महिषी तव ॥ ३०॥ जनयिष्यति यं पुत्रमियं राज्ञी शकुन्तला । चक्रवर्ती राजराजो महात्मा स भविष्यति ॥ ३१ ॥ इत्याशिषा नियुज्य त्वां गुरुराह महातपाः । ( १६१ )

इयं प्रियंवदा नाम सखी चास्या मुनेः सुता ॥ ३२ ॥
इयं च ब्राह्मणी वृद्धा राजन् गौतमवंशजा ।
राजन् वयमिहायाता अनया गुरुवाक्यतः ॥ ३३ ॥

राजोवाच-

कति सन्तीह गणिका भ्रमन्ति कामसेवया ।
राजराजस्य महिषी का नो भवितुमिच्छति ॥ ३४ ॥
ब्राह्मणा विविधाः सन्ति तापसाश्छद्मरूपिणः ।
तासामनुग्रहेणैव समं ताभिर्भ्रमन्ति च ।
भुञ्जते विपुलान्भोगान्गणिकाभिरुपार्जितान् ॥ ३५ ॥
निशम्य नृपतेर्वाक्यं शिष्यो कण्वस्य तापसौ ।
शेपतुर्विरहेणास्याः पश्चात्तापमवाप्स्यसि ॥ ३६ ॥
इत्युक्त्वा तौ गतौ वृद्धौ तापसौ ब्रह्मवादिनौ ।
गौतमस्तौ प्रसाद्याथावासयत् स्वे च वेश्मनि ॥ ३७ ॥
अथ सा गौतमी वृद्धा जगाद जगतीपतिम् ।
नैवमर्हसि भो राजन् विश्वामित्रसुतां प्रति ॥ ३८ ॥
एवं लावण्यमापन्ना क्व दृष्टा गणिका त्वया ।
अन्तःसत्त्वा महामागा त्वया राजन् विवाहिता ॥ ३९ ॥
समाहितेन मनसा स्मर पश्य च सुन्दरीम् ।
इत्युक्त्वा मोचयामास शिरश्छादनमम्बरम् ॥ ४० ॥

राजोवाच-

पौरवाणां कुले जाताः सतां मार्गे कृतासनाः ।
न वयं रूपमात्रेण गणिकानां भ्रमामहे ॥ ४१ ॥
एवं वदति भूपाले व्रीडितेव तपस्विनी ।
निसंख्येन च दुःखेन तस्थौ स्थूणेव निश्चला ॥ ४२ ॥
संरम्भामर्षताम्राक्षी स्फुरमाणौष्ठसम्पुटा ।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ ४३ ॥

( १६२ )

आकारं गूहमाना च मन्युनातिसमीरितम् ।
तपसा संभृतं तेजो धारयामास वै तदा ॥ ४४ ॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।
भर्त्तारमभिसंप्रेक्ष्य क्रुद्धा राजानमब्रवीत् ॥ ४५ ॥
कथं न स्मरसे राजन् मृगयामधिगच्छता ।
गान्धर्वेण गृहीतो यत्पाणिर्मे विधिना नृप ॥ ४६ ॥
इति श्रुत्वा तु वचनं शापेनास्तमितस्मृतिः ।
अब्रवीन्न स्मरामि त्वां कस्य त्वं दुष्टतापसि ॥ ४७ ॥
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ ४८ ॥

शकुन्तलोवाच-

कुतः प्रियंवदे साध्वि अभिज्ञानमिहानय ।
धूर्त्तमेनं सभामध्ये ह्रेपयामि नराधिपम् ॥ ४९ ॥
इत्युक्त्वा पाणिमाक्षिप्य भूयो भूयः प्रियंवदाम् ।
उवाच देहि देहीति ह्रेपयामि नराधिपम् ॥ ५० ॥
प्रियंवदा तु नीचैस्तां जगाद मृगलोचनाम् ।
कर्णान्तिके समासाद्य पतितं ते तदम्भसि ॥ ५१ ॥
तदुपश्रुत्य कल्याणी रम्भेव मरुता हता ।
पपात भूमौ निश्चेष्टा हा हतास्मीति वादिनी ॥ ५२ ॥
अथ तां गौतमी वृद्धा बाहुभ्यां मृगलोचनाम् ।
आश्लिष्य सान्त्वयामास लेभे संज्ञां ततः पुनः ॥ ५३ ॥
अथ क्रुद्धा महाभागा सख्यै राज्ञे च भामिनी ।
उवाचाश्रूणि संमार्ज्य स्मरन्ती पितरं मुनिम् ॥ ५४ ॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।
न जानामीति निश्शङ्कं यथान्यः प्राकृतो जनः ॥ ५५ ॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य वा ।

( १६३ )

कल्याणं वद साक्ष्येण मात्मानमवमन्यथाः ॥ ५६ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ५७ ॥
एकोऽहमस्मीति च मन्यसे त्वं
 न हृच्छयं वेत्सि मुनि पुराणम् ।
यो वेदिता कर्मणः पापकस्य
 यस्यान्तिके त्वं वृजिनं करोषि ॥ ५८॥
मन्यते पातकं कृत्वा न कश्चिद्वेत्ति मामिति ।
विदन्ति चैनं देवाश्च स्वस्यैवान्तरपूरुषः ॥ ५९ ॥
आदित्यचन्द्रावनिलोऽनलश्च
 द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
 धर्मोऽपि जानाति नरस्य वृत्तम् ॥ ६० ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ६१ ॥
न तु तुष्यति यस्यैव पुरुषस्य दुरात्मनः ।
तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥ ६२ ॥
योऽवमन्यात्मनात्मानमन्यथा प्रतिपद्यते ।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम् ॥ ६३ ॥
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् ।
अर्ञ्चार्हां नार्ञ्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ ६४ ॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि ।
न खल्वरण्ये रुदितमस्तु मे शृणु भाषितम् ॥ ६५ ॥
यदि मे याचमानाया वचनं न करिष्यसि ।
कण्वशापेन ते मूर्धा शतधैव फलिष्यति ॥ ६६ ॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।

( १६४ )

तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ६७ ॥
मुनिनाभिहता चाहं तव पुत्रो भविष्यति ।
राजराजश्चक्रवर्ती न तन्मिथ्या भविष्यति ॥ ६८ ॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ ६९ ॥
अर्द्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
भार्या मूलं त्रिवर्गस्य भार्या मूलञ्च सन्ततेः ॥ ७० ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ७१ ॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ ७२ ॥
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै ।
यः सदारः स विश्रान्तस्तस्माद्दाराः परा गतिः ॥ ७३ ॥
संसरन्तमभिप्रेतं विषमेष्वनपातिनम् ।
भार्यै वान्वेति भर्तारं सन्ततं या पतिव्रता ॥ ७४ ॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य समीक्षते ।
पूर्वं मृतं च भर्त्तारं पश्चात् साध्व्यनुगच्छति ॥ ७५ ॥
एतस्मात्कारणद्भप पाणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्यामिहलोके परत्र च ॥ ७६ ॥
दह्यमाना मनो दुःखैर्व्याधिभिश्चातुरा नराः ।
ह्लादन्ते स्वेषु दारेषु धर्मार्त्ताः सलिलेष्विव ॥ ७७ ॥
सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः ।
रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि ॥ ७८ ॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् ।
ऋषीणाममि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥ ७९ ॥
परिपत्य यथा सूनुर्धरणीरेणुलुण्ठितः ।

( १६५ )

पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्याधिकं ततः ॥ ८० ॥
वरं प्रसूय पुत्रं ते विधाय च सुखं तव ।
गमिष्यामि महाराज कण्वस्य पितुराश्रमम् ॥ ८१ ॥
अण्डानि विभ्रति स्वानि न भिन्दन्ति पिपीलिकाः ।
न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वमात्मजम् ॥ ८२ ॥
न वाससां न रामाणां नापां स्पर्शस्तथाविधः ।
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥ ८३ ॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् ।
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः॥ ८४ ॥
स्पृशतु त्वां समाश्लिष्य पुत्रो मे प्रियदर्शनः ।
पश्चादहं गमिष्यामि पितुरेवाश्रमं प्रति ॥ ८५ ॥
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव ।
भविता तनयस्तेऽयमित्याह मां गुरुर्मुनिः ॥ ८६ ॥
मृगावकृष्टेन हि ते मृगयां परिघावता ।
अहमासादिता राजन कुमारी पितुराश्रमे ॥ ८७ ॥
उर्वशी पूर्ध्वचित्रिश्च सहजन्या च मेनका ।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ ८८ ॥
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥ ८९ ॥
स मां हिमवतः प्रस्थे सुषुवे मेनकाप्सराः ।
अवकीर्य च मां याता परात्मजमिवासती ॥ ९० ॥
किं नु कर्माशुभं पूर्वे कृतवत्यस्मि जन्मनि ।
यदहं बान्धवैस्त्यक्ता वाल्ये संप्रति च त्वया ॥ ९१ ॥

दुष्यन्त उवाच-

असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः
मेनका निरनुक्रोशा बन्धकी जननी तव ।

( १६६ )

ययासि हिमवत्प्रस्थे निर्माल्यमिव चोज्झिता ॥ ९२ ॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।
विश्वामित्रो ब्राह्मणत्वलुब्धः कामवशं गतः ॥ ९३ ॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां पिता च ते ।
तयोरपत्यं कन्या त्वं पुंश्चलीव प्रभाषसे ॥ ९४ ॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ ९५ ॥
क्व महर्षिः स चैवोग्रः क्वाप्सराः सा च मेनका ।
क्व त्वमेवं कृपणा तापसीवेशधारिणी ॥ ९६ ॥
सर्व्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि ।
नाहं त्वामभिजानामि यथेच्छं गम्यतां त्वया ॥ ९७ ॥


मेनकागमनम्।

शकुन्तलोवाच-

राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यसि ॥ १ ॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म राजेन्द्र तव जन्मतः ॥ २ ॥
तितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥ ३ ॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥ ४ ॥
सत्यश्च जनवादोऽयं तं प्रवक्ष्यामि ते नृप ।
निदर्शनं ब्रवीमीति न कोपं कर्त्तुमर्हसि ॥ ५ ॥
विरूपो यावदादर्शे स्वमुखं नैव पश्यति ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ॥ ६ ॥

( १६७ )

यदा तु मुखमादर्शे विकृतं पश्यतात्मनः ।
तदेतरं विजानाति स्वमेव नेतरं नरः ॥ ७ ॥
यस्तु स्याद्रूपसम्पन्नो न स निन्दति कञ्चन ।
अतीव जल्पन् दुर्वाचो भवतीह विकत्थनः ॥ ८ ॥
मूर्खो हि जल्पतां नृणां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ९ ॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ १० ॥
अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान् हृष्टा भवति दुर्जनः ॥ ११ ॥
अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् ।
एवं सज्जनमाक्रुष्य मूर्खो भवति निर्वृतः ॥ १२ ॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥ १३ ॥
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते ।
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥ १४ ॥
सत्यधर्मच्युताप्तुं सः क्रुद्धादाशीविषादिव ।
अनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥ १५ ॥
पुत्रस्ते भविताराजन्नपुत्रस्य महागुणः ।
चक्रवर्ती राजराज उत्तमः सर्वधन्विनाम् ॥ १६ ॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
आत्मानं सत्यधर्मौ च पालयन् पृथिवीपते ॥ १७ ॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥ १८ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेघसहस्रात्तु सत्यमेवातिरिच्यते ॥ १९ ॥

( १६८ )

राजन् सत्यं परं ब्रह्म सत्यं च समयः परम् ।
मात्याक्षीः समयं राजन् सत्यं सङ्गतमस्तु ते ॥ २० ॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत् स्वयम् ।
कण्वस्यैवाश्रमं गच्छे त्वादृशे नास्ति संगतम् ॥ २१ ॥
ऋतेऽपि त्वां महाराज शैलराजावतंसकाम् ।
चतुर्वर्णामिमामुर्वीं पुत्रो मे पालयिष्यति ।
मुनेः कण्वस्य वै वाक्यं भविता कथमन्यथा ॥ २२ ॥

राजोवाच-

किं नालपन्ति पुंश्चल्य एवमेव सुदुर्व्वचः ।
याहि त्वं गच्छ वाचाटे दूषयिष्यन्ति मां जनाः ॥ २३ ॥/poem>
पुरोहित उवाच-
<poem>अत्र वक्ष्यामि ते मन्त्रं शृणु राजन् महामते ।
यावत्प्रसवमत्रैव नारी तिष्ठतु ते गृहे ॥ २४ ॥
यदि ते सदृशं पुत्रं कामिन्येषा प्रसोष्यति ।
ततस्तवैव भार्य्येति वेत्स्यामस्तदनन्तरम् ।
शालिबीजाद्विजायेत न कदाचिद्यवाङ्कुरः ॥ २५ ॥

राजोवाच-

नैषा शुद्धान्तमध्येऽपि मम वासमिहार्हति ।
संसर्गादपि पुंश्चल्यो दूषयन्ति कुलस्त्रियः ॥ २६ ॥

पुरोहित उवाच-

अदृष्टतनयास्योसि राजराजोऽपि भूतले ।
अतस्ते सन्ततौ श्रद्धा राजन् मे जायतेऽधिका ॥ २७ ॥
इयं साध्वी वरारोहा कण्वेन परिपालिता ।
व्यभिचारमतो राजन्नाहं मन्ये मनागपि ॥ २८ ॥
यावत्प्रसवप्रेतान्तु वासयेऽहं निजालये।
प्रसवे सति कल्याणीं स्वमेव गृहीष्यसि ॥ २९ ॥

( १६९ )

इत्युक्त्वा गौतमो ब्रह्मन् सान्त्वयित्वा शकुन्तलाम् ।
स्वगृहायैव तां नेतुं विमनामुपचक्रमे ॥ ३० ॥
सा चापि मुक्तकण्ठं वै रुदती मृगलोचना ।
शनैः शनैर्गौतमं तमनुगन्तुं प्रचक्रमे ॥ ३१ ॥
एतस्मिन्नन्तरे विप्र मेनकाप्सरसां वरा ।
तेजोरूपा व्योममध्यात्तडित्पातं पपात सा ॥ ३२ ॥
किमिदं किमिदं चित्रमिति जल्पत्सु सर्वतः।
सभास्थेषु च सर्वेषु तेजसा धर्षितेषु च ॥ ३३ ॥
आलोकनेऽप्यशक्तेषु दुष्यन्ते भयविह्वले ।
शकुन्तलां समादाय अङ्कमारोप्य सत्त्वरम् ।
अम्बरं विजगाहे सा तत्केनापि न लक्षितम् ॥ ३४ ॥
एवं गते तु दुष्यन्तः खेदमाप ततो भृशम् ।
देवेन रचितां मायाममन्यत तदा नृपः ॥ ३५ ॥


दुष्यन्त-विलापः।

शेष उवाच-

एकदा स महीपालो मन्त्रिभिर्ब्राह्मणैः सह ।
प्रजानां वेदितुं वृत्तं बभ्राम नगरे द्विज ॥ १ ॥
तत्र राजभटः कश्चिद् दृढमाबध्य धीवरम् ।
दण्डेन ताडयन्नुग्रैर्वचोभिः समतर्जयत् ॥ २ ॥
राजाभरणमेतद्वै यत्त्वया चोरितं छलात् ।
अतो बध्यत्वमापन्नं त्वां नयामि नृपान्तिके ॥ ३ ॥
इत्युक्त्वा तं करे गृह्य ताडयन् बहु मूर्धनि ।
राजान्तिकमुपानीय राजानमिदमब्रवीत् ॥ ४ ॥
एष धीवरको राजंश्चोरयित्वाङ्गुरीयकम् ।
त्वन्नामचिन्हितं लोके विदितं रत्ननिर्मितम् ।

( १७० )

विक्रेतुमुद्यतः पापो मया दृष्टो महीपते ॥ ५ ॥
राजा तं प्राह दाशेदं कुतो लब्धमिदं त्वया ।
कथयाभयमेतत्ते दत्तं जानीहि सांप्रतम् ॥ ६ ॥

धीवर उवाच-

जात्याहं घीवरो राजन् मत्स्यमात्रोपजीवकः ।
चौरिकां नैव जानामि न च सूनां न धूर्त्तताम् ।
जालेन मत्स्यान् बध्नामि सरस्वत्या हि रोधसि ॥ ७ ॥
एकदा जालमातत्य सरस्वत्यामहं नृप ।
स्थितः प्रत्याशया तत्रतीरस्थं तरुमाश्रितः ॥ ८ ॥
रोहितः कोऽपि बलवान् जाले बद्धो बभूव ह ।
ततोऽहं जालमुत्तार्य दृष्ट्वा रोहितमुद्धतम् ॥ ९ ॥
खड़ेन कृत्तवान् सद्यः परमानन्दनिर्वृतः ।
ततस्तदुदरे लब्धमेतद्भपाङ्गुरीयकम् ॥ १० ॥
कस्येति न विजानामि तदहं नगरे तव ।
विक्रेतुमागतो बद्धो भटेनानेन भूमिप ॥ ११ ॥

राजोवाच-

देहि पश्यामि कस्यैतत् किं रूपमङ्गुरीयकम् ।
त्वमेतन्मूल्यमागृह्य सुखेनैव व्रजालयम् ॥ १२ ॥
इत्युक्त्वा पाणिनादाय यावद्राजा स पश्यति ।
निपतन्ति स्म नेत्राभ्यां तावदेवाश्रुबिन्दवः ॥ १३ ॥
प्रेयसीं तामनुस्मृत्य तथा गान्धर्वकर्म च ।
गर्भाधानञ्च सर्वं तत् मूर्च्छितो निपपात ह ॥ १४ ॥
तदा पुरोहितामात्या भृशमुद्विग्नचेतसः ।
उत्थाप्य तं महीपालं निवेश्य च वरासने ॥
लब्धसंज्ञं शनैर्ब्रह्मन् पप्रच्छुः किमिदं तव ॥ १५ ॥
दुष्यन्तोऽपि समाश्वस्य प्रेयसीं तामनुस्मरन् ।

( १७१ )

निश्वस्य दीर्घमुष्णञ्च अश्रुमिश्रमभाषत ॥ १६ ॥
प्रत्याख्याता वरारोहा मन्दभाग्येन यन्मया ।
तदद्य मां दुनोत्येवमङ्गुरीयस्य दर्शनात् ॥ १७ ॥
तया यदुक्तं मां प्राप्य मम तेजो दधानया ।
नानृतं तत्र वै किञ्चिन्मयैवानृतकं कृतम् ॥ १८ ॥
मृगयाचारिणारण्ये सैव कण्वाश्रमे मया ।
गान्धर्वेणैव धर्मेण निर्बन्धेन विवाहिता ॥ १९ ॥
उषितञ्च तया सार्धं प्रतिज्ञातञ्च सर्वथा ।
बलेन चतुरङ्गेन नयिष्ये नगरं प्रति ॥ २० ॥
अभिज्ञानञ्च मे दत्तमेतद्रत्नाङ्कुरीयकम् ।
केनापि दैवयोगेन सर्वं तद्विस्मृतं मया ॥ २१ ॥
हन्त पापं कृतं भूरि मया निष्करुणात्मना ।
आसन्नप्रसवा भार्या त्यक्ता देवसुतोपमा ॥ २२ ॥
अनुकूलो न मे धाता नरकान्न च निष्कृतिः।
प्रतिज्ञापूर्वकं पाणिगृहीता यद्विवर्जिता ॥ २३ ॥
श्री रूपिणी समागत्य स्वयमेव कृपान्विता।
अर्पयन्ती महारत्नं यथा केनापि वर्ज्य॑ते ॥ २४ ॥
तथा मया पुत्रफला परा साध्वी पतिव्रता ।
याचमाना सवैयग्र्यं दूरादेव विवर्जिता ॥ २५ ॥
मेनकाप्सरसा जाता विश्वामित्रसुता सती ।
कण्वेन पालिता कन्या चारुशीला तपस्विनी ॥ २६ ॥
चिन्तामणिरिवायाता काममर्पयितुं स्वयम् ।
मया निराकृतवाला अन्तःसत्त्वा सुलोचना ॥ २७॥
कल्पवल्लीव कामानां संप्रदानेऽभ्युपस्थिता ।
उन्मूलिता मया तन्वी प्रसोष्यन्ती नरोत्तमम् ॥ २८॥
संरम्भारुणनेत्रायाः स्मरवापायितभ्रुवः ।

( १७२ )

वचांसि गूढगर्वाणि विदुन्वन्ति स्मृतानि माम् ॥ २९ ॥
एवं विलपमानं तं राजानं गौतमोऽब्रवीत् ।
तद्गतं नानुशोचस्व समाश्वस परन्तप ॥ ३० ॥
कथितञ्च मया तत्र दृष्ट्वा तस्याः सुलक्षणम् ।
तद्रूपशालिनी बाला राज्ञी भवितुमर्हति ॥ ३१ ॥
सा हि मेनकया जाता चारुरूपा तपस्विनी ।
देवीव नावमानार्हा त्वया राजन् विवाहिता ॥ ३२॥
यद्भूतं महदाश्चर्यं प्रत्याख्यातवति त्वयि ।
तद् दृष्ट्वा के न शोचन्ति वदन्तस्त्वां हतश्रियम् ॥ ३३ ॥
भद्रं वाप्यथवाभद्रं प्रियमप्रियमेव वा ।
यद्गतं तद्गतं राजन् नानुशोचन्ति पण्डिताः ॥ ३४ ॥

शेष उवाच-

विमृषत्स्वेव तेष्वेव देशान्तरचरश्चरः ।
राज्ञे निवेदयामास यद् दृष्टं सागराम्भसि ॥ ३५॥

चर उवाच-

राजन् सांयात्रिको नाम्ना धनवृद्धिर्महाबलः।
विपन्नः सागरे सप्त वाहयन् सम्भृतास्तरीः ॥ ३६ ॥
स चानपत्यस्तस्येष्टा नावो रत्नेन पूारताः ।
तवैव कोषमर्हन्ति गृह्यतामचिरेण ताः ॥ ३७ ।।

राजोवाच-

यान्तु मे मन्त्रिणः सम्यग्जानन्तु तत्परिग्रहान् ।
यदि काचिद्भवेद्भार्या गर्भिणी वाणिजः क्वचित् ।
सैव तद्धनमादद्यान्नाधिकारी तदा नृपः ॥ ३८॥
तच्छ्रुत्वा मन्त्रिणो गत्वा विज्ञाय च विशेषतः ।
राज्ञे निवेदयामासुर्वृत्तान्तं ब्राह्मणर्षभ ॥ ३९ ॥
अत्रैव नगरे राजन् भार्या तस्य विलासिनी ।

( १७३ )

अन्तःसत्त्वा वणिक्पुत्री वर्तते च पतिव्रता ॥ ४० ॥
राजा प्राह तरीस्थानि यानि यानि धनानि च ।
तानि तस्यै ददत्वद्य भटा मे यान्तु सत्वराः ॥ ४१ ॥
इति प्रस्थाप्य राजेन्द्रो भटांस्तद्धनरक्षणे ।
द्विगुणेनैव शोकेन दह्यते स्म ततोऽब्रवीत् ॥ ४२ ॥
समाप्यन्त एवमेव मम राज्यस्य दुर्गतिः ।
कं यास्यति महीयं हि धार्मिकं वाप्यधार्मिकम् ॥ ४३ ॥
अन्तःसत्त्वा महाभागा या सा भार्याप्युपस्थिता ।
उपेक्षिता प्रमादेन मन्दभाग्येन सा मया ॥ ४४ ॥
अत ऊर्ध्वं मया दत्तं पानीयं विधिनापि च ।
पास्यन्ति पितरः कोष्णनिश्वासेन मलीमसम् ।
पिण्डविच्छेददुःखार्ताः पिण्डानि च तथैव हि ॥ ४५ ॥
क्व लभ्यते सा ललना साक्षाच्छ्रीरिव रूपिणी ।
न मन्दभाग्यं पापिष्ठं ज्ञात्वा मां पुनरेष्यति ॥ ४६ ॥
नैवं विधस्य दुष्टस्य दारुणस्य दुरात्मनः ।
तथाविधा वरारोहा भार्या भवितुमर्हति ॥ ४७ ॥
एवं विलपमानस्य दुष्यन्तस्य महीपतेः।
व्यतीयुस्त्रीणि वर्षाणि शोचतोऽहर्निशं द्विज ॥ ४८ ॥


स्वीकरणम् ।

अथासौ देवराजेन समाहूतो ययौ दिवम्।
त्रिदिवेशैरवध्यानां निधनाय सुरद्विषाम् ॥ १ ॥
निर्वाह्य देवताकर्म रथं मातलिसारथिम् ।
आरुह्य भुवमायास्यन् मारीचाश्रममभ्ययात् ॥ २ ॥
तत्रकाचिज्जरा नारी ब्राह्मणी बालमद्भुतम् ।
लालयन्ती नृपं वीक्ष्य ददावासनमन्तिके ॥ ३ ॥

( १७४ )

बालस्तु तावद्वेगेन प्रविश्य गहनं वनम् ।
निबध्य पञ्च पञ्चास्यान् लताभिः समुपानयत् ॥ ४ ॥
उवाच वृद्धामेतेषां कात दन्ताः समुन्नताः।
निम्ना वा कति मध्या वा गणयित्वा वदाशु मे ॥ ५ ॥
दुष्यन्तस्तु तदालक्ष्य बालस्याद्भुतविक्रमम् ।
चिन्तयामास मेधावी भार्याविरहकातरः ॥ ६ ॥
पौरवादप्यहो बालो धत्तेऽधिकपराक्रमम् ।
सर्वराजश्रियायुक्तो न विप्रस्तदयं भवेत् ॥ ७ ॥
चेतो मे वहते स्नेहं दृष्ट्वा बालं दुरासदम् ।
कारणं तत्र पश्यामि यन्ममेयमपुत्रता ॥ ८ ॥
इति चिन्तापरे राज्ञि सिंहः कोऽपि स्वबन्धनम् ।
छित्त्वा नखेन दुर्वार्यो गन्तुं प्राक्रमत द्विज ॥ ९ ॥
दूरादुत्प्लुत्य तं बालो निगृह्य पुनरेव तम् ।
उवाच किं रे पञ्चास्य प्राप्तोऽसि ब्रह्मबालकम् ।
पौरवोऽस्मि न जानासि क्षत्रियो रणकोविदः ॥ १० ॥
तदुपश्रुत्य राजर्षेः किञ्चिदुच्छ्वसितं मनः ।
बालभाषितमित्येव सम्यक् श्रद्धापि नाभवत् ॥ ११ ॥
अथागमत् काश्यपोऽपि वनात्कुशसमिद्धरः।
विलोक्य तत्र राजानं दुष्यन्तं मुमुदे भृशम् ॥ १२ ॥
आशीर्भिस्तमथाभ्यर्च्य विधायातिथिसत्क्रियाम् ।
पप्रच्छ कुशलं राज्ये देवानाञ्च तपोधनः ॥ १३॥
राजा तत्सर्वमाचष्टे मुनिवाचा गतश्रमः ।
अथोवाच विहस्येषत् कोऽयं बालस्तपोधन ।
महाबलो महाबाहुः पौरवोऽहमिति ब्रुवन् ॥ १४ ॥

कश्यप उवाच-

तवैव तनयो राजन् यमसूत शकुन्तला ।

( १७५ )

दमनः सर्वसत्त्वानां सिंहादीनां महाबलः ॥ १५ ॥
तत्सर्वदमनो नाम मयैवास्य निरूपितम् ।
भरस्वेति च वच्मि त्वां ततोऽसौ भरतो भवेत् ॥ १६ ॥
दुर्वाससो हि शापेन त्वया या विस्मृता पुरा ।
त्यक्ता मेनकयानीय मयि न्यस्ता मनस्विनी ।
सा ते शकुन्तला राज्ञी सुषावेमं कुमारकम् ॥ १७ ॥
महाबलो महाप्राणो दुर्द्धर्षः सर्वभूभुजाम् ।
बद्धैः क्रीडति पञ्चास्यैः प्रबिभेत्यपि नान्तकात् ॥ १८ ॥
मया विमृष्टं दुर्दान्तः शिशुरेष ममाश्रमे ।
वस्तुं नार्हति बाल्याद्धि कदा किं नु समाचरेत् ॥ १९ ॥
अत एनं महीभर्त्तुः सुतं तं प्रापयाम्यहम् ।
त्वमथो देवकार्यार्थे गतः स्वर्ग ततो मया ॥ २० ॥
कृतो विलम्बो राजर्षे शापान्तेऽपि तव प्रभो ।
एष ते गृह्यतां पुत्रश्चक्रवर्ती भविष्यति ॥
आहर्त्ता सर्वयज्ञानां महाभागवतो नृप ॥ २१ ॥
इत्युक्त्वा ब्राह्मणीं प्राह वृद्धां देवगुरुर्मुनिः ।
शकुन्तलामिहानीय समर्पय महापतौ ॥ २२ ॥
इत्युक्त्वा ब्राह्मणी गत्वा समाहूय शकुन्तलाम् ।
राज्ञे समर्पयामास राजा च मुमुदे भृशम् ॥ २३ ॥
अथानुज्ञाप्य मारीचं सभार्य्यः ससुतो नृपः ।
हृष्टः स्वपुरमागच्छद्देवयानेन मारिष ॥ २४ ॥
स एव भरतो नाम दुष्यन्ततनयो महान् ।
ववृधे तत्र विप्रेन्द्र शुक्लपक्षे यथा शशी ॥ २५ ॥


"https://sa.wikisource.org/w/index.php?title=शकुन्तलोपाख्यानम्&oldid=309241" इत्यस्माद् प्रतिप्राप्तम्